31039: भीह्रीभृहुवां श्लुवच्च¶
Padacheda: भी-ह्री-भृ-हुवाम् | S | 6 | 3 |
श्लुवत् | S | 0 | 0 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
आम् is optionally affixed when लिट् (Perfect Tense) follows after these verbs - भी ‘to fear’, ह्री ‘to be ashamed’, भृ ‘to nourish’, हु ‘to sacrifice’ and when आम् is affixed, the effect is as if there were श्लु elision and the roots belonged to ह्वादि class.
Vasu English Translation¶
आम् is optionally affixed when लिट् (Perfect Tense) follows after these verbs - भी ‘to fear’, ह्री ‘to be ashamed’, भृ ‘to nourish’, हु ‘to sacrifice’ and when आम् is affixed, the effect is as if there were श्लु elision and the roots belonged to ह्वादि class. The effect of श्लु is to cause reduplication by rule (6.1.10). As विभयाञ्चकार or विभाय, जिह्रवाञ्चकार or जिह्राय, विभराञ्चकार or बभार, जुहवाञ्चकार or जुहाव.
Bhashya¶
भीह्रीभृहुवां श्लुवच्च (656) (411 आम्विकरणविधिसूत्रम्॥ 3.1.3 आ. 10) (आक्षेपभाष्यम्) श्लुवदतिदेशे किं प्रयोजनम्?। (समाधानभाष्यम्) श्लुवदतिदेशे प्रयोजनं द्वित्वेत्वे बिभरांचकार॥ भीह्रीभृ॥ 39 ॥
Kashika¶
ञिभी भये, ह्री लज्जायाम् , डुभृञ् धारणपोषणयोः , हु दानादनयोः एतेभ्यो लिटि परत आम् प्रत्ययो भवत्यन्यतरस्याम्, श्लाविव चास्मिन् कार्यं भवति। किं पुनस्तत्? द्वित्वमित्त्वं च। बिभयाञ्चकार, बिभाय। जिह्रयाञ्चकार, जिह्राय। बिभराञ्चकार, बभार। जुहवाञ्चकार, जुहाव॥
Siddhanta Kaumudi¶
एभ्योलिट्याम्वा स्यादामि श्लाविव कार्यं च । जुहवांचकार । जुहाव । होता । होष्यति । जुहोतु । जुहुतात् । हेर्धिः । जुहुधि । आटि परत्वाद्गुणः । जुहवानि । परत्वात् जुसि च (SK2481) इति गुणः । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् ।{$ {!1084 ञिभी!} भये$} । बिभेति ॥
Laghu Siddhanta Kaumudi¶
एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्यं च। जुहवाञ्चकार, जुहाव। होता। होष्यति। जुहोतु, जुहुतात्। जुहुताम्। जुह्वतु। जुहुधि। जुहवानि। अजुहोत्। अजुहुताम्॥
Balamanorama¶
भीह्रीभृहुवां श्लुवच्च - भीहि । भी ह्यी भृ हु एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी ।कास्प्रत्यया॑दित्यत आम् लिटीत्यनुवर्तते । तदाह — एतेभ्य इति ।श्लुव॑दिति सप्तम्यन्ताद्वतिरित्यभिप्रेत्य आह — आमि श्लाविव कार्यं चेति । जुहवामनिति । आमि श्लाविव द्वित्वे गुण इति भावः । जुहावेति । जुहुवतुः । जुहविथ जुहोथ । जुहुधि । हेर्धिरिति ।हुझल्भ्यो हेर्धि॑रित्यनेनेति भावः ।जुहवानी॑त्यत्र आटः पित्त्वेन अङित्तवाद्गुणे प्राप्ते तं बाधित्वाहुश्नुवो॑रिति यणि प्राप्ते आह — आटि परत्वादिति ।हुश्नुवो॑रित्यपेक्षया गुणः परत्वाद्भवतीत्यर्थः । लङि — अजुहोत् अजुहुतामिति सिद्धवत्कृत्यसिजभ्यस्ते॑ति जुसिहुश्नुवो॑रिति यणमाशङ्क्याह — परत्वाज्जुसि चेति गुण इति अजुहवुरिति । अजुहोः अजुहुतमजुहुत अजुहवमजुहुव अजुहुम । अहौषीदिति । सिचि वृद्धिः । अहौष्टामित्यादि । अहोष्यत् । ञि भी भये इति । अनिट् । ईदन्तः । शपः स्लौ द्वित्वादि मत्वाह — बिभेतीति ।
