31032: सनाद्यन्ता धातवः

Padacheda: सनाद्यन्ताः | S | 1 | 3 |

धातवः | S | 1 | 3 |

Sutrartha

सनादिप्रत्ययान्तशब्दाः धातुसंज्ञकाः भवन्ति ।

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति धातु: इति संज्ञा । धातुपाठे परिगणितानां प्रायेण 2000 शब्दानां इयं संज्ञा भूवादयो धातवः (1.3.1) इत्यनेन सूत्रेण दीयते । परन्तु एतान् विहाय संस्कृते अन्ये अपि शब्दाः धातुरूपेण प्रयुक्ताः दृश्यन्ते । यथा, ‘असूय’, ‘सत्याप’, ‘जुगुप्स’ एत्येते भिन्नाः शब्दाः संस्कृते धातुसंज्ञकाः एव सन्ति । एते सर्वे शब्दाः भिन्नेभ्यः धातुभ्यः, प्रातिपदिकेभ्यः च ‘सनादिः’ इत्याख्यान् प्रत्ययान् योजयित्वा सिद्ध्यन्ति । एतादृशानाम् सर्वेषाम् शब्दानाम् परिगणनम् धातुपाठे नैव सम्भवति, अतः एतेषाम् धातुसंज्ञां विधातुम् पाणिनिना प्रकृतसूत्रम् निर्मितम् अस्ति । ये शब्दाः सनादि-प्रत्ययान्ताः सन्ति, तेषाम् धातुसंज्ञा भवति— इति प्रकृतसूत्रस्य अर्थः । एते एव धातवः आतिदेशिकधातवः नाम्ना अपि ज्ञायन्ते । सनादिप्रत्ययाः — अष्टाध्याय्याम् गुप्तिज्किद्भ्यः सन् (3.1.5) इत्यतः कमेर्णिङ् (3.1.30) इति यावद्भिः सूत्रेः आहत्य द्वादश प्रत्ययाः पाठ्यन्ते । एतेषु प्रत्ययेषु प्रथमः प्रत्ययः सन् इति अस्ति, अतः एतेषां सर्वेषाम् सनादिप्रत्ययाः इति अपि नाम दीयते । एतेभ्यः केचन प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते, केचन अन्ये च धातुभ्यः विधीयन्ते । परन्तु एतेषाम् सर्वेषाम् योजनेन नित्यम् सनाद्यन्ता धातवः (3.1.32) इति प्रकृतसूत्रम् अनुसृत्य धातुनिर्माणम् एव भवति । एतेषाम् द्वादशानाम् प्रत्ययानाम् प्रत्येकम् एकम् उदाहरणम् अधः दीयते । सूत्राणाम् विस्तरः तु तत्तत्स्थले एव द्रष्टव्यः । <hlb>1. सन्-प्रत्ययः</hlb> सन्-प्रत्ययः गुप्तिज्किद्भ्यः सन् (3.1.5), मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य (3.1.6) तथा च धातोः कर्मणः समानकर्तृकादिच्छायां वा (3.1.7) इति त्रिभिः सूत्रैः पाठ्यते । अयं प्रत्ययः केवलम् धातुभ्यः एव विधीयते । अस्य योजनेन धातूनाम् एव निर्माणं भवति । यथा —

गुपँ (निन्दायाम्, भ्वादिः, (1.1125))
→ गुप् + सन् [**गुप्तिज्किद्भ्यः सन्** (3.1.5) इति स्वार्थे सन्-प्रत्ययः]
→ गुप् गुप् + स [**सन्यङोः** (6.1.9) इति द्वित्वम्]
→ गु गुप् + स [**हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः शिष्यते ।]
→ जुगुप्स [**कुहोश्चुः** (7.4.62) इति अभ्यासस्य चुत्वम् । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
</br>
अनेन प्रकारेण "जुगुप्स" इति सन्-प्रत्ययान्तः धातुः सिद्ध्यति ।

<hlb>2. क्यच्-प्रत्ययः</hlb> सुप आत्मनः क्यच् (3.1.8), उपमानादाचारे (3.1.10) तथा च नमोवरिवश्चित्रङः क्यच् (3.1.19) इत्येतैः त्रिभिः सूत्रैः क्यच्-प्रत्ययः विधीयते । अयं प्रत्ययः केवलम् प्रातिपदिकेभ्यः एव विधीयते । अस्य योजनेन धातूनाम् निर्माणं भवति । यथा —

