32115: परोक्षे लिट्

Padacheda: परोक्षे | S | 7 | 1 |

लिट् | S | 1 | 1 |

Sutrartha

अनद्यतन-परोक्ष-भूतकालं द्योतयितुम् लिट्-लकारस्य प्रयोगः भवति ।

‘अनद्यतन’ इत्युक्ते यत् अद्यतन न, तत् । ‘परोक्ष’ इत्युक्ते अक्ष्णः परः । अतः या अनद्यतने भूते जाता क्रिया वाक्यस्य वक्त्रा न दृष्टा, तां दर्शयितुम् लिट्-लकारस्य प्रयोगः क्रियते । यथा - रामः वनम् जगाम । कृष्णः कंसम् जहान । त्वं ह्यः गीतां पेठिथ । ज्ञातव्यम् - लिट्-लकारस्य प्रयोगः उत्तमपुरुषे अपि भवितुम् अर्हति । यत्र कर्ता स्वस्य ज्ञानं विना एव (सुप्तावस्थायाम् / संमोहन-अवस्थायाम् /मादकद्रव्यसेवनानन्तरं वा) किञ्चित् कार्यम् करोति, तत्र अनन्तरम् तस्य कार्यस्य निर्देशं कर्तुम् कर्ता लिट्-लकारस्य प्रयोगः कर्तुम् अर्हति । यथा - ‘सुप्तो ऽहं किल विललाप’ । इत्युक्ते - ‘यदा अहं सुप्तः आसम् तदा निद्रायां स्थितौ एव किञ्चित् उक्तवान् वा’ इति ।

Sutrartha (English)

लिट्-लकार is used to indicate an action which was done yesterday or before and which was not seen by the speaker of the sentence.

Vasu English Summary

The affix लिट् (Perfect Tense) comes after the verb in the sense of the past before the commencement of the current day and unperceived by the narrator.

Vasu English Translation

The affix लिट् (Perfect Tense) comes after the verb in the sense of the past before the commencement of the current day and unperceived by the narrator. The word परोक्ष ‘unperceived’ qualifies the words भूत ‘past’ and अनद्यतन ‘non-current day’ understood in this aphorism.

Well, are not the senses of verbs all unperceived, since they are mere words, and words cannot be perceived ? Exactly so; but in popular phraseology, the perception is imagined to attach to the agent with regard to certain verbs; this rule relates to cases where such perception does not take place. As, चकार ‘he did’; जहार ‘he took’.

It is evident that the लिट् (perfect) should not be used in the first person, i. e. when the agent of the action is the speaker or writer himself; for it is impossible that the action should not have been witnessed by him. But if by reason of some distracted, unconscious or absent state of mind, it is possible for the agent to speak of the action as one, of which he was not a conscious witness, the perfect may be used even in the first person. As सुप्तोऽहं किल विललाप ‘indeed I prated while asleep’.

Vart:- The perfect should be employed (in denoting past time simply, whether of the current day or otherwise, and whether the action has been witnessed personally or not) if the sense is total denial of the action. As कलिङ्गेषु स्थितोऽसि ? नाहं कलिङ्गम् जगाम ‘did you live in the Kalinga country ? I did not even go to the Kalinga country’; दक्षिणापथं प्रविष्टोऽसि ? नाहं दक्षिणापथं प्रविवेश.

