32100: अनौ कर्मणि¶
Padacheda: अनौ | S | 7 | 1 |
कर्मणि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ड comes after the verb जन् ‘to be produced’, with a past signification, when the root takes the preposition अनु and is compounded with a word in the Accusative -2nd case.
Vasu English Translation¶
The affix ड comes after the verb जन् ‘to be produced’, with a past signification, when the root takes the preposition अनु and is compounded with a word in the Accusative -2nd case. As पुमनुजा ‘a girl born after the male child i. e. a girl having an elder brother’; स्त्र्यमनुजः ‘a boy born after the female child i. e. a boy having an elder sister’.
Kashika¶
अनुपूर्वाज् जनेः कर्मण्युपपदे डः प्रत्ययो भवति। पुमांसमनुजातः पुमनुजः। स्त्र्यनुजः॥
Siddhanta Kaumudi¶
अनुपूर्वाज्जनेः कर्मण्युपपदे डः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा ॥
Balamanorama¶
अनौ कर्मणि - अनौ कर्मणि । ननु जनेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्र्थस्य कथमन्वय इत्यत आह — पुमांसमनुरुध्येति । अनुरुध्य जननं धात्वर्थ इति भावः । पुमनुजेति । पुंसिति पूर्वपदे संयोगान्तलोप इति भावः ।
Tattvabodhini¶
अनौ कर्मणि - पुमनुजेति । इह जनिः सकर्मकः, अनुरोधविशिष्टजननवृत्तित्वात् ।
Padamanjari¶
अनौ कर्मणि॥ पुमांसमनुजात इति। पुमांसमनुरुद्ध्य जात इत्यर्थः, तेनास्य सकर्मकत्वम्। पुमनुज इति पुंसः संयोगान्तलोपः॥
Nyaas¶
अनुपूर्वाज्जनेः इत्यादि। अथानुशब्दस्योपपदत्वं कस्मान्न भवति? यतो न भवति स हेतुः उदि कूलेरुजिवहोः (3.2.31) इत्यत्र व्याख्यात इति पुनर्नाख्यायते। पुममुजः इति। लुप्तेऽपि सुपि प्रत्ययलक्षणेन पदत्वम्, तेन संयोगान्तलोपो (8.2.23) भवति॥
Prakriyasarvasvam¶
कर्मणि पूर्वेऽनुजनेर्डः स्यात् । राममनुजातो रामानुजः ।।
Sutra Prayogas¶
आत्माऽनुजस्य (भट्टिकाव्यम्): अणौ कर्मणि इति डः।
रामाऽनुजं (भट्टिकाव्यम्): अनौ कर्मणि इति डः।