आत्मनः पुत्रम् इच्छति
= पुत्र + क्यच् [**सुप आत्मनः क्यच्** (3.1.8) इति क्यच्]
→ पुत्री + य [**क्यचि च** (7.4.33) इति ईकारादेशः]
→ पुत्रीय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
</br>
अनेन प्रकारेण "पुत्रीय" इति क्यच्-प्रत्ययान्तः धातुः सिद्ध्यति ।

<hlb>3. काम्यच्-प्रत्ययः</hlb> काम्यच्च (3.1.9) इति सूत्रेण काम्यच्-प्रत्ययः विधीयते । अयं प्रत्ययः केवलम् प्रातिपदिकेभ्यः एव विधीयते । अस्य योजनेन धातूनाम् निर्माणं भवति । यथा —

आत्मनः पुत्रम् इच्छति
= पुत्र + काम्यच् [**काम्यच्च** (3.1.9) इति काम्यच्]
→ पुत्रकाम्य [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
→ पुत्रीय
</br>
अनेन प्रकारेण "पुत्रकाम्य" इति काम्यच्-प्रत्ययान्तः धातुः सिद्ध्यति ।

<hlb>4. क्यङ्-प्रत्ययः</hlb> कर्तुः क्यङ् सलोपश्च (3.1.11), भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः (3.1.12), कष्टाय क्रमणे (3.1.14), कर्मणो रोमन्थतपोभ्यां वर्तिचरोः (3.1.15), बाष्पोष्मभ्यामुद्वमने (3.1.16), शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे (3.1.17) तथा च सुखादिभ्यः कर्तृवेदनायाम् (3.1.18) इत्येतैः सूत्रैः विधीयते । अयं प्रत्ययः केवलम् प्रातिपदिकेभ्यः एव विधीयते । अस्य योजनेन धातूनाम् निर्माणं भवति । उदाहरणम् एतादृशम् —

श्येनः इव आचरति
→ श्येन + क्यङ् [**कर्तुः क्यङ् सलोपश्च** (3.1.11) इति क्यङ्]
→ श्येना + य [**अकृत्सार्वधातुकयोर्दीर्घः** (7.4.25) इति दीर्घः]
→ श्येनाय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
</br>
अनेन प्रकारेण "श्येनाय" इति क्यङ्-प्रत्ययान्तः धातुः सिद्ध्यति ।

<hlb>5. क्यष्-प्रत्ययः</hlb> लोहितादिडाज्भ्यः क्यष् (3.1.13) इत्यनेन विहितः क्यष्-प्रत्ययः विशिष्टेभ्यः प्रातिपदिकेभ्यः एव विधीयते । अस्य प्रयोगेण धातूनाम् निर्माणं भवति । उदाहरणम् एतादृशम् —

लोहितः भवति
→ लोहित + क्यष् [**लोहितादिडाज्भ्यः क्यष्** (3.1.13) इति क्यष्]
→ लोहिता + य [**अकृत्सार्वधातुकयोर्दीर्घः** (7.4.25) इति दीर्घः]
→ लोहिताय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
</br>
अनेन प्रकारेण "लोहिताय" इति क्यष्-प्रत्ययान्तः धातुः सिद्ध्यति ।

<hlb>6. णिङ्-प्रत्ययः</hlb> पुच्छभाण्डचीवराण्णिङ् (3.1.20) इत्यनेन त्रिभ्यः प्रातिपदिकेभ्यः णिङ्-प्रत्ययः भवति । कमेर्णिङ् (3.1.30) इत्यनेन “कम्” इति धातोः अपि स्वार्थे णिङ्-प्रत्ययः विधीयते । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —

भाण्डानि समाचिनोति (राशीकरोति / एकत्रीकरोति इत्यर्थः)
→ भाण्ड + णिङ् [**पुच्छभाण्डचीवराण्णिङ्** (3.1.20) इति णिङ्-प्रत्ययः]
→ भाण्ड + इ [णकारङकारयोः इत्संज्ञा, लोपः]
→ भाण्ड् + इ [**णेरनिटि** (6.4.51) इति अकारलोपः]
→ भाण्डि [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
</br>
अनेन प्रकारेण "भाण्डि" इति णिङ्-प्रत्ययान्तः धातुः सिद्ध्यति ।

