32114: विभाषा साकाङ्क्षे¶
Padacheda: विभाषा | S | 1 | 1 |
साकाङ्क्षे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix लृट् (2nd Future) is optionally applied in the sense of the past, when a word implying ‘recollection’ is in connection with it and whether such a word has the particle यत् or is used simply; provided that the two verbs, occurring in the same complex sentence, are also connected together, that each is necessary to the other , to complete the sense of the speaker.
Vasu English Translation¶
The affix लृट् (2nd Future) is optionally applied in the sense of the past, when a word implying ‘recollection’ is in connection with it and whether such a word has the particle यत् or is used simply; provided that the two verbs, occurring in the same complex sentence, are also connected together, that each is necessary to the other , to complete the sense of the speaker. The word साकाङ्क्षा means the relation between the sign and the thing signified, wished for or wanted by the speaker, or in other words, when the first verb is related to another verb used in the same sentence, as a sign is to that which is indicated by the sign. As अभिजानासि देवदत्तः कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः or अभिजानासि देवदत्तः कश्मीरान् गच्छामः, तत्र सक्तून् पिबामः ‘do you remember Devadatta we went to Kashmir and there did drink Saktu’.
This option is allowed whether the particle यत् is or is not used. As अभिजानासि देवदत्तः यत् कश्मीरान् गमिष्यामः (or यत् कश्मीरान् गच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (or यत् तत्रौदनमभुञ्ज्महि) ‘Do you recollect, Devadatta how we went to Kashmir and how we ate rice there’.
In the above examples, the verb ‘to go’ is the sign, and the ‘eating’ or ‘drinking’, in the second sentence, is the thing really signified; the first verb is necessary as an introduction to the thought of the speaker which dwells more upon the second verb. Here the second sentence or proposition is used as completion or complement of the first proposition.
Bhashya¶
विभाषा साकाङ्क्षे (881) (514 लृड्विकल्पसूत्रम् ॥ 3 । 2 । 2 आदृ 12) (आक्षेपभाष्यम्) किमुदाहरणम्?। (समाधानभाष्यम्) अभिजानासि देवदत्त कश्मीरान् गमिष्यामः। तत्र सक्तून् पास्यामः। अभिजानासि देवदत्त कश्मीरानगच्छाम। तत्र सक्तूनपिबाम ॥ (आक्षेपभाष्यम्) भवेत् पूर्वं परमाकाङ्क्षतीति साकाङ्क्षं स्यात्, परं तु कथं साकाङ्क्षम्। (समाधानभाष्यम्) परमपि साकाङ्क्षम्। कथम्?। अस्त्यस्मिन्नाकाङ्क्षेत्यतः साकाङ्क्षम् ॥ (3004 वार्तिकम् ॥ 1 ॥) - विभाषा साकाङ्क्षे सर्वत्र- (भाष्यम्) विभाषा साकाङ्क्षे सर्वत्रेति वक्तव्यम्। क्व सर्वत्र?। यदि चायदि च। यदि तावत् अभिजानासि देवदत्त यत्कश्मीरान् गमिष्यामः, यत्कश्मीरानगच्छाम। यत्तत्रौदनं भोक्ष्मामहे, यत्तत्रौदनमभुञ्ञ्ज्महि। अयदि अभिजानासि देवदत्त कश्मीरान् गमिष्यामः कश्मीरानगच्छाम। तत्रौदनं भोक्ष्यामहे ॥ तत्रौदनमभुञ्ञ्ज्महि ॥ विभाषा सादृ ॥ 114 ॥
Kashika¶
