31036: इजादेश्च गुरुमतोऽनृच्छः

Padacheda: इजादेः | S | 5 | 1 |

च | S | 0 | 0 |

गुरुमतः | S | 5 | 1 |

अनृच्छः | S | 5 | 1 |

Sutrartha

इजादिः गुरुमान् च यः धातुः, तस्य लिट्-लकारे परे आम् प्रत्ययः भवति । परन्तु ऋच्छ्-धातोः विषये अयं प्रत्ययः न भवति ।

‘ऋच्छ्’ धातुं विहाय अन्ये ये इजादि-गुरुमत्-धातवः, तेषां लिट्लकारस्य विषये ‘आम्’ प्रत्ययः भवति । किम् नाम ‘इजादिः गुरुमान् धातुः’ ? - 1. यस्य धातोः आदिवर्णः ‘इच्’ प्रत्याहारस्य वर्णः (इत्युक्ते अवर्णं विहाय कश्चन अन्यः स्वरः) अस्ति, सः धातुः इजादिः अस्ति इत्युच्यते । 2. यस्मिन् धातौ कश्चन वर्णः गुरुसंज्ञकः अस्ति, सः धातुः गुरुमान् धातुः अस्ति इत्युच्यते । (किम् नाम गुरुसंज्ञकः वर्णः? - दीर्घं च (1.4.12) इत्यनेन दीर्घः स्वरः नित्यं गुरुसंज्ञकः भवति । तथा च, संयोगे गुरु (1.4.11) इत्यनेन ह्रस्वः स्वरः अपि अग्रे संयोगः अस्ति चेद् गुरुसंज्ञकः भवति ।) 3. यः धातुः इजादिः गुरुमान् च अस्ति, सः ‘इजादिः गुरुमान्’ इति नाम्ना ज्ञायते । कानिचन उदाहरणानि - इन्व्, ईक्ष्, उम्भ्, ऊष्, ऋम्फ्, ॠ, एध्, ओख् । एतादृशानाम् धातूनाम् लिट्लकारस्य प्रत्यये परे ‘आम्’ इति प्रत्ययः भवति । परन्तु ‘ऋच्छ्’ अस्य विषये अयम् प्रत्ययः न भवति । अत्र एतत् स्मर्तव्यम् यत् ‘आम्’ इत्यत्र मकारः इत्संज्ञकः नास्ति । अतः ‘आम्’ इति ‘मित्’ नास्ति, अतः अयमागमः अपि नास्ति । उदाहरणम् एतम् - एध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एध् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → एध् + आम् + ल् [इजादेश्च गुरुमतोऽनृच्छः (3.1.36) इति आम्-प्रत्ययः] → एध् + आम् [आमः (2.4.81) इति लकारस्य लुक्] → एध् + आम् + चक्रे [कृञ्चानुप्रयुज्यते लिटि (3.1.40) इति कृ-धातोः अनुप्रयोगः । आम्प्रत्ययवत् कृञोनुप्रयोगस्य (1.3.63) इति तस्य आत्मनेपदम् । तस्य प्रथमपुरुषैकवचनम् ‘चक्रे’ इति] → एधांचक्रे [मोऽनुस्वारः (8.3.23) इति मकारस्य अनुस्वारः] → एधाञ्चक्रे [अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः] एवमेव अन्येषाम् धातूनाम् रूपाणि अपि एतादृशमेव सिद्ध्यन्ति । यथा - 1) इन्व् - इन्वाञ्चकार [अत्र धातुः परस्मैपदी अस्ति अतः कृ-धातोः परस्मैपदम् भवति ।] 2) ईक्ष् - ईक्षाञ्चक्रे 3) ऊष् - ऊषाञ्चकार 4) ॠ - अराञ्चकार ‘ऋच्छ्’ धातोः विषये अयम् प्रत्ययः न भवति, अतः अस्य लिट्-लकारस्य रूपाणि ‘आनर्च्छ, आनर्च्छतुः, आनर्च्छुः’ इति भवन्ति ।

Sutrartha (English)

A verb which can be called as ‘इजादिः गुरुमान्’ gets an आम् प्रत्यय when followed by लिट्-लकार. However, this प्रत्यय is not seen for the verb root ऋच्छ्.

