31031: आयादय आर्धधातुके वा

Padacheda: आयादयः | S | 1 | 3 |

आर्धधातुके | S | 7 | 1 |

वा | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affixes आय and those that follow it i.e. आय , ईयङ् and णिङ् are optionally added, when it is desired to express one’s self with an आर्धधातुक affix.

Vasu English Translation

The affixes आय and those that follow it i.e. आय , ईयङ् and णिङ् are optionally added, when it is desired to express one’s self with an आर्धधातुक affix. Thus ता 3rd. sing. of the Future is an ardhadhatuka affix. It is optional to retain the aya of gopaya before this affix. So we have गोपायिता or गोप्ता ‘he will protect’. So also अर्तिता or ऋतीयिता; कमिता or कामयिता.

But for this sutra, the affixes आय &c. would have come always even when ardhadhatuka affixes were to be applied. This makes it optional. Therefore proper ardhadhatuka affixes should be applied when we retain आय &c. and when we do not retain them. Thus the ardhadhatuka क्तिन् (3.3.95) will be employed in forming the feminine noun from the simple root, but the ardhadhatuka अ (3.3.102) will be employed in forming the feminine when आय &c. are retained. Thus गुप्तिः or गोपावा.

Bhashya

आयादय आर्धधातुके वा (648) (404 विकल्पसूत्रम् ॥ 3.1.3 आ. 3) (आर्धधातुक इति सप्तम्यर्थनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) कथमिदं विज्ञायते - आयादिभ्यो यदार्धधातुकं तस्मिन्नवस्थिते वा आयादीनां निवृत्तिर्भवतीति। आहो स्विद् - आयादिप्रकृतेर्यदार्धधातुकं तस्मिन्नवस्थिते आयादीनामुत्पत्तिर्भवतीति ॥ (प्रत्याक्षेपभाष्यम्) किंगतमेतदियता सूत्रेण, आहोस्विदन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यम्? ॥ (प्रत्याक्षेपसमाधानभाष्यम्) गतमित्याह। कथम्?। यदा तावदायादिभ्यो यदार्धधातुकं तस्मिन्नवस्थिते वायादीनां निवृत्तिर्भवतीति तदाऽविशेषेण सर्वमायादिप्रकरणमनुक्रम्य आयादय आर्धधातुके वा इत्युच्यते ॥ यदाप्यायादिप्रकृतेर्यदार्धधातुकं तस्मिन्नवस्थिते वा आयादीनामुत्पत्तिर्भवतीति तदैकं वाक्यं तच्चेदं च। गुपूधूपविच्छिपणिपनिभ्य आयः। आर्धधातुके वा। ऋतेरीयङ्। आर्धधातुके वा। कमेर्णिङ्। आर्धधातुके वा इति ॥ (अनुयोगभाष्यम्) कश्चात्र विशेषः?। (1791 विशेषदर्शकवार्तिम् ॥ 1 ॥) - आयादिभ्यो यदार्धधातुकमायादिप्रकृतेर्यदार्धधातुकमिति चोभयथाऽनिष्टप्रसङ्गः- (भाष्यम्) आयादिभ्यो यदार्धधातुकमायादिप्रकृतेर्यदार्धधातुकम् इति चोभयथाऽनिष्टं प्राप्नोति ॥ यदि विज्ञायते आयादिभ्यो यदार्धधातुकं तस्मिन्नवस्थिते वा आयादीनां निवृत्तिर्भवतीति। गुप्तिः - - जुगोपेति चेष्टं न सिध्यति। इदं चानिष्टं प्राप्नोति - -गोपांचकार गोपेति। इदं त्विष्टं सिद्धं भवति - -गोपायांचकार गोपायेति ॥ (द्वितीयपक्षदूषणभाष्यम्) अथ विज्ञायते - आयादिप्रकृतेर्यदार्धधातुकं तस्मिन्नवस्थिते वाऽऽयादीनामुत्पत्तिर्भवतीति। गुप्तिर्जुगोपेति चेष्टं सिद्धं भवति। इदं चानिष्टं न प्राप्नोति - गोपांचकार गोपेति। इदं त्विष्टं न सिध्यति - -गोपायांचकार गोपायेति ॥ (सिद्ध्युपपत्तिभाष्यम्) इदं तावदिष्टं सिद्धं भवति गोपायांचकारेति ॥ कथम्?। अस्त्वत्रायादिप्रकृतेर्यदार्धधातुकं लिद्तस्मिन्नवस्थिते वा आयादयः आम्मध्ये पतिष्यति यथा विकरणस्तद्वत् ॥ (अनुपपत्तिभाष्यम्) इदं तर्हीष्टं न सिध्यति - -गोपायेति ॥ (1792 इष्टसाधकन्यासान्तरवार्तिकम् ॥ 2 ॥) - सिद्धं तु सार्वधातुके नित्यवचनादनाश्रित्य वा विधानम्- (भाष्यम्) सिद्धमेतत्। कथम्?। अविशेषेणायादीनां वा विधिमुक्त्वा सार्वधातुके नित्यम् इति वक्ष्यामि ॥ (1793 स्यादिबलीयस्त्वापत्तिवार्तिकम् ॥ 3 ॥) - स्यादिबलीयस्त्वं तु विप्रतिषेधेन तुल्यनिमित्तत्वात्- (भाष्यम्) स्यादिभिस्त्वायादीनां बाधनं प्राप्नोति ॥ किं कारणम्?। विप्रतिषेधेन तुल्यनिमित्तत्वात्। तुल्यं हि निमित्तमायादीनां स्यादीनां च। स्यादीनामवकाशः - करिष्यति हरिष्यति। आयादीनामवकाशः - -गोपायति धूपायतीति। इहोभयं प्राप्नोति - गोपायिष्यति धूपायिष्यतीति। परत्वात् स्यादयः प्राप्नुवन्ति ॥ (1794 स्यादीनामायादिबाधानापत्तिवार्तिकम् ॥ 4 ॥) - न वाऽऽयादिविधानस्यानवकाशत्वात्- (भाष्यम्) न वैष दोषः। किं कारणम्?। आयादिविधानस्यानवकाशत्वात्। अनवकाशा आयादयः उच्यन्ते च ते वचनाद्भविष्यन्ति ॥ (अवकाशभाष्यम्) ननु चेदानीमेवावकाशः प्रकॢप्तः - गोपायति धूपायतीति ॥ (अवकाशाभावभाष्यम्) अत्रापि शप् स्यादिर्भवति ॥ (अवकाशभाष्यम्) यद्यत्रापि शप् स्यादिर्भवति। न त्वत्रास्तिविशेषः सति वा शप्यसति वा ॥ अन्यदिदानीमेतद् - -यदुच्यते नास्ति विशेषः इति। यत्तु तदुक्तम् - - आयादीनां स्यादिभिरव्याप्तोऽवकाशः इति, स नास्त्यवकाशः। अवश्यं खल्वप्यत्र शप्स्यादिरेषितव्यः। किं प्रयोजनम्?। गोपायन्ती धूपायन्तीति शप्श्यनोर्नित्यम् इति नित्यो नुम् यथा स्यात् ॥ (आक्षेपभाष्यम्) यदि तर्हि अनवकाशा आयादयः आयादिभिः स्यादीनां बाधनं प्राप्नोति ॥ (समाधानभाष्यम्) यथा पुनरयं सूत्रभेदेन परिहारः यदि पुनः शपि नित्यम् इत्युच्यते ॥ (आक्षेपभाष्यम्) सिध्यति। सूत्रं तर्हि भिद्यते ॥ (सिद्धान्तिभाष्यम्) यथान्यासमेवास्तु ॥ (दोषस्मारणभाष्यम्) ननु चोक्तम् - - आयादिभ्यो यदार्धधातुकमायादिप्रकृतेर्यदार्धधातुकमिति चोभयथानिष्टप्रसङ्ग इति। (दूषणोद्धारभाष्यम्) नैष दोषः। आर्धधातुक इति नैषा परसप्तमी। का तर्हि?। विषयसप्तमी। आर्धधातुके विषय इति तत्रार्धधातुकविषये आयादिप्रकृतेरायादिषु (वा) कृतेषु यो यतः प्रत्ययः प्राप्नोति स ततो भविष्यति ॥ आयादयः ॥ 31 ॥

Kashika

आर्धधातुकविषय आर्धधातुकविवक्षायामायादयः प्रत्यया वा भवन्ति। गोप्ता, गोपायिता। अर्तिता, ऋतीयिता। कमिता, कामयिता, नित्यं प्रत्ययप्रसङ्गे तदुत्पत्तिरार्ध — धातुकविषये विकल्प्यते, तत्र यथायथं प्रत्यया भवन्ति। गुप्तिः, गोपाया॥

Siddhanta Kaumudi

आर्धधातुकविवक्षायामायादयो वा स्युः ॥

Laghu Siddhanta Kaumudi

आर्धधातुकविवक्षायामायादयो वा स्युः। कास्यनेकाच आम् वक्तव्यः (वार्त्तिकम्) । लिटि आस्कासोराम्विधानान्मस्य नेत्त्वम्॥

