31034: सिब्बहुलं लेटि

Padacheda: सिप् | S | 1 | 1 |

बहुलम् | S | 1 | 1 |

लेटि | S | 7 | 1 |

Sutrartha


Vasu English Summary

सिप् is diversely the affix of a verbal root when लेट् follows.

Vasu English Translation

सिप् is diversely the affix of a verbal root when लेट् follows. The tense called लेट् or subjunctive is found in the Vedas only. When the subjunctive tense is employed, the affix सिप् is diversely added.

Thus जोषिषत्, तारिषत्, मन्दिषत्. Sometimes this augment is not employed; thus पताति दिद्युत् उदधिं ज्यावयाति. Thus in Rig Veda (1.1.2), वक्षति is an example of लेट् with सिप् ॥

Bhashya

सिब्बहुलं लेटि (659) (407 सिब्विकरणविधिसूत्रम् ॥ 3.1.3 आ. 6) (1799 छान्दसत्वनियमवार्तिकम् ॥ 1 ॥) - सिबुत्सर्गः छन्दसि- (भाष्यम्) सिबुत्सर्गश्छन्दसि कर्तव्यः ॥ (1800 सनादिषु विधानवार्तिकम् ॥ 2 ॥) - सनाद्यन्तेनेषत्वाद्यर्थः- (भाष्यम्) सनाद्यन्ताधिकारे च कर्तव्यः। किं प्रयोजनम्?। नेषत्वाद्यर्थः। इन्द्रो नस्तेन नेषतु। गावो नेष्टादिति ॥ (1801 सनादिवर्गीयत्ववैर्यथ्यवार्तिकम् ॥ 3 ॥) - प्रकृत्यन्तरत्वात्सिद्धम्- (भाष्यम्) प्रकृत्यन्तरत्वात्सिद्धमेतत् ॥ कथं प्रकृत्यन्तरं नेषः? ॥ (पित्करणप्रत्याख्यानाधिकरणम्) (आक्षेपभाष्यम्) अथ किमर्थः पकारः? ॥ (आक्षेपबाधकभाष्यम्) स्वरार्थः अनुदात्तौ सुप्पितौ इत्येष स्वरो यथा स्यादिति ॥ (1803 प्रत्याख्यानवार्तिकम् ॥ 5 ॥) - पित्करणानर्थक्यं चानच्कत्वात्- (भाष्यम्) पित्करणं चानर्थकम्। कुतः?। अनच्कत्वात्। अनच्कोऽयम्। तत्र नार्थः स्वरार्थेनानुबन्धेन पकारेण ॥ (प्रत्याख्यानबधकभाष्यम्) इटि कृते साच्को भविष्यति ॥ (1804 प्रत्याख्यानसाधकवार्तिकम् ॥ 6 ॥) - इटोऽनुदात्तार्थमिति चेदागमानुदात्तत्वात्सिद्धम्- (भाष्यम्) आगमानुदात्तत्वेनेटोऽनुदात्तत्वं भविष्यति ॥ (प्रत्याख्यानबाधकभाष्यम्) एवं तर्हि सबयं कर्तव्यः। किं प्रयोजनम्?। यदवयासिसीष्ठाः एकाज्लक्षण इट्प्रतिषेधो मा भूदिति ॥ (आक्षेपभाष्यम्) क्वायमकारः श्रूयते?। (समाधानभाष्यम्) न क्वचिच्छ्रूयते। लोपोऽस्य भविष्यति। अतो लोपः आर्धधातुक इति ॥ (प्रत्याख्यानसाधकभाष्यम्) यदि न क्वचिच्छ्रूयते। नार्थः स्वरार्थेन पकारेणानुबन्धेन ॥ (पकारप्रयोजनभाष्यम्) एवमपि कर्तव्यः?। किं प्रयोजनम्। अनुदात्तस्य लोपो यथा स्यादुदात्तस्य लोपो मा भूदिति। किं च स्यात्?। उदात्तनिवृत्तिस्वरः प्रसज्येत ॥ (1805 सिपो णित्त्वविधिवार्तिकम् ॥ 7 ॥) - सिब् बहुलं छन्दसि णित्- (भाष्यम्) सिब् बहुलं छन्दसि णिद् वक्तव्यः सविता धर्मे साविषत्। प्र ण आयूंषि तारिषत् ॥ सिब्बहुलम् ॥ 34 ॥ (आम्विकरणप्रकरणम्)

