31020: पुच्छभाण्डचीवराण्णिङ्

Padacheda: पुच्छ-भाण्ड-चीवरात् | S | 5 | 1 |

णिङ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix णिङ् , in the sense of making, comes after these words as the object of the action, viz. पुच्छ ‘tail’, भाण्ड ‘pot’ and चीवर ‘rag’.

Vasu English Translation

The affix णिङ् , in the sense of making, comes after these words as the object of the action, viz. पुच्छ ‘tail’, भाण्ड ‘pot’ and चीवर ‘rag’. Thus उत्पुच्छयते ‘he lifts up the tail’, (the sense must be that of lifting or throwing about); सम्भाण्डायते ‘he collects pots in a heap’; सञ्चीवरायते भिक्षुः ‘the beggar collects or wears rags’. Of the affix णिङ्, the effective portion is इ, the other letters are servile. The ङ indicates Atmanepada (1.3.12)and ण serves the purposes of the application of the rule (6.4.51) which applies generally to all affixes containing णि, such as णिङ्, णिच् &c.

Vart:- After the word पुच्छ् the sense of the affix is that of lifting or throwing about.

Vart:- After भाण्ड the sense of the affix is that of accumulation in a heap.

Vart:- After चीवर the sense of the affix is that of acquiring or wearing.

Kashika

करण इति वर्तते। पुच्छ भाण्ड चीवर इत्येतेभ्यो णिङ् प्रत्ययो भवति, करणविशेषे॥ पुच्छादुदसने पर्यसने वा॥ उत्पुच्छयते। परिपुच्छयते॥ भाण्डात् समाचयने॥ संभाण्डयते॥ चीवरादर्जने परिधाने वा॥ संचीवरयते भिक्षुः। ङकार आत्मनेपदार्थः। णकारः सामान्यग्रहणार्थः णेरनिटि (६.४.५१) इति॥

Siddhanta Kaumudi

।<!पुच्छादुदसने व्यसने पर्यसने च !> (वार्तिकम्) ॥ विविधं विरुद्धं वोत्क्षेपणं व्यसनम् । उत्पुच्छयते । विपुच्छयते । परिपुच्छयते ।<!भाण्डात्समाचयने !> (वार्तिकम्) ॥ संभाण्डयते । भाण्डानि समाचिनोति । राशीकरोतीत्यर्थः । समवभाण्डत ।<!चीवरादर्जने परिधाने च !> (वार्तिकम्) ॥ संचीवरयते भिक्षुः । चीवराण्यर्जयति । परिधत्ते वेत्यर्थः ॥

Balamanorama

पुच्छभाण्डचीवराण्णिङ् - पुच्छभाण्ड । पुच्छादुदसने इति वार्तिकम् । उत्पुच्छयते इति । विविधं विरुद्धं वा पुच्छमुत्क्षिपतीत्यर्थः । भाण्डात्समाचयने - इत्यपि वार्तिकम् । समबभाण्डतेति । उपसर्गसमानाकरां पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते इत्युक्तत्वात्संभाण्डशब्दात्क्यङ्यपि भाण्डशब्दात्प्रागेवाऽडिति भावः । एवमुदपुपुच्छतेत्यादावपि । चीवरादर्जने इत्यपि वार्तिकम् ।

Tattvabodhini

पुच्छभाण्डचीवराण्णिङ् - पुच्छभाण्ड ।करणे॑ इत्यनुवृत्तेरत्रापि क्रियाविशेष एव णिङ् । तमेव विशेषं दर्शयति — पुच्चादित्यादिना । ङकारोऽत्रणेरनिटी॑ति णिङ्णिचोः सामान्यग्रहणार्थो, नित्यात्मनेपदार्थश्च । उदपुपुच्छत ।

Padamanjari

पुच्छभाण्डचीवराण्णिङ्॥ पुच्छादुदसने पर्यसने वेति। उदसनमूत्क्षेपणम्। पर्यसनमुपरितः क्षेपणम्। उत्पुच्छयत इति। ननु यथाऽऽचारे क्यङ् इविहिते आङ्ः प्रयोगो न भवति, तत्कस्य हेतोः? आङ्विशिष्टस्यैव चरत्यर्थस्य क्यङभिधानात्, तद्वदिहाप्युत्क्षेपणे णिङे विधानादुदः प्रयोगो न प्राप्नोतीति? अस्त्यत्र विशेषः - पर्यसनेऽप्ययं विधीयते। तत्रोदसनं द्योतयितुमुच्छब्दः, पर्यसनं द्योतयितुं परिशब्दश्च प्रयोक्तव्यः। समाचयनमुराशीकरणम्, अर्जनमु द्रव्यलाभोपायः, याच्ञादि। ङ्कार आत्मनेपदार्थ इति। तेनोतरसूत्रे पुच्छादयो न शक्याः पठितुमिति भावः॥

Nyaas

पुच्छात् इत्यादि। उदसनम् = ऊध्र्वक्षेपणम्, पर्यसनम् = परितः क्षेपणम्। यदोदसने प्रत्ययस्तदा तस्य द्योतनार्थ उच्छब्दः प्रयुज्यते - उत्पुच्छयते इति। यदा पर्यसने प्रत्ययस्तदा परिशब्दः - परिपुच्छयते इति। णाविष्ठवत् कार्यम् प्रातिपदिकस्य (वा।813) इतीष्ठवद्भाववाट्टिलोपः। समाचयनम् - राशीकरणम्। अर्जनम् = अलब्धस्य लाभः। परिधानम् = आच्छादनम्॥

Prakriyasarvasvam

ङस्तङर्थः । “पुच्छादुदसने व्यसने पर्यसने वा” (वा) उत्पुच्छयते । परिपुच्छयते ः पुच्छमधःकरोति विपुच्छयते श्वा । “भाण्डात् समाचयने” (वा) । सम्भाण्डयते वणिक् । विभाजने चेति शृङ्गारे । विभाण्डयते । ‘चीवरादार्जने परिधाने वा’ (वा) । सञ्चीवरयते भिक्षुः । अन्तर्भावितण्यर्थेऽपि । उत्पुच्छयते गाम् । एषु ‘णाविष्ठवत् प्रातिपदिकस्य’ इतीष्ठवत्कार्येण टिलोपादिकारनिवृत्तिर्ज्ञेया । एषां चङि-उदपुपुच्छत् । समबभाण्डत । समचिचीवरत । उत्पुच्छ्यतेः क्वौ णिलोपे उत्पुच्छ् । सौ हल्ङ्यादिलोपे छस्य संयोगान्तलोपे च कृते—पुतं छादयतीति व्युत्पत्त्या तकारः श्रूयते । उत्पुत् गौः । उत्पुच्छौ । उत्पुच्छः ।

Vartika

भाण्डात्समाचयने ।

Sutra Prayogas

  • संभाण्ड्य (भट्टिकाव्यम्): पुच्छ - भाण्ड इत्यादिना णिङ्।

  • अ-कृष्य-फल-भोजनाम् (भट्टिकाव्यम्): विभाषा कृ-वृषोः इति क्यप्।