31023: नित्यं कौटिल्ये गतौ

Padacheda: नित्यम् | S | 1 | 1 |

कौटिल्ये | S | 7 | 1 |

गतौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix वङ् invariably comes in the sense of ‘crookedness’ after a simple verb expressing motion.

Vasu English Translation

The affix वङ् invariably comes in the sense of ‘crookedness’ after a simple verb expressing motion. Thus क्रम् ‘to move’, चङ्क्रम्यते ‘he moves crookedly’. So also दन्द्रम्यते. After a verb of motion, the यङ् never expresses intensity or repetition; so if the latter sense is to be expressed, a phrase must be employed; as भृशं क्रामति ‘he wanders much’. This is inferred from the word नित्य used in the sutra i. e. यङ् always has the sense of crookedness and no other sense after a verb of motion.

Bhashya

नित्यं कौटिल्ये गतौ (2634) लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् 6.1.14 ॥ (1768 नित्यग्रहणानर्थक्यवार्तिकम् ॥ 7 ॥) - उत्तरयोर्विग्रहेण विशेषासंप्रत्ययान्नित्यग्रहणानर्थक्यम्- (भाष्यम्) उत्तरयोर्योगयोर्विग्रहेण विशेषस्यासंप्रत्ययान्नित्यग्रहणमनर्थकम्। नहि कुटिलं क्रामतीति चङ्क्रम्यत इति गम्यते ॥ (अनुयोगभाष्यम्) अथैतेभ्यः क्रियासमभिहारे यङा भवितव्यम् ॥ (1769 समाधानवार्तिकम् ॥ 8 ॥) - क्रियासमभिहारे च नैतेभ्यः- (भाष्यम्) क्रियासमभिहारे च नैतेभ्यो यङा भवितव्यम् भृशं जपति ब्राह्मणः, भृशं समिधो दहतीत्येव ॥ धातोरेकाचो ॥ 22 ॥

Kashika

गतिवचनाद् धातोःकौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययो भवति। कुटिलं क्रामति, चङ् क्रम्यते। दन्द्रम्यते। नित्यग्रहणं विषयनियमार्थम्, गतिवचनान्नित्यं कौटिल्य एव भवति, न तु क्रियासमभिहारे। भृशं क्रामति॥

Siddhanta Kaumudi

गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ॥

Laghu Siddhanta Kaumudi

गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे॥

Tattvabodhini

नित्यं कौटिल्ये गतौ - नित्यं कौटिल्ये ।नित्यं॑ शब्दोऽवधारणार्थक इत्याह — कौटिल्य एवति । तक्रकौण्डिन्यन्यायेनैवेष्टे सिद्धे नित्यग्रहणं तस्य न्यायस्याऽनित्यत्वज्ञापनार्थम् । तेनमतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तेनाऽबाधनात्पूजार्थेभ्यो भूते क्तः सिध्यति । ततश्चक्तस्य च वर्तमाने॑ इति षष्ठी न प्रवर्तत इतिपूजितो यः सुरासुरै॑रिति तृतीया साधुरेव । इत्यादीति । जंजभ्यते । दंदह्रते । दंदश्यते । बंभज्यते ।पस॑धातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति स्पश बाधनस्पर्सनयोरित्यत्र माधवः । पंपस्यते । काशिकायां तु तालव्यान्तः क्वचिद्दृश्यते । एवं जञ्जभीति । दन्दहीतीत्यादि यङ्लुकि उदाहर्तव्यम् ।

