31030: कमेर्णिङ्

Padacheda: कमेः | S | 5 | 1 |

णिङ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix णिङ् comes after the root कम ‘to desire’.

Vasu English Translation

The affix णिङ् comes after the root कम ‘to desire’. The ण indicates vriddhi (7.2.115) and ङ shows Atmanepada; as, कामयते ‘he desires’; so also कामयेते and कामयन्ते.

Bhashya

कमेर्णिङ् (647) (403 णिङ्प्रत्ययविधिसूत्रम्॥ 3.1.3 आ. 2) (आक्षेपभाष्यम्) किमर्थो णकारः। (समाधानभाष्यम्।) वृद्ध्यर्थः। ञ्ञ्णितीति वृद्धिर्यथा स्यादिति। (समाधानबाधकभाष्यम्) क्रियमाणेपि वैणकारे वृद्धिर्न प्राप्नोति। किं कारणम्। क्ङिति चेति प्रतिषेधात्। (समाधानसाधकभाष्यम्) णित्करणसार्मथ्याद्भविष्यति। (समाधानबाधकभाष्यम्) अत उत्तरं पठति - - (1789 समाधानबाधकवार्तिकम्॥ 1 ॥) - णिङि णित्करणस्य सावकाशत्वाद् वृद्धिप्रतिषेधप्रसङ्गः- (भाष्यम्) णिङि णित्करणं सावकाशम्। कोवकाशः?। सामान्यग्रहणार्थो णकारः। क्व सामान्यग्रहणार्थेन णकारेणार्थः?। णेरनिटि इति। णिङिणित्करणस्य सावकाशत्वाद् वृद्धेः प्रतिषेधः प्राप्नोति॥ (प्रतिबन्दीभाष्यम्) ङित्करणमपि सावकाशम्। कोऽवकाशः?। सामान्यग्रहणाविघातार्थो ङकारः। क्व सामान्यग्रहणाविघातार्थेनार्थः?। अत्रैव॥ (ङित्करणवैर्यथ्यभाष्यम्) शक्योत्रसामान्यग्रहणाविघातार्थोऽन्योऽनुबन्ध आसङ्क्तुम्। तत्र ङकारानुबन्धाद् वृद्धिप्रतिषेधः प्राप्नोति। (ङित्करणसार्थक्यभाष्यम्) अवश्यमत्रात्मनेपदार्थो ङकारोनुबन्ध आसङ्क्तव्यः। ङित इत्यात्मनेपदं यथा स्यात्॥ (प्रतिबन्दीबाधकभाष्यम्) एवमप्युभयोः सावकाशयोः प्रतिषेधबलीयस्त्वात्प्रतिषेधः प्राप्नोति॥ (प्रतिषेधाप्राप्तिभाष्यम्) एवं तर्हि आचार्यप्रवृत्तिर्ज्ञापयति - न कमेर्वृद्धि प्रतिषेधो भवतीति। यदयं न कम्यमिचमामिति मित्संज्ञायाः प्रतिषेधं शास्ति॥ (1790 ज्ञापकत्वबाधकं मित्प्रतिषेधसार्थक्यवार्तिकम्॥ 2 ॥) - मित्प्रतिषेधस्य चार्थवत्त्वात्- (भाष्यम्) मित्प्रतिषेधस्य चार्थवत्त्वाद्वृद्धिप्रतिषेधः प्राप्नोति। अर्थवान् मित्प्रतिषेधः। कोर्थः?। णिङन्तस्य णिचि या वृद्धिस्तस्या ह्रस्वत्वं मा भूदिति। (ज्ञापकत्वसाधकभाष्यम्) ननु तस्या अपि क्ङितिचेति प्रतिषेधेन भवितव्यम्। (ज्ञापकत्वबाधकभाष्यम्) न भवितव्यम्। उक्तमेतत् क्ङिति प्रतिषेधे तन्निमित्तग्रहणमुपधारोरवीत्यर्थमिति। (ज्ञापकत्वसाधकभाष्यम्) एवं तर्हि णिङन्तस्य णिचि या वृद्धिस्तस्या ह्रस्वत्वं न प्राप्नोति। किं कारणम्। णिङा व्यवहितत्वात्। (ज्ञापकत्वबाधकभाष्यम्) लोपे