यदीति नानुवर्तते। उभयत्र विभाषेयम्। अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता। लक्ष्यलक्षणयोः संबन्धे प्रयोक्तुराकांक्षा भवति। अभिजानासि देवदत्त कश्मीरेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे। अभिजानासि देवदत्त मगधेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे। यदि खल्वपि — अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः, यत् तत्रौदनं भोक्ष्यामहे। अभिजानासि देवदत्त यत् कश्मीरेष्ववसाम, यत् तत्रौदनमभुञ्ज्महि। वासो लक्षणम्, भोजनं तु लक्ष्यम्॥
Siddhanta Kaumudi¶
उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासो लक्षणं चारणं लक्ष्यम् । पक्षे लङ् । यच्छब्दयोगेऽपि नयदि (SK2774) इति बाधित्वा परत्वाद्विकल्पः । परोक्षे लिट् (SK2171) चकार । उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् । सुप्तोऽहं किल विललाप । बहु जगद पुरस्तात्तस्य मत्ता किलाहम् ॥<!अत्यन्तापह्नवे लिड्वक्तव्यः !> (वार्तिकम्) ॥ कलिङ्गेष्ववात्सीः । नाहं कलिङ्गान् जगाम ॥
Balamanorama¶
विभाषा साकाङ्क्षे - विभाषा । उक्तविषये इति । अभिज्ञाबोधिन्युपपदे इत्यर्थः । लक्ष्यलक्षणभावेनेति । ज्ञाप्यज्ञाप्यकभावेनेत्यर्थः । अत्र व्याख्यानमेव शरणम् । स्मरसीति । पूर्वं वने अवसाम, तत्र वने गा अचारयामेति यत्तत् हे कृष्ण ! स्मरसीत्यर्थः । अत्र यदित्यस्य गम्यत्वेऽपि तस्य प्रयोगाऽभावान्न यद्योगः । वासो लक्षणमिति ।चारणस्ये॑ति शेष- । उभयत्रापि लृड्विकल्पः, अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः । न च यद्योग एव ‘विभाषा साङ्काक्षे’ इति विकल्पोऽस्त्विति भ्रमितव्यं,यदि च अयदि चाऽयं विकल्प॑ इति भाष्यात्तदाह — यच्छब्दयोगेऽपीति ।परोक्षे लि॑डिति प्राग्व्याख्यातमपि विशेषविवक्षया स्मार्यते । अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वाऽभावात्कथमस्य लिट उत्तमपुरुष इत्यत आह — उत्तमपुरुषे चित्तेति । सुप्त इति । सुप्तत्वादहं विललापेत्यर्थः । अत्र स्वापाच्चित्तविक्षेपः । बहु जगदेति । मत्तत्वात्तस्य पुरस्तादहं बहु जगदेत्यर्थः । अत्र उन्मादाच्चित्तविक्षेपः । आदिना व्यासङ्गसङ्ग्रहः । अत्यन्तापह्नवे इति । अपरोक्षार्थमिदम् । कलिङ्गेष्ववात्सीरिति । अतस्त्वं न सहवासयोग्य इति प्रश्नः ।अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना यातः पुनः संस्कारमर्हति.॑ इति वचनादिति भावः । नाहं कलिङ्गान् जगामेत्युत्तरम् । कलिङ्गशब्दस्य जनपदविसेषवाचित्वाद्बहुवचम् । अत्र तद्देशगमनोत्तरकालिकववासविषयकप्रश्ने कारणीभूतगमनस्यैवापलापादत्यन्तापह्नवो ज्ञेयः । कलिङ्गेष्ववात्सीरित्यत्रअकर्मकधातुभिर्योगे देशः कालो भावः॑ इति कर्मसंज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकारे निरूपितम् ।
Tattvabodhini¶
विभाषा साकाङ्क्षे - वासो लक्षणमिति । प्रसिद्धत्वाज्ज्ञापकमित्यर्थः ।चारणं लक्ष्यमिति । सहसा बुद्ध्यनारोहाज्रज्ञाप्यम् । पक्षे लङिति । वने अवसाम, गा अचारयाम । यच्छब्दयोगेऽपीति । अतएवन यदी॑ति योगात्पूर्वंविभाषा साकाङ्क्षे॑ इतिन कृतमिति भावः ।*अत्यन्तापह्नवे लिड्वक्तव्यः । अत्यन्तापह्नव इति । अपह्नवोऽपलापस्तत्र आत्यन्तिकत्वं नामैवं यदभियुक्तस्तद्धेतोरप्यपह्नुतिः । नाहमित्यादि । कलिङ्गो नाम निषिद्धो देशः,अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना गत्वा पुनः संस्कारमर्हति॑ इति स्मरणात्, तस्मिन्देशे त्वया गत्वा चिरं स्थितमिति केनचित्कश्चिदुक्तः सन्नाह — ॒नाहं कलिङ्गाञ्जगामे॑ति । नकेवलमवस्थानमेव निषिध्यते किं तर्हि तद्धेतुभूतं गमनमपीति भवत्यत्यन्ताऽपह्नवः । यदा तु कलिङगेष्वगम इत्युक्तः सन्गमनमेवापलपति न तदात्यन्तापह्न इति लङेव भवति,न कलिङ्गेष्वगच्छ॑ मिति ।
Padamanjari¶
विभाषा साकाङ्क्षे॥ उभयत्रविभाषेयमिति। प्राप्ते चाप्राप्ते च। असति यच्छब्दे ठभिज्ञावचने लृट्ऽ इति प्राप्ते सति यच्छब्दे प्रतिषेधे प्राप्ते। आकाङ्क्षणमुआकाङ्क्षा, आकाङ्क्षया सह वर्तते साकाङ्क्षः। आकाक्षङ्क्षा च चेतनावतो धर्मः, तस्मात्साकाक्षङ्क्ष इत्येतत्प्रयोक्तृविशेषणम्, तेन सकर्मक इत्यादिवत्समासः। साकाङ्क्षश्चेत्प्रयोक्तेति। ठङ्गयुक्तं तिङकाङ्क्षम्ऽ इत्यत्र तु प्रयोक्तृगताकाङ्क्षाध्यारोपेण तिङ्न्तमाकाङ्क्षमिति वक्ष्यते। इह तु मुख्ये प्रयोक्तरि सम्भवति, गौणकल्पनया धात्वर्थविशेषणमयुक्तमिति भावः। ईद्दशे पुनर्विषये प्रयोक्ता साकाङ्क्षो भवतीत्याह - लक्ष्यलक्षणयोः सम्बन्धे इति। यत्रैको धात्वर्थो लक्ष्यः, अपरो लक्षणम्, तत्र द्वयोर्लक्ष्यलक्षणभावेन सम्बन्धे सति प्रयोक्तुराकाङ्क्षा भवति, तत्र न वासमात्रं प्रतिपाद्य प्रयोक्ता चरितार्थो भवति, किन्तु तेन प्रसिद्धेन भोजनादिकं स्मारयितुं प्रवर्तते॥
Nyaas¶
उभयत्रविभाषेयम् इति। प्राप्ते चाप्राप्ते च। असति हि यच्छब्दे ` अभिज्ञावचने लुट्` (3.2.112) इति प्राप्ते, सति यच्छब्दे न यदि (3.2.113) इति प्रतिषेधादप्राप्ते। आकाङ्क्षणम् = आकाङ्क्षा,आकाङ्क्षया सह वर्तते साकाङ्क्षः। आकाङ्क्षा च सम्बन्धज्ञानमुच्यते, तच्चेतनावतो धर्मः, तस्मात् साकाङ्क्ष इति प्रयोक्तुर्विशेषणं विज्ञायत इत्याह - साकाङ्क्षश्चेत् प्रयोक्ता`इति। अस्यैवार्थ स्पष्टीकर्त्तुमाह - `साकाङ्क्षश्चेत प्रयोक्ता इति। अस्यैवार्थ स्पष्टीकर्त्तुमाह - लक्ष्यलक्षणयोः इत्यादि। तत्र यदि ह्रेतदपेक्ष्यत एतदुक्तं भवति - लक्ष्यलक्षणयोर्यः सम्बन्धस्तद्विषयज्ञानं यदि प्रयोक्तुरुपपन्नं भवति। यदि प्रयोक्ता लक्ष्यलक्षणयोः सम्बन्धमपेक्षत इति यावत्। भोक्ष्यामहे इति। भुजः पूर्ववदात्मनेपदम्, स्यप्रत्ययश्च, टेरेत्वम्, चोः कुः (8.2.30) इति कुत्वम् - जकारस्य गकारः, खरि च (8.4.54) इति चर्त्वम् - ककारः, सकारस्य षत्वम्। किं पुनर्लक्ष्यं लक्षणञ्च, ययोः सम्बन्धे प्रयोक्तुराकाङ्क्षेत्याह - वासो लक्षणम्िति। परिज्ञातत्वाल्लक्षणम्, तेन हि जनो लक्ष्यते। `भोजनं तु लक्ष्यम् इति। अपरिज्ञातत्वात्; न तु लक्षणम्। परिज्ञातं लक्षणमिति भवति, यथा - अग्नेर्धुम इति॥
Prakriyasarvasvam¶
लक्ष्यलक्षणत्वेन क्रिययोः सम्बन्धाकाङ्क्षायां स्मृत्यर्थयोगे लृङ्वा स्यात् । स्मरसि कृष्ण वृन्दावनं प्रवेक्ष्यामस्तत्र गाश्चारयिष्यामः । अत्र वनप्रवेशनलक्षणेन गवां चारणं स्मार्यते । विकल्पात् प्राविशामाचारयामेति लङपि । यच्छन्दयोगेऽप्ययं लृङ्विकल्पः स्यादेव । यद् वृन्दावनं प्रवेक्ष्याम इत्यादि । <karika>परोक्षे लिडिति ह्युक्तं तत्रास्मद्युत्तमे सति । स्वकृतेऽपि परोक्षत्वं चित्तविक्षेपतो भवेत् ॥ ७६६ ॥</karika> मत्तोऽहं किल विललाप । ‘जुहवाम्बभूविम रुषा’ । ‘अत्यन्तापह्नवेऽपि लिङ्वाच्यः’ (वा) । नाहं कलिङ्गान् जगाम । एतत् तत्र गत्वा कृतानां कर्मणा- मत्यन्तनिषेधायोच्यते2 ॥ <karika>प्रयोक्त्रा वीक्षितुं शक्ये वृत्तान्ते लोकविश्रुते । लडेव स्यात् परोक्षेऽपि पाण्ड्यं चोलनृपोऽजयत् ॥ ७३७ ॥</karika>
Sutra Prayogas¶
अवसाव (भट्टिकाव्यम्): विभाषा साकांक्षे इति पक्षे लट्।
भङ्क्ष्यावो (भट्टिकाव्यम्): विभाषा साकाङ्क्षे इति लृट्।