32105: छन्दसि लिट्¶
Padacheda: छन्दसि | S | 7 | 1 |
लिट् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas), the affix लिट् (Perfect Tense) comes after a verb with a past signification.
Vasu English Translation¶
In the छन्दस् (Vedas), the affix लिट् (Perfect Tense) comes after a verb with a past signification. As अहं सूर्यमुभयतो ददर्श ‘I saw the sun from both sides’; अहं द्यावापृथिवी आततान ‘I stretched the heaven and the earth’. Here the words ददर्श and आततान have the force of nishtha. See Yaj. Ved. (VIII.9).
Why this separate sutra, when by aphorism (3.4.61), in the Chhandas the lun, lan and lit come in all tenses ? That rule is made with regards to two or more verbs when in syntactical relation (धातुसम्बन्ध) with each other (3.4.1). The present rule is general, and without any such limitations.
Lit is the affix of the Present Perfect and will be fully treated of in the conjugation of verbs.
Kashika¶
भूत इत्येव। छन्दसि विषये धातोर्लिट् प्रत्ययो भवति। अ॒हं सूर्य॑मुभ॒यतो॑ ददर्श॒ (मा०सं० ८.९)। अनु॒ द्यावा॑पृथि॒वी आत॑तान (तै०ब्रा० १.२.१.२३)। ननु च **छन्दसि लुङ्लङ्लिटः**(३.४.६) इति सामान्येन लिड् विहित एव? धातुसंबन्धे स विधिः, अयं त्वविशेषेण॥
Balamanorama¶
छन्दसि लिट् - छन्दसि लिट् ।
Tattvabodhini¶
छन्दसि लिट् - छन्दसि लिडिति सूत्रस्यार्थमाह — भूतसामान्ये इति । न चछन्दसि लुङ्लङ्लिटः॑ इत्यनेन गतार्थता शङक्या, धातुसंबन्धाधिकारे हि स विधिः, इदं तु धातुसंबन्धं विनापि भवतीति विशेषात् । अत्र व्याचख्युः — कानचः कित्करणं तिस्तिराण इत्यत्रऋच्छत्यृता॑मिति गुणस्य निषेधार्थं सति प्रतिषेधविषये आरभ्यते ।चक्राण॑ इत्यत्र तुअसंयोगाल्लिट्व॑दित्येव सिद्धं कित्त्वमिति । त्रिमुनिमतमिति । सूत्रकृता छन्दसीति प्रक्रान्तत्वादुत्तरसूत्रे भाषाग्रहणाच्च, भाष्यवार्तिकयोरपि क्वसुकानचोःछन्दस्युभयथे॑ति वचनात्सार्वधातुकत्वेनसार्वधातुकमपि॑ दिति ङित्त्वादेव आजिवानित्यादौ नलोपादीनां कित्कार्याणामन्यथासिद्धिमाशङ्क्य तितीर्वान् तिस्तिराण इत्यादौऋच्छत्यृता॑मिति प्राप्तस्य गुणस्य बाधानार्थं कित्करणमिति सिद्धान्तितत्वात् । अत एव कित्करणसामर्थ्याद्भाषायामपि क्वसुकानचौ स्त इति केषांचिदुत्प्रेक्षा नादर्तव्येति हरदत्तमाधवादिग्रन्थे स्पष्टमिति भावः । कवयरित्वति । गतानुगतिकतयेति भावः ।
Padamanjari¶
च्छन्दसि लिट्॥ आततानेति।’णलुतमो वा’ इति णित्वपक्षे वृद्धिः। धातुसम्बन्धे स विधिरिति।’धातुसम्बन्धे प्रत्ययाः’ इत्यधिकारात्। लिट इकारटकारौ विशेषणार्थौ,’लिटः कानज्वा’ ‘लिट।ल्भ्यासम्योभयेषाम्’ इत्यादौ’ल’ इत्युच्यमानेऽन्येषामपि लङदीनां ग्रहणं स्यात्, निरनुबन्धकत्वादस्यैव ग्रहणं भविष्यति। परोक्षे लिटोऽपि तर्हि न प्राप्नोति? टकारष्टेरेत्वार्थश्च॥
Nyaas¶
ददर्श इति। दर्शर्लिट, णल्, द्विर्वचनम्, उरत् (7.4.66) इत्यत्त्म्, रपरत्वम्, हलादिशेषः (7.4.60) , लघूपधगुणः (7.3.86) । आततान इति। तनु विस्तारे (धातुपाठः-1463) आङपूर्वः, अत उपधायाः (7.2.116) इति वृद्धिः। धातुसम्बन्धे स विधिः इति। धातुसम्बन्धे प्रत्ययाः (3.4.1) इत्यतो धातुसम्बन्धग्रहणानुवृत्तेः। अयं त्वविशेषणेण इति। भूतमात्रे। लिट इकारटकारावुत्तरसूत्रे विशेषणार्थौ। लः कानज्वा इत्युच्यमाने लकाराणां ग्रहणं स्यात्। टकारष्टेरेत्वार्थः॥
Prakriyasarvasvam¶
भूतभावे लिट् स्यात् । अहं द्यावापृथिवी आविवेश ।