31021: मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्

Padacheda: मुण्ड-मिश्र-श्लक्ष्ण-लवण-व्रत-वस्त्र-हल-कल-कृत-तूस्तेभ्यः | S | 5 | 3 |

णिच् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix णिच् , in the sense of ‘making’ comes after these words as the object of action viz. मुण्ड ‘shaving’, मिश्र ‘mixture’, श्लक्ष्ण ‘soft’, लवण ‘salt’, व्रत ‘vow’, वस्त्र ‘dress’, हल ‘plough’, कल ‘strife’, कृत ‘done’ and तूस्त ‘matter hair’.

Vasu English Translation

The affix णिच् , in the sense of ‘making’ comes after these words as the object of action viz. मुण्ड ‘shaving’, मिश्र ‘mixture’, श्लक्ष्ण ‘soft’, लवण ‘salt’, व्रत ‘vow’, वस्त्र ‘dress’, हल ‘plough’, कल ‘strife’, कृत ‘done’ and तूस्त ‘matter hair’. Thus मुण्डयति ‘he shaves’; मिश्रयति ‘he mixes’; श्लक्ष्णयति ‘he softens or alleviates’; लवणयति ‘he salts’; पयोव्रतयति ‘he fasts on milk’; संवस्त्रयति ‘he covers with clothes i.e. dresses’; हलयति ‘he ploughs’; कलयति ‘he makes war’; कृतयति ‘he appreciates kindness’; वितूस्तयति ‘he combs the hair, or disentangles matted hair or delivers from sin’.

The affix after the word व्रत has the sense of ‘eating’ or ‘abstaining therefrom’; as पयो व्रतयति ‘he drinks milk’, वृषलान्नं व्रतयति ‘he abstains from the food prepared by a low caste’; after the word वस्त्र the affix denotes the sense of covering. After हलि and कलि the sense is that of taking; as हलिं गृह्णाति = हलयति. The words in the sutra are हल and कल and not हलि and कलि. This anomalous form shows that in forming the Aorist of these by adding the affix चङ् (3.1.48) the reduplication takes place, but not in the same way as if the affix were सम्, i.e. the सन्वद्भाव does not take place here in the Aorist (7.4.93). Thus the Aorists are अजहलत् and अचकलत्; and not अजीहलत् and अचीकलत् which would have been the forms by the application of rules ((7.4.79) & (7.4.94). if there was सन्वद्भाव.

The word स्तूत means either hair, or matted hair, or sin.

Bhashya

मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् (638) (398 णिच्प्रत्ययविधिसूत्रम्॥ 3.1.2 आ. 11 सूत्रम्) (अनुयोगभाष्यम्) इमौ हलिकली स्तः इकारान्तौ - (हलिः कलिः)। अस्ति हलशब्दः कलशब्दश्चाकारान्तः। कयोरिदं ग्रहणम्?। (समाधानभाष्यम्) याविकारान्तौ तयोरत्वं निपात्यते॥ (प्रश्नभाष्यम्) किं प्रयोजनम्?। 1761 अत्वनिपातनप्रयोजनवार्तिकम्॥ 1 ॥) - हलिकल्योरत्त्वनिपातनं सन्वद्भावप्रतिषेधार्थम्- (भाष्यम्) हलिकल्योरत्त्वनिपातनं क्रियते सन्वद्भावो मा भूदिति। अजहलद् अचकलत्॥ (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। इकारलोपे कृते अग्लोपिनां नेति प्रतिषेधो भविष्यति। (प्रयोजनसाधकभाष्यम्) वृद्धौ कृतायां लोपः तन्नाग्लोप्यङ्गं भवति। इदमिह संप्रधार्यम् - वृद्धिः क्रियताम्, लोप इति। किमत्र कर्तव्यम्?। परत्वाद् वृद्धिः॥ नित्यो लोपः। कृतायामपि वृद्धौ प्राप्नोति, अकृतायामपि (प्राप्नोति)॥ वृद्धिरपि नित्या। कृतेऽपि लोपे प्राप्नोति, अकृतेऽपि॥ अनित्यो लोपः। अन्यस्य कृतायां वृद्धौ प्राप्नोति, अन्यस्याकृतायाम्। शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति॥ वृद्धिरप्यनित्या। अन्यस्य कृते लोपे प्राप्नोति, अन्यस्याकृते। शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति। उभयोरनित्ययोः परत्वाद् वृद्धिः। वृद्धौ कृतायां लोपः, तन्नाग्लोप्यङ्गं भवति॥ अत्त्वे पुनः सति वृद्धिः क्रियतां लोप इति। यद्यपि परत्वाद् वृद्धिः, वृद्धावपि कृतायामगेव लुप्यते। तस्मात्सुष्ठूच्यते - -हलिकल्योरत्त्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति॥ मुण्डमिश्र॥ 21 ॥