Balamanorama

आयादय आर्धधातुके वा - आयादयः । आय आदिर्येषां ते आयादयः ।आय ईयङ्णिङ् चेति त्रय आयादयो मताः॑ । गुपूधूपविच्छिपणिपनिभ्य आयः, ऋतेरीयङ्, कमेर्णिङित्युत्तरमस्य सूत्रस्य पाठात् । विवक्षायामिति । ‘आर्धधातुके’ इति विषयसप्तमीति भावः । परसप्तमीत्वे तु गोपायितेत्यत्र अतो लोपो न स्यात्, आर्धधातुकोपदेशकालेऽदन्तत्वाऽभावादिति भावः ।

Tattvabodhini

आयादय आर्धधातुके वा - आयादयः । आयेयङ्णिङ इत्यर्थः । विवक्षायामिति । परसप्तम्यां तु आर्धधातुकोपदेशकाले यददन्तमित्यनुपदं वक्ष्यमाणं न सङ्गच्छेतेति भावः । अन्ये तुगुपू रक्षणे॑ इत्यस्मात् क्तिनि पश्चादाय्प्रत्यये गोपायतिरित्यनिष्टप्रसज्येत । विवक्षायामित्युक्ते तु आय्प्रत्यये कृते क्तिनं बाधित्वाअप्रत्यया॑ दित्यकारप्रत्यये टापि चगोपाया॑धूपाये॑ति सिद्ध्यतीत्याहुः ।

Padamanjari

आयादय आर्द्धधातुके वा॥ ठार्द्धधातुकेऽ इति परसप्तम्यामायादिविधिभिरेकवाक्यता स्यात्, भिन्नवाक्यतायामयमर्थो भवति - गुपादिभ्य आर्द्धधातुके परतो वाऽऽयप्रत्ययो भवति, एवमुतरत्रापि, ततश्चार्द्धधातुके एव विकल्पेनायादयः स्युः, सार्वधातुके नैव स्युः? नैष दोषः, पृथागारम्भाद्यदि ह्यार्द्धधातुक एवायादीनामुत्पत्तिः स्याततो गुपादिभिः संयुज्यैव निर्दिशेत् - गुपादिभ्य आर्द्धधातुके वेति, एवं हि आयादय इति न वक्तव्यं भवति। पृथकतं निर्दिशति, तेन मन्यामहे - व्यापारभेदेनैकवाक्यतेति। ततश्चायमर्थो भवति - गुपादिभ्यो नित्यमायादयो भवन्त्यार्द्धधातुके वेति। एवमपि गुपादेर्यदार्द्धधातुकं प्राप्तं तत्र ततो विहिते विकरणविकल्पे नायादयः स्यु; ततश्च स्त्रीभावविवक्षायं गुपेरप्रत्ययान्तत्वाभावात् क्तिनि कृते यदायप्रत्ययो न भवति तदा गुप्तिरिति काममिष्ट्ंअ सिद्ध्यति। यदा तु भवति तदाऽल्लोपयलोपयोर्गोपातिरित्यनिष्ट्ंअ प्राप्नोति, गोपायेति चेष्ट्ंअ न सिद्ध्यति। भिन्नवाक्यतायामायाद्यन्ताद्यदार्द्धधातुकं प्रप्तं तत्र ततो विहिते आयादयो वा भवन्तीत्यर्थः स्यात्। तत्र चायाद्यान्ताद्यदार्द्धधातुकमिति वदता तेषामुत्पत्तिस्तावदङ्गीकृतअ। न चोत्पन्नानामुत्पत्तिविकल्पः शक्यते कर्तुमिति लोकन्यायेन निवृत्तिविकल्पो भवति। ततश्चायप्रत्ययान्तात् स्त्रीभावविवक्षायामप्रत्ययादित्यकारे कृते निवृत्यभावपक्षे गोपायेति काममिष्ट्ंअ सिद्ध्यति। निवृत्तिपक्षे तु गोपेत्यनिष्ट्ंअ प्राप्नोति, गुप्तिरिति चेष्ट्ंअ न सिद्ध्यति। लिटि च निवृत्यभावपक्षे गोपायाञ्चकारेति काममिष्ट्ंअ सिद्ध्यति, निवृत्तिपक्षे तु यदि लिटि परतो निवृत्तिस्तथापि प्रत्ययलक्षणेन कास्प्रत्ययादित्यामा भवितव्यम्, अथाप्यामि कृते निवृत्तिस्तथापि तस्यैव श्रवणं प्राप्नोतीति सर्वथा गोपांचकारेत्यनिष्ट्ंअ प्राप्नोतीति, जुगोपेति चेष्ट्ंअ न सिद्ध्यति। तस्माद् दुष्ट एवायं परसप्तमीपक्ष इति मत्वाह - आर्द्धधातुके विषय इति। कोऽर्थः? इत्याह - आर्द्धधातुकविवक्षायामिति। आर्धधातुकमिहोत्पादयिष्यामीति बुद्धौ सत्यामित्यर्थः। विषयसप्तमीपक्षेऽपि भिन्नवाक्यतायामार्द्धधातुके विधित्सिते आयादयो भवन्तीत्युक्ते, कुतो विधित्सिते? इत्यपेक्षायामायाद्यन्तस्यापि धातुत्वातत इति गम्यते ततश्च निवृत्तिपक्ष एवाश्रित इति स एव दोषो यं पूर्वमवोचाम। तस्मादेकवाक्यतयोत्पतिविकल्प इत्याह - नित्यप्रत्ययप्रसङ्गे तदुत्पत्तिरार्द्धधातुकविषेये विकल्प्यत इति। किमेवं सति सिद्धं भवतीत्याह - तत्रेति॥