Bhashya

परोक्षे लिट् (882) (515 लिडि्वधिसूत्रम्॥ 3 । 2 । 2 आदृ 16) (परोक्षशब्दसिध्यधिकरणम्) (आक्षेपभाष्यम्) परोक्ष इत्युच्यते। किं परोक्षं नाम?। (समाधानभाष्यम्) परमक्ष्णः परोक्षम्॥ (प्रश्नभाष्यम्) अक्षि पुनः किम्?। (समाधानभाष्यम्) अश्नोतेरयमौणादिकः करणसाधनः सिप्रत्ययः। अश्नुतेऽनेनेत्यक्षि। (आक्षेपभाष्यम्) यद्येवं परोक्षमिति प्राप्नोति। (दूषणपरिहारभाष्यम्) नैष दोषः॥ (3005 निपातनवार्तिकम्॥ 1 ॥) - परोभावः परस्याक्षे परोक्षे लिटि दृश्यताम्- (भाष्यम्) परशब्दस्याक्षशब्दे उत्तरपदे परोभावो वक्तव्यः॥ (3006 निपातनान्तरवार्तिकम्॥ 2 ॥) - उत्वं वादेः पारदक्ष्णः - (भाष्यम्) अथ वा परशब्दादुत्तरस्याक्षिशब्दस्योत्वं वक्तव्यम्॥ (3007 निपातनान्तरवार्तिकम्॥ 3 ॥) - सिद्धं वास्मान्निपातनात्- (भाष्यम्) अथ वा निपातनादेव सिद्धं परोक्षे लिड् इति॥ (परोक्षार्थविशेष्यविचाराधिकरणम्) (आक्षेपभाष्यम्) कस्मिन्पुनः परोक्षे लिड् भवति?। (समाधानभाष्यम्) काले। (समाधानबाधकभाष्यम्) न वैकालाधिकारोस्ति। (समाधानान्तरभाष्यम्) एवं तर्हि धातोः इति वर्तते, धातौ परोक्षे॥ (समाधानबाधकभाष्यम्) धातुर्वै शब्दः। न च शब्दस्य प्रत्यक्षपरोक्षतायां संभवोस्ति। (समाधानसाधकभाष्यम्) शब्देऽसंभवादर्थे कार्यं विज्ञास्यते - परोक्षे धातौउपरोक्षे धात्वर्थ इति॥ (आक्षेपभाष्यम्) कः पुनर्धात्वर्थः। (समाधानभाष्यम्) क्रिया क्रियायां परोक्षायामिति॥ (समाधानबाधकभाष्यम्) यद्येवं ह्योपचदित्यत्र लिट् प्राप्नोति। किं कारणम्?। क्रिया नामेयमत्यन्तापरदृष्टा अनुमानगम्याऽशक्या पिण्डीभूता निर्दर्शयितुम्। यथा गर्भो निर्लुठितः॥ (समाधानभाष्यम्) एवं तर्हि साधनेषु परोक्षेषु। (आक्षेपभाष्यम्) साधनेषु च परोक्षेषु भवतः कः संप्रत्ययः?। (समाधानभाष्यम्) यदि तावद् गुणसमुदायः साधनम्। साधनमप्यनुमानगम्यम्॥ (भाष्यम्) अथान्यद् गुणेभ्यः साधनम्, भवति प्रत्यक्षपरोक्षतायां संभवः॥ (आक्षेपभाष्यम्) अथ यदानेन रथ्यायां तण्डुलोदकं दृष्टं कथं तत्र भवितव्यम्, (समाधानभाष्यम्) यदि तावत्साधनेषु परोक्षेषु?। पपाचेति भवितव्यम्। भवन्ति हि तस्य साधनानि परोक्षाणि। (भाष्यम्) अत य एते क्रियाकृता विशेषाश्चीत्काराः फूत्काराश्च तेषु परोक्षेषु, एवमपि पपाचेति भवितव्यम्॥ (परोक्षकालनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) कथंजातीयकं पुनः परोक्षं नाम?। (समाधानभाष्यम्) केचित्तावदाहुः - वर्षशतवृत्तं परोक्षमिति॥ अपर आहुः - वर्षसहस्रवृत्तं परोक्षमिति॥ अपर आहुः - कुड्यकटान्तरितं परोक्षमिति॥ अपर आहुः - -द्व्यहवृत्तं त्र्यहवृत्तं चेति॥ (उत्तमपुरुषोपपादनाधिकरणम्) (आक्षेपभाष्यम्) सर्वथोत्तमो न सिध्यति॥ (3008 समाधानवार्तिकम्॥ 4 ॥) - सुप्तमत्तयोरुत्तमः- (भाष्यम्) सुप्तमत्तयोरुत्तम इति वक्तव्यम्। सुप्तोहं किल विललाप। मत्तोहं किल विललाप। सुप्तोन्वहं किल विललाप। मत्तोन्वहं किल विललाप॥ (परोक्षत्वाङ्गीकारभाष्यम्) अथ वा भवति वै कश्चिज्जाग्रदपि वर्तमानं कालं नोपलभते। तद्यथा वैयाकरणानां शाकटायनो रथमार्गे आसीनः शकटसार्थं यान्तं नोपलेभे। किं पुनः कारणं कश्चिज्जाग्रदपि वर्तमानकालं नोपलभते?. मनसा प्रयुक्तानीन्द्रियाण्युपलब्धौ कारणानि भवन्ति, मनसोऽसांनिध्यात्। (3009 लिडि्वधिवार्तिकम्॥ 5 ॥) - परोक्षे लिडत्यन्तापह्नवे च- (भाष्यम्) परोक्षे लिट् इत्यत्र अत्यन्तापह्नवे चेति वक्तव्यम्। नो खण्डिकान् जगाम। नोकलिङ्गाञ्ञ्जगाम। न कारिसोमं प्रपपावग्ने, न दार्वजस्य प्रतिजग्राह, को मे मनुष्यः प्रहरेद्वधाय॥ परो भावः परस्याक्षे परोक्षे लिटि दृश्यताम्। उत्वं वादेः परादक्ष्णः सिद्धं वास्मान्निपातनात्। परोक्षे लिट्॥ 115 ॥

