Sutras 21 - 40¶
- 31021: मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्
- 31022: धातोरेकाचो हलादेः क्रियासमभिहारे यङ्
- 31023: नित्यं कौटिल्ये गतौ
- 31024: लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्
- 31025: सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्
- 31026: हेतुमति च
- 31027: कण्ड्वादिभ्यो यक्
- 31028: गुपूधूपविच्छिपणिपनिभ्य आयः
- 31029: ऋतेरीयङ्
- 31030: कमेर्णिङ्
- 31031: आयादय आर्धधातुके वा
- 31032: सनाद्यन्ता धातवः
- 31033: स्यतासी लृलुटोः
- 31034: सिब्बहुलं लेटि
- 31035: कास्प्रत्ययादाममन्त्रे लिटि
- 31036: इजादेश्च गुरुमतोऽनृच्छः
- 31037: दयायासश्च
- 31038: उषविदजागृभ्योऽन्यतरस्याम्
- 31039: भीह्रीभृहुवां श्लुवच्च
- 31040: कृञ् चानुप्रयुज्यते लिटि