कृते नास्ति व्यवधानम्। (ज्ञापकत्वबाधकभाष्यम्) स्थानिवद्भावाद्व्यवधानमेव। (ज्ञापकत्वबाधकभाष्यम्) णिङ्येव तर्हि मा भूदिति। (ज्ञापकत्वसाधकभाष्यम्) णिङि च न प्राप्नोति। किं कारणम्?। असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति। (ज्ञापकत्वसाधकयुक्त्यन्तरभाष्यम्) नैव वा पुनर्णिङन्तस्य णिचि वृद्धिः प्राप्नोति। किं कारणम्। णिङा व्यवहितत्वात्॥ लोपो कृते नास्ति व्यवधानम्॥ स्थानिवद्भावाद् व्यवधानमेव॥ (ज्ञापकत्वबाधकभाष्यम्) इदं तर्हि प्रयोजनम्। यत्तत् चिण्णमुलोर्दीर्घोन्यतरस्याम् इति दीर्घत्वं शास्ति, तत्कमेर्णिङि मा भूदिति॥ (ह्स्वघटितन्यासकरणे लाघवभाष्यम्) किं पुनः कारणं तत्र दीर्घोन्यतरस्यामित्युच्यते, न ह्रस्वोन्यतरस्यामित्येवोच्येत। यथाप्राप्तं कमेर्ह्रस्वत्वमेव॥ तत्रायमप्यर्थः - ह्रस्वग्रहणं न कर्तव्यं भवति। प्रकृतमनुवर्तते। क्व प्रकृतम्?। मितां ह्रस्वः इति। (आक्षेपभाष्यम्) का रूपसिद्धिः। अशमि अशामि। शमंशमम्। शामंशामम्॥ (समाधानभाष्यम्) वृद्ध्या सिद्धम्॥ (आक्षेपसाधकभाष्यम्) न सिध्यति। नोदात्तोपदेशस्य मान्तस्यानाचमेरिति वृद्धिप्रतिषेधः प्राप्नोति॥ (आक्षेपबाधकभाष्यम्) नैष दोषः। चिण्कृतोः स वृद्धिप्रतिषेधो, न णिचि॥ (आक्षेपसाधकभाष्यम्) इह तर्हि। अजनि अजानि जनंजनम्। जानंजानम्। जनिवध्योश्चेति वृद्धिप्रतिषेधः प्राप्नोति॥ (आक्षेपबाधकभाष्यम्) सोपि चिण्कृतोरेव, न णिचि॥ (ह्रस्वघटितन्यासे गौरवभाष्यम्) णिज्व्यवहितेषु तर्हि यङ्लोपे चोपसंख्यानं कर्तव्यं स्यात्। शमयन्तं प्रयोजितवान् अशमि अशामि। शमंशामि। शंशमंशंशमम्। शंशामंशंशामम्॥ किं पुनः कारणं न सिध्यति?। चिण्णमुल्परे णौ मितामङ्गानां ह्रस्वो भवतीत्युच्यते। यश्चात्र णिः चिण्णमुल्परः, तस्मिन्मिदङ्गम्। यस्मिंश्चमिदङ्गम्, नासौ णिश्चिण्णमुल्परः॥ णिलोपे तर्हि कृते चिण्णमुल्परः॥ स्थानिवद्भावान्न चिण्णमुल्परः॥ (दीर्घघटितन्यासेऽनुयोगभाष्यम्) अथ दीर्घोऽन्यतरस्यामित्युच्यमाने यावता स्थानिवद्भावः कथमेवैतावता सिध्यति॥ (समाधानभाष्यम्) एतदिदानीं दीर्घग्रहणस्य प्रयोजनम् - दीर्घविधिं प्रत्यजादेशो न स्थानिवद्भवतीति स्थानिवत्त्वप्रतिषेधः सिद्धो भवति॥ (आक्षेपभाष्यम्) यदा खल्वप्यायादय आर्धधातुके वा भवन्ति तदा णिचि णिङ् नास्ति तदर्थे च मित्प्रतिषेधः स्यात्। तस्मात्प्रतिषेधः प्राप्नोति॥ (समाधानभाष्यम्) उक्तं वा। किमुक्तम्। तद्धितकाम्योरिक्प्रकरणादिग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः नचैषां इग्लक्षणा वृद्धिरिति॥ कमेर्णिङ्॥ 30 ॥