Kashika

मुण्ड मिश्र श्लक्ष्ण लवण व्रत वस्त्र हल कल कृत तूस्त इत्येतेभ्येः करणे णिच् प्रत्ययो भवति। मुण्डं करोति, मुण्डयति। मिश्रयति। श्लक्ष्णयति। लवणयति। व्रताद् भोजने तन्निवृत्तौ च — पयो व्रतयति। वृषलान्नं व्रतयति। वस्त्रात् समाच्छादने — संवस्त्रयति। हलिं गृह्णाति, हलयति। कलिं गृह्णाति, कलयति। हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थम्। अजहलत्। अचकलत्। कृतं गृह्णाति, कृतयति। तूस्तानि विहन्ति, वितूस्तयति केशान्। विशदीकरोतीत्यर्थः॥

Siddhanta Kaumudi

कॄञर्थे । मुण्डं करोति मुण्डयति ।<!व्रताद्भोजनतन्निवृत्त्योः !> (वार्तिकम्) ॥ पयः शूद्रान्नं वा व्रतयति ।<!वस्त्रात्समाच्छादने !> (वार्तिकम्) ॥ संवस्त्रयति ।<!हल्यादिभ्यो ग्रहणे !> (वार्तिकम्) ।<!हलिकल्योरदन्तत्वं च निपात्यते !> (वार्तिकम्) ॥ हलिं कलिं वा गृह्णाति । हलयति । कलयति । महद्धलं हलिः । परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेन अगेव लुप्यते । अतः सन्वद्भावदीर्घौ न । अजहलत् । अचकलत् । कृतं गृह्णाति । कृतयति । तूस्तानि विहन्ति वितूस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे । मुण्डादयः सत्यापपाश - (SK2563) इत्यत्रैव पठितुं युक्ताः । प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धेः केषांचिद्ग्रहणं सापेक्षेभ्योऽपि णिजर्थम् । मुण्डयति माणवकम् । मिश्रयत्यन्नम् । श्लक्ष्णयति वस्त्रम् । लवणयति व्यञ्जनमिति । हलिकल्योरदन्तत्वार्थम् । सत्यस्य आपुगर्थम् । केषांचित्तु प्रपञ्चार्थम् । सत्यं करोत्याचष्टे वा सत्यापयति ।<!अर्थवेदयोरप्यापुग्वक्तव्यः !> (वार्तिकम्) ॥ अर्थापयति । वेदापयति । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायत्युपवीणयति । तूलेनानुकुष्णात्यनुतूलयति । तृणाग्रं तूलेनानुघट्टयतीत्यर्थः । श्लोकैरूपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति । उपसर्गात्सुनोति - (SK2270) इति षः । अभ्यषेणयत् । प्राक्सितात् - (SK2276) इति षः । अभिषिषेणयिषति । स्थादिष्वभ्यासेन च - (SK2277) इति षः । लोमान्यनुमार्ष्टि अनुलोमयति । त्वच संवरणे घः । त्वचं गृह्णाति त्वचयति । वर्मणा संनह्यति संवर्मयति । वर्णं गृह्णाति वर्णयति । चूर्णैरवध्वंसते अवचूर्णयति । इष्ठवदित्यतिदेशात्पुंवद्भावादयः । एनीमाचष्टे एतयति । दरदमाचष्टे दारदयति । पृथुं प्रथयति । वृद्धौ सत्यां पूर्वं वा टिलोपः । अपिप्रथत् । अपप्रथत् । मृदुम् म्रदयति । अम्म्रदत् । भृशं कृशं दृढम् । भ्रशयति । क्रशयति । द्रढयति । अबभ्रशत् । अचकशत् । अदद्रढत् । परिव्रढत् । ऊढिमाख्यत् द्वित्वम् । पूर्वत्रासिद्धीयमद्वित्वे इति त्वनित्यमित्युक्तम् । ढि इत्यस्य द्वित्वमित्यन्ये । औडिढत् । ऊढमाख्यत् । औजढत् । औडढत् । ओः पुयण्जि - (SK2577) इति सूत्रे वर्गप्रत्याहारजग्रहो लिङ्गम् । द्वित्वे कार्ये णावच आदेशो नेति ऊनयतावुक्तम् । प्रकृत्यैकाच् (SK2010) । वृद्धिपुकौ । स्वापयति । त्वां मां वाऽऽचष्टे त्वापयति । मापयति । मपर्यन्तस्य त्वमौ । पररूपात्पूर्वं नित्यत्वाट्टिलोपः वृद्धिः पुक् । त्वादयति । मादयतीति तु न्याय्यम् । अन्तरङ्गत्वात्पररूपे कृते प्रकृत्यैकाच् (SK2010) इति प्रकृतिभावात् । न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यम् । भाष्यस्य प्रोष्ठाद्युदाहरणविशेषेऽऽन्यथासिद्धिपरत्वात् । युवामावां वा युष्मयति । अस्मयति । श्वानमाचष्टे शावयति । नस्तद्धिते (SK679) इति टिलोपः । प्रकृतिभावस्तु न येन नाप्राप्तिन्यायेन टेः (SK1786) इत्यस्यैव बाधको हि सः । भत्वाकत्संप्रसारणम् । अन्ये तु । नस्तद्धिते (SK679) इति नेहातिदिश्यते । इष्ठनि तस्यादृष्टत्वात् । ब्रह्मिष्ठ इत्यादौ परत्वात् । टेः (SK1786) इत्यस्यैव प्रवृत्तेः । तेन शुनयतीति रूपमाहुः । विद्वांसमाचष्टे । विद्वयति । अङ्गवृत्तपरिभाषया संप्रसारणं नेत्येके । संप्रासारणे वृद्धावावादेशे च विदावयतीत्यन्ये । नित्यत्वाट्टिलोपात्प्राक्संप्रसारणम् । अन्तरङ्गत्वात्पूर्वरूपम् । टिलोपः । विदयतीत्यपरे । उदञ्चामाचष्टे उदीचयति ॥ उदैचिचत् । प्रत्यञ्चम् । प्रतीचयति । प्रत्यचिचत् । इकोऽसवर्णे - (SK91) इति प्रकृतिभावपक्षे । प्रतिअचिचत् । सम्यञ्चमाचष्टे समीचयति । समिअचिचत् । तिर्यञ्चामाष्टे तिराययति । अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेमनासिद्धत्वात्तिरसस्तिरिः । असिद्धवदत्र - (SK2183) इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः । अतः पुनष्टिलोपो न । अङ्गवृत्तपरिभाषया वा । चङ्यग्लोपित्वादुपधाह्रस्वो न । अतितिरायत् । सध्र्यञ्चमाचष्टे साध्राययति । अससध्रायत् । विष्वद्यञ्चम् । अविविष्वद्रायत् । देवद्र्यञ्चम् देवद्राययति । अदिदेवद्रायत् । अदद्र्यञ्चम् । अददद्रायत् । अदमुयञ्चम् । अदमुआययति । आददमुआयत् । अमुमुयञ्चम् । अमुमुआययति । चङ् । आमुमुआययत् । भुवम् भावयति । अबीभवत् । भ्रुवमबुभ्रवत् । श्रियमशिश्रयत् । गामजूगवत् । रायमरीरयत् । नावमनूनवत् । स्वश्वम् स्वाशश्वत् । स्वः ॥<!अव्ययानां भमात्रे टिलोपः !> (वार्तिकम्) ॥ स्वयति । असस्वत् । असिस्वत् । बहून् भावयति । बहयतीत्यन्ये विन्मतोरिति लुक् । स्रग्विणम् स्रजयति । संज्ञापूर्वकत्वान्न वृद्धिः । श्रीमतीं श्रीमन्तं वा श्रययति । अशिश्रयत् । पयस्विनीत् । पयस्यति । इह टिलेपो न । तदपवादस्य लुकः प्रवृत्तत्वात् । स्थूलं स्थवयति । दूरं दवयति । कथं तर्हि दूरयत्यवनते विवस्वतीति । दूरमतति अयते वा दूरात् । दूरातं कूर्वतीत्यर्थः । युवानं यवयति कनयति । युवाल्पयोः - (SK2019) इति वा कन् । अन्तिकं नेदयति । बाढं साधयति । प्रशस्यं प्रशस्ययति । इह श्रज्यौ न । उपसर्गस्य पृथक्कृतेः । वृद्धं ज्यापयति । वर्षयति । प्रियं प्रापयति । स्फिरं स्फापयति । उरुं वरयति । वारयति । बहुलं बंहयति । गुरुं गरयति । तृप्रं त्रापयति । दीर्घं द्राघयति । वृन्दारकं वृन्दयति ॥

