31026: हेतुमति च¶
Padacheda: हेतुमति | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix णिच् is used after a root, when the operation of a causer is to be expressed.
Vasu English Translation¶
The affix णिच् is used after a root, when the operation of a causer is to be expressed. The hetu (1.4.55) means the mover of the independent agent; an operation relating to the hetu, such as directing &c. is called hetumat; as कठं कारयति ‘he causes to prepare a mat’; ओदनं पाचवति ‘he makes the rice to be cooked’. In other words, the affix णिच् forms the causative verbs.
Vart:- The affix comes also in the sense of ‘he does that’ after the words सूत्र &c. Thus सत्रं करोति = सूत्रयति ‘he makes sutra’ So also सूत्रयति.
Vart:- After words ending in कृत् affixes and describing legends, comes the affix णिच्, when the sense is ‘he does that’. The कृत् affix is elided, the word reassumes its basic (प्राकृतिक) form, and the base is as if the agent, thus कंसवधिमाचष्टे = कंसं घातयति; बलिबन्धमाचष्टे = बलिं बन्धयति; राजागमनमाचष्टे = राजानम् आगमयति.
Vart:- Under the conditions mentioned in the last वार्तिक, the upasarga आ is elided, when duration of time is meant expressing limit. Thus आरात्रिविवासं आचष्टे = रात्रिं विवासयति; here the आ of आरात्रि is elided.
Vart:- Under the conditions mentioned in the second vartika the affix णिच् has the sense of ‘making wonderful’, ‘meaning attaining that’. Thus उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं सम्भावयते = सूर्यमुद्गमयति ‘going from Ujjain he finds the sun rise in Mahismati (wonderful speed)’.
Vart :- When an asterism is in composition and the sense is that of knowing, there comes the affix णिच् after a word ending in कृत् affix, the कृत् affix is elided, the word reassumes its basic form and the base is as if the agent. Thus पुष्ययोगं जानाति = पुष्येण योजयति. So also मघाभिर्योजयति.
Bhashya¶
हेतुमति च (643) (401 णिच्प्रत्ययविधिसूत्रम् ॥ 6.1.2 आ. 16 सूत्रम्) (हेतुमच्छब्दार्थविशेष्यनिर्णयाधिकरणम्) (विप्रतिपत्तिभाष्यम्) कथमिदं विज्ञायते - हेतुमत्यभिधेये णिज्भवतीति, आहोस्वित् - -हेतुमति यो धातुर्वर्तते इति ॥ (आक्षेपभाष्यम्) युक्तं पुनरिदं विचारयितुम्। नन्वनेनासंदिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम्, यावता हेतुमति च इत्युच्यते। यदि हि प्रकृत्यर्थविशेषणं स्याद्; हेतुमतः इत्येव ब्रूयात् ॥ (आक्षेपबाधकभाष्यम्) नैतदस्ति। भवन्ति हि विषयसप्तम्योऽपि। तद्यथा - प्रमाणे यत्प्रातिपदिकं वर्तते स्त्रियां यत् प्रातिपदिकं वर्तत इति ॥ एवमिहापि हेतुमत्यभिधेये णिज्भवतीति, हेतुमति वा यो धातुर्वर्तते इति जायते विचारणा ॥ (समाधानभाष्यम्) अत उत्तरं पठति - - (1770 प्रत्ययार्थविशेषणतावार्तिकम् ॥ 1 ॥) - हेतुमतीति कारकोपादानं प्रत्ययार्थपरिग्रहार्थम् यथा तनूकरणे तक्षः- (भाष्यम्) हेतुमतीति कारकमुपादीयते। किं प्रयोजनम्?। प्रत्ययार्थपरिग्रहार्थम्। एवं सति प्रत्ययार्थः सुपरिगृहीतो भवति। यथा तनूकरणे तक्षः इति तनूकरणमुपादीयते ॥ (प्रकृत्यर्थविशेषणतासाधकभाष्यम्) यदि तर्हि तद्वत्प्रकृत्यर्थविशेषणमिदं भवति। प्रकृत्यर्थविशेषणं हि तत्तत्र विज्ञायते - तनूकरणक्रियायां तक्षः इति। (प्रकृत्यर्थविशेषणत्वाभ्युपगमभाष्यम्) अस्तु प्रकृत्यर्थविशेषणम्। को दोषः?। (प्रकृत्यर्थविशेषणपक्षदूषणप्रदर्शनभाष्यम्) इह हि - उक्तः करोति, प्रेषितः करोतीति णिच् प्राप्नोति ॥ प्रत्ययार्थविशेषणे सति पुनर्न दोषो भवति। स्वशब्देनोक्तत्वान्न भविष्यति ॥ (प्रकृत्यर्थविशेषणपक्षेऽपि दोषाभावप्रतिपादकभाष्यम्) प्रकृत्यर्थविशेणेऽपि सति न दोषः। यत्र नान्तरेण शब्दमर्थस्य गतिर्भवति,तत्र शब्दः प्रयुज्यते। यत्र ह्यन्तरेणापि शब्दमर्थस्य गतिर्भवति न तत्र शब्दः प्रयुज्यते ॥ (प्रकृत्यर्थविशेषणपक्षे दूषणभाष्यम्) इह तर्हि पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति उभयोः कर्त्रोलेनाभिधानं प्राप्नोति ॥ प्रत्ययार्थविशेषणे सति पुनर्न दोषः। प्रधानकर्तरि लादयो भवन्तीति प्रधानकर्ता लेनाभिधीयते। यश्चात्राप्रधानं कर्ता, सिद्धा तत्र कर्तरीत्येव तृतीया ॥ (प्रकृत्यर्थविशेषणपक्षदूषणभाष्यम्) इह च गमितो ग्रामं देवदत्तो यज्ञदत्तेनेति अव्यतिरिक्तो गत्यर्थ इति कृत्वा गत्यर्थानां क्तः कर्तरीति कर्तरि क्तः प्राप्नोति ॥ इह च व्यतिभेदयन्ते व्यतिच्छेदयन्त इति अव्यतिरिक्तो हिंसार्थ इति कृत्वा न गतिहिंसार्थेभ्य इति प्रतिषेधः प्राप्नोति ॥ (प्रत्ययार्थविशेषणपक्षाभ्युपगमभाष्यम्) अस्तु तर्हि प्रत्ययार्थविशेषणम्। (प्रत्ययार्थविशेषणपक्षदूषणभाष्यम्) यदि प्रत्ययार्थविशेषणं, पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति प्रयोज्ये कर्तरि कर्मसंज्ञा प्राप्नोति। भवति हि तस्य तस्मिन्नीप्सा। इह च ग्रामं गमयति ग्रामाय गमयतीति व्यतिरिक्तो गत्यर्थ इति कृत्वा गत्यर्थकर्मणीति द्वितीयाचतुर्थ्यौ न प्राप्नुतः ॥ इह चैधोदकस्योपस्कारयतीति व्यतिरिक्तः करोत्यर्थ इति कृत्वा कृञ्ञः प्रतियत्ने इति षष्ठी न प्राप्नोति ॥ इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामिति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति ॥ इह चाभिषावयति परिषावयतीति व्यतिरिक्तः सुनोत्यर्थ इति कृत्वा उपसर्गात्सुनोतिसुवतीत्यादिना षत्वं न प्राप्नोति ॥ (प्रत्ययार्थविशेषणपक्षे प्रथमदूषणपरिहारभाष्यम्) नैष दोषः। यत्तावदुच्यते - पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति प्रयोज्ये कर्तरि कर्मसंज्ञा प्राप्नोतीति ॥ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणीत्येतन्नियमार्थं भविष्यति - एतेषामेव ण्यन्तानां यः कर्ता स णौ कर्मसंज्ञो भवति, नान्येषाम् इति ॥ (प्रत्ययार्थविशेषणपक्षे द्वितीयदूषणपरिहारभाष्यम्) यदप्युच्यते - इह च ग्रामं गमयति ग्रामाय गमयतीति व्यतिरिक्तो गत्यर्थ इति कृत्वा गत्यर्थकर्मणी द्वितीयाचतुर्थ्यौ न प्राप्नुत इति ॥ नासावेवं प्रेष्यते - -गच्छ ग्राममिति। कथं तर्हि? साधनविशिष्टां क्रियामसौ प्रेष्यते ग्रामं गच्छ ग्रामाय गच्छेति ॥ (तृतीयदूषणपरिहारभाष्यम्) यदप्युच्यते - इह च एधोदकस्योपस्कारयतीति व्यतिरिक्तः करोत्यर्थ इति कृत्वा कृञ्ञः प्रतियत्न इति षष्ठी न प्राप्नोतीति ॥ नासावेवं प्रेष्यते - -उपस्कुरुष्वैधो दकस्येति। कथं तर्हि साधनविशिष्टां क्रियामसौ प्रेष्यते एधो दकस्योपस्कुरुष्वेति ॥ (चतुर्थदुषणपरिहारभाष्यम्) यदप्युच्यते - इह भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामिति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोतीति ॥ उक्तं तत्र कृद्ग्रहणस्य प्रयोजनं कर्तृभूतपूर्वमात्रेऽपि षष्ठी यथा स्यादिति। (पञ्चमदूषणपरिहारभाष्यम्) यदप्युच्यते - इह चाभिषावयति परिषावयतीति व्यतिरिक्तः सुनोत्यर्थ इति कृत्वा उपसर्गात्सुनोतीत्यादिना षत्वं न प्राप्नोतीति। नासावेवं प्रेष्यते सुनु अभीति। कथं तर्हि? उपसर्गविशिष्टां क्रियामसौ प्रेष्यते अभिषुण्विति ॥ (अनुयोगभाष्यम्) युक्तं पुनरिदं विचारयितुम्। नन्वनेनासंदिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम्। यावता व्यक्तमर्थान्तरं गम्यते पचति पाचयतीति च ॥ (समाधानभाष्यम्) बाढं युक्तम् ॥ इह पचेः कः प्रधानार्थः?। याऽसौ तण्डुलानां विक्लित्तिः। अथेदानीं तदभिसंधिपूर्वकं प्रेषणमध्येषणं वा। युक्तं यत्सर्वं पच्यर्थः स्यात् ॥ (आक्षेपभाष्यम्) अथ हेतुमतीति को मत्वर्थः ॥ (समाधानभाष्यम्) हेतुः कर्तास्य स हेतुमतीति। (1771 निमित्तमात्रस्य हेतुशब्दार्थत्वसमर्थकवार्तिकम् ॥ 2 ॥) - हेतुनिर्देशश्च निमित्तमात्रे, भिक्षादिषु दर्शनात्- (भाष्यम्) हेतुनिर्देशश्च निमित्तमात्रे द्रष्टव्यः। यावद् ब्रूयाद् - निमित्तं कारणम्, तावद् - हेतुरिति। किं प्रयोजनम्?। भिक्षादिषु दर्शनात्। भिक्षादिषु हि णिज् दृश्यते - -भिक्षा वासयति कारीषोग्निरध्यापयतीति ॥ (अनुयोगभाष्यम्) किं पुनः कारणं परिभाषिके हेतौ न सिध्यति? ॥ (समाधानभाष्यम्) एवं मन्यते चेतनावत एतद्भवति - प्रेषणमध्येषणं चेति। भिक्षाश्चाचेतनाः ॥ (समाधानबाधकभाष्यम्) नैष दोषः। नावश्यं स एव वासं प्रयोजयति य इहोष्यताम् इति ब्रवीति किं तर्हि? तूष्णीमप्यासीनो यस्तत्समर्थान्याचरति सोऽपि वासं प्रयोजयति। भिक्षाश्चापि प्रचुरा व्यञ्जनवत्यो लभ्यमाना वासं प्रयोजयन्ति ॥ तथा कारीषोऽग्निर्निर्वाते एकान्ते सुप्रज्वलितोध्ययनं प्रयोजयति ॥ (आक्षेपभाष्यम्) इह कश्चित्कंचिदाह पृच्छतु मा भवान् अनुयुङूक्तां मा भवान् इति अत्र णिच् कस्मान्न भवति? (समाधानभाष्यम्) अकर्तृत्वात्। न ह्यसौ संप्रति पृच्छति। तूष्णीमास्ते ॥ (आक्षेपभाष्यम्) किं च भो वर्तमानकालाया एव क्रियायाः कर्त्रा भवितव्यम्, न भूतभविष्यत्कालायाः ॥ (समाधानभाष्यम्) भूतभविष्यत्कालाया अपि भवितव्यम्। (अभिसंबन्धस्तत्र क्रियते - इमां क्रियामकार्षीद्, (इमां क्रियां) करिष्यतीति ॥ (प्रागुक्ताकर्तृत्वोपपादनभाष्यम्) इह पुनर्न कश्चिदभिसंबन्धः क्रियते। न चासौ संप्रति पृच्छति, न चासौ प्रक्ष्यति तूष्णीमास्ते?। (अकर्तृत्वबाधकभाष्यम्) यदि तर्हि कर्ता नास्ति। कथं तर्हि कर्तृप्रत्ययेन लोटाभिधीयते? ॥ (आक्षेपभाष्यम्) अथ कथमस्मिन्नपृच्छत्ययं पृच्छतिर्वर्तते? ॥ (समाधानभाष्यम्) अभिसंबन्धस्तत्र क्रियते - इमां क्रियां कुर्विति ॥ (अकर्तृत्वबाधकभाष्यम्) कर्त्रापि तर्ह्यभिसंबन्धः क्रियते। कथम्?। कर्ता अस्या क्रियाया भवेति ॥ (अकर्तृत्वसाधकभाष्यम्) एवं न च कर्ता कर्तृप्रत्ययेन लोटाभिधीयते ॥ (कर्तृत्वसद्भावेऽपि समाधानभाष्यम्) अथापि कथंचित्कर्ता स्यात्, एवमपि न दोषः। लोटोक्तत्वात् प्रैषस्य णिज्न भविष्यति। विधीयन्ते ह्येतेष्वर्थेषु प्रैषादिषु लोडादयः ॥ यत्र च द्वितीयः प्रयोज्योऽर्थो भवति भवति तत्र णिच्। तद्यथा - आसय शाययेति। (1772 आक्षेपवार्तिकम् ॥ 3 ॥ ) - कृष्यादिषु चानुत्पत्तिः- (भाष्यम्) कृष्यादिषु चानुत्पत्तिर्वक्तव्या। एकान्ते तूष्णीमासीन उच्यते पञ्चभिर्हलैः कृषतीति। तत्र भवितव्यं पञ्चभिर्हलैः कर्षयतीति। (1773 समाधानवार्तिकम् ॥ 4 ॥) - कृष्यादिषु चानुत्पत्तिर्नाना क्रियाणां कृष्यर्थत्वात्- (भाष्यम्) कृष्यादिषु चानुत्पत्तिः सिद्धा। कुतः?। नानाक्रियाणां कृष्यर्थत्वात्। नाना क्रियाः कृषेरर्थाः। नावश्यं कृषतिर्विलेखन एव वर्तते। किं तर्हि?। प्रतिविधानं करोति, स कृष्यर्थः ॥ आतश्च प्रतिविधानेऽपि वर्तते यदहरेवासौ न प्रतिविधत्ते, तदहरेव तत्कर्म न प्रवर्तते ॥ (1774 आक्षेपवार्तिकम् ॥ 5 ॥) - यज्यादिषु चाविपर्यासः- (भाष्यम्) यज्यादिषु चाविपर्यासो वक्तव्यः। पुष्यमित्रो यजते याजका याजयन्तीति। तत्र भवितव्यं पुष्यमित्रो याजयते याजका याजयन्तीति ॥ (1775 समाधानवार्तिकम् ॥ 6 ॥) - यज्यादिषु चाविपर्यासो नानाक्रियाणां यज्यर्थत्वात्- (भाष्यम्) यज्यादिषु चाविपर्यासः सिद्धः। कुतः। नानाक्रियाणां यज्यर्थत्वात्। नाना क्रिया यजेरर्थाः। नावश्यं यजिर्हविः प्रक्षेपण एव वर्तते। किं तर्हि। त्यागेऽपि वर्तते। तद्यथा। अहो यजत इत्युच्यते यः सुष्ठु त्यागं करोति। तं च पुष्यमित्रः करोति याजकाः प्रयोजयन्तीति ॥ (1776 णिच्प्रत्ययविधिवार्तिकम् ॥ 7 ॥) - तत् करोतीत्युपसंख्यानं सूत्रयत्याद्यर्थम्- (भाष्यम्) तत् करोतीत्युपसंख्यानं कर्तव्यम्। किं प्रयोजनम्। सूत्रयत्याद्यर्थम्। सूत्रं करोति सूत्रयति (मूत्रयतीति) (आक्षेपभाष्यम्) इह व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयतीति वाक्ये षष्ठी, उत्पन्ने च प्रत्यये द्वितीया। केनैतदेवं भवति? ॥ (समाधानभाष्यम्) योसौ सूत्रव्याकरणयोरभिसंबन्धः स उत्पन्ने प्रत्यये निवर्तते अस्ति च करोतेर्व्याकरणेन सामर्थ्यमिति कृत्वा द्वितीया भविष्यति ॥ (1777 णिच्प्रत्ययविधिवार्तिकम् ॥ 8 ॥) - आख्यानात्कृतस्तदाचष्टे, कृल्लुक्, प्रकृतिप्रत्यापत्तिः, प्रकृतिवच्च कारकम्- (भाष्यम्) आख्यानात्कृदन्ताणिज्वक्तव्यः तदाचष्ट इत्येतस्मिन्नर्थे। कृल्लुक्, प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतीति वक्तव्यम्। कंसवधमाचष्टे कंसं घातयति। बलिबन्धमाचष्टे बलिं बन्धयतीति ॥ (1778 णिच्प्रतिषेधवार्तिकम् ॥ 9 ॥) - आख्यानाच्च प्रतिषेधः- (भाष्यम्) आख्यानशब्दाच्च प्रतिषेधो वक्तव्यः - आख्यानमाचष्ट इति ॥ (पूर्ववार्तिकस्थाख्यानशब्दग्राह्यनिर्णयाधिकरणम्) (विप्रतिपत्तिभाष्यम्) किं पुनर्यान्येतानि संज्ञाभूतानि आख्यानानि तेभ्य उत्पत्त्या भवितव्यम्। आहोस्विन् क्रियाख्यानमात्रात् ॥ (विशेषजिज्ञासाभाष्यम्) किं चातः?। (संज्ञाभूताख्यानग्रहणपक्षदूषणभाष्यम्) यदि संज्ञाभूतेभ्यः। इह न प्राप्नोति - राजागमनमाचष्टे राजानमागमयतीति ॥ (क्रियाख्यानमात्रग्रहणपक्षभाष्यम्) अथ क्रियाख्यानमात्रम्। न दोषो भवति ॥ यथा न दोषस्तथास्तु ॥ (1779 णिच्प्रत्ययवार्तिकम् ॥ 10 ॥) - दृश्यर्थायां च प्रवृत्तौ- (भाष्यम्) दृश्यर्थायां च प्रवृत्तौ कृदन्ताण्णिज् वक्तव्यः, तदाचष्टे इत्येतस्मिन्नर्थे। कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतीति वक्तव्यम्। मृगरमणमाचष्टे मृगान् रमयति ॥ दृश्यर्थायामिति किमर्थम्?। यदा हि ग्रामे मृगरमणमाचष्टे मृगरमणमाचष्ट इत्येव तदा भवति ॥ (1780 णिच्प्रत्ययविधिवार्तिकम् ॥ 11 ॥) - आङ् लोपश्च कालात्यन्तसंयोगे मर्यादायाम्- (भाष्यम्) कालात्यन्तसंयोगे मर्यादायां कृदन्ताण्णिज् वक्तव्यः तदाचष्ट इत्येतस्मिन्नर्थे। आङ्लोपश्च कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतीति वक्तव्यम्। आरात्रिविवासमाचष्टे रात्रिं विवासयतीति ॥ (1781 णिच्प्रत्ययविधिवार्तिकम् ॥ 12 ॥) - चित्रीकरणे प्रापि - (भाष्यम्) चित्रीकरणे प्राप्तावर्थे कृदन्ताण्णिज् वक्तव्यः। कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतीति वक्तव्यम्। उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयते। सूर्यमुद्गमयतीति ॥ (1782 णिच्प्रत्ययविधिवार्तिकम् ॥ 13 ॥) - नक्षत्रयोगे ज्ञि- (भाष्यम्) नक्षत्रयोगे जानात्यर्थे कृदन्ताण्णिज् वक्तव्यः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकं भवतीति वक्तव्यम्। पुष्ययोगं जानाति पुष्येण योजयति मघाभिर्योजयतीति। (अनुयोगभाष्यम्) तत्तर्हीदं बहु वक्तव्यम्?। (1783 प्रत्याख्यानवार्तिकम् ॥ 14 ॥) न वा सामान्यकृतत्वाद्धेतुतो ह्यविशिष्टम्। (भाष्यम्) न वा वक्तव्यम्। किं कारणम्?। सामान्यकृतत्वात् सामान्येनैवात्र णिज् भविष्यति हेतुमतीति ॥ किं कारणम्?। हेतुतो ह्यविशिष्टम्। हेतुतो ह्यविशिष्टमेतद् भवति। तुल्या हि हेतुता देवदत्ते चादित्ये च। (आक्षेपभाष्यम्) न सिध्यति। स्वतन्त्रस्य प्रयोजको हेतुसंज्ञो भवतीत्युच्यते। न चासावादित्यं प्रयोजयति। (1783 समाधानवार्तिकप्रथमखण्डम् ॥) - स्वतन्त्रप्रयोजकत्वादप्रयोजक इति चेन्मुक्तसंशयेन तुल्यम्- (भाष्यम्) यं भवान् स्वतन्त्रप्रयोजकं मुक्तसंशयं न्याय्यं मन्यते पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति, तेनैतत्तुल्यम् ॥ कथम्?। (1784 समाधानवार्तिकद्वितीयखण्डम् ॥ 15) - प्रवृत्तिर्ह्युभयत्रानपेक्ष्य - (भाष्यम्) प्रवृत्तिर्ह्युभयत्रानपेक्ष्यैव किंचिद्भवति देवदत्ते चादित्ये च ॥ नेह कश्चित्परोनुग्रहीतव्य इति प्रवर्तते। सर्व इमे स्वभूत्यर्थं प्रवर्तन्ते ॥ ये तावदेते गुरुशुश्रूषवो नाम तेऽपि स्वभूत्यर्थं प्रवर्तन्ते - पारलौकिकं च नो भविष्यति, इह च नः प्रीतो गुरुरध्यापयिष्यतीति ॥ तथा - य एते दासाः कर्मकरा नाम तेऽपि स्वभूत्यर्थं प्रवर्तन्ते - भक्तं चैलं च लप्स्यामहे। परिभाषाश्च न नो भविष्यन्तीति ॥ तथा - य एते शिल्पिनो नाम एतेऽपि स्वभूत्यर्थे प्रवर्तन्ते - वेतनं च लप्स्यामहे। मित्राणि च नो भविष्यन्तीति। (वार्तिकादिशेषभाष्यम्) एवमेतेषु सर्वेषु स्वभूत्यर्थे प्रवर्तमानेषु - (1885 देवदत्तादित्ययोः प्रयोज्यत्वसाधकवार्तिकम् ॥ 