Vasu English Summary

The affix आम् is used when लिट् (Perfect Tense) follows after a root beginning with a letter of इच् प्रत्यहार and having a heavy vowel, excepting the root ऋच्छ ‘to go’.

Vasu English Translation

The affix आम् is used when लिट् (Perfect Tense) follows after a root beginning with a letter of इच् प्रत्यहार and having a heavy vowel, excepting the root ऋच्छ ‘to go’. Thus ईह् ‘to try’, ईहाञ्चक्रे ‘he tried’; so also ऊहाञ्चक्रे ‘he guessed’, एधाञ्चक्रे ‘he grieved’.

But ऋच्छ् forms आनर्च्छ ‘he failed or went’. This applies to monosyllabic roots which begin with any vowel prosodially long, except अ or आ. The verb ऊर्ण ‘to cover’ is, however, an exception; its perfect is ऊर्णुनाव ‘he covered’.

Why do we say ‘beginning with इच् or any vowel except अ or आ’ ? Observe अर्द, Perfect आनर्द (7.4.71). Why do we say ‘heavy vowel’ ? Observe उख्, Perf. उवोख (6.4.78) ऊखतुः, ऊखुः. Why do we say ‘vowel’ ? Observe कुर्द, Perf. चुकुर्दे; षूद्, Perf. सुषूदे.

