32118: लट् स्मे

Padacheda: लट् | S | 1 | 1 |

स्मे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix लट् (Present Tense) comes after a verb when the particle स्म is in connection with it (and denotes a past time not belonging to the current day and unperceived by the speaker). Note : This debars लिट् (Perfect Tense) .

Vasu English Translation

The affix लट् (Present Tense) comes after a verb when the particle स्म is in connection with it (and denotes a past time not belonging to the current day and unperceived by the speaker). Note : This debars लिट् (Perfect Tense) . All the words within brackets are understood in this aphorism. This debars लिट् or the perfect tense. Thus यजति स्म युधिष्ठिरः ‘Yudhishthira sacrificed’; so also नलेन स्म पुराधीयते । उर्णया स्म पराधीयते ॥

Bhashya

लट् स्मे (885) (516 लड्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 2 आ.14) (3010 - 11 वार्तिकद्वयम्॥ 1॥) - स्मपुरा भूतमात्रे न स्मपुराद्यतने - (भाष्यम्) स्मपुरा भूतमात्रे न स्मपुराद्यतनेति वक्तव्यम्। (आक्षेपभाष्यम्) किमयं स्मादिविधिः पुरान्तोऽविशेषेण भूतमात्रे भवति। तत्र वक्तव्यं स्मलक्षणः पुरालक्षणश्चाद्यतने न भवत इति॥ आहोस्वित् स्मलक्षणः पुरालक्षणश्चाविशेषेण भूतमात्रे भवतः इति। तत्र स्माद्यर्थे न स्मपुराद्यतन इति वक्तव्यम्?। (3012 पूर्ववार्तिकप्रत्याख्यानवार्तिकम्॥ 2 ॥) - स्मादिविधिः पुरान्तो यद्यविशेषेण किं कृतं भवति न स्मपुराद्यतन इति ब्रुवता कात्यायनेनेह- (भाष्यम्) स्मादिविधिः पुरान्तो यद्यविशेषेण भवति, किं वार्तिककारः प्रतिषेधेन करोति - न स्मपुराद्यतन इति॥ (3013 वार्तिकम्॥ 2 ॥) - अनुवृत्तिरनद्यतनस्य लट् स्म इति तत्र नास्ति नञ्ञ्कार्यम्- (भाष्यम्) लट् स्मे इत्यत्रानद्यतन इत्येतदनुवर्तिष्यते॥ (3014 वार्तिकम्॥ 3 ॥) - अपरोक्षानद्यतनौ ननौ च नन्वोश्च विनिवृत्तौ॥ न पुराद्यतन इति भवेदेतद्वाच्यम्- (भाष्यम्)तत्रैतावद्वक्तव्यं स्याद् - - ठन पुराद्यतन इति॥ (3015 वार्तिकम्॥ 4 ॥) - तत्र चापि लुङ्ग्रहणम्- (भाष्यम्) तत्र चापि लुङ्ग्रहणं ज्ञापकम् - न पुरालक्षणोद्यतने भवतीति॥ (भाष्यम्) अथ बुद्धिरियमविशेषेण स्मपुराहेतू इति तत्र चापि शृणुभूयः॥ अपरोक्षे चेत्येष प्राक् पुरिसंशब्दनादविनिवृत्तः। सर्वत्रानद्यतनस्तथासति नञ्ञा किमिह कार्यम्॥ (अपरोक्षे च इत्यस्य प्रत्याख्यानभाष्यम्) स्मादावपरोक्षे चेत्यकार्यमपि शक्यमेतदितिविद्धि। शक्यं हि निवर्तयितुं परोक्ष इति लट् स्म इत्यत्र॥ (सूत्रसमर्थनभाष्यम्) स्यादेषा तव बुद्धिः स्मलक्षणेप्येवमेव सिद्धमिति। लट् स्म इति भवेन्नार्थस्तस्मात्कार्यं परार्थं तु। एवं तर्हि ज्ञापयत्याचार्यः - स्मलक्षणः पुरालक्षणश्चानद्यतने भवतः इति॥ लट् स्मे॥ 118 ॥

Kashika

भूतानद्यतनपरोक्ष इति वर्तते। स्मशब्द उपपदे भूतानद्यतनपरोक्षे लट् प्रत्ययो भवति। लिटोऽपवादः। नडेन स्म पुराधीयते। ऊर्णया स्म पुराधीयते॥