16 ॥) - कुर्वतः प्रयोजकः इति चेत्तुल्यम्- (भाष्यम्) यदि कश्चित्प्रयोजको नाम कुर्वतो भवति तेनैतत्तुल्यम् ॥ (आक्षेपभाष्यम्) यदि तर्हि सर्व इमे स्वभूत्यर्थे प्रवर्तन्ते, कः प्रयोज्यार्थः? ॥ (समाधानभाष्यम्) यदभिप्रायेषु सज्जन्ते इर्दृशौ वर्ध्यौ कुरु, इर्दृशौ पुटकौ कुरु इति। आदित्यश्चास्याभिप्राये सज्जते। एष तस्याभिप्रायः उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयेय इति ॥ तं चास्यादित्योभिप्रायं निर्वर्तयति ॥ (आक्षेपभाष्यम्) भवेदिह वर्तमानकालता युक्ता स्याद् उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयते सूर्यमुद्गयतीति, तत्रस्थस्य हि तस्यादित्य उदेति। इह तु कथं वर्तमानकालता कंसे घातयति बलिं बन्धयतीति। चिरहते च कंसे, चिरबद्धे च बलौ ॥ (समाधानभाष्यम्) अत्रापि युक्ता ॥ कथम्?। ये तावदेते शौभिका नाम एते प्रत्यक्षं कंसं घातयन्ति प्रत्यक्षं च बलिं बन्धयन्तीति ॥ (आक्षेपभाष्यम्) चित्रेषु कथम्?। (समाधानभाष्यम्) चित्रेष्वपि उद्गूर्णा निपतिताश्च प्राहारा दृश्यन्ते कंसस्य कृष्णस्य च ॥ (आक्षेपभाष्यम्) ग्रन्थिकेषु कथम्। यत्र शब्दग्रन्थगड्डमात्रं लक्ष्यते। (समाधानभाष्यम्) तेऽपि हि तेषामुत्पत्तिप्रभृत्याविनाशात् तदृद्धीर्व्याचक्षाणाः सतो बुद्धिविषयान् प्रकाशयन्ति ॥ आतश्च सतः। व्यामिश्राश्च दृश्यन्ते - केचित् कंसभक्ता भवन्ति, केचिद्वासुदेवभक्ताः। वर्णान्यत्वं खल्वपि पुष्यन्ति - केचित्कालमुखा भवन्ति केचिद् रक्तमुखाः। त्रैकाल्यं खल्वपि लोके लक्ष्यते - गच्छ हन्यते कंसः, गच्छ घानिष्यते कंसः, किं गतेन हतः कंस इति। हेतुमति च ॥ 26 ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायस्य प्रथमपादे द्वितीयमाह्निकम् ॥
Kashika¶
हेतुः स्वतन्त्रस्य कर्तुः प्रयोजकः, तदीयो व्यापारः प्रेषणादिलक्षणो हेतुमान्, तस्मिन्नभिधेये धातोर्णिच् प्रत्ययो भवति। कटं कारयति। ओदनं पाचयति॥ तत्करोतीत्युपसंख्यानं सूत्रयतीत्याद्यर्थम्॥ सूत्रं करोति, सूत्रयति॥ आख्यानात् कृतस्तदाचष्ट इति णिच् कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्॥ आख्यानात् कृदन्ताण् णिज् वक्तव्यस्तदाचष्ट इत्येतस्मिन्नर्थे, कृल्लुक् , प्रकृतिप्रत्यापत्तिः, प्रकृतिवच्च कारकं भवति। कंसवधमाचष्टे, कंसं घातयति। बलिबन्धमाचष्टे, बलिं बन्धयति। राजागमनमाचष्टे, राजानमागमयति॥ आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम्॥ आरात्रिविवासमाचष्टे, रात्रिं विवासयति॥ चित्रीकरणे प्रापि॥ उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयते, सूर्यमुद्गमयति॥ नक्षत्रयोगे ज्ञि॥ पुष्ययोगं जानाति, पुष्येण योजयति। मघाभिर्योजयति॥
Siddhanta Kaumudi¶
प्रयोजकव्यापारेप्रेषणादौ वाच्ये धातोर्णिच् स्यात् । भवन्तं प्रेरयति भावयति । णिचश्च - (SK2564) इति कर्तृगे फले आत्मनेपदम् । भावयते । भावयांबभूव ॥
Laghu Siddhanta Kaumudi¶
प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात्। भवन्तं प्रेरयति भावयति॥
Balamanorama¶
हेतुमति च - हेतुमति च ।सत्यापपाशे॑त्यतो णिजित्यनुवर्तते ।हेतुः प्रयोजकः = आधारतया अस्यास्तीति हेतुमान् = प्रयोजकनिष्ठः प्रेषणादिव्यापारः, तस्मिन् वाच्ये णिच् स्यादित्यर्थः ।धातोरेकाचो हलादे॑रिति धातोरित्यनुवर्तते । तदाह - प्रयोजकव्यापार #इति । प्रेषणादावित्यादिशब्देन अध्येषणानुमत्युपदेशादीनां ग्रहणम् । तत्र भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणम् । आज्ञेत्यर्थः । समानस्याऽधिकस्य च सख्याचार्यादेः प्रवर्तना- अध्येषणा । अनुमति — राजादेः समंतिः । ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तना — उपदेशः । हननाद्भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः । प्रयोजकनिष्ठप्रवर्तनायां णिजिति फलितम् । एते तु विशेषाः प्रकरमादिना अवगम्यन्ते । ‘कुलालो घटं करोती’ त्यत्र तु न णिच्, प्रयोज्यप्रयोजकोभयसमभिव्याहार एव तत्प्रवृत्तेरित्यन्यत्र विस्तरः । भवन्तमिति । देवदत्तो यज्वा भवति । तं प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्यभवनस्य मुख्यकर्ता यज्वा, तस्य यज्वभवने प्रवर्तयिता याजकादिः प्रयोजकः, तन्निष्ठआं प्रेरणायां भूधातोर्णिच् । वृद्ध्यावादेशौ । भावीति णिजन्तम् । तस्माद्भवनानुकूलव्यापारार्थकाल्लटिभावयती॑ति रूपम् । भवन्तं प्रेरयतीति फलितोऽर्थः । भावयांबभूवेति । कर्तृगामिन्यपि क्रियाफले भूधातोरनात्मनेपदित्वादनुप्रयुज्यमानादपि नात्मनेपदमिति भावः ।
Tattvabodhini¶
हेतुमति च - हेतुमति च । स्वनिष्ठाधारतानिरूपिताधेयतासंबन्धेन हेतुर्यत्रास्ति स हेतुमान् = व्यापारः, तस्मिन्वाच्ये णिजित्याह — प्रयोजकव्यापार इति । प्रयोजकश्चेतनाऽचेतनसाधारण्येन विवक्षितः । स च क्वचित्फलरूपः ।देवदत्तः गमयती॑ त्यादौ सिद्धः ।भिक्षा वासयति॑सङ्ग्रामो वासयती॑त्यादौ तु फलरूपः । प्रेषणादाविति । भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेरणा । आज्ञेत्यर्थः । आदिशब्देनाऽध्येषणानुमत्यादीनमुपादानाम् । समानस्याऽधिकस्य वा ऋत्विगाचार्यादेः प्रवर्तना - अध्येषणम् । प्रार्थनेत्यर्थः । अनुमतिस्तु राजादेः संमतिः, तां विना यागादिक्रिया न निष्पद्यत इत्यनुमतिमात्रेण राजादिः प्रयोजकः ।अनुमत्यादी॑त्यादिशब्देनात्रोपदेशानुग्रहयोरुपादानम् ।