Bhashya

इजादेश्च गुरुमतोऽनृच्छः (653) (409 आम्प्रत्ययविधिसूत्रम्॥ 3.1.3 आ. 8) (1809 आक्षेपवार्तिकम्॥ 1 ॥) - गुरुमत आम्विधाने लिण्निमित्तात् प्रतिषेधः- (भाष्यम्) गुरुमत आम्विधाने लिण्निमित्ताद् गुरुमतः प्रतिषेधो वक्तव्यः। इयेष उवोष। गुणे कृते इजादेश्च गुरुमतोनृच्छ इत्याम् चप्रसज्जेत॥ (प्रत्याक्षेपभाष्यम्) गुरुमद्वचनमिदानीं किमर्थं स्यात्?। (1810 प्रत्याक्षेपबाधकवार्तिकम्॥ 1 ॥) - गुरुमद्वचनं किमर्थमिति चेद् णल्युत्तमे यजादिप्रतिषेधार्थम्- (भाष्यम्) गुरुमद्वचनं किमर्थमिति चेण्णलि उत्तमे यजादीनां मा भूदीति। इयज अहम्॥ उवप अहम्॥ (1811 आक्षेपबाधकवार्तिकम्॥ 2 ॥) - उपदेशवचनात्सिद्धम्- (भाष्यम्) उपदेशे गुरुमत इति वक्तव्यम्॥ (आक्षेपभाष्यम्) यद्युपदेशग्रहणं क्रियते उच्छेराम् वक्तव्यः। व्युच्छांचकारेति। (1812 आक्षेपबाधकवार्तिकम्॥ 3 ॥) - ऋच्छिप्रतिषेधो ज्ञापक उच्छेराम्भावस्य - (भाष्यम्) यदयमनृच्छः इति प्रतिषेधं शास्ति तद् ज्ञापयत्याचार्यः - तुङि्नमित्ता यस्य गुरुमत्ता भवति तस्मादाम् इति॥ (गौरवापत्तिभाष्यम्) स तर्हि ज्ञापकार्थ ऋच्छिप्रतिषेधो वक्तव्यः?॥ (अनन्यासिद्धफलसाधकत्वेन गौरवाङ्गीकारभाष्यम्) ननु चावश्यं प्राप्त्यर्थोऽपि वक्तव्यः?॥ (फलस्यान्यथासिध्या गौरवसाधकभाष्यम्) नार्थः प्राप्त्यर्थेन। ऋच्छत्यॄताम् इति ऋच्छेर्लिटि गुणवचनं ज्ञापकम् - र्नच्छेर्लिट्याम् भवतिइति॥ (अन्यथासिध्यनुपपत्तिभाष्यम्) नैतदस्ति ज्ञापकम्। अर्त्यर्थमेतस्यात्॥ (प्रश्नभाष्यम्) कथं पुनर्ऋच्छेर्लिटि। गुण उच्यमानोऽर्त्यर्थः शक्यो विज्ञातुम्?। (समाधानभाष्यम्) सार्मथ्यात्। ऋच्छिर्लिटि नास्तीति कृत्वा प्रकृत्यर्थो विज्ञास्यते। तद्यथा - तिष्ठतेरित् जिघ्रतेर्वे ति। चङि तिष्ठतिजिघ्रती न स्त इति कृत्वा प्रकृत्यर्थो विज्ञायते॥ (अनुयोगभाष्यम्) किं पुनरर्तेर्लिटि गुणवचने प्रयोजनम्?। (उत्तरभाष्यम्) आरतुः। आरुः । एतद्रूपं यथा स्यात्॥ (अनुयोगभाष्यम्) किं पुनः कारणं न सिध्यति?। (गुणवचनावश्यकताभाष्यम्) द्विर्वचने कृते (सवर्णदीर्घत्वम्) सवर्णदीर्घत्वे च (कृते) यदि तावद्धातुग्रहणेन ग्रहणम्, ऋकारान्तानां लिटि गुणो भवतीति गुणे कृते रपरत्वे च अरतुः अरुरित्येतद्रूपं प्रसज्येत॥ अथाभ्यासग्रहणेन ग्रहणम्। उरदत्वे रपरत्वम् हलादिशेषः। अत आदेरिति दीर्घत्वम् तत आतो लोप इटिच इत्याकारलोपे अतुः उरिति वचनमेव श्रूयेत॥ गुणे पुनः सति गुणे कृते रपरत्वे च द्विर्वचनम् हलादिः शेषः अत आदेरिति दीर्घत्वम् ततः सिद्धं भवति - -आरतुरारुरिति। यथा आटतुः आटुरिति॥ (अनुयोगपूर्वकमारतुरित्यादिसिद्धिभाष्यम्) किं पुनः कारणं सवर्णदीर्घत्वं तावद्भवति न पुनरुस्त्वम्॥ परत्वादुस्त्वेन भवितव्यम्॥ (गुणविधानावश्यकाभाष्यम्) अन्तरङ्गत्वात्सवर्णदीर्घत्वं प्राप्नोति। अन्तरङ्गं सवर्णदीर्घत्वं बहिरङ्गमुरत्वम्। कान्तरङ्गता। वर्णावाश्रित्य सवर्णदीर्घत्वमङ्गस्योरत्त्वम्॥ (गुणानावश्यकताभाष्यम्) उस्त्वमप्यन्तरङ्गम्। कथम्?। वक्ष्येत्येतत्प्रागभ्यासविकारेभ्योऽङ्गाधिकारइति। उभयोरन्तरङ्गयोः परत्वादुस्त्वम्। उस्त्वे च कृते रपरत्वम् हलादिः शेषः अत आदे रिति दीर्घत्वं परस्य रूपस्य यणादेशः सिद्धं भवति - आरतुः आरुरिति। (गुणस्यान्यथासिद्धिप्रतिपादनभाष्यम्) अथापि कथं चिदर्तेर्लिटि गुणेनार्थः स्यात्। एवमपि न दोषः ऋच्छत्यॄताम् इति ऋकारोऽप्यत्र निर्दिश्यते। कथम्। प्रश्लिष्टनिर्देशोऽयम् - -ऋच्छति ऋऋताम् - ऋच्छत्यॄतामिति॥ (आक्षेपभाष्यम्) इहापि तर्हि प्राप्नोति - -चक्रतुश्चकुरिति। (समाधानभाष्यम्) संयोगादिग्रहणं नियमार्थं भविष्यति - संयोगादेरेवाकेवलस्य नान्यस्याकेवलस्येति॥ (आक्षेपभाष्यम्) तदेतदन्तरेणार्तेर्लिटि गुणवचनं, रूपं सिद्धं भवति। अन्तरेण च ऋच्छिग्रहणमर्तेर्लिटि गुणः सिद्धः स एषोऽनन्यार्थ ऋच्छिप्रतिषेधो वक्तव्यः। उच्छेर्वा आम् वक्तव्यः। (सिद्धान्तभाष्यम्) उभयं न वक्तव्यम्। उपदेशग्रहणं न करिष्यते॥ कस्मान्न भवति - इयेष उवोषेति॥ (1893 वार्तिकम्॥ 4 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्?। सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति। (1894 प्रतिषेधवार्तिकम्॥ 5 ॥) - ऊर्णोतेश्चोपसंख्यानम्- (भाष्यम्) ऊर्णोतेश्चोपसंख्यानं कर्तव्यम् प्रोर्णुनाव॥ (प्रत्याख्यानभाष्यम्) न कर्तव्यम्, वाच्य ऊर्णोर्णुवद्भावे यङ्प्रसिद्धिः प्रयोजनम्। आमश्च प्रतिषेधार्थमेकाचश्चेड्डपग्रहात्॥ अथ वा उकारोऽप्यत्र निर्दिश्यते। कथम्?। अविभक्तिको निर्देशः - अनृच्छ उ अनृच्छो दया यासश्चेति॥ इजादेश्च॥ 36 ॥

