32106: लिटः कानज्वा¶
Padacheda: लिटः | S | 6 | 1 |
कानच् | S | 1 | 1 |
वा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas), the affix लिट् (Perfect Tense) is optionally replaced by the affix कानच्।
Vasu English Translation¶
In the छन्दस् (Vedas), the affix लिट् (Perfect Tense) is optionally replaced by the affix कानच्। As अग्निं चिक्यानः ‘he consecrated the fire’; सोमं सुषुवाणः ‘he pressed the soma juice’. This being an optional affix, is sometimes not employed; as in the examples in the last aphorism.
Why has the word lit been repeated in this sutra, when its anuvritti could have been drawn from the last sutra ? The substitute कानच् replaces not only the special लिट् of sutra (3.2.105), but the general लिट् which comes after the roots in forming the perfect tense; so that the affix कानच् forms verbal adjectives as well as the perfect tense.
This affix comes after those verbs only which take Atmanepada terminations. See (1.4.100). तूतुजान (Rig. Ved. (1.3.6)).
Bhashya¶
लिटः कानज्वा (873) (508 लिटः कानज्विधिसूत्रम्॥ 3 । 2 । 2 आ.6 ) (वाग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं कानच्क्वस्वोर्वावचनं क्रियते। - कानच्क्वस्वोर्वावचनं छन्दसि तिङो दर्शनात्- (भाष्यम्) कानच्क्वस्वोर्वावचनं क्रियते। छन्दसि तिङो दर्शनात्। छन्दसि तिङपि दृश्यते - अहं सूर्यमुभयतो ददर्श। अहं द्यावापृथिवी आततानेति॥ (2080 समाधानासंगतिवार्तिकम्॥ 2 ॥) - न वानेन विहितस्यादेशवचनात्- (भाष्यम्) न वा एतत्प्रयोजनमस्ति। किं कारणम्?। अनेन विहितस्यादेशवचनात्॥ (आक्षेपभाष्यम्) अस्त्वनेन विहितस्यादेशः। केनेदानीं छन्दसिविहितस्य लिटः तिङः श्रवणं भविष्यति॥ (समाधानभाष्यम्) छन्दसि लुङ्लङ्लिटः इत्यनेन। तदेतद्वावचनं तिष्ठतु तावत् सांन्यासिकम्॥ (कित्करणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ कित्करणं किमर्थम्। न असंयोगाल्लिट्कित् इत्येव सिद्धम्। (2081 प्रयोजनवार्तिकम्॥ 3 ॥) - कित्करणं संयोगान्तार्थम्- (भाष्यम्) कित्करणं क्रियते। संयोगान्तार्थम्। संयोगान्ताः प्रयोजयन्ति। बन्धे वृत्रस्य यद्बद्धधानस्य रोदसी। त्वमर्णवान् बद्बधानाँ अरम्णाः। अञ्ञ्चेः आजिवानिति॥ (प्रयोजननिराकरणभाष्यम्) छान्दसौ कानच्क्वसू। लिट् च छन्दसि सार्वधातुकमपि भवति। तत्र सार्वधातुकमपिद् ङिद्वद्भवति। ङित्त्वादुपधालोपे भविष्यति॥ (2082 प्रयोजनान्तरवार्तिकम्॥ 4 ॥) - ऋकारान्तगुणप्रतिषेधार्थं वा- (भाष्यम्) ऋकारान्तानां गुणप्रतिषेधार्थं तर्हि कित्त्वं वक्तव्यम्। अयं हि लिटि ऋकारान्तानां प्रतिषेधविषये गुण आरभ्यते। स यथैवेह प्रतिषेधं बाधित्वा गुणो भवति - तेरतुः तेरुरिति। एवमिहापि स्यात् - तितीर्वान्, तितिराण इति। पुनः कित्करणात् प्रतिषिध्यते। तस्मात्कित्त्वं कर्तव्यम्॥ लिटः कानञ्ञ्वा॥ 106 ॥
Kashika¶
छन्दसि लिटः कानजादेशो भवति वा। अ॒ग्निं॑ चि॒क्या॒नः॑ (मै०सं० ३. ३.९)। सोमं सुषुवा॒णः॑ (मै०सं० ४.४.१०)। वरु॑णं सुषुवा॒णम् (तै०सं० २.१.९.१.) । न च भवति — अ॒हं सूर्य॑मुभ॒यतो॑ ददर्श॒ (मा०सं० ८.९.)। अनु॒ द्यावा॑पृथि॒वी आत॑तान (तै०ब्रा० १.२.१.२३)। लिड्ग्रहणं किम्, न पूर्वस्यैव प्रकृतस्यादेशविधाने विभक्तिविपरिणामो भविष्यति? लिण्मात्रस्य यथा स्यात्, योऽपि परोक्षे विहितस्तस्याप्ययमादेशो भवति॥
Balamanorama¶
लिटः कानज्वा - लिटः कानज्वा ।
Padamanjari¶
लिटः कानज्वा॥ चिक्यान इति।’चिञ् चयने’ ‘विभाषा चेः’ इति कुत्वम्, ठेरनेकाचःऽ इति यणादेशः। न च भवतीति। वावचनस्य प्रयोजनं दर्शयति। वाऽसरूपविधिश्च लादेशेषु नास्ति,’हशश्वतोर्लङ् च’ इति वचनादित्युक्तम्। नन्वनन्तरसूत्रविहितस्य लिटो नित्यमादेशोस्तु, यस्तु’च्छन्दसि लुङ्लङ्लिटः’ इति लिट्, तत्र तिङं श्रवणं भविष्यति? न; तस्य धातुसम्बन्धविषयत्वादधातुसम्बन्धे तिङं श्रवणं न स्यात्। लिण्मात्रस्य च ग्रहणमित्यनन्तरमेव वक्ष्यति। पूर्वस्यैवेत्यादि। प्रत्ययान्तरं तु कानज् न भवति, वावचनाद्वाऽसरूपविधिनैव लुङदीनां सिद्धत्वादिति भावः। लिण्मात्रस्येति। भाष्ये त्वन्तरस्यैव लिटोऽयमादेशः, लिङ्ग्रहणं च प्रत्ययान्तरत्वं मा विज्ञायीति। वावचनं चोतरार्थमिति स्थितम्। कानचश्चित्करणं स्वरार्थम्। कित्करणं किमर्थम्, न ठसंयोगाल्लिट् कित्ऽ इत्येव सिद्धम्, तेन ईजानस्तेपान इत्यादौ संप्रसारणैत्वाभ्यासलोपादिकार्य भविष्यति? संयोगान्तार्थम् -‘बन्ध बन्धने’ ‘वृतस्य यद्वद्वधानस्य, त्वमर्णवान् बद्वधाना अरम्णा’ अत्र ठनिदिताम्ऽ इति नलोपः, छान्दसत्वादभ्यासधकारस्य हलादिश्शेषेण निवृत्यभावे’झलां जश् झशि’ इति जश्त्वं दकारः। ननु छान्दसः कानच् लिट् च च्छन्दसि सार्वधातुकमपि भवति,’च्छन्दस्युभयथा’ इति वचनात्, तत्र’सार्वधातुकमपित्’ इति ङ्त्विं ङ्तीत्युपिधालोपो भविष्यति? न च संयोगान्तेषु कित्वङ्त्वियोर्विशेषोऽस्ति। ऋकारान्तगुणप्रतिषेधार्थ तु, ठृच्छत्यृताम्ऽइति ऋकारान्तानां प्रतिषेधविषये गुण आरभ्यते स यथेह भवति - परितस्तरे इति, एवमिहापि स्यात् - परितिस्तिराण इति, तस्मात्कित्करणम्। कित्करणसामर्थ्याद्भाषायामपि कानजस्तीत्येततु भाष्यविरोधातुपेक्ष्यम्॥
