Sutras 101 - 120¶
- 32101: अन्येष्वपि दृश्यते
- 32102: निष्ठा
- 32103: सुयजोर्ङ्वनिप्
- 32104: जीर्यतेरतृन्
- 32105: छन्दसि लिट्
- 32106: लिटः कानज्वा
- 32107: क्वसुश्च
- 32108: भाषायां सदवसश्रुवः
- 32109: उपेयिवाननाश्वाननूचानश्च
- 32110: लुङ्
- 32111: अनद्यतने लङ्
- 32112: अभिज्ञावचने लृट्
- 32113: न यदि
- 32114: विभाषा साकाङ्क्षे
- 32115: परोक्षे लिट्
- 32116: हशश्वतोर्लङ् च
- 32117: प्रश्ने चासन्नकाले
- 32118: लट् स्मे
- 32119: अपरोक्षे च
- 32120: ननौ पृष्टप्रतिवचने