Padamanjari

नित्यं कौटिल्ये गतौ॥’धातोः’ इति वर्ते, गताविति तस्य विशेषणम्, गतौ वर्तमानाद्धातोरिति। कौटिल्ये इति। संनिधानाद् गतिविषयमेव कौटिल्यं गम्यते। चक्रम्यते, दन्द्रम्यत इति’क्रमु पादविक्षेपे’ , द्रम मीमृ गतौ,’नुगता’ नुनासिकान्तस्यऽ, योऽल्पीयस्यध्वनि गतागतानिकरोति स कुटिलां गति सम्पादयन्नेवमुच्यते। नित्यग्रहणमनर्थकम्, अनभिधानादेव वाक्यं न भविष्यति, न हि चंक्रम्यत इति वृतेरर्थ कुटिलं क्रमातीति वाक्यं शक्नोति गमयितुम्; संशयो हि वाक्याद्भवति - किं गतिकौटिल्यम्? उत वक्रहृदयत्वनिबन्धनं जिह्वाचरणमिति? वृतौ तु गतिकोटिल्यमेव नियतं गम्यते, कौटिल्यमात्रप्रतिपादने च वाक्यं निवारयितुमशक्यमनिष्ट्ंअ चात आह - नित्यग्रहणं विषयनियमार्थमिति। गतिकौटिल्यं विषयः, तत्रैव यङ् यथा स्यादित्येवमर्थमित्यर्थः, तदाह - गतिवचनान्नित्यं कौटिल्य एव भवतीति। व्यवच्छेद्यं दर्शयति - न तु क्रियासमभिहार इति। ननु यथा’वडवाया वृषे वाच्ये’ इत्यपत्येप्राप्तस्ततोऽपकृष्य विधीयते, यथा वा’ञीतः क्त’ भूते प्राप्तस्ततोऽपकृष्य वर्तमाने विधीयते, एवमत्रापि धातुमात्रात्क्रियासमभिहारे यङ् विहितः, गतिवचनात् तु कौटिल्य इति? तक्रकौडिन्यन्यायेनैव बाधः सिद्धः। यथा वा विवक्षितार्थानभिधानाद्वाक्यं न भवति तथा समभिहारानवगमाद्त्र प्रत्ययो न भविष्यति। अथैवमपि वचनापेक्षा? वाक्यनिवृतावपि वचनमपेक्षस्व! तदेतन्नित्यग्रहणं चिन्त्यप्रयोजनम्॥

Nyaas

धातोरित्येव। गतौ इति। प्रकृतिविशेषणमेतत्। गतौ वर्तमानाद्धातोरित्यर्थः। अमुमेवार्थं पर्यायान्तरेणाचष्टे - गतिवचनाद्धातोः इति। चंक्रकम्यते, दंद्रम्यते इति। क्रमु पादविक्षेपे (धा।प।473), द्रम हम्म मीमृ गतौ (धातुपाठः-466, 467, 468) नुगतोऽनुनासिकान्तस्य (7.4.85) इति नुमागमः। योऽल्पीयस्यध्वनि गतागतानि करोति स कुटिलां गतिं सम्पादयन् चंक्रभ्यते देद्रम्यत इति चोच्यते। अथ नित्यग्रहणं किमर्थम्, यावताऽनभिदानादेवात्र वाक्यं न भविष्यति? न हि चङक्रम्यत इति वृत्तेरर्थं कुटिलं क्रामतीति वाक्यं शक्नोति गमयितुम्। तथा हि कुटिलं क्रामतीति वाक्यात् संशयो भवति - किं गतिकौटिल्यम्? उत मनः - कौटिल्यमिति? चंक्रम्यत इति वृत्तौ त्वसंशयं गतिकौटिल्यमेव गम्यते, इत्याह - नित्यग्रहणम् इत्यादि। गतिकौटिल्यं विषयः। तत्र यङो नियमोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। गतिवचनात् इत्यादिना नियमस्य प्रयोजनं दर्शयति। न तु इत्यादिना तद्व्यवच्छेद्यम्। नित्यम् = सर्वकालं गतिवचनात् कौटिल्य एव भवति, न तु कदाचित् क्रियासमभिहारे। तेन भृशं क्रामति इति क्रियासमभिहारे पूर्वेण प्राप्तो यङ् न भवति।

Prakriyasarvasvam

गत्यर्थेभ्यः कौटिल्यार्थे एव यङ् स्यात्, न क्रियासमभिहारे । यायायते । कुटिलं यातीत्यर्थः । गतागतकरणमपि कौटिल्यमिति हरः । अट्यर्त्योरपि गत्यर्थत्वात् कौटिल्य एव यङ् । शङ्करस्तु गत्यर्थेभ्यो यङ् क्रियासमभिहारार्थमपि बहुशो व्याचष्ट । तत्किमिति न जानीमः । गमेः कौटिल्ये यङ् । द्वित्वम् । हलादिशेषः । गगम्य ।

Sudha

नित्यं कौटिल्य इति । नित्यशब्दः एवार्थे । कौटिल्ये इत्यस्योपरि द्रष्टव्यः । धातोरेकाचः (3.1.22) इत्यतो यङित्यनुवर्तते । तदाह — गत्यर्थात्कौटिल्य एविति ।

Sutra Prayogas

  • चंक्रमा (भट्टिकाव्यम्): नित्यं कौटिल्ये गतौ इति यङ्।