ज्वरितः कषायं पिबे॑दित्युपदेशमात्रेण वैद्यादिः प्रयोजकः । यस्तु केनचिद्धन्तुमिष्टं पलायमानं निरुणद्धि सोऽपि हन्तुरनुग्राहकत्वेन प्रयोजकः । सर्वेऽप्येते विशेषाः कथं णिच्प्रत्ययगम्या इति चेत् । अत्राहुः — सर्वानुगतं प्रवर्तनासामान्यं णिचोऽर्थः, विशेषास्त्वर्थप्रकरणादिगम्या इति । नन्वेवं णिचो लोडादीनां च पर्यायता स्यात्ततश्चइदानीं पृच्छतु भवा॑निति वक्तवयेप्रच्छयती॑ति णिजप प्रयुज्येतेति चेत् । मैवम् । कर्तुः प्रयोजको हि हेतुः, प्रैषविषयो यः संबोध्यो दैवदत्तादिः स तु नाद्यादि प्रश्नकर्तृत्वेनावधारितः । तथा च प्रयोज्यप्रवृत्त्युपहिता या प्रयोजकनिष्ठप्रवृत्तिः सा णिजर्थः, तदनुपहिता प्रयोजकप्रवृत्तिस्तु लोडर्थ इत्युभयोर्भेदः । उक्तं च - द्रव्यमात्रस्य तु प्रैषे पृच्छादेर्लोड् विधीयते । सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः॑ ।इति । अस्यार्थः - कर्तृत्वेनाऽनवधारितस्य देवदत्तदेस्तु प्रैषेप्रच्छ ज्ञीप्सायाटमित्यादेर्लोड्भवति । प्रयोज्यप्रवृत्त्युपहितप्रवृत्त्याश्रयस्य प्रयुक्तिस्तु यदा सा णिचो विषय इति । किं च प्रयोक्तृनिष्ठा प्रयुक्तिर्लोडर्थः, प्रयोक्रप्रयोक्तृकर्तका तु णिजर्थः ।पच देवदत्ते॑त्यत्र हि वक्तैव प्रेरकः ।पाचयती॑त्यादौ वक्तृभिन्नः,पाचयामी॑त्यादौ तु वक्तेति दिक् ।
Padamanjari¶
हेतुमति च॥ लोके फलसाधनयोग्यः पदार्थो हेतुरित्युच्यते, तस्य ग्रहणे अध्ययनेन वसतीत्यत्रापि प्रसज्येत, हेतुमद्ग्रहणं चानर्थकं स्यात्, कथम्?’करणे’ इति वर्तते, तस्य विशेषणं हतुमतीति, करणं क्रिया, सर्वैव च क्रिया हेतुमतोति किं विशेषणोपादानेन ! ननु शब्दोपाते हेतौ यथछा स्यादित्येवमर्थमेतत्स्याद्यथा’समस्तृतीयायुक्तात्’ इत्यत्र श्रयमाणायां तृतीयायामात्मनेपदं यथा स्यातदर्थयोगमात्रे मा भूदित्येवमर्थ तृतीयायुक्तग्रहणम्। एवं तर्ह्यसति विरोधे कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणं युक्तमिति तत्प्रयोजको हेतुश्चऽ इति यस्य संज्ञा विहिता तस्यैव पारिभाषिकस्य ग्रहणमिति मत्वाऽऽह - हेतुः स्वतन्त्रस्य कर्तुः प्रयोजक इति। तदीयो व्यापार इति। प्रवर्तना। तस्यास्त्ववान्तरभेदमाह - प्रेषणाध्येषणादिलक्षण इति। भृत्यादेर्निकृष्टस्य प्रवर्तनाउप्रेषणम्, आज्ञेत्यर्थः। गुर्वादेराराध्यस्य प्रवर्तनाउ अघ्येषणम्, प्रार्थनेत्यर्थः। आदिशब्देन तत्स्थमर्थाचरणं गृह्यते, तच्च बहुधा भिद्यते - अनुमतिः, उपदेशः, अनुग्रह इति। तत्र यस्यानुमतिमन्तरेणार्थो न निर्वर्तते तस्य राजादेरनुमत्या प्रयोजकत्वम्, वैद्यादेस्तु’मुस्तापर्पटकं पिबेज्ज्वरितः’ इत्याद्यौपदेशेन प्रवर्तकत्वम्, यः पुनः केनचिज्जिघांसितं पलायमानं निरुणद्धि, निरुणद्धिश्च हन्यते, तत्र निरोद्धा हन्तुरनुग्रहं करोतीत्यनुग्रहेण तस्य प्रवर्तकत्वम्। सर्वश्चायं विशेषः प्रकरणादिगम्यः। सर्वत्रानुगतं प्रवर्तमानमेव तु णिजर्थः। ननु यथा पितृमानित्युक्ते यं प्रति पितृत्वं स एव गम्यते तथात्रापि यं प्रति हेतुत्वं स एव हेतुमानिति युक्तम्, कञ्च प्रति हेतुत्वम्?’तत्प्रयोजकम्’ इति वचनात्कर्तारं प्रतीति प्राप्तं’कारके’ इत्यधिकारात्क्रियापेक्षत्वाच्च कारकभावस्य यस्मिन्व्यापारे प्रयोजकरूपेणोपयुज्यते तमेव प्रति, स च प्रयोज्यव्यापारोऽधिश्रयणादिः सर्वसाधनसाध्यो विक्लित्यादिर्वेति तयोरेव हेतुमत्वं युक्तम्, न पुनः प्रयोजकव्यापारस्य। न हि तत्रासौ प्रयोजकरूपेणोपयुज्यते, किं तर्हि? कर्तॄऊपेण, यथा काष्ठस्य पाकापेक्षं करणत्वं न तु ज्वलनापेक्षम्, तदपेक्षं तु कर्तृत्वमेव? उच्यते - णिचः प्रकृतिभूतेन धातुनैवाभिधीयते सोऽर्थस्तेन फलाभावातत्र णिज्न भविष्यति। ननु पचतीत्युक्ते न ज्ञायते - किं स्वयमेव पचति? उतान्येन प्रवर्तितः? इत्यतोऽन्येन प्रवर्तितस्येयं प्रवृत्तिरिति द्योतनाय णिज् भवतु? एवं तर्हि हेतोरिति वक्तव्यम्,’करणे’ इत्येव, हेतोः करणे व्यापारे अभिधेये णिज् भवतीत्यर्थः। तथा तु न कृतम्। का गतिरिदानीं सूत्रस्य? अभिधानस्वाभाव्यमत्र हेतुः, स्वभावतो हि णिच् प्रत्ययः प्रयोजकव्यापारमाचष्टे। तेन पाकाद्यपेक्षया यो लब्धहेतुव्यपदेशः स हेतुत्वेनोपलक्षितो यस्यास्तीत्येवं प्रयोजकव्यापार एव मतुपोच्यते। अत्र द्वौ पक्षौ सम्भवतः - हेतुमतीति प्रकृत्यर्थनिर्द्देशः - हेतुमति यो धातुर्वर्तत इति, प्रत्ययार्थो वा - हेतुमति करणेऽभिधेये णिज् भवतीति। ननु पचति पाचयतीति च व्यक्तमर्थान्तरं गम्यते, तत्कथमस्य प्रकृत्यर्थत्वं शङ्क्यते? उच्यते - इह हि कः पचेः प्रधानार्थः? यासौ तण्डुलानां विक्लितिः, अधिश्रयणादीनां तु तादर्थ्यातदवच्छेदेन पच्यर्थता। यो हि पानार्थमुदकमाहरति, विक्रयार्थ च काष्ठान्याहरति, शीतं चापनेतुमग्निं समिन्धे नासौ पचतीत्युच्यते, तत्कस्य हेतोः? विक्लिति प्रति तादर्थ्याभावात् तदवच्छेदाभावाच्च। अतस्तादर्थ्यादेवाधिश्रयणादीनां पच्यर्थता, तद्वत्प्रयोजकव्यापारोऽपि तादर्थ्यादेव पच्यादिवाच्यो भविष्यति। णिच्प्रत्ययस्तु द्योतकः, तथा च योऽप्येकान्ते तूष्णीमासीनो भक्तबीजबलीवर्द्दैः प्रतिविधते, स उच्यते - पञ्चभिर्हलैः कृषतीति। तदेवं पक्षद्वयसम्भवे यद्याद्यः पक्ष आश्रीयते ततो यथा प्रकृत्यभिहिते णिज् भवति, एवमुक्तप्रेषितादिशब्दाभिरितेऽपि स्याद् - उक्तः करोति, प्रेषतितः करोतीति, हेतुमद्विषयत्वात्करोत्यर्थस्य, प्रत्ययार्थपक्षे तूक्तार्थत्वाण्णिजभावः? नैष दोषः; प्रयोजकव्यापारस्य द्योतनाय णिज्विधीयते तस्य