<hlb>7. णिच्-प्रत्ययः</hlb> मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् (3.1.21), सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25), हेतुमति च (3.1.26) इत्येतैः त्रिभिः सूत्रैः, तथा च <!प्रातिपदिकात् धात्वर्थे बहुलमिष्ठवच्च!> इत्येतेन वार्त्तिकेन प्रायेण सर्वेभ्यः धातुभ्यः, प्रातिपदिकेभ्यः च णिच्-प्रत्ययः भवति । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —

पठँ (व्यक्तायां वाचि, भ्वादिः, (1.381))
→ पठ् + णिच् [**हेतुमति च** (3.1.26) इति णिच्]
→ पठ् + इ [णकारचकारयोः इत्संज्ञा, लोपः]
→ पाठ् + इ [**अत उपधायाः** (7.2.116) इति उपधावृद्धिः]
→ पाठि [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
</br>
अनेन प्रकारेण "पाठि" इति णिच्-प्रत्ययान्तः धातुः सिद्ध्यति ।

<hlb>8. यङ्-प्रत्ययः</hlb> धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (3.1.22), नित्यं कौटिल्ये गतौ (3.1.23), तथा च लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् (3.1.24) इत्येतैः त्रिभिः सूत्रैः भिन्नेभ्यः धातुभ्यः यङ्-प्रत्ययः भवति । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —

पुनः पुनः पचति
→ पच् + यङ् [**धातोरेकाचो हलादेः क्रियासमभिहारे यङ्** (3.1.22) इति यङ्]
→ पच् पच् + य [**सन्यङोः** (6.1.9) इति द्वित्वम्]
→ प पच् + य [**हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः शिष्यते]
→ पा पच् + य [**दीर्घोऽकितः** (7.4.83) इति अभ्यासस्य दीर्घः]
→ पापच्य [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
</br>
अनेन प्रकारेण "पापच्य" इति यङ्-प्रत्ययान्तः धातुः सिद्ध्यति ।

<hlb>9. यक्-प्रत्ययः</hlb> कण्ड्वादिभ्यो यक् (3.1.27) इति सूत्रेण विशिष्टेभ्यः धातुभ्यः यक्-प्रत्ययः भवति । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —

कण्डूञ् (गात्रविघर्षणे, कण्ड्वादिगणस्य धातुः, धातुपाठे नैव विद्यते ।)
→ कण्डू + यक् [**कण्ड्वादिभ्यो यक्** (3.1.27) इति स्वार्थे यक्]
→ कण्डूय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
</br>
अनेन प्रकारेण "कण्डूय" इति यक्-प्रत्ययान्तः धातुः सिद्ध्यति ।

<note>**सार्वधातुके यक्** (3.1.67) इत्यनेन विहितः यक् इति विकरणप्रत्ययः भिन्नः अस्ति ।</note> <hlb>10. आय-प्रत्ययः</hlb> गुपूधूपविच्छिपणिपनिभ्य आयः (3.1.28) इति सूत्रेण विशिष्टेभ्यः धातुभ्यः स्वार्थे आय-प्रत्ययः भवति । अस्य योजनेन नूतनधातूनाम् निर्माणं भवति । उदाहरणम् एतादृशम् —

गुपूँ (रक्षणे, भ्वादिः, (1.461))
→ गुप् + आय [**गुपूधूपविच्छिपणिपनिभ्य आयः** (3.1.28)]
→ गोप् + आय [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः]
→ गोपाय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
</br>
अनेन प्रकारेण "गोपाय" इति आय-प्रत्ययान्तः धातुः सिद्ध्यति ।

<hlb>11. ईयङ्-प्रत्ययः</hlb> ऋतेरीयङ् (3.1.29) इति सूत्रेण “ऋत्” इति धातोः स्वार्थे ईयङ्-प्रत्ययः भवति । अस्य योजनेन नूतनधातोः निर्माणं भवति । प्रक्रिया एतादृशी —