Kashika

इजादिर्यो धातुर्गुरुमान् ऋच्छतिवर्जितः, तस्माच्च लिटि परत आम् प्रत्ययो भवति। ईह चेष्टायाम्, ऊह वितर्के। ईहाञ्चक्रे। ऊहाञ्चके्र। इजादेरिति किम्? ततक्ष। ररक्ष। गुरुमत इति किम्? इयज। उवप। अनृच्छ इति किम्? आनर्च्छ, आनर्च्छतुः, आनर्च्छुः॥ ऊर्णोतेश्च प्रतिषेधो वक्तव्यः॥ प्रोर्णुनाव। अथवा —

वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम्।

आमश्च प्रतिषेधार्थम् एकाचश्चेडुपग्रहात्॥

Siddhanta Kaumudi

इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि । आमो मकारस्य नेत्त्वम् । आस्कासोरामूविधानाज्ज्ञापकात् ॥

Laghu Siddhanta Kaumudi

इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि॥

Balamanorama

इजादेश्च गुरुमतोऽनृच्छः - इजादेश्च । नञ ऋच्छ इत्यनेन समासेऽनृच्छ इत्यस्मात्पञ्चमी । ‘धातोरेकाच’ इत्यतो धातोरित्यनुवर्तते ।कास्प्रत्यया॑दित्यत आमिति,लिटीति चानुवर्तते तदाह — इजादिरित्यादिना । आस्कासोरिति ।कास्प्रत्ययादाममन्त्रे लिटी॑ति ,दयायासश्चे॑ति च कास्धातोः, आस्धातोश्चलिटि आम्विहितः । तत्र मकारस्य इत्संज्ञकत्वे ‘मिदचोऽन्त्यात्पर’ इति आकारादाकारान्तरं स्यात् । ततश्च सवर्णदीर्घे कृते कास् आस् इत्येव भवतीति आम्विधिरनर्थकः स्यात् । अत आमो मकारस्य नेत्संज्ञेति विज्ञायत इत्यर्थः । तथा च एध् आम् ल इति स्थिते —

Tattvabodhini

इजादेश्च गुरुमतोऽनृच्छः - ॒धातोरेकाचः॑ इत्यतो धातुग्रहणंकास्प्रत्यया॑दित्यत आम् लिटीति चानुवर्तत इत्याह - इजादिर्यो धातुरित्यादि । गुरुमान् किम् । इयेष । ऋच्छेस्त्वानच्र्छ॥