Nyaas¶
कानचश्चिकरणमन्तोदात्तार्थम्। कित्करणं कित्कार्यार्थम्। तत्पुनः बन्ध बन्धने (धातुपाठः-1508) इत्येवमादयः संयोगान्ताः प्रयोजन्ति,नान्ये। असंयागान्तेभ्यः असंयोगाल्लिट् कित् (1.2.5) इति सिद्धः, संयोगान्ता अपि कित्त्वं भाषायां प्रयोजयन्ति, न छन्दसि। तत्राह - छन्दस्युभयथा (6.4.86) इति लिटः सार्वधातुकत्वात् सार्वधातुकमपित् (1.2.4) इति ङित्त्वमस्त्येव। न कित्त्वे ङित्त्वे वा च्छन्दसि कश्चिद्विशेषोऽस्ति। भाषायां तु यद्यसंयोगान्तेभ्यः कित्त्वं न स्याद्योऽयं ऋच्छत्यृताम् (7.4.11) इति गुणः प्रतिषेधविषय आरभ्यते स यथेह न भवति - निपपरतुः, निपपरुरिति;तथेहापि स्यात् - निपपुराण इति; कित्त्वे च सति न भवति। भाषायां तु कित्त्वमर्थवद्भवति। पृ पालन पूरणयोः (धातुपाठः-1086), निपूर्वात् कानच्। द्विर्वचनात् परत्वात् उदोष्ठपूर्वस्य (7.1.102) इत्युत्त्वम्, रपरत्वञ्चेति। द्विर्वचनेऽचि (1.1.59) इति स्थानिवद्भावात् पृशब्दो द्विरुच्यते। उरत्त्वरपरत्वहलादिशेषाः, अट्कुप्वादिना (8.4.2) णत्वम्। भाषायां कानज्भवीत्यस्मादेव ज्ञापकादवसीयते। चिक्यानःट इति। अभ्यासादुत्तरस्य चिनोतेश्चकारस्य **विभाषा चेः** (7.3.58) इति कुत्वम्, `एरनेकाचः (6.4.82) इत्यादिना यणादेशः। सुषुवाणः इति। {सुनोतेरिति-इति मुद्रितः पाठः।} सुनोतेरिति; `अचि श्नुधातु (6.4.77) इत्यादिनोवङादेशः, आदेशप्रत्यययोः (8.3.59) इति षत्वम्। विभक्तिविपरिणामो भविष्यति इति। यद्यपि लिडिति प्रथमान्तं प्रकृतं तथाप्यर्थाद्विभक्तिविपरिणामो भविष्यति। आदेशम्बन्धादुत्तरस्य लिटः षष्ठन्तता भविष्यति।तस्मादन्तरेणापि लिड्ग्रहणं प्रकृत्वाल्लिट एव कानजादेशो भविष्यतीति लिड्ग्रहणं न कर्तव्यमिति भावः। योऽपि इत्यादि। योऽपि परोक्षे लिट् (3.2.115) इत्यनेनलिड्विहितस्तस्यापि लिड्ग्रहणे सति कानजादेशो भवति। असति तु तस्मिन् अनन्तरस्य विधिर्वा प्रतिषेधो वा (व्या।प।19) इत्यस्यैव स्यात्, न परोक्षे लिटः। अथासति लिड्ग्रहणे प्रत्ययान्तरं कानच् कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्, प्रत्ययान्तरे हि न लोकाव्ययनिष्ठाखलर्थतृनाम् (2.3.69) इति षष्ठीप्रतिषेधो न स्यात्। ततश्चाग्न चिक्यान इत्यत्राग्निशब्दात् षष्ठी स्यात्॥।
Prakriyasarvasvam¶
वेदे सर्वलिटः कानजादेशो वा स्यात् । कानच आत्मनेपदत्वादात्मनेपदि- नामेव । लिट्त्वात् द्वित्वादि । चक्राणः वेत्युक्तेश्चक्रे जाग्रः कानचि गुणो वेति कौमुदी । जाजाग्राण6 । जजाग्राण7 ‘व्यत्ययो बहुलं’ (३-१-८५) इति परस्मै- पदिनोऽपि कानच् ।