Kashika

भूतानद्यतन इति वर्तते। तस्य विशेषणं परोक्षग्रहणम्। भूतानद्यतनपरोक्षेऽर्थे वर्तमानाद् धातोर्लिट् प्रत्ययो भवति। ननु च धात्वर्थः सर्वः परोक्ष एव? सत्यमेतत्। अस्ति तु लोके धात्वर्थेनापि कारकेषु प्रत्यक्षाभिमानः। स यत्र नास्ति, तत् परोक्षमित्युच्यते। चकार। जहार। उत्तमविषयेऽपि चित्तव्याक्षेपात् परोक्षता संभवत्येव। तद्यथा — सुप्तोऽहं किल विललाप॥ अत्यन्तापह्नवे च लिड् वक्तव्यः॥ कलिङ्गेषु प्रस्थितोऽसि? नाहं कलिङ्गान् जगाम। दक्षिणापथं प्रविष्टोऽसि? नाहं दक्षिणापथं प्रविवेश॥

Siddhanta Kaumudi

भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ॥

Laghu Siddhanta Kaumudi

भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात्। लस्य तिबादयः॥

Balamanorama

परोक्षे लिट् - परोक्षे लिट् । अनद्यतने लडित्यस्मादनद्यतन इत्यनुवर्तते । ‘भूते’ इत्यधिकृतम् । परोक्षत्वं धात्वर्थविशेषणम् । तदाह — भूतानद्यतनेत्यादिना । अतीतरात्रेरन्त्ययामेन आगमिरात्रेराद्ययामेन सहितो दिवसोऽद्यतन इति लुङ्सूत्रभाष्ये कैयटे स्थितम् । परोक्षत्वं तु वर्षशतवृत्तत्वमित्येके । वर्षसहस्रवृत्तत्वमित्यपरे । द्व्यहवृत्तत्वं, त्र्यहवृत्तत्वं चेत्यन्ये । कुड्यकटाद्यन्तरितत्वमितीतरे । एते पक्षा भाष्ये स्थिताः । तत्र प्रयोक्तुरिन्द्रियाऽगोचरत्वं परोक्षत्वमित्येव सर्वसंमतमित्यलम् । लस्य तिबादय इति । तिबादिनवकमित्यर्थः ।

Tattvabodhini

परोक्षे लिट् - यद्यप्यधिश्रयणादिव्यापाररूपा क्रिया सर्वा परोक्षैव.उक्तं हि भाष्ये — क्रिया नामेयमत्यन्ताऽपरिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितु॑मिति, तथापि तदनुकूलशक्तिमतां व्यापाराऽविष्टानां साधनानां परोक्ष्यमिह विव७#इतम् । तेन क्रियाऽनाविष्टसाधनमात्रप्रत्यक्षेऽपि लिङ्भवत्येव । अयं पपाच । त्वं पेचिथ॥ ननु क्रियाशब्दवाच्यादिश्रयणा[धः श्रयणा]दिव्यापाराणां युगपत्प्रत्यक्षविषयत्वेऽपि क्रमशः प्रत्यक्षविषयत्वमस्ति, यत्र तु क्रमशोऽपि प्रत्यक्षविषयत्वं नास्ति तत्र हि पारोक्ष्यं क्रियायाः, ततश्च लिडुत्तमपुरुषो दुर्लभ इति चेत् । अत्राहु - स्वव्यापारस्यापि वर्तमानतादशायां व्यासह्गादिना स्वयमप्रतिसन्धाने ततः कार्येणानुमितौ भवत्येव,बहु जगद पुरस्तात्तस्य मत्ता किलाह॑मितिवदिति ।