Balamanorama

मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् - मुण्डमिश्र । कृञर्थे इति । शेषपूरणमिदम्,शब्दवैरे॑त्तः करणे इत्यनुवृत्तेरिति भावः । व्रताद्भोजनेति वार्तिकम् । पयः शूद्रान्नं वा व्रतयतीति । पयो भुङ्क्ते, शूद्रान्नं वर्जयतीत्यर्थः । वरुआआत्समाच्छादने — इत्यपि वार्तिकम् । भाष्ये तु न दृश्यते । संवरुआयतीति । वरुओण सम्यगाच्छादयतीत्यर्थः॥ वरुआं परिधत्ते इति वा । हल्यादिभ्यो घणे — इति वार्तिकम् । भाष्ये तु न दृश्यते । हलिकल्योरिति । हलिकली इदन्तौ । हलकलशब्दावदन्तौ, अकारे इष्ठवत्त्वेन टेर्लोपे हलि कलि इति ण्यन्ताब्यां लडादीति भावः । महद्धलं हलिरिति । अत्र वृद्धप्रयोगोऽन्वेषणीयः । अचकलदित्यत्र सन्वत्त्वाऽप्रवृत्तये अग्लोपित्वाय तयोरदन्तत्वमिति वाच्यम्, इकारलोपेऽप्यग्लोपित्वसिद्धेरित्यत आह — परत्वादिति । इकारस्य णौ इष्ठवत्त्वे टिलोपात्प्रागेव परत्वात्अचो ञ्णिती॑ति वृद्धौ कृतायामैकारस्य इष्ठवत्त्वाट्टिलोपेऽग्लोपित्वं न स्यात् । इकारयोरत्त्वे तु अकारस्य टिलोपात् प्राक् परत्वाद्वृद्धौ सत्यामप्याकार एव इष्ठवत्त्वाल्लुप्यते इत्यर्थः । अत इति । अग्लोपित्वात्सन्वत्त्वम्,दीर्घो लघो॑रिति दीर्घश्च नेत्यर्थः । कृतं गृह्णातीति । उपकारं स्वीकरोतीत्यर्थः । पठितुं य#उक्ता इति । लाघवादेकसूत्रत्वं युक्तमित्यर्थः । केषांचिदिति । मुण्डादीनामित्यर्थः । सापेक्षेभ्योऽपीति । अन्यथा णिजन्तस्याऽस्य सनाद्यन्तवृत्तित्वाद्विशेषणसापेक्षत्वे मुण्डादिभ्यो णिज्न भवेत्, सविशेषमानां वृत्तिनिषेधात् । इह मुण्डादीनां पुनग्र्रहणे तु तत्सामर्थ्यात् सापेक्षेभ्योऽपि मुण्डादिभ्यो णिच् सिध्यतीत्यर्थः । स्पष्टं चेदं ‘सुप आत्मनः’ इत्यत्र भाष्यकैयटयोः । मुण्डयति माणवकमिति । अत्र माणवकं मुण्डं करोतीत्यर्थ मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिच् सिध्यति । अन्यथा यदा प्रकरणादिना माणवकादिविशेषो ज्ञायते तदैव मुण्डयतीति णिच् स्यादिति भावः । ‘सुप आत्मनः’ इत्यत्र भाष्यकैयटयोः । मुण्डयति माणवकमिति । अत्र माणवकं मुण्डं करोतीत्यर्थे मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिच् सिध्यति । अन्यथा यदा प्रकरणादिना माणवकादिविशेषो ज्ञायते तदैव मुण्डयतीति णिच् स्यादिति भावः ।