स्वशब्देन द्योतितत्वाद् द्योत्याभावान्न भविष्यति। इह तर्हि पाचयत्योदनं देवदतो यज्ञदतेन द्वयोः कर्त्रोर्लेनाभिधानं प्राप्नएति, धातुवाच्यव्यापारे हि कर्तरि लो भवति पचिना च प्रयोजकव्यापारोऽप्यभिधीयते, प्रत्ययस्तु द्योतक इति धातुवाच्यव्यापारत्वसाम्यात् कर्त्रोरपि साम्यमिति द्वयोरप्यभिधानं प्राप्नोति - पाचयतो देवदतयज्ञदताविति। प्रत्ययार्थपक्षे तु प्रकृत्यर्थोपसर्जनस्य ण्यर्थस्य प्राधान्यातस्यैव कर्तरि लकारः। इह च गमितो ग्रामं देवदतो यज्ञदतेनेति प्रयोजकव्यापारस्यापि गमिवाच्यत्वादव्यतिरिक्तो गत्यर्थ इति कृत्वा गत्यर्थानां कर्तरि क्तः प्राप्नोति, प्रयोज्यस्य तु कर्मत्वातत्रैवेष्यते। उक्तं हि’ण्यन्ते कर्तुश्च कर्मणः’ इति। इह च व्यतिच्छेदयन्ते, व्यतिभेदयन्ते - अव्यतिरिक्तो हिसार्थ इति कृत्वा प्रयोजकव्यापारव्यतिहारविवक्षायामपि’न गतिहिंसार्थेभ्यः’ इति प्रतिषेधः प्राप्नोति। तदेवमाद्ये पक्षे दोषदर्शनाद् द्वितीयं पक्षमाश्रित्याह - तस्मिन्नभिधेय इति। किं चान्वयव्यतिरेकाभ्यां शब्दार्थावसायः। न च पचति पठति गच्छतीत्यादावन्तरेण णिचं क्वचिदपि प्रयोजकव्यापारोऽवसीयते, उत्पन्ने तु णिचि प्रतीयते, अतस्तदर्थत्वमेव युक्तम्। पञ्चभिर्हलैः कृषतीत्यत्र त्वनेकार्थत्वाद्धातूनां कृषिरेव प्रतिविधानेऽपि वर्तत इति युक्तम्, न पुनस्तद्दर्शनेन सर्वत्र प्रकृत्यर्थत्वम्। नन्वत्रापि पक्षे पाचयत्योदनं देवदतो यज्ञदतेनेत्यत्र ण्यर्थस्य प्राधान्यातेन व्याप्यमानस्य प्रयोज्यस्य कर्मसञ्ज्ञा प्राप्नोति? गतिबुद्धिप्रत्यवसानार्थेति नियमान्न भिवष्यति। इह तर्हि ग्रामं गमयति, ग्रामाय गमयतीति व्यतिरिक्तो गत्यर्थ इति कृत्वा’गत्यर्थकर्मणि’ इति द्वितीयाचतुर्थ्यौ न प्राप्नुतः? नैष दोषः; ग्रामोऽत्र गमेरेव कर्म, ग्रामकर्मकं गमनं कुर्विति प्रैषार्थः। इह तर्हि एधो दकस्योपस्कारयतीति व्यतिरिक्तः करोत्यर्थे इति’कृञः प्रतियत्ने’ इति षष्ठी न प्राप्नोति, सुट् तु करोतिधातुमात्राश्रयत्वाण्णिजुत्पतावपि तस्य रूपस्य भावात्सिद्ध्यति? अत्राप्येधोदककर्मके करोत्यर्थे प्रयुज्यते इति षष्ठी भविष्यति। इह तर्ह इभिषावयतीति व्यतिरिक्तः सुनोत्यर्थ इति ठुपसर्गात्सुनोतिऽ इति षत्वं न प्राप्नोति? अथात्राप्यभिषवं कुर्वित्युपसर्गविशिष्टे प्रकृत्यर्थे प्रयुक्तिरिति सिद्धं षत्वम्, यदा तु ण्यतैनैवोपसर्गस्य संबन्धस्तदा षत्वं भवति न वेति चिन्त्यम्। इह तर्हि भेदिका देवदतस्य यज्ञदतस्य काष्ठानामिति प्रयोज्ये कर्तरि कृद्योगलक्षणा षष्ठी न प्राप्नोति, अप्रधानत्वात्? तृतीयावद्भविष्यति, तद्यथा - पाचयत्योदनं देवदतो यज्ञदतेनेति प्रयोज्ये कर्तर्यञधानेऽपि तृतीया भवति व्याप्तेस्तथा षष्ठ।ल्पि भविष्यति। अथेह कथं णिज् भवति - भिक्षा वासयन्ति, कारीषोग्निध्यापयतीति? कथं च न स्यात्? अचेतनत्वात्, चेतनावत एतद्भावति - प्रेषणम्, अध्येषणमिति? नैष दोषः; नावश्यं स एव वासं प्रयाजयति य आह - उष्यतामिति, योऽपि तूष्णीमासीनस्तत्समर्थमा चरति सोऽपि वासं प्रयुङ्क्ते, भिक्षाश्च प्रचुराश्च व्यञ्जनवत्यश्च लभ्यमाना वासं प्रयुञ्जते। तथा कारीषोऽग्निर्निर्वात एकान्ते सुप्रज्वलितः शीतकृतमध्ययनविरोधिनमुपद्रवमपनयन् अध्ययनेऽनुकूलो भवति। तत्र यथा - अनुमतिरुपदेशोऽनुग्रहः - इत्येतेषु णिज् भवति तथाऽत्रापि भविष्यति। यद्यप्यनुमत्यादिषु प्रयोज्यव्यापारचोद्देशेन प्रवृत्तिः, इह तु न तथा; तथाप्यनुकूलाचरणमेव प्रयोजकव्यापारत्वेनाध्यारोप्यते। इह कश्चित्कञ्चिदाह - पृच्छतु मां भवान्, अनुयुक्तां मां भवानिति, तत्र प्रष्टा प्रयोज्यस्तस्य प्रेरकः प्रयोजक इति तद्व्यापारे णिज् प्राप्नोति, एकविषयत्वच्च णिचो लोडादीनां च पर्यायप्रसङ्गः? नैष दोषः, कर्तुः प्रयोजको हेतुरित्युक्तम्, प्रयोज्यश्चात्र न कर्ता। न ह्यसौ सम्प्रति पृच्छति तूष्णीमास्ते तस्य निर्व्यापारत्वात् कारकत्वमेव नास्ति कुतस्तद्विशेषः कर्तृत्वम्? कर्तृत्वमेव हि तस्य विधीयते प्रश्नक्रियायां कर्ता भवेति, यथा - राजा भव युध्यस्वेति राजत्वमेव विधीयते तत्र तदेवं प्रयोज्योऽकर्तेति प्रयोजकोऽपि न हेतुः, किमिदानीं पूर्वमेव कर्तुः सतः प्रयोजको हेतुः! यद्येवम्, व्यर्था प्रयुक्तिः। अथाप्युपरतिशङ्कया कचित्प्रयुक्तेरर्थवत्वं तथापि यत्राप्रवृतो बलादिना प्रवर्त्यते तत्र णिज् न प्राप्नोति? न ब्रूमः - प्रवृत्तिप्रवर्तन एव णिजिति, किन्तु प्रवर्ततितोऽपि प्रयोज्यो यत्र प्रवर्तत एव, न तु निवर्तते तत्र णिज् भवति। अनुवर्तमाना प्रयुक्तिः प्रयोज्यप्रवृतौ हेतुः, न मध्ये विच्छिन्ना। अतः प्रयोज्यप्रवृ-तिवेलायामपि बुद्धौ विपरिवर्तमाना सैव प्रवृत्तिहेतुस्तस्यामेव च दशायां णिज्वाच्यो भवति। तदेवं प्रयोज्यप्रवृत्युपहितप्रयुक्तिर्णिजर्थः, केवला तु लोडर्थ इति विवेकः। उक्तं च - द्रव्यमात्रस्य तु प्रैषे पृच्छयादेर्लोड् विधीयते। सक्रियस्य यदा प्रैषेस्तदा स विषयो णिचः॥ इति॥ किश्च - प्रयोक्तृधर्मः प्रयुक्तिर्लोडर्थः अनियतकर्तृकातु प्रयुक्तिर्णिजर्थः। तत्करोतीत्युपसंख्यानमिति। तदिति कर्मपरमेतत्, तेन द्वितीयान्तात्प्रत्ययः करोतीत्यत्र प्रकृत्यर्थमात्रं विवक्षितं न प्रत्ययार्थः, तेन ण्यन्ताद्भावकर्मणोर्भूतभविष्यतोर्द्धित्वबहुत्वयोश्च लो भवति। सूत्रं करोति सूत्रयतीति। इह व्याकरणस्य सूत्रं करोतीति वाक्ये द्रव्यरूपं सूत्रं सूत्रशब्देनोच्यते, तत्र व्यपदेशिवद्भावेन व्यतिरेकनिबन्धना षष्ठो, वृतौ तु व्याकरणं सूत्रयतीति प्रत्ययार्थभूतकरोत्यर्थाभिधायी सूत्रशब्दः सम्पद्यते। उक्तं हिठ्परार्थाभिधानं वृत्तिःऽ इति। तेन सत्वभावो निवृत इति सूत्रव्याकरणयोरभिसम्बन्धो निवर्तते। अस्ति च व्याकरणस्य करोतिना सामर्थ्यमिति द्वितीया भवति। यदि तु व्याकरणं सूत्रं करोतीति वाक्ये एव सामानाधिकरण्यं तदा माणवकं मुण्डयतीतिवद् व्याकरणं सूत्रयतीत्ययत्नसिद्धम्।’