Kashika

धातोः सिप् प्रत्ययो भवति बहुलं लेटि परतः। जोषि॑ष॒त् (ऋ०२.३५.१)। तारिषत् (ऋ०२.२५.१२)। मन्दिषत् । न च भवति — पता॑ति दि॒द्युत् (ऋ० ७.२५.१)। उद॒धिं च्या॑वया॒ति। (तै०सं० ३.५.५.२)॥

Padamanjari

सिब्बहुलं लेटि॥ जोषिषन्मन्दिषदिति।’जुषी प्रीतिसेवनयोः’ ‘मदि स्तुतिमोदस्वप्नगतिषु’ , अनुदातौ, व्यत्ययेन परस्मैपदम्, सिच इट्’लेटो’ डाटौऽ इति तिपोऽट्, ठितश्च लोपः परस्मैपदेषुऽ इतीकारलोपः, तत्र च वेति वर्तते। तारिषदिति।’तृ प्लवनतरणयोः’ ‘सिब्बहुलं च्छन्दसि णिद्वक्तव्यः’ इति वचनाद्वृद्धिः, अमीषां भविता भाविषदिति यथा। छान्दसो वा दीर्घः। पतातीति।’शल हुल पत्लृ गतौ’ , लेटोऽडाटौऽ इत्याट् शपासहैकादेशः। च्यावयातीति।’च्युङ् प्रुह् प्लुङ् गतौ’ ण्यन्तः। इहावयासिषीष्ठा इति यातेरवपूर्वाल्लिङ् बिहुलवचनास्तिप्, थासः सीयुट्, इट्। ठेकाच उपदेशेऽनुदातात्ऽ इति तु प्रतिषेधो न भवति; सिपा व्यवधानात्॥

Nyaas

जोषिषत् इति।जुषी प्रीतिसेवनयोः (धातुपाठः-1288) लिङर्थे लेट्। सिप इकार उच्चारणार्थः, पकारः स्वरार्थः, लेटोऽडाटौ (3.4.94) इत्यट्। इतश्च लोपः परस्मैपदेषु (3.4.97) इतीकारलोपः, आर्धधातुकस्येडवलादेः (7.2.35) इतीट्, लघूपधगुणः, आदेशप्रत्यययोः (8.3.59) इति षत्वम्। तारिषत् इति। तृ? प्लवनतरणयोः (धातुपाठः-969) सार्वधातुकार्धधातुकयोः (7.3.84) व्यत्ययो बहुलम् (3.1.85) इति वर्णव्यत्ययेन धात्वकारस्याकारः। शेषं पूर्ववत्। मन्दिषत् इति। मदि {स्तुतिमोदमदस्वप्नकान्तिगतिषृ धातुपाठः-} स्तुतिमोदनस्वप्नगितषृ` (धातुपाठः-13), इदितो नुम् धातोः (7.1.58) इति नुम्। पदाति इति। पद गतौ (धातुपाठः-1169), दिवादिरनुदात्तेत्, व्यत्ययेन परस्मैपदम्, शप्प्रत्ययश्च, अटा सह सवर्णदीर्घत्वम्। तिप इकारलोपोऽत्र न भवति; तद्विधौ वैतोऽन्यत्र (3.4.96) इत्यतो वेत्यनुवृत्तेः। च्यावयाति इति। च्यङ {न स्तो धातुपाठे} छ्युङ ज्युङ {न स्तो धातुपाठे} झयुङ प्रुङ प्लुङ गतौ (धातुपाठः-955,956,957,958)। हेतुमण्णिच्। सिपः पित्करणं बोभूयिषातामित्यत्रोदात्तनिवृत्तिस्वरेणोदात्तत्वे प्राप्तेऽनुदात्तार्थम्। यङन्तात् बोभूयशब्दाल्लेट आत्मनेपदम्, त, टेरेत्वम्। एत ऐ (3.4.93) लेटोऽडाटौ (3.4.94) इत्याट् तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः (6.1.186) इति सार्वधातुकस्यानुदात्तत्वं पित्करणसामर्थ्यादन्तरङ्गोऽपि सिप्स्वरं प्रतीक्षते। तेन कृते तस्मिन् सिप इडागमः। स चागमानुदात्तत्वेनानुदात्तः। अतो लोपः (6.4.48) इति यङोऽकारस्योदात्तस्य लोपः। उदात्तत्वं तु तस्य धातुस्वरेण च। अनुदात्तस्य च यत्रोदात्तलोपः (6.1.161) इत्युदात्तत्वे प्राप्ते पित्करणादनुदात्तत्वमिटो भवति॥

Vartika

सिब्बहुलं छन्दसि णिद्वक्तव्यः ।