ऋति (जुगुप्सायां कृपायां च । (1.1166) इत्यत्र निर्दिष्टः अयं धातुः वस्तुतः सौत्रः अस्ति, यतः पाणिनेः मूलधातुपाठे अयं न दृश्यते ।)
→ ऋत् + ईयङ् [**ऋतेरीयङ्** (3.1.29) इति ईयङ्-प्रत्ययः]
→ ऋतीय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
</br>
अनेन प्रकारेण "ऋतीय" इति ईयङ्-प्रत्ययान्तः धातुः सिद्ध्यति ।
<hlb>12. क्विप्-प्रत्ययः</hlb>

<!सर्वप्रातिपदिकेभ्यो क्विब्वा वक्तव्यः!> इति वार्तिकेन क्विप्-प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः विधीयते । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् इत्थम् —

क्लीबः इव आचरति
→ क्लीब + क्विप्
→ क्लीब + व् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः अकारः उच्चारणार्थः, तस्य अपि लोपः भवति ।]
→ क्लीब [**वेरपृक्तस्य** (6.1.67) इति अपृक्त-वकारस्य लोपः ।**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
</br>
अनेन प्रकारेण "क्लीब" इति क्विप्-प्रत्ययान्तः धातुः सिद्ध्यति ।

<note>कृदधिकारे भिन्नैः सूत्रैः “क्विप्” इति कश्चन कृत्प्रत्ययः अपि पाठ्यते । परन्तु सः केवलम् धातुभ्यः विधीयते, तस्य योजननेन च प्रातिपदिकानाम् निर्माणं भवति । सः प्रत्ययः अत्र निर्दिष्टात् सनादिसंज्ञक-क्विप्-प्रत्ययात् सम्पूर्णरूपेण भिन्नः अस्ति ।</note>

सूत्रे अन्तग्रहणस्य प्रयोजनम्

यदि अस्मिन् सूत्रे “अन्त”शब्दः न स्यात्, तर्हि “सनाद्यः धातवः” इत्यनेन केवलम् सनादिप्रत्ययानाम् एव धातुसंज्ञा अभविष्यत्, न हि तदन्तानाम् । परन्तु अत्र सनादिप्रत्ययान्तानाम् धातुसंज्ञा इष्यते, न हि केवलप्रत्ययानाम् । अतएव अस्मिन् सूत्रे “अन्त”-शब्दस्य ग्रहणं कृतम् अस्ति । अस्मिन्नेव सन्दर्भे संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधः इति काचित् परिभाषा अपि परिभाषेन्दुशेखरे पाठ्यते । प्रत्ययस्य निर्देशं कृत्वा संज्ञायाः विधानं यत्र क्रियते तत्र “अन्त”शब्दः नास्ति चेत् सा संज्ञा प्रत्ययस्यैव भवति, न हि तदन्तस्य — इति अस्याः परिभाषायाः आशयः ।

Sutrartha (English)

The words ending in a सनादि प्रत्यय are called ‘धातु’.

Vasu English Summary

All the roots ending with the affixes सन् and others are called धातु ।

Vasu English Translation

All the roots ending with the affixes सन् and others are called धातु । This extends the sphere of Dhatu or roots already defined in sutra (1.3.1). These roots may be called derivative roots. They are separate independent roots, and have all the functions of a root, as taking tense-affixes &c. as shown in the above examples. Thus चिकीर्षा ‘to wish to do’, कारि ‘to cause to do’; चेक्रिय ‘to do repeatedly’ are separate roots and not the same as कृ ‘to do’ and thus take शप् &c.