सुप आत्मनः इति सूत्रभाष्ये तुमुण्डयति माणवक॑मित्यत्र गमकत्वाण्णिच्,महान्तं पुत्रमिच्छती॑त्यादौ त्वगमकत्वान्न क्यजित्युक्तम् । तदा प्रपञ्चार्थमेव मुण्डादिग्रहणमिति शब्देन्दुशेखरे स्थितम् । श्लक्ष्णयति वरुआमिति । निर्मलं करोतीत्यर्थः । लवणयति व्यञ्जनमिति । लवणयुक्तं करोतीत्यर्थः । हलिकल्योरिति । एवं च ताभ्यां सापेक्षभ्यां न णिच्, तद्ग्रहणस्य अदन्तत्वनिपातनेन चरितार्थत्वादिति भावः । ननु सत्यशब्दा॒त्तत्करोती॑ त्यादिनैव णिच् सिद्धेःसत्यापे॑ति सूत्रे सत्यग्रहणं व्यर्थमित्यत आह- सत्यस्यापुगर्थमिति । केषांचिदिति । पाशादीनामित्यर्थः । सत्यापयतीति । आपुग्विधिसामर्थ्यान्न टिलोपः । पाशं विमुञ्चतीत्यादौप्रातिपदिकाद्धात्वर्थे॑ इति णिच् । अभिषिषेमयिषतीति । अभिषेणि इति ण्यन्तात्सनि रूपम् । ननु त्वचं गृह्णाति त्वचयतीति कथम् । त्वच्छब्दाच्चकाराण्णिचि टिलोपे त्वयतीत्यापत्तेरित्यत आह — त्वचेति । ‘त्वच संवरणे’ इत्यस्मात्पुंसि संज्ञायां घः प्रायेणे॑ति घप्रत्ययय इत्यर्थः । पुंवद्भावादय इति.आदिना रभावटिलोपादिग्रहणम् । एतयतीति । ‘भस्याऽढे’ इति पुंवत्त्वस्य इष्ठनि प्रवृत्तेर्णावपि तस्याऽतिदेशात्वर्णादनुदात्तादिति स्त्रीप्रत्ययस्य, तत्संनियोगशिष्टनत्वस्याऽपि निवृत्तौ एतयतीति सिध्यतीत्यस्वरसात्पुंवद्भावे उदाहरणान्तरमाह - दरदमिति । दरदिति कश्चिद्राजा, तस्यापत्यं दारदः ।द्व्यञ्मगधे॑त्यण् । स्त्र्यपत्ये तु दरदोऽपत्यं स्त्री दरत् ।अतश्चे॑त्यणो लुक् । तामाचष्टे इत्यर्थे दरच्छब्दाण्णौ इष्टवत्त्वात् पुंवत्त्वेन स्त्रियामित्यनुवृत्तौअतश्चे॑ति स्त्रियां विहितस्य अण्प्रत्ययलुको निवृत्तौ दारदशब्दे टेर्लोपे दादयतीति रूपं सिध्यति । पुंवद्भावाऽभावे तु दरच्छब्दस्य टिलोपे सति दरयतीति स्यादिति भावः । टिलोपस्य अजादेशत्वेन स्थानिवत्त्वान्नोपधावृद्धि ।