32104: जीर्यतेरतृन्

Padacheda: जीर्यतेः | S | 5 | 1 |

अतृन् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix अतृन् comes after the verb जृ ‘to grow old’ with the sense of past time.

Vasu English Translation

The affix अतृन् comes after the verb जृ ‘to grow old’ with the sense of past time. As जृ + अतृन् = जर् + अव् (7.3.84) = जरत्, 1st. sing. जरन्, 1st. dl. जरन्तौ, 1st. pl. जरन्तः ‘grown old’ (6.1.7).

By the rule of वासरूप (3.1.94), the Nishtha affixes also come after this verb. As जीर्णः and जीर्णवान् । जृ + क्त = जिर् + त (7.1.100) and (1.1.51) = जिर् + न (8.2.42) = जीर्ण (8.2.77) and (8.4.1) ‘grown old’.

Kashika

भूते (३.२.८४) इति वर्तते। जीर्यतेरतृन् प्रत्ययो भवति भूते। जरन्, जरन्तौ, जरन्तः। वासरूपेण निष्ठा। जीर्णः। जीर्णवानिति॥

Siddhanta Kaumudi

भूत इत्येव । जरन् । जरन्तौ । जरन्तः । वासरूपन्यायेन निष्ठापि । जीर्णो जीर्णवान् ॥

Balamanorama

जीर्यतेरतृन् - जीर्यतेरतृन् । भूते इत्येवेति । भूतार्थवृत्तेर्जृधातोरतृन् स्यादित्यर्थः । ऋकारनकारावितौ । अत्प्रत्ययः शिष्यते । जरन्निति.उगित्त्वान्नुम् । जीर्ण इति ।ऋत इत् । रपरत्वम् । ‘ हलि च’ इति दीर्घः । निष्ठानत्वम् ।

Tattvabodhini

जीर्यतेरतृन् - जरन्निति । ऋकारस्य गुणे रपरोऽकारः ।उगितदचा॑मिति नुम् । संयोगान्तलोपस्याऽसिद्धत्वान्न दीर्घः ।

Nyaas

जरन् इति। अतृनो नित्त्वादाद्युदात्तत्वं भवति। उगिदचाम् (7.1.70) इति नुम्॥

Prakriyasarvasvam

नः स्वरार्थः । ऋकार उगित्त्वार्थः । जॄ अत्, गुणः, जरत् । सौ कृते उगित्त्वान्नुम् । संयोगान्तलोपः, जरन् जीर्णवानित्यर्थः ॥ <karika>सूत्रवार्त्तिकभाष्येषु छान्दसावेव केवलम् । कानच्क्वसू इति व्यक्तं साधितं माधवादिभिः ॥ १२१ ॥</karika> <karika>लोकेऽपि द्वयमस्तीति कौमुदी वावदीति सा । क्वसुरेव तु लोकेऽस्तीत्युदितं भोजभूभुजा ॥ १२२ ॥</karika> तद्वशाद् बहुप्रयोगाच्च लिटः क्वसुरुच्यते ।

Sutra Prayogas

  • जरद्भिश् (भट्टिकाव्यम्): जीर्यतेरतृन् इति अतृन्।