Nyaas

आर्धधातुकविषये इत्येतेनार्धधातुक इत्यस्य विषयसप्तमीत्वं दर्शयति। आर्धधातुकविषयत्वं तु तद्विवक्षायां सत्यां बुद्धिस्थे तस्मिन् सम्भवति,नान्यथेत्याह - आर्धधातुकविवक्षायाम् इति। केन पुनरभिसन्धिना विषयसप्तमीत्वमाश्रीयत इति? एवं मन्यते - परसप्तम्यामुत्पत्तिर्वा विकल्प्यते? निवृत्तिर्वा? यद्युत्पत्तिस्तदा गुपेः स्त्रियां क्तिनि विहिते तत्र यदायप्रत्ययो नोत्पद्यते तदा कामं गुप्तरितीष्टं सिध्यति। यदा तूत्पद्यते, तदातो लोपे (6.4.48) वलि लोपे (6.1.64) इत्यकारे कृते तत्र परतो यदा निवृत्तिर्न भवति तदा कामं गोपायेतीष्टं सिध्यति। यदा तु भवति तदा गोपेत्यनिष्टं प्राप्नोति। गुप्तिरिति सत्यामसत्यां वा निवृत्ताविष्टं न सिध्यति; विषयसप्तम्यां तूत्पतौ विकल्पितायामुत्पत्स्यते। अर्धधातुकमिति आर्धधातुकविवक्षायामादावेव विकल्पः। तत्रानुत्पत्तिपक्षे स्त्रियां क्तिनि विहिते गुप्तिरिति सिध्यति, उत्पत्तिपक्षे गोपायेति। न च गोपातिरित्यनिष्टमपि; आयप्रत्ययान्तात् क्तिनोऽभावात्। नापि गोपेत्यनिष्टमापद्यते, आयप्रत्ययस्यानुत्पत्तेः। नित्यप्रत्ययप्रसङ्गे इति। पूर्वकैस्त्रिभिः सूत्रेर्नित्यमायादिषु प्राप्तेष्वित्यर्थः। तदुतप्त्तौ इत्यादि। तेषामायादीनामार्धधातुकविषय उत्पत्तिर्विकल्प्यते, न तूत्पन्नानां निवृत्तिः। यदि हि निवृत्तिर्विकल्प्येत तदार्धधातुके विषयभूते सत्यायप्रत्यये निवृत्ते प्रत्ययलक्षणेन अ प्रत्ययात् (3.3.102) इत्यकारप्रत्यये विहिते विषयसप्तम्यामपि गोपेत्यनिष्टं स्यादित्यभिप्रायः। यथायथम् इति। यो यतः प्राप्नोति स पश्चादुत्पत्तिविकल्पादुत्तरकालं ततो भवतीत्यर्थः॥

Prakriyasarvasvam

आर्धधातुकविवक्षायामायादयो वा स्युः । ‘अतो लोपः’। गोपाय्यते, गुप्यते । लुङि आयपक्षे सिच इट् । ‘अतो लोपः’। अगोपायीत् । अगोपायिष्टाम्१ । कर्मणि अगोपायि अगोपायिषाताम् । अगोपायिढ्वम्, अगोपायिध्वम् । लिटि गोपाय ल्,

Sutra Prayogas

  • गोपितुम् (किरातार्जुनीयम्): आयादय आर्धधातुके वा इति आयप्रत्ययस्य विकल्पः।

  • गोपितुम् (शिशुपालवधम्): आयादय आर्धधातुके वा इति विकल्पादायप्रत्ययाभावः।

  • चकमे (भट्टिकाव्यम्): आयादय आर्धधातुके वा इति णिङभावपक्षे रूपम्।