32102: निष्ठा

Padacheda: निष्ठा | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affixes called निष्ठा come after a verbal root used in the sense of past time.

Vasu English Translation

The affixes called निष्ठा come after a verbal root used in the sense of past time. The affixes क्त and क्तवतु are निष्ठा (1.1.26). As कृ + क्त = कृतम् ‘made’; कृ + क्तवतु = कृतवत्,1st. sing. कृतवान् ‘done’; so also भुक्तम् and भुक्तवान् ‘eaten’.

Vart:- The Nishtha affixes come when adi-karma is meant. For a fuller description of what constitutes adi-karma see sutra (3.4.71), and the illustrations under it. Thus प्रकृतः कटं देवदत्तः, प्रकृतवान् कटं देवदत्तः ।

Bhashya

निष्ठा (869) 507 निष्ठासंज्ञकप्रत्ययविधिसूत्रम्॥ 3 2 । 2 आ. 5) (2073 अन्योन्याश्रयदूषणवार्तिकम्॥ 1 ॥) - निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः- (भाष्यम्) निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः स्यात्॥ केतरेतराश्रयता?। सतोः क्तक्तवत्त्वोः संज्ञया भवितव्यम्। संज्ञया च क्तक्तवतू भाव्येते। तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते॥ (2074 गौरवापत्तिवार्तिकम्॥ 2॥) - द्विर्वा क्तक्तवतुग्रहणम्- (भाष्यम्) द्विर्वा क्तक्तवतुग्रहणं कर्तव्यं भवति - क्तक्तवतू भूते। क्तक्तवतू निष्ठा इति॥ (गैरववारणभाष्यम्) यदि पुनरिहैव निष्ठासंज्ञाप्युच्येत - क्तक्तवतू भूते। ततो निष्ठा क्तक्तवतू निष्ठासंज्ञौ भवत इति॥ किं कृतं भवति?। द्विः क्तक्तवतुग्रहणं न कर्तव्यं भवति॥ (गौरवस्यापरिहार्यताभाष्यम्) एवमपि तौ इति वक्तव्यं स्यात्। वक्ष्यति ह्येतत् - तौ सदिति वचनमसंसर्गार्थम् इति। असंसक्तयोर्भूतकालेन क्तक्तवत्वोर्निष्ठा संज्ञा यथा स्यात - ञ्ञिमिदा। मिन्नः। ञ्ञिक्ष्विदा क्ष्विण्णः॥ (अन्योन्याश्रयाद्विः करणदूषणपरिहारभाष्यम्) यदि पुनरदृष्टश्रुतावेव क्तक्तवतू गृहीत्वा निष्ठा संज्ञोच्येत। (परिहाराशक्यत्वभाष्यम्) नैवं शक्यम्। दृष्टस्रुतयोर्हि न स्यात् - ञ्ञिमिदा - मिन्नः, ञ्ञिक्ष्विदा - -क्ष्विण्ण इति। तस्मान्नैवं शक्यम्। न चेदेवं, द्विः क्तक्तवतुग्रहणं कर्तव्यं भवति। इतरेतराश्रयं वा भवति॥ (अन्योन्याश्रयपरिहारस्मारणभाष्यम्) नैष दोषः। इतरेतराश्रयमात्रमेतद्भवति। सर्वाणि चेतरेतराश्रयाण्येकत्वेन परिहृतानि - सिद्धं तु नित्यशब्दत्वाद् इति॥ (उक्तपरिहाराप्राप्तिभाष्यम्) नेदं तुल्यमन्यैरितरेतराश्रयैः। न हि संज्ञा नित्या॥ (परिहारान्तरस्मारणभाष्यम्) एवं तर्हि भाविनी संज्ञा विज्ञास्यते। तद्यथा कश्चित्कंचित्तन्तुवायमाह - अस्य सूत्रस्य शाटकं वय इति। स पश्यति - यदि शाटको न वातव्यः। अथ वातव्यो, न शाटकः। शाटको वातव्यश्चेति विप्रतिषिद्धम्। भाविनी खल्वस्य संज्ञाभिप्रेता। स मन्ये वातव्यः यस्मिन्नुते शाटक इत्येतद्भवतीति। एवमिहापि तौ भूते काले भवतो ययोरभिनिर्वृत्तयोर्निष्ठेत्येषा संज्ञा भविष्यति॥ (2075 निष्ठाविधिवार्तिकम्॥ 3 ॥) - आदिकर्मणि निष्ठा- (भाष्यम्) आदिकर्मणि निष्ठा वक्तव्या। प्रकृतः कटं देवदत्त इति॥ (प्रश्नभाष्यम्) किं पुनः कारणं न सिध्यति?। (2076 हेतुवार्तिकम्॥ 4 ॥) - यद्वा भवन्त्यर्थे- (भाष्यम्) यद्वा भवन्त्या अर्थे भाष्यते। प्रकृतः कटे देवदत्तः प्रकरोति कटं देवदत्त इति॥ (2077 प्रत्याख्यानवार्तिकम्॥ 5 ॥) - न्याय्या त्वाद्यपवर्गात्- (भाष्यम्) न्याय्या त्वेषा भूतकालता। कुतः?। आद्यपवर्गात्। अदिरत्रापवृक्तः। एष च नाम न्याय्यो भूतकालः - यत्र किंचिदपवृक्तं दृश्यते॥ (2078 (2076 वार्तिक) प्रत्याख्यानवार्तिकम्॥ 6 ॥) - वा चाद्यतन्याम्- (भाष्यम्) वा चाद्यतन्यां भाष्यते। प्रकृतः कटं देवदत्तः, प्राकार्षीत्कटं देवदत्त इति। (आक्षेपभाष्यम्) किं शक्यन्त एते शब्दाः प्रयोक्तुमित्यतो न्याय्यैषा भूतकालता॥ (समाधानभाष्यम्) नावश्यं प्रयोगादेव। क्रिया नामेयमत्यन्तापरदृष्टा अनुमानगम्या न शक्या पिण्डीभूता निदर्शयितुम्। यथा गर्भो निर्लुठित इति। सासौ येन येन शब्देनाभिसंबध्यते तावति तावति परिसमाप्यते तद्यथा - कश्चित्पाटलिपुत्रं जिगमिषुरेकमहर्गत्वाह इदमद्य गतम् इति। न च तावता तस्य व्रजिक्रिया समाप्ता भवति। यत्तु गतं तदभिसमीक्ष्यैतत् प्रयुज्यते इदमद्य गतम् इति। एवमिहापि यत्कृतं तदभिसमीक्ष्यैतत्प्रयुज्यते - प्रकृतः कटं देवदत्तः इति। यदा हि वेणिकान्तः कटोभिसमीक्षितो भवति। प्रकरोति कटम् इत्येव तदा भवितव्यम्॥ निष्ठा॥ 102 ॥