Kashika

कमेर्धातोर्णिङ् प्रत्ययो भवति। णकारो वृद्ध्यर्थः। ङ कार आत्मनेपदार्थः। कामयते, कामयेते, कामयन्ते॥

Siddhanta Kaumudi

स्वार्थे । ङित्त्वात्तङ् । कामयते ॥

Laghu Siddhanta Kaumudi

स्वार्थे। ङित्त्वात्तङ्। कामयते॥

Balamanorama

कमेर्णिङ् - कमेर्णिङ् । शेषपूरणेन सूत्रं व्याचष्टे -स्वार्थे इति । अर्थविशेषाऽनिर्देशादिति भावः । णङावितौ ।णेरनिटी॑त्यत्रोभयोग्र्रहणायाऽनुबन्धकरमम् । ङित्त्वात्तङिति । अनुदात्तेत्वं तु णिङभावे ‘चकमे’ इत्यादौ चरितार्थमिति भावः । कामयत इति । णिङि ‘अत उपधाया’ इति वृद्धौकामी॑ति णिङन्तम् ।क्ङिति चे॑ति निषेधस्तु न,अनिग्लक्षणत्वात् । णिङन्तस्य धातुत्वाल्लडादयः । तत्र लटि शपि गुणेऽयादेशे कामयते इति रूपम् । कामयेति इत्यादि सुगमम् । लिटि ‘कास्यनेकाच’ इत्यामि, ‘आम’ इति लिटो लोपे ‘ कामि-आम्’ इति स्थिते, सार्वधातुके॑ति गुणं बाधित्वाणेरनिटी॑ति वक्ष्यमाणे णिलोपे प्राप्ते ।