Siddhanta Kaumudi

लिटोऽपवादः । यजति स्म युधिष्ठरः ॥

Laghu Siddhanta Kaumudi

लिटोऽपवादः। यजति स्म युधिष्ठिरः॥

Balamanorama

लट् स्मे - लट् स्मे ।स्मे॑त्यव्ययम् । तद्योगे लिड्विषये लट् स्यादित्यर्थः । यजति स्मेति । स्मशब्दो भूतकालद्योतकः ।

Tattvabodhini

लट् स्मे - लट् स्मे ।स्मे॑ इत्यव्ययं भूतकालद्योतकम् ।

Padamanjari

लट् स्मे॥ नडेन स्म पुराधीयते इति। अधिपूर्वादिङ्ः कर्मणि लकारः, कर्माविवक्षायां वा भावे, नडेनेति कर्तरि तृतीया। अथ वा - अधीयते इति कर्तरि बहुवचनम्, ठात्मनेपदेष्वनतःऽ इत्यदादेशः, नडेनेति सहयोगे तृतीया। अन्ये तु व्याचक्षते - पुराकल्पे - पुराकल्पे नडाख्यं तृणविशेषं हस्ते गृहीत्वाधीयाना अधीयते स्मेति॥

Nyaas

नडेन स्म पुराधीयते इति। इङोऽधिपूर्वाल्लट्, भावकर्मणोः (1.3.13) इत्यात्मनेपदम्, टेरेत्वम्, सार्वधातुके यक् (3.1.67) , अकृत्सार्वधातुकयोः (7.4.25) इति दीर्घः। उपसर्गेण सहाकः सवर्णे (6.1.97) दीर्घत्वम्। अथ वा - कर्तर्यात्मनेपदम्, अदादित्वाच्छब्दो लुक्, आत्मनेपदेष्वनतः (7.1.5) इत्यदादेशः, धातोरियङ यथायोगं पूर्ववत्॥

Prakriyasarvasvam

स्मयोगे लिडर्थे लट् स्यात् । जयति स्म युधिष्ठिरः ।

Sutra Prayogas

  • पृच्छति (रघुवंशम्): लट् स्मे इत्यनेन भूतार्थे लट्।

  • विनयन्ते स्म (रघुवंशम्): लट् स्मे इति भूतार्थे लट्।

  • शोभयति स्म (रघुवंशम्): लट् स्मे इति `स्म`शब्दयोगाद्भूतार्थे लट्।

  • मन्यते (रघुवंशम्): लट् स्मे इति भूतार्थे लट्।

  • दुनोति (कुमारसम्भवम्): लट् स्मे इति भूतार्थे लट्।

  • स्मरयति स्म (किरातार्जुनीयम्): लट् स्मे इति भूतार्थे लट्।

  • स्मयत इव स्म (किरातार्जुनीयम्): लट् स्मे इति भूतार्थे लट् ।

  • हतः स्म (किरातार्जुनीयम्): लट् स्मे इति भूतार्थे लट्।

  • नापेक्षते स्म (शिशुपालवधम्): लट् स्मे इति भूतार्थे लट्।

  • शेरते (शिशुपालवधम्): लट् स्मे इति भूते लट्।

  • पश्चात्कियते स्म (शिशुपालवधम्): लट् स्मे इति भूतार्थे लट् ।

  • वेद (शिशुपालवधम्): लट् स्मे इति भूतार्थे लट्।

  • स्माह (शिशुपालवधम्): लट् स्मे इति भूतार्थे लट्।

  • हन्ति (शिशुपालवधम्): लट् स्मे इति भूतार्थे लट् ।

  • प्रतिष्ठते (शिशुपालवधम्): लट् स्मे इति भूते लट्।

  • आह (भट्टिकाव्यम्): लट् स्मे इति लट्।

  • स्म व्यतियुतः (भट्टिकाव्यम्): लट् स्मे इति ‘यु मिश्रणे’ इत्यस्मात् भूते लट्।

  • अभिधावन्ति (भट्टिकाव्यम्): लट् स्मे इति भूतानद्यतनपरोक्षे लट् ।