Kashika

क्तक्तवतू निष्ठा (१.१.२६) इत्युक्तम्, स निष्ठासंज्ञकः प्रत्ययो भूते भवति। कृतम्। कृतवान्। भुक्तम्। भुक्तवान्। निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः। संज्ञायां क्तक्तवतू भाव्येते, सतोश्चानयोः संज्ञया भाव्यम्। नैष दोषः। भाविनी संज्ञा विज्ञायते। स भूते भवति, यस्योत्पन्नस्य निष्ठेत्येषा संज्ञा भवति। सामर्थ्यात् क्तक्तवत्वोर्विधानमेतत्॥ आदिकर्मणि निष्ठा वक्तव्या॥ प्रकृतःकटं देवदत्तः। प्रकृतवान् कटं देवदत्तः॥

Siddhanta Kaumudi

भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र तयोरेव - (SK2833) इति भावकर्मणोः क्तः कर्तरि कृत् (SK2832) इति कर्तरि क्तवतुः । उकावितौ । स्नातं मया । स्तुतस्त्वया विष्णुः । विष्णुर्विश्वं कृतवान् ॥

Laghu Siddhanta Kaumudi

भूतार्थवृत्तेर्धातोर्निष्ठा स्यात्। तत्र तयोरेवेति भावकर्मणोः क्तः। कर्तरि कृदिति कर्तरि क्तवतुः। उकावितौ। स्नातं मया। स्तुतस्त्वया विष्णुः। विश्वं कृतवान् विष्णुः॥

