32111: अनद्यतने लङ्¶
Padacheda: अनद्यतने | S | 7 | 1 |
लङ् | S | 1 | 1 |
Sutrartha¶
अनद्यतन-भूतकालं द्योतयितुम् धातोः परः लङ्-लकारः प्रयुज्यते ।
अनद्यतन’ इत्युक्ते यत् अद्यतन न, तत् । अनद्यतनकाले भूतां क्रियां दर्शयितुम् लुट्-लकारः प्रयुज्यते । यथा - सः ह्यः विद्यालयं न अगच्छत् । अहं गतसप्ताहे व्याकरणमपठम् । ते गतवर्षे स्नातकाः अभवन् । ज्ञातव्यम् - यत्र क्रियायाः कालः अद्यतनभूतकालः अस्ति उत अनद्यतनभूतकालः अस्ति - एतत् स्पष्टं नास्ति, तत्र लङ्लकारस्य प्रयोगः न करणीयः, लुङ्लकारस्य प्रयोगः करणीयः । यथा - सः विद्यालयम् न अगमत् । अहं व्याकरणमपाठिषम् ।
Sutrartha (English)¶
लङ्-लकार is used to indicate actions that have happened yesterday or before.
Vasu English Summary¶
The affix लुङ् (Aorist) comes after a verbal root used in the sense of past before the commencement of the current day.
Vasu English Translation¶
The affix लुङ् (Aorist) comes after a verbal root used in the sense of past before the commencement of the current day. The word अनद्यतन is a Bahuvrihi compound, meaning that which has not occurred during the course of the current day (adyatana). The whole of this affix is replaced by conjugational terminations, and the affix लङ् by itself denotes the Imperfect tense. As अकरोत् ‘he did’; अहरत् ‘he took’.
Why have we explained anadyatana as a Bahuvrihi compound? Because when there is a doubt as to the time, whether it was to-day or yesterday, there the Imperfect should not be used. As अद्य ह्यो वा अभुञ्ज्महि ‘we ate to-day or yesterday’. In such a case the affix is लुङ्.
Vart:- The affix लङ् is also employed in signifying what is not witnessed by the narrator, when it relates to a well-known public event which can form the object of perception by the narrator. Thus in speaking of a recent public occurrence we may say :-अरुणद् यवनः साकेतम् ‘the Yavanas have besieged Saketa’; अरुणद् यवनः माध्यमिकान् ‘the Yavanas have besieged Madhyamika’.
Why do we say ‘not witnessed by the speaker’? Observe उदगात् आदित्यः ‘the sun arose’. Why do we say ‘a popular public event’ ? Observe चकार कट देवदत्तः ‘Devadatta has made the mat’. Why do we say ‘which is the object of perception by the speaker’? Observe जघान कंसं किल वासुदेवः ‘Vasudeva killed Kansa’.