Padamanjari

परोक्षे लिट्॥ परोक्षशब्दोऽयमतीन्द्रियवाचो प्रसिद्धः। व्युत्पत्तिस्तु परमक्ष्णः परोक्षम्, मयूरव्यंसकादित्वात्समासः, ठच्प्रत्यन्ववपूर्वात्ऽ इत्यत्राजिति योगविभागादच् समासान्तः। वृत्तिविषये चाक्षिशब्दः सर्वेन्द्रियवचनः, न चक्षुः पर्यायः; अन्यथेन्द्रियान्तरविज्ञातं वस्तु परोक्षमापद्येत । एवं च कृत्वा दर्शनपर्यायोऽक्षिशब्दो न भवतीति ठक्ष्णोऽदर्शनात्ऽ इत्येवाच् समासान्तोऽस्तु। अन्ये तु’प्रतिपरसमनुभ्यो’ क्ष्णःऽ इति शरत्प्रभृतिषु पाठादच् समासान्त इत्याहुः। स च यद्यप्यव्ययीभावे विधीयते, तथापि परशब्देनाव्ययीभावासम्भवात्समासान्तरे विज्ञायते। एवं तु’क्रियायां परोक्षायाम्’ इति भाष्यप्रयोगे टिल्लक्षणो ङीप् प्राप्नोति, तस्मादजन्त एवायम्। तत्र परतः परशब्दस्य परो भावोऽस्मादेव निर्द्देशाद्भवति, परशब्दादुतरस्याक्षिशब्दस्यादेरुत्वं वा। ननु चेत्यादि। एकफलोद्देशेन प्रवृतत्वादैक्यमिवापन्ना विततरूपः क्षणप्रवाहो धात्वर्थः, स कार्त्स्न्येनैकस्मिन्क्षणे न सम्भवतीति सद्वस्तुविषयैरिन्द्रियैर्न गह्यते, ततश्चैकैकस्य क्रियाक्षणस्य प्रत्यक्षत्वेऽपि समूहरूपो धात्वर्थः सर्वः परोक्ष एव, ततश्चाव्यभिचारादविशेषणमिति भावः। सत्यमेतदिति। अनन्तरोक्तं मन्यते। किमर्थ तर्हि परोक्षग्रहणमित्याह - अस्त्विति। यत्र साधनशक्त्याश्रयभूतं फूत्कारसीत्कारादिविशिष्ट्ंअ संरब्धरूपं द्रव्यं प्रत्यक्षम्, तत्र धात्वर्थ एव प्रत्यक्षाभिमानो लौकिकानाम्। अभिमानःउमिथ्याज्ञानम्, तद्व्यावृतये परोक्षग्रहणम्। यदि तर्हि यत्र साधनशक्त्याश्रयं द्रव्यं परोक्षम्, तत्र लिङ् भवति तर्हि उतमो न प्राप्नोति, तत्र हि बुद्धीन्द्रियशरीरादिसंघातः कर्ता, स चात्मनः प्रत्यक्ष एव।’परस्मैपदानाम्’ इति तु णलादेशवचनं’णलुतमो वा’ इति च,’च्छन्दसि लुङ्लङ्लिटः’ ,ठत्यन्तापह्नवेऽ इति चापरोक्षे यो लिट् तद्विषयं भविष्यतीत्यत आह - उतमविषयेऽपि चितव्याक्षेपादिति। मदस्वप्नादिभिश्चिते व्याक्षिप्ते भवति वै कश्चित्स्वकृतमेव न जानाति, पश्चादेव त्वया कृतमिति पार्श्वस्थेभ्यः श्रुत्वा प्रयुंक्ते - सुप्तोऽहं किल विललापेति। किलेत्यज्ञानं सूचयति। अत्यन्तापह्नव इति। अपह्नवःउअलापः। कलिङ्गो नामजुगुप्सितो देशः, तत्र प्रविश्य त्वया चिरकालं स्थितमिति कश्चिदुक्तस्सन्नाह - नाहं कलिङ्गं जगामेति। न केवलमवस्थानमेव प्रतिषिध्यते, किं तर्हि? तद्धेतुभूतगमनमपीति भवत्यत्यन्तापह्नवः। तथा दक्षिणापथं प्रविश्यायाज्ययानादिकं त्वया कृतमिति कश्चिदुक्तः सन्नाह - नाहं दक्षिणापथं प्रविवेशेति। अत्राप्ययाज्ययाजनादेर्हेतुभूतः प्रवेश एव प्रतिषिद्ध्यत इत्यत्यन्तापह्नवः। क्वचित् दक्षिणापथं प्रविष्टोऽसीति वृतावेव पठ।ल्ते, तत्र प्रविश्येदं कृतवानित्यर्थः॥

