31028: गुपूधूपविच्छिपणिपनिभ्य आयः

Padacheda: गुपू-धूप-विच्छि-पणि-पनिभ्यः | S | 5 | 3 |

आयः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix आय comes after गुपू ‘to protect’, धूप ‘to heat’, विच्छ ‘to approach’, पण ‘to contract or praise’ and पन ‘to praise’.

Vasu English Translation

The affix आय comes after गुपू ‘to protect’, धूप ‘to heat’, विच्छ ‘to approach’, पण ‘to contract or praise’ and पन ‘to praise’. Thus गोपायति ‘he protects’; धूपायति ‘he heats’; so also, विच्छायति, पणायति, and पनायति.

The verb पण् being read along with पन् ‘to praise,’ has here the sense of praise only; so that the affix does not come after the verb पण् when it means ‘to make a contract’; as शतस्य पणते, सहस्रस्य पणते.

The verbs in आय do not take Atmanepada affixes, as there is no indicatory letter to show that.

Kashika

गुपू रक्षणे, धूप सन्तापे , विच्छ गतौ , पण व्यवहारे स्तुतौ च, पन च इत्येतेभ्यो धातुभ्य आयप्रत्ययो भवति। गोपायति। धूपायति। विच्छायति। पणायति। पनायति। स्तुत्यर्थेन पनिना साहचर्यात् तदर्थः पणिः प्रत्ययमुत्पादयति, न व्यवहारार्थः। शतस्य पणते। सहस्रस्य पणते। अनुबन्धश्च केवले चरितार्थः, तेनायप्रत्ययान्ताद् नात्मनेपदं भवति॥

Siddhanta Kaumudi

एभ्य आयप्रत्ययः स्यात्स्वार्थे । पुगन्त-(SK2189) इति गुणः ॥

Laghu Siddhanta Kaumudi

एभ्य आयः प्रत्ययः स्यात् स्वार्थे ॥

Balamanorama

गुपूधूपविच्छिपणिपनिभ्य आयः - गुपूधूप । एभ्य इति । गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थः । अर्थनिर्देशाऽभावादाह — स्वार्थ इति । आयप्रत्ययः अकारान्तः । तत्फलं तुगोपायतं नः सुमनस्यमान॑ इत्यत्र गोपायेत्यस्य धातुस्वरेणान्तोदात्तत्वेन शबकारेण एकदेशस्यापिएकादेश उदात्तेनोपादात्तः॑ इत्युदात्तत्वे,त॑मित्यस्य अदुपदेशात् परलसार्वधातुकत्वेन अनुदात्तस्यउदात्तादनुदात्तस्य स्वरितः॑ इति स्वरितत्वमिति बोध्यम् । ‘धातोरेकाच’ इत्यतो धातोरित्यनुवृत्त्या धातोरिति विहितत्वादायप्रत्ययस्यार्धधातुकत्त्वात्कार्यं गुणादि भवति । तदाह - पुगन्तेति गुण इति ।

Padamanjari

गूपूधूपविच्छिपणिपनिभ्य आयः॥ विच्छायतीति। विच्छिरयं तुदादौ पठ।ल्ते, तत्सामर्थ्यादायप्रत्ययान्तादपि शविकरणो भवति, न तु शप्, यथा - जुगुप्सते इत्यात्मनेपदम्, तेन विच्छायन्ती विच्छायतीति ठाच्छीनद्योर्नुम्ऽ इति नुम्विकल्पो भवति। अन्ये तु सार्वधातुकेऽप्यायप्रत्ययस्यैव तुदादिपाठसामर्थ्येन विकल्पमाहुः। स्तुत्यर्थेनेति। भट्टिकाव्ये तु व्यवहारार्थादप्यायः -‘न चपोलेभे वणिजां पणायान्’ इति। अनुबन्धः केवलेऽचरितार्थ इति। अवयवेष्वचरितार्थ लिङ्गं समुदायस्य विशेषकं भवति, यथा - गुपादीनामनुदातत्वमिति भावः। ये तु व्यवहारार्थादप्यायमिच्छन्ति तेषामपि पणिष्यते पाणयिष्यतीत्यादावनुबन्धः केवले चरितार्थः॥

Nyaas

स्तुत्यर्थेन इत्यादि। पण व्यवहारे स्तुतौ च (धातुपाठः- 439) पन च (धातुपाठः-440) इत्यनयाऽनुपूर्व्या गणे पाठः। तत्र पन च (धातुपाठः-440) इत्यत्र स्तुतावित्यनुवर्तते, न व्यवहारार्थः तेन पणिव्र्यवहारार्थः, स्तुत्यर्थश्च,पनिः स्तुत्यर्थ एव। तदिह स्तुत्यर्थेन पणिना साहचर्यात् पनेरपि स्तुत्यर्थ एव गृह्रते। तेनासौ स्तुतावेव वर्तमानः प्रत्ययमुत्पादयति, न तु व्यवहारे। शतस्य इति। व्यवह्मपणोः समर्थयोः (2.3.57) इति कर्मणि षष्ठी। अत्र पणायतीत्यत्रात्मनेपदं कस्मान्न भवति, यावता पणिरयमनुदात्तेत् पठते? तत्र अनुदात्तङितः (1.3.12) इति यथा केवलादात्मनेपदं भवति तथायपत्प्रत्ययान्तादपि तेन भवितव्यमित्यत आह - अनुबन्धः इत्यादि। यो हि तस्यानुबन्धः स आयप्रत्ययरहिते पणतौ चरितार्थः = कृतात्मनेपदकार्यः, तेनायप्रत्ययान्तादात्मनेपदं न भवति; तस्य धात्वन्तरत्वात्॥

Prakriyasarvasvam

एभ्यः स्वार्थे आयप्रत्ययः स्यात् । गुणः । ‘सनाद्यन्ता धातवः’ इति धातुत्वे लट् । तिबादिः शप् च । ‘अतो गुणे’ । गोपायति । कर्मणि यकि

Sutra Prayogas

  • गोपितुम् (किरातार्जुनीयम्): गुपूधूपविच्छिपणिपनिभ्य आयः इति आयप्रत्ययप्राप्तिः।

  • गोपायकानां (किरातार्जुनीयम्): गुपूधूपविच्छिपणिपनिभ्य आयः इति आयप्रत्ययः।

  • प्राणानामपणिष्टाऽयं (भट्टिकाव्यम्): गुपू- धूप इत्यादिना आयप्रत्ययो न भवति।

  • अगोपायच्च (भट्टिकाव्यम्): गुप्धूपविच्छिपणिपनिभ्य आयः इति आयप्रत्ययः।