Padamanjari

इजादेश्च गुरुमतोऽनृच्छः॥ ऋच्छतिवर्जित इति। ऋच्छतिना त्यक्तः तद्रूपरहित इत्यर्थः। ऋच्छतेरन्य इति यावत्। इयज, उवपेति। यजिवप्योरुतमे णलि’णलुतमो धा’ इति णित्वाभावपक्षे वृद्ध्यभावाद् गुरूपोतमत्वाभावः। अथ थलि प्रत्युदाहरणम् - इयजिथ, इयष्ठ; उवपिथ, उवप्थेति। नन्वत्र सन्निपात परिभाषयैव न भविष्यति, लिट्सन्निपातजं हि अभ्यासम्य संप्रसारणं तद्विघातकस्यामो निमितं न भवति, आमि हि सति लेर्लुका भवितव्यमिति लिट्सन्निपातमसौ विहन्यात्? इदं तर्हि प्रत्युदाहरणम् - इयेषेति, न ह्यत्र लिट्सन्निपातजमिजादित्वम्। अथ क्रियमाणेऽपि गुरुमद्ग्रहणे कस्मादेवात्र न भवति, यावता गुणे कृते गुरुमानेष भवति? एवमीषतुरित्यादावपि सवर्णदीर्धत्वे कृते गुरुमानेव भवति? सत्यम्; सति गरुमद्ग्रहणे सन्निपातपरिभाषयैवात्राप्याम् न भवति, लिडानन्तर्यहेतुकत्वाद् गुरुमतायाः। अथ वा’गुरुनतः’ इति नित्ययोगे मतुप्, नित्यं यस्य गुरुणाभिसम्बन्धः। यद्येवम्, ठुछी विवासेऽ व्युच्छाञ्चकार, ठुच्छ उञ्छेऽ उच्छाञ्चकार आगमनिमिता चास्य गुरुमता, तस्मादाम् न प्राप्नोति? ज्ञापकात्सिद्धम्, यदयमनृच्छ इत्याह, तज्ज्ञापयति - भवत्येवञ्जातीयके आमिति। स तर्हि ज्ञापकार्थमृच्छतिप्रतिषेधो वक्तव्यो भवति। ननु चचाम्निवृत्यर्थ एवासौ कर्तव्यः, नार्थ आम्निवृत्यर्थेन? ज्ञापकात्सिद्धम्, यदयम् ठृच्छत्यृताम्ऽ इति लिटि परतो गुणं शास्ति, तज्ज्ञापयति - नास्मादाम् भवतीति। न च तत्रर्छतीत्यर्तेश्तिपानिर्द्देशः; ठृच्छति ऋ ऋताम्ऽ इत्यर्तेरपि स्वरूपेणैव प्रश्लेषात्। प्रश्लेषे बहुवचनमत्र प्रमाणम्। अर्तेश्च लिटि गुणवि धाने प्रयोजनं तत्रेव वक्ष्यामः। तस्माद्दच्छतेर्गुणविधानं ज्ञापकमेव। तस्मादाम्न भवतीति स एषोऽनृच्छ इति प्रतिषेधो ज्ञापकार्थ एव कर्तव्यः स्यात्। एवं हि लिटीति विहितविशेषणम् - इजादेर्गुरुमतो यो लिड्विहितस्तत्रेति। तेन लिड्निमिता यस्य गुरुमता तस्माच्च न भविष्यति, आगमनिमिता यस्य गुरुमता तस्माच्च भविष्यति। ठनृच्छऽ इति प्रतिषेधस्तु क्रियताम्, मा वा कारि। क्वचितु गुरुमत इति किम्, उबोषेति पठ।ल्ते, तत्र उवोषेत्युदाहरणमयुक्तम्, ठुषविदजागृब्यःऽ इति विकल्पविधानमनवकाशं स्यात्। प्रोर्णुनावेति।ठजादेर्द्धितीयस्यऽ’न न्द्राः संयोगादयः’ इति नुशब्दस्य द्विर्वचनं कार्यान्तरसिद्ध्यर्थम्, अवश्यमूर्णोतेर्णुवद्भाववो वाच्यः, तेनैवामोऽपि प्रतिषेधः सिद्ध इत्याह - अथ वा वाच्य इति। तत्र यङ् भावाइतिदेशः, आमिटोस्त्वभावातिदशः; नौतेस्तयोरभावात्। उडुपग्रहःऊउइट्प्रतिषेधः,’विभाषा गुणे’ इति पञ्चमी। फलस्य चात्र हेतुत्वं यथा - अध्ययनेन वसतीति। एकाचेति वर्तमाने र्ठ्श्युकः कितिऽ इति य इट्प्रतिषेधः ततोऽपि हेतोर्णुवद्भावो वाच्य इत्यर्थः। उदाहरणानि - प्रोर्णोनूयते, प्रोर्णुनाव, प्रोर्णुतः, प्रोर्णुतवानिति॥