Bhashya¶
अनद्यतने लङ् (878) (593. लङ्विधिसूत्रम्॥ 3 । 2 । आदृ 11 ) (3002 आक्षेपवार्तिकम्॥ 1 ॥) - अनद्यतन इतिबहुव्रीहिनिर्देशोऽद्य ह्योऽमुक्ष्महीति- (भाष्यम्) अनद्यतन इति बहुव्रीहिनिर्देशः - कर्तव्यः। अविद्यमानाद्यतनोनद्यतन इति॥ किं प्रयोजनम्?। अद्य ह्योभुक्ष्महीति॥ अद्य च ह्यश्चाभुक्ष्महीति व्यामिश्रे व्यामिश्रे लुङेव यथा स्यात्॥ (आक्षेपभाष्यम्) यद्येवमद्यतेनपि लङ् प्राप्नोति। न ह्यद्यतनेद्यतनो विद्यते। (आक्षेपबाधकभाष्यम्) अद्यतनेपि हि अद्यतनो विद्यते। कथम्?। व्यपदेशिवद्भावेन। (3003 वार्तिकम्॥ 2 ॥) - परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये- (भाष्यम्) परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शिनविषये लङ्वक्तव्यः। अरुणद्यवनः साकेतम्। अरुणद्यवनो मध्वमिकाम्॥ (आक्षेपभाष्यम्) परोक्ष इति किमर्थम्?। उदगादादित्यः॥ (आक्षेपभाष्यम्) लोकविज्ञात इति किमर्थम्?। (प्रत्युदाहरणभाष्यम्) चकार कटं देवदत्तः॥ (आक्षेपभाष्यम्) प्रयोक्तुर्दर्शनविषय इति किमर्थम्?। (प्रत्युदाहरणभाष्यम्) जघान कंसं किल वासुदेवः॥ अनद्यतने॥ 111 ॥
Kashika¶
भूत इत्येव। अनद्यतन अति बहुव्रीहिनिर्देशः। अविद्यमानाद्यतने भूतेऽर्थ वर्तमानाद् धातोर्लुङ् प्रत्ययो भवति। अकरोत्। अहरत्। बहुव्रीहिनिर्देशः किमर्थः? अद्य ह्यो वा अभुक्ष्महीति व्यामिश्रे मा भूत्॥ परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये लङ् वक्तव्यः॥ अरुणद् यवनः साकेतम्। अरुणद् यवनो माध्यमिकानिति॥
Siddhanta Kaumudi¶
अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥
Laghu Siddhanta Kaumudi¶
अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात्॥
Balamanorama¶
अनद्यतने लङ् - अनद्यतने लङ् । धातोरिति, भूत इति चाधिकृतम् । भूत इति धात्वर्थेऽन्वेति । तदाह — अनद्यतनभूतार्थवृत्तेरिति ।
Padamanjari¶
अनद्यतनेलङ्॥ ठनद्यतनेऽ इति तत्पुरुषपक्षे पर्युदासश्चेद्व्यामिश्रेऽपि प्राप्नोति - अद्य ह्यए वाऽभुक्ष्महीति, भवति ह्यद्यतनानद्यतनसमुदायोऽद्यतनादन्यः, प्रसज्य प्रतिषेधे तु योऽत्राद्यतनस्तदाश्रयः प्रतिषेधो भवति, किन्तु भूतसमान्ये प्राप्नोति, भूतविशेषे हि प्रतिषेधः। न च सामान्यं विशेशो भवति। पर्युदासेऽप्ययं दोषो द्रष्टव्यः। बहुव्रीहौ न विद्यतेऽद्यतनो यस्मिन् सोऽनद्यतनो भूतो धात्वर्थः, तत्र वर्तमानाल्लङ् भवति, ततश्चाद्यतनसमुदायेऽद्यतनस्यैकदेशस्य सम्भवान्न भवति प्रसङ्गः। भूतसामान्येऽपि न भवत्येव, विद्यते हि सामान्ये विशेषः, अतो बहुव्री - हिरेवायं युक्त इत्याह - अनद्यतन