Padamanjari

कमेर्णिङ्॥ इह णिङे णकारः’णेरनिटि’ इति विशेषणे चरितार्थो ङ्कारोऽप्यात्मनेपदार्थ इत्युभयोश्चरितार्थयोः प्राप्नोति, ज्ञापकात्सिद्धम्, यदयम्’न कम्यमिचमाम्’ इति कमेर्मित्संज्ञायां प्रतिषेधं शास्ति, तज् ज्ञापयति - भवत्यत्र वृद्धिरिति, तस्य हि प्रयोजनम् -‘मितां ह्रस्वः’ इति ह्रस्वो मा भूदिति यदि चात्र वृद्धिर्न स्याद् ह्रस्व एवोपधेति कृत्वा नित्संज्ञाप्रतिषेधोऽनर्थकस्स्यात्। नैतदस्ति ज्ञापकम्, यदा णिङ्न्ताद्धेतुमण्णिच् क्रियते तदा णिङ्न्तस्य णिचि या वृद्धिस्तस्या ह्रस्वो मा भूदित्येवमर्थमेतत्स्यात्, न च णिजपेक्षाया अपि वृद्धेर्णिङ्मेव ङ्तिमपेक्ष्य प्रतिषेधः। किं कारणम्? ङ्तीइति निमितसप्तमी। ननु च न णिङ्न्तस्य णिचि वृद्ध्या भवितव्यम्; णिङ व्यवहितत्वात्, णिलोपे कृते स्थानिवद्भावाद्व्यवधानमेव। यदा तर्हि णिडन्ताच्चिण्णमुलौ सवतस्तदा’चिण्णमुलोदीर्घो’ न्यतरस्याम्ऽ इत्येव विधिर्मा भूदित्येवमर्थो मित्संज्ञाप्रातिषेधः स्यात्। किं पुनः कारणम्? तत्र’दीर्घो’ न्यतरस्याम्ऽ इत्युच्यते न प्रकृतो ह्रस्व एव विकल्प्येत, एवं हि कमेर्मित्संज्ञाप्रतिषेधो न र्तव्यो भवति। कथम्? यदा णीङ् वृद्धिर्नास्ति तहा ह्रस्व एवोपधेति सत्यपि ह्रस्वविकल्पे नैवानिष्टप्रसङ्गः, अशमि अशामीत्यादि च सिद्धम्? नैवं शक्यम्; यदा शमिप्रभृतिभ्यो णिजन्तेभ्यो द्वितीयो णिच् क्रियते तदा न स्यात्। यश्च णमुल्परो णिज् द्वितीयः, न तस्मिन् प्रथमेन णिचा व्यवहितत्वात्। यस्मिश्च मिदङ्गं प्रथमे णिचि, नासौ चिण्णमुल्परः, द्वितीयेन व्यवहितत्वात्। णिलोपेऽपि कृते स्थानिवद्भावाद्व्यवधानमेव।’दीर्घो’ न्यतरस्याम्ऽ इत्युच्यमाने पुनरत्रापि भवति, दीर्घविधिं प्रति स्थानिवद्भावनिषेधात्। तथा शमिप्रभृतिभ्यो यङ्न्तेभ्यो णिच्यल्लोपयलोपयोरल्लापस्य स्थानिवद्भावादसत्यां वृद्धौ चिण्णमुलोः कृतयोरशंशमि, असंशामि, शंशमम्, शंशाममिति न स्यात्। दीर्घः पुनर्विकल्प्यमानोऽत्रापि भवति; तद्विधौ स्थानिवद्भावप्रतिषेधात्। तथा’हेड्ःअ अनादरे’ घटादिः, ठेच इग्घ्रस्वादेशेऽ, हिड।ल्ति, तत्र चिण्णमुलोः कृतयोर्ह्रस्वे विकल्प्यमाने अहिडि, अहेडीति स्यात्; दीर्घे तु पुनरहिडि, अहीडीति भवति। तस्माद्दीर्घ एव विकल्पनीयः, ततश्च मित्संज्ञाप्रतिषेधोऽपि तन्निवृतये वक्तव्यः। तथा ठायादय आर्द्धधातुके वाऽ इति णिङ्भावे णिचि सति वृद्धौ कृतायाम्’मितां ह्रस्वः’ इति ह्रस्वो मा भूदित्येवमर्थोऽपि सित्संज्ञाप्रतिषेधो वक्तव्य एवेत्यज्ञापकमेतत्। एवं तर्ह्यस्थानेऽयं यत्नः क्रियते, नैवात्र प्रतिषेधः प्राप्नोति, किं कारणम्? इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः न चैषा इग्लङ्णा वृद्धिरित्यलमति कर्कशप्रक्रियातर्कानुसरणेन॥

Nyaas

णकारो वृद्ध्यर्थः इति अच उपधायाः (7.2.116) इति वृद्धिर्यथा स्यात्। यद्येवम्, किमर्थं न कम्पमिचमाम् (धातुपाठः-817) इति कमेर्मित्संज्ञा प्रतिषिध्यते मितां ह्रस्वः (6.4.92) इति ह्रस्वो मा भूदिति? नैतदस्ति; णित्करणसामर्थ्यादेव तन्न भविष्यति; अन्यथा णित्करणमनर्थकं स्यात्। नानर्थकम्? णेरनिटि (6.4.51) इति सामान्यग्रहणार्थत्वात्। यदा च आयादय आर्धधातुके वा (3.1.31) इति णिङ् नास्ति, तदा हेतुमण्णिचि ह्रस्वत्वं मा भूदिति मित्संज्ञा प्रतिषिध्यते॥

Prakriyasarvasvam

कमेः स्वार्थे णिङ् स्यात्१ । उपधावृद्धिः । ङित्त्वान्णिङन्तस्य तङ् । शबगुणा- यादेशाः । कामयते । यकि ‘णेरनिटि’ इति णिलोपः । काम्यते । ‘आयादयः—’ इति णिङ्विकल्पात् कम्यते । लुङि ।