Balamanorama

निष्ठा - निष्ठा । भूते इति धातोरिति चाधिकृतम् । तदाह — भूतार्थेत्यादि । भावकर्मणोः क्त इति । तथा च क्तप्रत्ययविषये कर्तरीति न संबध्यते इति भावः । कर्तरि क्तवतुरिति । कृत्यक्तखलर्थानामेव भाव कर्मणोर्विधानादिति भावः ।तयोरेव कृत्युक्ते॑त्यत्रलः कर्मणी॑त्यस्मात्सकर्मकेभ्यः कर्णि कर्तरि च अकर्मकेभ्यो भावे कर्तरि चेत्यनुवर्तते । ततश्च अकर्मकेभ्यो भावे क्तः, सकर्मकेभ्यस्तु कर्मणीति व्यवस्था लभ्यते इति मत्वोदाहरति — स्नातं मयेति । अकर्मकत्वाद्भाव क्तः । स्तुतस्त्वया विष्णुरिति । सकर्मकत्वात्कर्मणि क्तः । कर्तरि क्तवतुमुदाहरति — विष्णुर्विआमिति ।

Padamanjari

निष्ठा क्तक्तवतू निष्ठेत्युक्तमिति। ककारः कित्कार्यार्थः, उकार उगित्कार्यार्थः, ठत्वसन्तस्यऽ इति विशषणार्थश्च। निष्ठायामित्यादि। अप्रसिद्धिःउअनिष्पतिः, कस्य? संज्ञायाः, संज्ञिनो वा। कथमित्याह - संज्ञयेति। यदि द्विः क्तक्तवतूपग्रहणं क्रियेत - इह, संज्ञाविधौ च, ततो न स्यादितरेतराश्रयत्वमिति संज्ञयेत्युक्तम्। सतोश्च तयोरिति। लोके शास्त्रे वा न तावल्लोके सानुबन्धावेतौ स्तः, शास्त्रेऽपि यद्यपि’ञीतः क्तः’ ‘नपुंसके भावे क्तः’ इति क्तः स्वरूपेण विहितोऽस्ति, भूते तु काले नास्ति, क्तवतुस्तु न क्वाप्यस्तीति भावः। भाविनी संज्ञेति। संज्ञिनो भावित्वात् संज्ञापि भाविनी सूत्रशाटकवत् तद्यथा - अस्य सूत्रस्य शाटकं वयेति तन्तुवाय उक्तः, स पश्यति यदि शाटको न वातव्यः, अथ वातव्यो न शाटकः, शाटको वातव्यश्चेति विप्रतिषिद्धम्, मन्ये स वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति। सामर्थ्यादिति।’क्तक्तवतू निष्ठा’ इति वचनात् अन्यस्योत्पन्नस्य निष्ठेति संज्ञाया अभावःउसामर्थ्यम्। आदिकर्मणीति। कर्मशब्दः क्रियावाची, एकफलोद्देशप्रवृतक्षणसमूहरूपा क्रिया, तत्राद्ये क्रियाक्षणेऽपवृक्तेऽपि धात्वर्थरूपायाः क्रियाया अनपवृक्तत्वाद्वचनम्। न्याय्या त्वाद्यपवर्गात्। न्याय्या त्वेषा भूतकालता, कुतः? आद्यपवर्गात्। आदिभूतक्रियाक्षणोऽपवृक्तः तस्मिन्नेव चावयवे समूहरूपो धात्वर्थः परिसमाप्तः उक्तं च - समूहः स तथाभूतः प्रतिभेदं समूहिषु। समाप्यते ततो भेदे कालभेदस्य सम्भवः॥ इति। तथा च प्राकार्षीत्कट्ंअ देवदत इति लुङपि प्रयुज्यते। कटावयवे वा कटशब्दो द्रष्टव्यः, ततः केषाञ्चित्कटावयवक्षणानामपरिसमाप्तेः प्रकरिष्यति कट्ंअ देवदत इति लृट्प्रयोगोऽप्यविरुद्धः। अपर आह - ज्ञापकात्सिद्धं यदयम् ठादिकर्मणि क्तःऽ’कर्तरि च’ ठुदुपधाद्भावादिकर्मणोरन्यतरस्याम्ऽ इति चाह, तज्ज्ञापयति - भवत्यादिकर्मणि क्त इति। नैतदस्ति ज्ञापकम्,’ञीतः क्तः’ इति योऽयं वर्तमाने क्तस्तद्विषयमेतत्स्यात्? यदि तद्विषयमेव स्याद्वर्तमानग्रहणमेव कुर्यात्॥