Bhashya

सनाद्यन्ता धातवः (649) (405 धातुसंज्ञासूत्रम् ॥ 3.1.3 आ.4) (अतग्रहणप्रयोजनाधिकरणम्।) (आक्षेपभाष्यम्) अन्तग्रहणं किमर्थम्, न सनादयो धातवः इत्येवोच्येत?। (प्रत्याक्षेपभाष्यम्) केनेदानीं तदन्तानां भविष्यति ॥ (प्रत्याक्षेपसमाधानभाष्यम्) तदन्तविधिना ॥ (समाधानभाष्यम्) अत उत्तरं पठति - - (1795 समाधानवार्तिकम् ॥ 1 ॥) - सनादिष्वन्तग्रहण उक्तम्- किमुक्तम्। पदसंज्ञायामन्तवचनमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति। इदं चापि प्रत्ययग्रहणम्। अयं चापि संज्ञाविधिः ॥ (सूत्रारभ्यप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं पुनरिदमुच्यते। न भूवादयो धातव इत्येव सिद्धम् ॥ (सूत्रारभ्यसाधकभाष्यम्) न सिध्यति। पाठेन धातुसंज्ञा क्रियते। न चैते तत्र पठ्यन्ते ॥ (सूत्रप्रत्याख्यानसाधकप्रत्याक्षेपभाष्यम्) कथं तर्ह्यन्येषामपठ्यमानानां धातुसंज्ञा भवति - अस्तेर्भूः ब्रुवो वचिः चक्षिङ ख्याञ्ञिति ॥ (सूत्रारम्भसाधकप्रत्याक्षेपसमाधानभाष्यम्) यद्यप्येते तत्र न पठ्यन्ते। प्रकृतयस्त्वेषां पठ्यन्ते। तत्र स्थानिवद्भावात्सिद्धम् ॥ (सूत्रप्रत्याख्यानभाष्यम्) इमेऽपि तर्हि यद्यपि तत्र न पठ्यन्ते। येषां त्वर्थे आदिश्यन्तेउते तत्र पठ्यन्ते। तत्र स्थानिवद्भावात्सिद्धम् ॥ (सूत्रारम्भसाधकभाष्यम्) न सिध्यति। आदेशाः स्थानिवदित्युच्यते। न चेमे आदेशाः ॥ (सूत्रप्रत्याख्यानसाधकभाष्यम्) इमे अप्यादेशाः ॥ कथम्?। आदिश्यते यः स आदेशः। इमे चाप्यादिश्यन्ते ॥ (स्थानिवत्त्वानुपपत्तिभाष्यम्) एवमपि षष्ठीनिर्दिष्टस्यादेशाः स्थानिवद्भवन्तीत्युच्यते। न चेमे षष्ठीनिर्दिष्टस्यादिश्यन्ते ॥ (स्थानिवत्त्वोपपादनभाष्यम्) षष्ठीप्रहणं निवर्तिष्यते ॥ (निवृत्तिदूषणभाष्यम्) यदि निवर्तते। अपवादे उत्सर्गकृतं प्राप्नोति। कर्मण्यण् आतोऽनुपसर्गे कः इति केऽप्यण्कृतं प्राप्नोति ॥ (दूषणपरिहारभाष्यम्) नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति नापवादे उत्सर्गकृतं भवतीति। यदयं श्यन्नादीन् कांश्चिच्छ्रितः करोति श्यन्श्नम्श्नाश्नुरिति ॥ सनाद्यन्ता धातवः ॥ 32 ॥ (विधिप्रकरणे प्रत्ययप्रकरणे विकरणप्रकरणम्)

Kashika

सन् आदिर्येषां ते सनादयः। सनादयोऽन्ते येषां ते सनाद्यन्ताः। सनाद्यन्ताः समुदाया धातुसंज्ञका भवन्ति। प्रत्ययग्रहणपरिभाषा एव पदसंज्ञायामन्तवचनेन लिङ्गेन प्रतिषिद्धा सती पुनरिहान्तवचनेन प्रतिप्रसूयते। चिकीर्षति। पुत्रीयति। पुत्रकाम्यति॥

Siddhanta Kaumudi

सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः । धातुत्वाल्लडादयः । गोपायति ॥

Laghu Siddhanta Kaumudi

सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः। धातुत्वाल्लडादयः। गोपायति॥

Balamanorama

सनाद्यन्ता धातवः - नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाऽभावेन धातुत्वाऽभावात् कथमस्माल्लडादय इत्यत आह — सनाद्यन्ताः ।गुप्तिज्किद्भ्यः स॑नित्यारभ्यकमेर्णि॑ङित्यन्तैः सूत्रैः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम् । सन् आदिर्येषां ते सनादयो णिङ्प्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः । तदाह -सनादयः इति ।सन्क्यच्काम्यच्क्यङ्क्यषोऽथाचारक्विब्णिज्यङौ तथा । यगाय ईयङ् णिङ् चेति द्वादशाऽमी सनादयः॑ इति । सङग्रहः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम् । धातुत्वादिति । आयप्रत्यान्तस्येत्यर्थः । गोपायतीति । शपि ‘अतो गणे’ इति पररूपम् ।