इति बहुव्रीहिनिर्देश इति। बहुव्रीहिणा विवक्षितार्थस्य प्रतिपादनं बहुव्रीहेर्वोच्चारणमित्यर्थः। यदि बहुव्रीहिनिर्द्देशः, एवं सत्यद्यतने प्राप्नोति, न ह्यद्यतनेऽद्यतनो विद्यते? अद्यतनेऽपि मुहूर्तादिरद्यतनो विद्यते, मुहूर्तादावपि क्षणादिः, कथम्? व्यपदेशिवद्भावेन यथा मुख्ये भेदे आधाराधेयभावो भवति - तटे तिष्ठतीति, तथेहापि समुदायावयवभेदाश्रयेण समुदायेऽद्यतनेऽवयवा अद्यतनाः सन्तीत्यनद्यतनो न भवतीत्युच्यते, न तु तत्वतः अवयवव्यतिरिक्तोऽत्र समुदाय आधारोऽस्ति। तदुक्तं हरिणा - - कालस्याप्यपरं कालं निर्द्दिशन्त्येव लौकिकाः। न च निर्द्देशमात्रेण व्यतिरेकोऽनुगम्यते॥ इति। अद्य ह्य इति॥ अद्य ह्यश्चेत्यर्थः। गामश्वं पुरुषं नयमान इतिवच्चशब्दस्याप्रयोगः। अभुक्ष्महीति।’भुजो’ नवनेऽ इत्यात्मनेपदम्, महिङ् ठिलिङसिचावात्मनेपदेषुऽ इति सिचः कित्वाद् गुणाभावः,’चोः कुः’ इति कुत्वम् - गकारः,’खरि च’ इति चर्त्वम् - ककारः, सिचः सस्य षत्वम्। परोक्षे चेत्यादि। परोक्षशब्दोऽयमतीन्द्रियार्थे वर्तते, लोकविज्ञाते लोकप्रसिद्धे प्रयोक्तुर्दर्शनविषये लङ्न्तस्य शब्दरूपस्य यः प्रयोक्ता तस्य दर्शनविषये लङ् वक्तव्यः। ननु विप्रतिषिद्धमिदम् यदि परोक्षः, कथं दर्शनविषयः? अथ दर्शनविषयः, कथं परोश्रः? शक्यदर्शनत्वाद्दर्शनविषयः, क्वचिद्व्यासङ्गादननुभूतत्वात्परोक्षैति विरोधाभावः। अरुणदिति। रुधिर् आवरणेऽ,रुधादित्वात् श्नम्, तिपो हल्ङ्यादिना लोपः। साकेतरोधस्तदानीं प्रयोक्तुर्दर्शनविषयः, शक्यदर्शनत्वात्। लोकप्रसिद्धश्च, क्वचिद्व्यासङ्गादननुभूतत्वात्परोक्षश्च। परोक्ष इति किम्? उदगादादित्यः, इणो लुङ्, गादेशादिकार्यम्। लोकविज्ञात इति। किम? चकार कट्ंअ देवदतः। प्रयोक्तुदर्शनविषये इति। किम्? जघान कंसं किल वासुदेवः, हन्तेः परोक्षे लिट्,द्विर्वचनम्,ठभ्यासाच्चऽइति कुत्वम् - हकारस्य घकारः। कंसवधश्चिरकालान्तरवृतत्वादिदानीं प्रयोक्तुर्दर्शनविषयो न भवति। यस्तु कंसवधेन तुल्यकालः प्रयोक्ता स लङ्मेव प्रयुक्तवान् - आहत कंसं वासुदेव इति। मूलोदाहरणेऽपि प्रयोक्ता साकेतरोधेन तुल्यकालो वेदितव्यः, तस्येव ह्यसौ दर्शनविषयः, नान्यस्य॥
Nyaas¶
अनद्यतने इति। यद्ययं तत्पुरुषः स्यात् तदा पर्युदासो वा स्यात्, प्रसज्यप्रतिषेधो वा। तदा पूर्वस्मिन् पक्षेऽद्यतनाद्योऽन्यस्तस्मिन् भवितव्यम्। एवञ्च अद्य ह्रो वाभुक्ष्मिहि इत्यत्राप्यद्यतनव्यामिश्रे प्राप्नोति। अस्ति हृद्यतनानद्यतनसमुदायोऽनद्यतनादन्यः, इतरस्त्वद्यतने न भवतीत्येषोऽर्थो जायते, ततश्च भूतसामान्ये स्यात्। अनद्यतन इति अद्यतनभूतविशेषे प्रतिषेधः,न