Nyaas

कृतम् इति। अत्र कित्त्वाद् गुणाभावः। कृतवान् इति। उगिदचाम् (7.1.70) इति नुम्। अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्घः, हल्ङ्यादि (6.1.66) संयोगान्तलोपौ (8.2.23) ।निष्ठायाम् इत्यादि। निष्ठासंज्ञके प्रत्यये विधातव्येऽप्रसिद्धनिष्पत्तिकस्य निष्ठासंज्ञकस्य प्रत्ययस्य निष्ठेति चास्याः संज्ञाया अप्रसिद्धिः, कुतः? इतरेतराश्रयत्वात्। कथमितरेतराश्रयत्वमित्याह - संज्ञायाम् इत्यादि। निष्ठेत्येवं संज्ञामुच्चार्य क्तक्तवत्वोरिह भूते विधानम्, विद्यमानयोश्च तयोः संज्ञया भवितव्यमितीतरेतराश्रयत्वम्, इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते`(व्या।प।28)। यदितो क्तक्तवतू स्वरूपेण विज्ञातौ भवत एवञ्च **क्तक्तवतू निष्ठा** (1.1.26) इत्यन्यस्य संज्ञा विधातुं शक्यते,नान्यथा। अतः संज्ञाया अप्रसिद्धिः, तस्याश्चाप्रसिद्धौ तयोरप्रसिद्धिः। `भाविनी इति। भविष्यन्तीत्यर्थः। यथा - अस्य सूत्रस्य शाटकं वयेति। भाविनीशब्दोऽयम् गमेरिनिः`(द।उ।6।57) `आङि णित् (द।उ।6।58) भुवश्च (द।उ।6।59) इतीनिप्रत्ययान्तो व्यत्पादितः। स च भविष्यति गम्यादयः (3.3.3) इति भविष्यत्काले विहितः। तेन भाविनीत्यस्य भविष्यन्तीत्येवार्थो लभ्यते। सामर्थ्यात् इत्यादि। स भूते भवति यस्योत्पन्नस्य निष्ठेत्येषा संज्ञा भवति। न चान्यस्योत्पन्नस्य निष्ठेत्येषा संज्ञा भवति। अपि तु क्तक्तवत्वोरेवेति सामर्थ्यम्। आदिकर्मणि इत्यादि। कर्मशब्दोऽत्र क्रियावाची। आदिभूते क्रियारम्भादिभूते प्रथमे क्रियालक्षण इत्यर्थः। यावत्क्रियालक्षणैः सकलः कटः परिसमाप्तिमुपैति क्रियालक्षणानां तावतामपवर्गे भूतकालो भवति। आद्ये क्रियालक्षणे समुदायस्यापरिनिष्पन्नत्वात् वर्तमानकाल एवेति। तत्र वर्तमाने निष्ठा न प्राप्नोति, अतो वक्तव्यो व्याख्येयः। तत्रेदं व्याख्यानम् - यदयं उदुपधाद्भावादिकर्मणोरन्यतरस्याम् (1.2.21) इत्यादिकर्मणि कर्मणि निष्ठा विकल्पयति। यद्वा - आदिकर्मणि क्तः कर्तरि च (3.4.71) इत्यादि, तज्ज्ञापयति - आदिकर्मणि निष्ठा भवतीति। प्रकृतः कटम् इति। प्रशब्दोऽत्रादिकर्म द्योतयति। य एवार्थः प्रकरोति कटं देवदत्त इति, स एवार्थः प्रकृतः कटं देवदत्त इति॥सुत्वा इति। ह्रस्वस्य पिति कृति तुक् (6.1.71) इति तुक्, सर्वनामस्थाने च (6.4.8) इत्यादिना दीर्घः, नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः॥

Prakriyasarvasvam

सर्वधातोर्भूतेऽर्थे निष्ठा स्यात् ।।

Vartika

आदिकर्मणि निष्ठा वक्तव्या ।

Sutra Prayogas

  • अवतीर्णवान् (शिशुपालवधम्): निष्ठा इति तरतेः क्तवतुप्रत्ययः।