Nyaas

ननु च इत्यादि। धात्वर्थो हि पूर्वापरीभूतावयवा साध्यमाना क्रिया। यच्च साध्यमानं तदसत्। तच्चासदिन्द्रियाणामविषयः, तेषां सद्विषयत्वात्। यच्चेन्द्रियाणामविषयः तत् परोक्षमिति स एव हि धात्वर्थः परोक्षः, ततः परोक्षग्रहणमनर्थकम्, व्यवच्छेद्याभावादिति भावः।सत्यमेतत् इति। यदनन्तरमुक्तम्। यदि सत्यमेतत् तदा कस्य व्यवच्छेदार्थं परोक्षग्रहणं कृतमित्याह - अस्ति तु इत्यादि। यत्र साध्यानि प्रत्यक्षाणि तत्रानिष्पन्ने क्रियात्मनि धात्वर्थे प्रत्यक्षाभिमानो लोकस्य भवति। ननु च सावधानान्यपि नैव प्रत्यक्षाणि;शक्तिस्वभावत्वात्, शक्तेश्च कार्यानुमेयत्वात्, न ह्रशक्तौ कार्यं करोतीति कार्यकरणे शक्तिरनुमीयते; तत् किमुच्यते साधनानि प्रत्यक्षाणि? नैष दोषः;`द्रव्याश्रिता हि शक्तयः`इति द्रव्यस्य प्रत्यक्ष्टवादाश्रयधममाश्रितेषु शक्त्यात्मकेषूपचार्याण्येतान्यपि प्रत्यक्षाणीत्युच्यन्ते। अथ वा - तदपि साधनाश्रयं द्रव्यशक्तिमतोर्भेदस्याविवक्षितत्वात् साधनशब्देनोच्यते; तदनेन परोक्षग्रहणेन प्रत्यक्षाभिमानोऽस्ति, स एव परोक्ष इच्युच्यते - तदाह - स यत्र नास्त इति। आत्मविषय उत्तमस्य च धात्वर्थस्य परोक्षत्वं नोपपद्यते; तत्साधनानां प्रत्यक्षत्वात्। तत्र लोकस्य प्रत्यक्षत्वात्, ततश्चोत्तमेन सिध्यतीति चोद्यमाशङ्क्याह - उत्तमविषये इत्यादि। आत्मसाध्या हि क्रिया, यत्र चित्तविक्षेपान्नोपपद्यते, तदासौ परोक्षा भवति, तेनोत्तमविषयेऽपि परोक्षभावः। तद्भवत्येव। विललाप इति। लपेर्विपूर्वस्योत्तमे णलि रूपम्।अत्यन्तापह्नवे इति। प्रत्यक्षमेतत्। अपह्नवः = अपलापः। स क्चिदत्यन्तो भवति यः सर्वापह्नवः, क्वचिदनत्यन्तो य एकदेशापह्नवः। तत्र योऽत्यन्तः स सर्वापह्नवः, तत्र लिड्वक्तव्य, व्याख्येय इत्यर्थः। व्याख्यानं त्विहापि बहुलग्रहणमाश्रित् कर्तव्यम्। कश्चित् केनचित् पृष्टः - कलिङ्गेषु प्रस्थितोऽसि`इत्यादि। स एवमाह - `नाहं कलिङ्गान् जगाम् इति। अत्र केवलं न कलिङ्गविषयस्यापह्नवोऽपि तु गमनस्यापीति विद्यतेऽत्यन्तापह्नवः। यस्तु स्थानमात्रस्यापह्नवो न गमनस्यापि , तदानत्यन्तापह्नवे लङेव भवति - न हि कलिङ्गेषु प्रत्यतिष्ठ इति। तथा कश्चित् केनचित् पृष्टः दक्षिणापथं प्रविश्य त्वयेदं कार्यं कृतमिति। स एवमाह - नाहं दक्षिणापथं प्रविवेश इति। अत्रापि विद्यतेऽत्यन्तापह्नवः। तथा हि - न केवलं दक्षिणापथपिषयं कार्यं प्रतिषिध्यते, अपि तु प्रवेशमपि॥

Prakriyasarvasvam

भूतानद्यतनपरोक्षेऽर्थे धातोर्लिट् स्यात् । पच् लिट्,

Vartika

अत्यन्तापह्नवे च लिड्वक्तव्यः ।

Sutra Prayogas

  • जगद (शिशुपालवधम्): परोक्षे लिट् इति लिट्।