भूतसामान्ये। न हि भूतसामान्यं भूतविशेषः, तस्मात् तत्पुरुषपक्षो दोषवानिति मत्वाऽऽह - अनद्यतन इति बहुव्रीहिनिर्देशः इति। अविद्यमानोऽद्यतनो यस्मिन्निति सोऽनद्यतनभूतधात्वर्थः, अत्र वर्तमानाल्लङ भवति, न त्वद्यतनानद्यतनसमुदाये, तत्राद्यतनैकदेशस्य सद्भावात्। भूतसामान्येऽपि न भवत्येव, विद्यते हि सामान्ये विशेषः; तस्यान्तर्भूतविशेषत्वात्। यत्राद्यतनगन्धोऽप्यस्ति तत्र लङा न भवितव्यमित्येषोऽर्थो बुहव्रीहौ सति लभ्यते। यदि तर्हि बहुव्रीहिरयम्, एवं सत्यद्यतनेऽपि प्राप्नोति, न हृद्यतने द्वितीयोऽद्यतनोऽस्ति? नैतदेवम्; अद्यतनसामान्ये मुहूर्तादेरद्यतनविशेषस्य विद्यमानत्वात्। तस्मादद्यतनोऽविद्यमानाद्यतन इति न शक्यते वक्तुम्।अद्य ह्रो वा भुक्ष्महि इति। लुङ्, भुजोऽनवने (1.3.66) इत्यात्मनेपदम्, महिङ्, लिङसिचोरात्मनेपदेषु (7.2.42) इति सिचः कित्त्वाद्गुणाभावः। चोः कुः (8.2.30) इति कुत्वम् - जकारस्य गकारः, तस्य खरि च (8.4.54) इति चर्त्त्वं ककारः,पूर्ववत् षत्वम्।परोक्षे च इत्यादि। परोक्षशब्दो रूढिशब्द इन्द्रियातिक्रान्तेऽर्थे वर्तते। परोक्षे लोकविज्ञाते = लोकप्रसिद्धे प्रयोक्तुर्दर्शनविषये लङन्तस्य यः प्रयोक्ता तस्य दर्शनविषये लङ् वक्तव्यः = व्याख्येयः। व्याख्यानं तु - तस्यैव बहुलग्रहणमाश्रित्य कर्तव्यम्। ननु च विप्रतिषिद्धमिदमुच्यते - परोक्षेऽर्थे दर्शनविषय इ#इत,परोक्षो ह्रर्थोऽतीन्द्रिय उच्यते, इन्द्रियविषयभावापन्नस्तु दर्शनविषयः, ततो यदि परोक्षः, कथं दर्शनविषयः। यदि दर्शनविषयः कथं परोक्षः? नैतदस्ति; शक्यदर्शनविषय इत्युक्तम्ननुभूतत्वात् परोक्ष इत्यविरोधः। अरुणत्िति। रुधिर् आवरणे (धातुपाठः-1438), रुधादित्वात् श्नम्, तिप्, हल्ङ्यादिना (6.1.66) तिलोपः। साकेतावरोधस्तदानीन्तनप्रयोक्तुर्दर्शनविषयत्वात् लोकप्रसिद्धश्च,कार्यव्यासङ्गदननुभूतत्वात् परोक्षश्च। परोक्ष इति किम्? उदगादादित्यः। गातिस्था (2.4.77) इत्यादिना सिचो लुक्। पूर्ववदादेशादि कार्यम्। लोकविज्ञात इति किम्? चकार कटं देवदत्तः। प्रयोक्तुर्दर्शनविषय इति किम्? जघान कंसं किल वासुदेवः। हन्तेः परोक्षे लिट्; द्विर्वचनम्, अभ्यासाच्च (7.3.55) इति कुत्वम् - हकारस्य घकारः। कंसवधश्चिकारालवृत्तत्वादिदानीन्तनप्रयोक्तुर्दर्शनविषयो न भवति। यस्तु कंसवधेन तुल्यकालः प्रयोक्ता स लङमेव प्रयुक्तवान् - अहन् कंसं वासुदेव इति। मूलोदाहरणेऽपि प्रयोक्ता साकेतावरोधतुल्यकालो वेदितव्यः। तस्यैव ह्रसौ दर्शनविषयः,नान्यस्य॥
Prakriyasarvasvam¶
अद्यतनरहिते भूतकालेऽर्थे धातोर्लङ् स्यात् । इतश्चेति तिप इलोपः । भव त् ।