सूत्र अवमोचने’ ‘मूत्र प्रस्रवणे’ इति चुरादौ पाठादेव सूत्रयतीति सिध्यति। अनेकार्थत्वाच्चार्थान्तरेऽपि भविष्यति। गणपाठसिद्ध एव त्वर्थ उपसंख्यानेनापि प्रदर्शितः। आख्यानादिति वाक्यं व्याचष्टे - आख्यानात्कृदन्तादिति। आख्यायत इत्याख्यानम्,’कृत्यल्युटो बहुलम्’ इति कर्मणि त्लुट्। यत्किञ्चिदाख्यायते तत्सर्वं राजागमनादिकमप्याख्यानमिहाभिप्रेतम्,न कंसवधनलोचपाख्यानादिकमेव संज्ञा भूतम्। कृदन्तादिति कृद्ग्रहणेन गतिकारकपूर्वस्यापि ग्रहणमिति कंसवधराजागमनसूर्योद्गमनादेररि कृदन्तत्वम्। प्रकृतिप्रत्यापतिरिति। कृतो या प्रकृतिः सा विकारपरित्यागेन स्वेनैव रूपेणावतिष्ठत इत्यर्थः। प्रकृतिवच्च कारकमिति। यतत्र कृदन्ते संनिहितं कारकं तत्प्रकृतिवद्भवति। कृत्प्रकृतेः शुद्धे णिचि याद्दशं भवति ताद्दशमस्यापि ण्यन्तस्य भवतीत्यर्थः। कंसं घातयतीति हन्तेः’हनश्च वधः’ इत्यप् प्रत्ययो वधादेशश्च। हननमुवधः , कंसस्य वध इति कर्मणि षष्ठ।ल समासः, ततो णिच्, कृतो लुक्, प्रकृतेः प्रत्यापतिर्वधादेशपरित्यागेन हन्तिरूपेणावस्थानम्। यद्यप्यत्र सन्नियोगशिष्टानामन्यतराभावादुभयोरप्यभाव इत्येव वधादेशनिवृत्तिः सिद्ध्यति; तथापि पुष्येण योगं जानाति, पुष्येण योजयतीत्यत्र कुत्वस्यासन्नियोग शिष्टत्वातन्निवृत्तिर्न सिद्ध्यतीति प्रकृतिप्रत्यापतविचनम्। अथ कथं कंसमघातयत्, राजानमजीगमत्, यावता कंसवधराजागमनशब्दाभ्यां णिचि विहितेऽङ्गसंज्ञा नामधातुत्वं च तयोरेव स्याताम्, ततश्चाड्द्विर्वचने अपि तयोरेव स्याताम्? नैष दोषः;’प्रकृतिवच्च कारकम्’ इत्युक्तम्। कृत्प्रकृतेश्च शुद्धे णिचि विहिते कंसादिकारकं कीद्दशं भवति? धातावनन्तर्भूतं द्वितीयाद्यन्तम्, तेनात्रापि ताद्दशेनैव रूपेण भवितव्यम्। तेन राजानमागमयतीत्यत्र नलोपाभावोऽप्युपपन्नो भवति। एवमपि कंसं घातयतीत्यत्र’हो हन्तेर्ञ्णिन्नेषु’ इति कुत्वम्,’हनस्तो चिण्णलोः’ इति तत्वं च न प्राप्नोति, किं कारणम्? धातोः स्वरूपग्रहणे तत्प्रत्यये कार्य विज्ञायते। एवं तर्हि प्रकृतिवच्च कारकमिति चकारोभिन्नक्रमः कारकमित्यस्यानन्तरं द्रष्टव्यः, कार्यशब्दश्चाध्याहार्यः। एतदुक्तं भवति - कृत्प्रकृतिर्हन्त्यादिः, तस्याः शुद्धे णिचि याद्दशं रूपं भवति तथाऽस्यापि ण्यन्तस्य भवति, कार्यं च तद्वदेव भवतीति । एतेनाड्द्विर्वचने अपि व्याख्याते। बलिबन्धमिति। बन्धनमुबन्धः, पूर्ववत्कर्मणि षष्ठयाः समासः। शेषं पूर्ववत्। राजागमनमिति। अत्र कर्तरि षष्ठयाः समासः। राजानमागमयतीति। अत्र कृत्प्रकृतौ राजा कर्ता, तस्य गमेः शुद्धे णिचि’गतिबुद्धि’ इत्यादिना कर्मसंज्ञा भवतीत्यस्मिन्नप्यौपसंख्यानिके णिचि तथैव कर्मसंज्ञा भवति। इह तु देवदत पाकमाचष्टे इति णिचि विहिते देवदतेन पाचयतीति भवति। न हि देवदतस्य शुद्धे णिचि कर्मसंज्ञाऽस्ति; गत्यर्थादीनामेवेति नियमात्। इह तु मृगरमणमाचष्टे मृगान् रमयतीति यदा प्रतिपाद्यस्य दर्शनार्थमाख्यानं तदा णिजिष्यते, नान्यदा। तत्र यदाऽरण्यस्थो रममणान्मृगान्प्रतिपाद्यमाचष्टे - एत स्मिन्नवकाशे एवं मृगा रमन्त इति, तदा तस्य प्रतिपाद्यदर्शनार्था प्रवृत्तिरिति णिज् भवति। यदा तु ग्रामे मृगरमणमाचष्टे तदा तत्र मृगाणामसम्भवान्न तद्दर्शनार्था प्रवृत्तिरिति मृगरमणमाचष्ट इति वाक्यकेव भवति। एतच्च मृगरमणादिविषयमेव, राजागमनादौ त्वन्यदापि भवति। आङ्लेप इति। अत्राख्यानादिति न स सम्बद्ध्यते, मर्यादायां य आकारस्तस्य लोपो भवति। कृल्लुगित्यादि पूर्ववत्। आरात्रिविवास इति। विवसनमुविवासः, अतिक्रमणम्, रात्रेर्विवासो रात्रिविवासः, कर्तरि षष्ठयाः समासः, ततः ठाङ् मर्यादाभिविध्योःऽ इत्यव्ययीभावः। यावद्रात्रेरतिक्रमणं तावत्कथाः कथयतीत्यर्थः। वसेरकर्मकत्वाद्’गतिबुद्धि’ इत्यादिना रात्रेः कर्मसंज्ञा हेतुमण्णिचि भवति, तद्वदस्मिन्नपि णिचि भवति - रात्रि विवासयतीति। चित्रीकरणे प्रापीति। तदित्येव। चित्रीकरणमुआश्चर्यकरणम्। प्रापिउप्राप्नोत्यर्थे चित्रीकरणे गम्यमाने तत्प्राप्नोतीत्यस्मिन्नर्थे णिच् भवति, कृल्लुगित्यादि पूर्ववत्। सम्भावयते इति’भू प्राप्तावात्मनेपदी’ , उज्जयित्या माहिष्मती विदूरे देश इति तावतो देशस्य प्रागुदयादतिक्रमणमाश्चर्यम्। सूर्यमुद्गमयतीति।’