32120: ननौ पृष्टप्रतिवचने

Padacheda: ननौ | S | 7 | 1 |

पृष्टप्रतिवचने | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix लट् (Present Tense) is used after a verb in denoting a past action when the word ननु is in connection with it and an answer is given to the question.

Vasu English Translation

The affix लट् (Present Tense) is used after a verb in denoting a past action when the word ननु is in connection with it and an answer is given to the question. The anuvritti of the words ‘anadyatana’ and ‘paroksha’ does not extend to this sutra. This declares a rule with regard to past time in general. This debars लुङ् (the Aorist tense). As अकार्षीः कटं देवदत्त ? – ननु करोमि भोः ‘Devadatta, did you make the mat? O, yes, I did make it’. अवोचस्तत्र किञ्चिद् देवदत्त,- - ननु ब्रवीमि भोः ‘Devadatta, did you speak there anything? O, yes, I did speak’.

Why do we say ‘in reply to an interrogation’? Observe नन्वकार्षीन् माणवकः ‘certainly, Manavaka did it’.

Bhashya

ननौ पृष्टप्रतिवचने (887) (517 लड्विधिसूत्रम्॥ 3 । 2 । 2 आ.15) - ननौ पृष्टप्रतिवचन इत्यशिष्यं क्रियासमाप्तेर्विवक्षितत्वात्- (भाष्यम्) ननौ पृष्टप्रतिवचन इति अशिष्यो लट्। किं कारणम्?। क्रियासमाप्तेर्विवक्षितत्वात्। क्रियाया अत्र असमाप्तिर्विवक्षिता। एष एव न्याय्यो वर्तमानः कालः यत्र क्रियाया असमाप्तिर्भवति तत्र वर्तमाने लट् इत्येव सिद्धम्॥ (दूषणभाष्यम्) यदि वर्तमाने लट् इत्येव लड् भवति। शतृशानचौ च प्राप्नुतः॥ (इष्टापत्तिभाष्यम्) इष्येते शतृशानचौ - ननु मां कुर्वन्तं पश्य, ननु मां कुर्वाणं पश्येति॥ ननौ पृष्टदृ ॥ 120 ॥

Kashika

अनद्यतने परोक्ष इति निवृत्तम्। भूतसामान्ये विधिरयम्। ननुशब्द उपपदे प्रश्नपूर्वके प्रतिवचने भूतेऽर्थे लट् प्रत्ययो भवति। लुङोऽपवादः। अकार्षीः कटं देवदत्त? ननु करोमि भोः। अवोचस्तत्र किंचिद् देवदत्त? ननु ब्रवीमि भोः। पृष्टप्रतिवचन इति किम्? नन्वकार्षीन् माणवकः॥

Siddhanta Kaumudi

अनद्यतनपरोक्ष इति निवृत्तम् । भूते लट् स्यात् । अकार्षीः किम् । ननु करोमि भोः ॥

Balamanorama

ननौ पृष्टप्रतिवचने - ननौ पृष्ट । निवृत्तमिति । व्याख्यानादिति भावः । अकार्षीः किमिति प्रश्नः । ननु करोमीत्युत्तरम् । अकार्षमित्यर्थः । नन्विति संबोधने ।

Tattvabodhini

ननौ पृष्टप्रतिवचने - ननौ । पृष्टस्यप्रतिवचनमिति विग्रहः । समाहारद्वन्द्वे तूभयत्र स्यात्िष्यते च प्रतिवचने एव लट् । तदाह — ननु करोमीति । न च पृष्टग्रहणं व्यर्थं यावता प्रश्नपूर्वकमेव प्रतिवचनं भवतीति वाच्यम्, विरुद्धमपि वचनं प्रतिवचनं , चवनाभिमुख्यमपि प्रतिवचनमिति पृष्टग्रहणं कर्तव्यमिति कैयटे स्थितत्वात् ।

Padamanjari

ननौ पृष्टप्रतिवचने॥ पृष्टमिति कर्मणि क्तः, पृष्टस्य प्रतिवचनं पृष्टप्रतिवचनम्। वृतौ तु वस्तुमात्रं दर्शितम्। प्रश्नपूर्वके प्रतिवचन इति। उदाहरणे पूर्वशः प्रश्रः,उतर उदाहरणम्। पृष्टग्रहणार्थकं प्रश्नपूर्वकमेव प्रतिवचनम्? तन्न; विरुद्धमपि वचनं प्रतिवचनं वचनाभिमुखं प्रतिवचनमित्यपि सम्भवात्। तस्मात् पृष्टग्रहणम्। अत्यन्तासन्नकाले चायं विधिरिष्यते, तत्र निर्वृतायामपि पाकादिक्रियायां तत्कृतस्य श्रमादरेनुवृत्तिः। एवं च श्रमादिदर्शनेन सैव क्रिया वर्तत इति शक्यं वक्तुमिति।’वर्तमाने लट्’ इत्येव सिद्धेः प्रत्याख्यातमिदम -‘ननौ पृष्टप्रतिवचने’ इत्यशिष्यम्, क्रियासमाप्तेरविवक्षितत्वादिति॥

Nyaas

पृष्टप्रतिवचने इति। प्रश्नः = पृष्टम्, भावे निष्ठा। पृष्टपूर्वकप्रतिवचनं पृष्टप्रतिवचनम्, शाकपार्थिवादित्वन्मध्यमपदलोपी समासः। अनद्यतने परोक्ष इति निवृत्तम् इति। अस्वरितत्वात्। अकार्षीः कटं देवदत्त इत्येष प्रश्नः। ननु करोमि भोः`इत्येतत् प्रश्नपूर्वकं प्रतिवचनम्। `अवोचस्तत्र किञ्चिद्देवदत्त`इत्येष प्रश्नः। `ननु करोमि भोः`इत्येतत् प्रश्नपूर्वकं प्रतिवचनम्।`नन्वकार्षीत् इति। प्रश्नपूर्वकं प्रतिवचनं न भवतीति लुङेव भवति। ननु च प्रतिवचनं सर्वं प्रश्नपूर्वकमेवु, तदनर्थकं पृष्टग्रहणम्, व्यवच्छेद्याभावात्? नैतदिष्टम् ;प्रतिवचनशब्दोऽयमस्त्येव पृष्टान्वाख्याने - यः प्रश्नमन्तरेण न भवति; अस्त्यव्ययीभावे - वचनं वचनं प्रतिवचनम्, यथार्थे अव्ययम् (2.1.6) इति वीप्सायामव्ययीभावः;अस्ति समाधिवचनः - प्रतिपूर्वस्य वचेः समाधाविति दर्शनात्, तथा हि वक्तारो वदन्ति - यदननाभिहितं तन्मया प्रयुक्तमिति, परिष्कृतमित्यर्थः; तदेवमनेकार्थे प्रतिवचनशब्द-, यदि पृष्टग्रहणं न क्रियते सर्वेष्वर्थेषु स्यात्। अस्मस्तु क्रियमाणे प्रश्नपूर्वो यः प्रतिवचनशब्दः, स एव गृह्रते, नान्य इति न भव्तयानर्थक्यम्॥`नाकर्षम्िति। पूर्ववदम्भावः॥

Prakriyasarvasvam

ननुयोगे पृष्टप्रतिवचनेऽर्थे भूतमात्रेऽपि लट् स्यात् । अकार्षीः किम् ननु करोमि भोः ।