Tattvabodhini¶
भीह्रीभृहुवां श्लुवच्च - आटीति ।आडुत्तमस्ये॑त्यनेन । परत्वादिति ।हुश्नुवो॑रिति यणपेक्षया परत्वादित्यर्थः ।
Padamanjari¶
भीह्रीभृहुवां श्लुवच्च॥ श्लुवत्कार्यापेक्षया सूत्रे षष्ठी, सन्नियोगरिष्टत्वाच्चाम्, प्रत्ययोऽपि तेभ्य एव विज्ञायते। द्वित्वेत्वे इति।’श्लौ’ इति द्विर्वचनम्,’भृञामित्’ इतीत्वम्, तत्र’श्लौ’ इति वर्तते।’न लुमताङ्गस्य’ इति गुणप्रतिषेधस्तु न भवति, किं कारणम्?’प्रत्ययलोपे प्रत्ययलक्षणम्’ इत्यस्याः प्राप्तेरयं प्रतिषेधः। श्रूयमाणत्वादामःऽ॥
Nyaas¶
भीह्यीभृहुवाम् इति। पञ्चम्यर्थे षष्ठी। सुपां सुपो भवन्तीति। श्लुवत् इति। श्लविव श्लुवत्। तत्र तस्येव (5.1.116) इति सप्तमीसमर्थाद्वतिः। कार्यातिदेशश्चायम्। अत एवाह - श्लुवच्चास्मिन् कार्यं भवति इति। द्वित्वमित्त्वञ्च इति। श्लौ (6.1.10) इति द्विर्वचनम्, भृञामित् (7.4.76) इतीत्त्वम्। असति ह्रतिदेशे लिडाश्रयं द्विर्वचनमामा व्यवधाने न स्यात्। इत्त्वमपि नैव स्यात्, तद्विधौ हि णजां त्रयाणां गुणः श्लौ (7.4.75) इत्यतः श्लावित्यनुवर्तते। तस्मात् तस्योभयस्य सिद्धये श्लुवच्च इत्यतिदेशः॥
Prakriyasarvasvam¶
एभ्यो लिट्याम् वा स्यात्, श्लुवच्च कार्यं स्यात् । तेन द्वित्वम् । आम आर्धधातुकत्वाद् गुणः । जुहवाञ्चकार । आमभावे जुहाव । जुहुवतुः । जुहविथ, जुहोथ । जुहुवथुः । जुहुव । जुहाव, जुहव । जुहुविव । एवं जिह्रयाञ्चकार, जिह्राय । बिभरामास, बभार । भृञ आमि श्लुवत्कार्यात् ‘भृञामित्’ (७-४-७६) इत्यभ्यास इत्वं ज्ञेयम् । आशीरादौ हूयात् । हूयास्ताम् । होता । होष्यति । कर्मणि हाविषीष्ट । ह्रीषीष्ट । इत्यादि । ञिभी भये । बिभेति ।
Sutra Prayogas¶
बिभरांबभूव (रघुवंशम्): भीह्वीभृहुवां श्लुवञ्च इति विकल्पादाम्प्रत्ययः।
बिभरांबभूव (किरातार्जुनीयम्): भीह्रीभृहुवां श्लुवच्च इति विकल्पादाम्प्रत्ययः।
बिभरांबभूवुः (किरातार्जुनीयम्): भीह्रीभृहुवां श्लुवच्च इत्याम्प्रत्ययः।
बिभराम्बभूवुः (किरातार्जुनीयम्): भीह्रीभृहुवां श्लुवच्चाङ् इति विकल्पादाम्-प्रत्ययः।
बिभरांबभूवे (शिशुपालवधम्): भीह्रीभृहुवाम् इति विकल्पादाम्प्रत्ययः।
जुहवांबभूविरे (शिशुपालवधम्): भीहीभृहुवाम् इति विकल्पादाम्प्रत्ययः।
प्रबिभयांचकाराऽसौ (भट्टिकाव्यम्): भी ही इत्यादिना आम्।
बिभयांचक्रुर् (भट्टिकाव्यम्): भी-ही-भृ-हुवां श्लुवच्च इत्याम्।