Tattvabodhini

सनाद्यन्ता धातवः - सनाद्यन्ताः । सदनादय इति ।सन्क्यच्काम्यचज्क्यङ्क्यषोऽथाचारक्विप्णिज्यङौ तथा । यगाय णिङ् चेति द्वादशीमी सनादयः॑ । धातुत्वादिति । प्रत्ययविशिष्टस्य धातुत्वादित्यर्थः ।सुप्तिङन्त॑मित्यनेनसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती॑तिज्ञापितत्वाद्विशिष्टस्य धातुसंज्ञालाभाय अस्मिन् सूत्रे अन्तग्रहणं कृतम् ।भूवादयो धातवः॑ इत्यस्यानन्तरंसनाद्यन्ताश्चे॑ति न सूत्रितं, सनादयो द्वादशेवेति निर्धारणाऽलाभापत्तेः । निर्धारणाऽलाभापत्तेः ।सनाद्यन्ता धातवः॑ इत्यस्यानन्तरं तुभूवादयंश्चे॑ति पठित्वाधातव॑ इत्येतत्तन्न त्यक्तुं शक्यम् ।

Padamanjari

सनाद्यन्ता धातवः॥ सनादयोऽन्ते येषामिति। अन्तशब्दः समीपवचनः, वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अथ वा - वृतावर्थमात्रं दर्शितम्, सूत्रे त्ववयववाचिनोऽन्तशब्दस्य समानाधिकरणस्यैव बहुव्रीहिः। सनादयोऽन्तावयवा येषां समुदायानामित्यनेन तद्गुणसंविज्ञानो बहुव्रीहिरिति दर्शयति। धातुसंज्ञा इति। धातुशब्दोऽत्र स्वरूपपदार्थः, न भूवादिपदार्थकः; तावतीनां संज्ञानां विधाने प्रयोजनाभावात्।’सुप्तिङ्न्तम्’ इत्यत्रान्तग्रहणज्ञापिता संज्ञाविधौ प्रत्ययग्रहणे प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति, ततश्चासत्यन्तग्रहणे तदन्तविधिर्न स्यादित्यत्रान्तग्रहणं कृतम्। एवं स्थिते यद्यपूर्व एवानेन तदन्तविधिः क्रियते, ततो देवदतश्चिकीर्षतीत्यत्र देवदतादेः समुदायस्य संज्ञा प्रसज्येतेति मत्वाह - प्रत्ययग्रहणपरिभाषैवेत्यादि। अपूर्वविधौ गौरवम्, प्रतिप्रसवे तु यत्नस्य लाघवं भवतीति भावः।’भूवादयः’ इत्यस्यानन्तरं सनाद्यान्ताश्चेत्युच्यमाने सनादीनामियतापरिच्छेदो न स्यात्। एवं तर्हि’सङ्न्ताश्च’ इत्युच्यताम्, सङिति प्रत्याहारः सनः सशब्दारभ्या णिङे ङ्कारात्। एवमपि सन्देहस्स्यात्, चङदिष्वपि ङ्कारस्य भावात्। एवं तर्हि’सनाद्यन्ताः’ इत्यस्यानन्तरम्’भूवादयश्च’ इति वक्तव्यम्। स्यादेतत् - एवमुच्यमाने सनाद्यन्तशब्दवद् भूवादिशब्दोऽपि प्रकृतापेक्षः स्याततश्चानुक्रान्तानां गुपादीनामेव स्यादिति? एवमपि भूवादिग्रहणमनर्थकं गुपादयश्चेति वक्तव्यम्। नानर्थकम्; भुवो वादयो भूवादय इत्येवमर्थमेव स्याद्। भूवादिपाठ इदानीं किमर्थः स्याद् ? अन्तर्गणकार्यार्थः, अनुबन्धासञ्जनार्थश्च। येषां तर्हि तदुभयं न संभवति भूरणिप्रभृतीनां तेषां पाठः किमर्थः? अलमतिनिर्बन्धेन॥