प्रकृतिवच्च कारकम्’ इति सूर्यशब्दस्य पृथक्करणम्। संग्रामयतेरेव सोपसर्गादिति न्यायादुच्छब्दस्यापि पृथक्करणम्। अत्रापि सूर्यस्य हेतुमण्णिचि कर्मत्वादस्मिन्नपि णिचि कर्मत्वम्। नक्षत्रयोगे ज्ञीति। तदित्येव। ज्ञि जानात्यर्थेनक्षत्रयोगे यत्कृदन्तं वर्तते तस्मातज्जानातीत्यस्मिन्नर्थे णिज् भवति, कृल्लुगित्यादि पूर्ववत्। पुष्ययोगमिति। पुष्येण चन्द्रमसो योगः पुष्ययोगः, पुष्येणेति कर्तरि तृतीया, ठुभयप्राप्तौ कर्मणिऽ इति नियमात् षष्ठी न भवति। चन्द्रमस इति। नियमेन गम्यमानत्वादुभयप्राप्तिः, पुष्यो हि चन्द्रमसं युननक्तिउसम्बध्नाति, तत्र युजेर्गत्यादिष्वनन्तर्भावादणौ कर्तुः पुष्यस्य सुद्धे णिचि कर्तृत्वमेवेत्यस्मिन्नपि णिचि कर्तृत्वातृतीया भवति। पुष्येण योजयतीति। लकारस्तु प्रधान एव कर्तरि बवति, यथा शुद्धे णिचि। ततर्हीदं बहु वक्तव्यम्? वक्तव्यम्, इह तावत्सूर्यमुद्गमयतीति यो यस्य प्रवर्त्त्यः स तस्याभिप्रायं निर्वर्तयति। गन्तुश्चायमभिप्रायः - माहिष्मत्यां सूर्योद्गमनं सम्भावयेयमिति, तं च सूर्यो निर्वर्तयति, एनदेव प्रवर्त्यस्य प्रवर्त्यत्वं यदुत प्रवर्तयितुरभिप्रायसम्पादनम्। न हि कश्चित्परोऽनुगृहीतव्य इति प्रवर्तन्ते सर्व इमे स्वभूत्यर्थम्। ये तावदेते गुरून् शुश्रूषन्ते, तेऽपीह - प्रीतो गुरुरध्यापयिष्यति परत्र चाभ्युदेष्याभ इति प्रवर्तन्ते। दासाश्चापि - भक्तं च लप्स्यामहे, परिभाषाश्च न नो भविष्यन्तीति प्रवर्द्धन्ते।’यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्’ । शिल्पिनोऽपि - मित्राणि च नो भविष्यन्ति वेतनं च लप्स्यामह इति प्रवर्तन्ते। यद्यप्यत्र सर्वत्र ततदुद्देशेन प्रवृत्तिः, सूर्ये तु नः तथाप्यभिप्रायसंपतिमात्रेण प्रयोज्यप्रयोजकभावाध्यारोपेण णिज् भविष्यति। इह च कंसं घातयतीति - ये तावदेते कंसधातानुकारिणां नटानां व्याख्यानोपाध्यायास्ते कंसानुकारिणं नट्ंअ सामाजिकैः कंसबुद्ध्य गृहीतं ताद्दशेनैव वासुदेवेन घातयन्ति, येऽपि चित्रं व्याचक्षते - अयं मथुराप्रासादः, अयं कंसः अयं भगवान्वासुदेवः प्रविष्टः, एताः कसंकर्षिण्यो रज्जवः, एते उद्गूर्णा निपातिताश्च प्रहाराः, अयं हतः कंसः अयमाकृष्ट इति, तेऽपि चित्रगतं कंसं ताद्दशेनैव वासुदेवेन घातयन्ति, चित्रेऽपि हि तद्बुद्धिरेव पश्यताम्। एतेन चित्रलेखला व्याख्याताः। येऽपि ग्रन्थं वाचयन्तः कंसवधमाचक्षते काथिका नाम, तेऽप्युत्पत्तिप्रभृत्या विनाशात्कंसादीन् वर्णयन्ति, तेऽपि वर्ण्यमानाः श्रोतृणां बुद्धिस्थाः प्रत्यक्षवद्भवन्ति। चितमपि तेषां तदात्मकमिव भवति, अत एव व्याश्रिताश्च भवन्ति।नानापक्षसमाश्रयःउव्याश्रयः। केचित्कंसभक्ताः, केचिद्वासुदेवक्ताः। वर्णान्यत्वं खल्वपि पुष्यन्ति - केचिद्रक्तमुखाः केचित्कालमुखाः। त्रैकाल्यमपि लोके लक्ष्यते, कथायां वाच्यमानायां हि वक्तारो भवन्ति - गच्छ हन्यते कंसः, गच्छ घानिष्यते कंसः, किं गतेन - हतः कंसः! इति। तदेवं काथकोऽपि बुद्धिस्थेन वासुदेवेन घातयति, श्रोतापि॥ शब्दोपहितरूपाÄश्च बुद्धेर्विषयतां गतान्। प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते॥ एवं राजानमागमयतीत्यादावपि यथासम्भवं द्रष्टव्यम्॥
Prakriyasarvasvam¶
हेतोः प्रयोजककर्तुः प्रणादिरूपो व्यापारो हेतुमान्, तस्मिन्नर्थे धातोर्णिच् स्यात् । कुर्वन्तं प्रेरयति कारयति । सर्वं चोरयतिवत् । लुङि चङि णिलोपः । ‘णौ चङि—’ (७-४-१) इति ह्रस्वः । कर् अ अ त् । ‘णौ कृतं स्थानिवत्’ इति कृशब्दस्य द्विरुक्तिः । कृ कृ अ त् । पुनर्बुद्धयुपधाह्रस्वौ । कृ कर त् । उरदत्त्वम् । ‘सन्वल्लघुनि—’ (७-४-९३) इत्यभ्यासस्येत्वम् । ‘दीर्घो लघोः’ (७-४-९४) इति दीर्घः । अचीकरत् । धातुभागस्यावर्णत्व एवेदं स्थानिवत्त्वम् । तेन कृतेरित्त्वस्य णौ कृतत्वेऽपि स्थानिवत्त्वाभावादचिकीर्तदित्येव । अन्यथोरदत्त्वादचकीर्तदिति स्यात् । स्थानिवत्त्वमात्वावादेशयो’रिति मते कारयतेः कर् करत् इत्येव द्विरुच्यते । एवं पाचयति, अपीपचत् । णिजन्तादपि णिच् स्यात् । चोरयन्तं प्रेरयतीति पुनर्णिचि पूर्वणिलोपः । चोरयति । चङि तु पुर्वणिलोपस्य स्थानिवत्त्वेन चङपरे णिच्योकारस्योप- धात्वाभावाद्ध्रस्वो नास्तीति अचुचोरदिति प्राप्ते णेणिच्युपधाह्रस्वत्वं वाच्यम् (वा०) इति ह्रस्वादिकं स्यात् । अचुचुरत् । क्वचिन्मते ह्रस्वो नास्तीति अचुचोरदित्यपि स्यादिति कौमुदी । एधयति । चङयुपधाह्रस्वे कृत एव द्वित्वमिष्टम् । इध् अ त् । पुनः ‘द्विर्वचनेऽचि’ (१-२-५१) इति णिलोपस्य स्थानिवत्त्वाद् ‘अजादेर्द्वितीयस्य (६-१-२) इति धिशब्दस्य द्विरुक्तौ इधि ध् अ त् । जश्त्वम् । सा भवानिदिधत् । आटि तु ऐदिधत् । श्विधातोर्णिच् । श्वाययति । चङि—
Sudha¶
हेतुमति चेति । सत्यापपाश… (3.1.25) इत्यतो णिजित्यनुवर्तते । हेतुः = प्रयोजकः आधारतया अस्यास्तीति हेतुमान् प्रयोजकनिष्ठः प्रेषणादिव्यापारः तस्मिन् वाच्ये णिच् स्यादित्यर्थः । धातोरेकाचो हलादेः… (3.1.22) इत्यतो धातोरित्यनुवर्तते तदाह — ** प्रयोजकव्यापार इति** । भवन्तमिति ** । देवदेत्तो यज्वा भवति । तं प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्य भवनस्य मुख्यकर्ता यज्वा तस्य यज्वभवने प्रवर्तयिता याजकादिः प्रयोजकः, तन्निष्ठायां प्रेरणायां भूधातोः **हेतुमति च (3.1.26) इति णिचि वृद्धौ, अवादेशे च भावि इति णिजन्तम् । तस्य सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायाम् वर्तमाने लट् (3.2.123) इति लटि, तिप्तस् शपि गुणे अयादेशे च “भावयति” इति । भवन्तं प्रेरयतीति । फलितोऽर्थः । “भावयतः”, “भावयन्ति” । “भावयसि”, “भावयथः” “भावयथ” । “भावयामि”, “भावयावः”, “भावयामः” । एवमात्मनेपदे — “भावयते” । लिटि — “भावयामास”, “भावयाम्बभूव”, “भावयाञ्चकार”, “भावयाञ्चक्रे”, इत्यादि । लुटि — “भावयिता”, लृटि —“भावयिष्यति”, “भावयिष्यते” । लोटि — “भावयतु” — “भावयताम्” । लङि — “अभावयत्”, “अभावयत” । विधौ — “भावयेत्”, “भावयेत” । आशिषि — “भाव्यात्”, “भावयिषीष्ट” ।
Vartika¶
तत्करोति तदाचष्टे ।
Sutra Prayogas¶
दर्शयते (किरातार्जुनीयम्): हेतुमति च इति णिच् ।