Nyaas

{यजादेः इति मुद्रितः पाठः।} इजादेः इति। आदिर्यस्येति बहुव्रीहिः। इच् इति प्रत्याहारग्रहणम्। गुरुरस्यास्तीति गुरुमान्। ऋच्छतिवर्जितः ऋच्छिना त्यक्तः। तद्रूपरहित इत्यर्थः। ईहाचञ्क्रे इति। ईह चेष्टायाम् (धातुपाठः-632) ऊहाञ्चक्रे इति। ऊह वितर्के (धातुपाठः-648)। ततक्ष, ररक्ष इति। तक्षू त्वक्षू तनूकरणे (धातुपाठः-655, 656), रक्ष पालने (धातुपाठः-658)। इयज; उवप इति। यजिवप्योरुत्तमे णलि णलुत्तमो वा (7.1.91) इति णित्त्वाभावपक्षे वृद्ध्यभावाद्गुरुमत्ताभावः। केचित् इयेष, उवोषेति प्रत्युदाहरन्ति। {इष धातुपाठः-} इषु इच्छायाम् (धातुपाठः-1351) उष दाहे (धातुपाठः-696), णलि लघूपधगुणःष द्विर्वचनम्, अभ्यासस्यासवर्णे (6.4.78) इतीयङुवङौ। ननु च गुणे कृत एतावपि गुरुमन्तो भवत इति भवितव्यमेवामात्र? न भवितव्यम्; सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य (व्या।प।12) इति लिट्सन्निपातो गुरुमत्ताया हेतुः। गुरुमत्ता च आमः (2.4.81) इति लिटमेव विहन्ति। अथ वा - गुरुमत इति नित्ययोगे मतुप्, तेन नित्यं यस्य गुरुमा योगस्ततो भवितव्यम्, न चेषेरुषेश्च नित्यं गुरुणा सह योगः। यद्येवम्, उछी विवासे (धातुपाठः-216) - उच्छाञ्चकारेत्यत्र तुकि कृते न प्राप्नोति? नैष दोषः; ऋच्छिप्रतिषेधो हि ज्ञापयति - आगमनिमित्ता गुरुमत्ता यस्य ततोऽपि भवतीति। आनच्र्छ इति। ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु (धातुपाठः-1296), छे च (6.1.71) इति तुक्, ऋच्छत्यृताम् (7.4.11) इतिगुणः, द्विर्वचनम्, हलादिशेषः, अत आदेः (7.4.70) इति दीर्घः, तस्मान्नुड् द्विहलः (7.4.71) इति नुट्। ननु च ऋच्छत्यृताम् (7.4.11) इति ऋच्छतेरनन्तरे लिटि गुणवचनं ज्ञापकम् - ऋच्छेराम् न भवति। सति हि तस्मिन्नागमनिमित्ता गुरुमत्ता यस्य ततोऽपि भवतीत्येतज्ज्ञापितं न स्यात्। तस्मादनृच्छ इति प्रतिषेधः कर्तव्यः।ऊर्णोतेः इत्यादि। इजादित्वाद्गुरुमत्त्वाच्च प्राप्नोत्याम्। तस्मात् प्रतिषेधो वक्तव्यः, व्याख्येय इत्यर्थः। व्याख्यानं तु - वक्ष्यमाणस्यान्यतरस्यांग्रहणस्य सिंहावलोकितन्यायेनानुवर्त्तितस्य व्यवस्थितविभाषात्वविज्ञानात् कर्तव्यम्। प्रोर्णुनाव इति। अजादेर्द्वितीयस्य (6.1.2) इति नु`इत्यस्य द्विर्वचनम्। रेफस्तु न द्विरुच्यते; **न न्द्राः संयोगादयः** (6.1.3) इति प्रतिषेधात्।`अथ वा इत्यादि। णु स्तुतौ (धातुपाठः-1-35)। तेन तुल्यं वर्तते इति नुपवत्, तस्य भावो नुवद्भाव इति। नौतिना तुल्यं वर्तत इत्यर्थः। किं पुनस्तस्य प्रयोजनम्, येनासौ तथा वाच्यः? इत्याह - यङप्रसिद्धिः प्रयोजनम् इति। नुवद्भावे सति यथा नौतेः धातोरेकाचः (3.1.22) इतियङ भवति नोनूयत इति, एवमूर्णोतेरपि- प्रोर्णोनूयत इति। आमश्च प्रतिषेधार्थम् इति नुवद्भावो वाच्य इत्यपेक्षते। तस्मिन् सति यथा नौतेरनिजादित्वाद्गुमत्ताभावाच्चाम् न भवति, तथोर्णोतेरपि - प्रोर्णुनावेति। एकाचश्चेडुपग्रहात् इति। नुवद्भावो वाच्यः इति सम्बध्यते। कर्मणि ल्यब्लोपे (वा।127) इति पञ्चमी, यथा - प्रासादात् प्रेक्षते, आसनात् प्रेक्षत इति। इडुपग्रह इति इट्प्रतिषेधः। एतदुक्तं भवति - एकाचः` (7.2.10) इत्यनुवर्तमाने श्रयुकः किति (7.2.11) इति य इडुपघः क्रियते तदुद्दिश्य प्रयोजनमूर्णोतेर्नुवद्भावो वाच्य इति। तेन यथा नौतेः श्रयुकः किति इतीट्प्रतिषेधः-नुतः, नुतवानिति, तथोर्णोतेरपि - प्रोर्णुतः, प्रोर्णुतवानिति। अथ वा - इडुपग्रहादिति हेतावियं पञ्चमी, यथा - तदशिष्यं संज्ञाप्रमाणत्वात् (1.2.53) इति। एकाचो यत इडुपग्रहो विधीयते तस्मात् प्रयोजनाद्धेतोरूर्णोतेर्नुवद्भावो वाच्य इत्यर्थः। अथ इजादेश्च इति किमर्थश्चकारः? अनुक्तसमुच्चयार्थः , तेन कास्यनेकाचः (वा। 205) इति वक्तव्यं न भवति। यथान्यासेऽपि चकारेण चकासाञ्चकारेत्यादेः सिद्धत्वात्। ननु च यदीदं नोच्येत, तदा प्रत्ययान्तोऽपि यो धातुरेकाच् ततोऽपि प्रसज्येत्? यदि नेष्यते, तदा वक्ष्यमाणमन्तयतरस्यांगर्हणमनुवत्र्यं व्यवस्थितविभाषात्वमङ्गीकर्तव्यम्॥

Sutra Prayogas

  • प्रेक्षांचक्रे (शिशुपालवधम्): इजादेश्च गुरुमतोऽनृच्छः इत्याम्प्रत्ययः ।

  • वीक्षामासे (शिशुपालवधम्): इजादेश्च गुरुमतोऽनृच्छः इत्याम्प्रत्ययः।

  • प्रचक्रुर्नगरस्य (भट्टिकाव्यम्): इजादेश्व गुरुमतः इति आमप्रत्यये प्रचक्रुरित्यनुप्रयोगो न घटते ।

  • क्रोध-वशादीहांचक्राते (भट्टिकाव्यम्): इजादेः इत्या- दिना आम्।

  • ईक्षांचक्रेऽथ (भट्टिकाव्यम्): इजादेः इत्याम्।