Nyaas

सनादयोऽन्ते येषाम् इति वाक्यविशेषेण बहुव्रीहि दर्शयति। गमकत्वन हि व्यधिकरणानामपि बहुव्रीहिर्भवत्येव, यथा - कण्ठेकालः, उरसिलोमेति। आदिशब्देन क्यजादीनां णिङपर्यन्तानां ग्रहणम्। समुदायाः इति। प्रकृतिप्रत्ययसमुदायाः। एतेन तद्गुणसंविज्ञानबहुव्रीहि दर्शयति; अन्यथा सनाद्युपलक्षितानां प्रकृतीनामेव धातुसंज्ञा विधीयेत। {धातुसंज्ञाः - काशिका, पदमञ्जरी च।}धातुसंज्ञकाः इति। धातुः संज्ञा येषां ते धातुसंज्ञकाः। धातुशब्दश्चात्र स्वरूपपदार्थकः, न भूवादिपदार्थकः, अन्यथा भूवादयः सनाद्यन्तानां संज्ञाः स्युः, तच्चायुक्तम्, न हि तावतीनां संज्ञानां करणे किञ्चित् प्रयोजनमस्ति। आवर्तिन्यश्च संज्ञा भवन्ति। न हि भूवादीनामेव सर्वेषामावृत्तिः क्वचिच्छास्त्रेऽस्तीति न तत्पदार्थको धातुशब्दः। इह हि संज्ञाविधौ सनादीनां प्रत्ययनां ग्रहणम्। सुप्तिङन्तं पदम् (1.4.14) इत्यत्र चान्तग्रहणेन ज्ञापितमेतत - प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य (पि।प।वृ।44) इति। एषा परिभाषा संज्ञाविधौ प्रत्ययग्रहणे प्रतिषिद्धा। तत्रासत्यन्तग्रहणे तदन्तविधिर्न स्यात्, इष्यते च, अतस्तदर्थमन्तग्रहणं कृतम्, तत्रानेनान्तग्रहण#एनापूर्व एव तदन्तविधिः क्रियत इति मन्यमानो यो देशयेत् तं प्रत्याह - यदि तर्हि सनाद्यन्तानामियं संज्ञा विधीयते तदा देवदत्तः प्राचिकीर्षदित्यत्र देवदत्तस्य सोपसर्गस्य च संज्ञा प्रसज्येतेति। अत आह - प्रत्ययग्रहणपरिभाषयैव इत्यादि। न ह्रनेनान्तग्रहणेनापूर्व एव तदन्तविधिः क्रियते, किं तर्हि? पदसंज्ञाविधादन्तग्रहणेन प्रतिषिद्धा सती प्रत्ययग्रहणपरिभाषयैव पुनरिह प्रतिप्रसूयते। कृतप्रवृत्तिविधाता सती पुनः प्रवर्तत इत्यर्थः। ततश्च यतः सनादयो विहितास्तदादेरेव समुदयस्य संज्ञा भवति, न शब्दान्तरादेरिति भावः। अथ भूवादयो धातवः (1.3.1) इत्यस्यानन्तरं सनाद्यन्ताश्चेति कस्मान्नोक्तम्; एवं हि धातुग्रहणं द्विर्न कर्तव्यं भवति? नैवं शक्यम्, एवं हि क्रियमाणे सनादीनामियत्तापरिच्छदो न स्यात्। इह तु क्रियमाणे णिङपर्यन्तानां ग्रहणं विज्ञायते। तर्हि **सनाद्यन्ता धातवः** (3.1.32) इत्यस्यानन्तरं `भूवादयश्च इति कस्मान्नोक्तम्? एतदपि न; एवं हि क्रियमाणे सनाद्यन्तस्यानुक्रान्तापेक्षित्वात् भूवादीनामप्यनुक्रान्तापेक्षित्वं स्यात्; ततश्चानुक्रान्तानामेव गुपादीनां धातुसंज्ञा स्यात्, नान्येषां भूवादीनाम्। अथ भूवादीनामनुक्रान्तापेक्षा न भवति सनादीनामपि न स्यात्, ततश्च सनादयः कप्पर्यन्ता गृह्रेरन्निति सन्देहः स्यात्। तस्माद्यथान्यासमेव न्याय्यम्॥