पृथुं मृदुं भृशं चैव, कृशं च दृढमेव च । परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत् । इति । क्रमेणोदाहरति — पृथुमिति । ‘आचष्टे’ इति शेषः । प्रथयति । तत्र प्रक्रियां दर्शयति — वृद्धौ सत्यामिति । पृथु इ इति स्थिते परत्वाद्वृद्धौ कृतायां टिलोपः । अथवा कृतायामकृतायां च वृद्धौ प्रवृत्त्या नित्यत्वाद्वृद्धेः प्राक्टिलोपः । उभयथापिर ऋतः इति रभावे प्रथयतीति रूपमिति भावः । वस्तुतस्त्वकृतायां वृद्धौ उकारस्य लोपः, कृतायां तु औकारस्य लोपः । तथा चशब्दान्तरस्य प्राप्नुवन् विधिरनित्यः॑ इति टिलोपोऽनित्यः । ततश्च परत्वाट्टिलोपात् प्राग्वृद्धिरेवेतिमुण्डमिश्रे॑ति सूत्रे भाष्ये स्थितम् ।वृद्धौ सत्यां पूर्वं वा टिलोप॑ इति मूलं तु कृताऽकृतप्रसङ्गित्वाट्टिलोपस्य नित्यत्वमभिप्रेत्येति बोध्यम् । अपिप्रथदिति । वृद्धौ सत्यां टिलोप#ए अग्लोपित्वाऽभावात् सन्वत्त्वे ‘सन्यतः’ इति इत्त्वमिति भावः । अपप्रथदिति । वृद्धेः पूर्वं टिलोपेन उकारस्य निवृत्तावग्लोपित्वात्सन्वत्त्वान्वत्त्वाऽभावे रूपम् । अबभ्रशदित्यादौ वृद्धेः पूर्वं पश्चाद्वा टिलोपेऽपि अग्लोपित्वान्न सन्वत्त्वमिति भावः । औजिढदिति । वहधातोः क्तिनि ढत्वधत्वष्टुत्वढलोपेषु ऊढिः । तस्माण्णौ टिलोपे ऊढि इतिण्यन्ताल्लुहि चङि आटि वृद्धौ औढि अ त् इति स्थिते प्रक्रियां दर्शयति- ढत्वादीनामिति । ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात्अजादेर्द्वितीयस्ये॑ति ह्तशब्दस्य द्वित्वमित्यर्थः । इत्युक्तमिति ।लुग्विकरणप्रक्रियायां ऊर्णुञ्धाता॑विति शेषः । एवं च ह् तिशब्दस्य द्वित्वे हलादिशेषेकुहोश्चु॑रिति हस्य चुत्वमिति भावः । ढिशब्दस्येति ।पूर्वत्रासिद्धीयमद्वित्वे॑ इत्स्य क्वचिदनित्यत्वेऽप्यत्र तदप्रवृत्तौ मानाऽभावादिति भावः । ऊढमाख्यदिति । वहधातोः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपेषु ऊढशब्दाण्ण्यन्ताल्लुङि चङि ढत्वादीनामसिद्धत्वात्ह् ते॑त्यस्य द्वित्वे हलादिशेषे अभ्यासस्य चुत्वे रूपम् । औडढदिति ।पूर्वत्रासिद्धीयमद्वित्वे॑ इति ढत्वादीनामसिद्धत्वाऽभावपक्षे ढशब्दस्य द्वित्वे रूपम् । नन्विह परत्वाट्टिलोपे सति णिच्सहितस्य ह् तीति ढीत्यस्य वा द्वित्वे कृते अभ्यासे इकार एव श्रूयेत नत्वकार इत्यत आह — ओः पुयणित्यादि । स्वशब्दाण्णिचि टिलोपमाशङ्क्याह — प्रकृत्यैकाजिति । प्रकृतिभावाट्टिलोपाऽभावे अकारस्य वृद्धौ आकारे पुगागमः । तदाह — वृद्धिपुकाविति । त्वापयति मापयतीत्यत्र प्रक्रियां दर्शयति — मपर्यन्तस्येति । युष्मदस्मद्भ्यां णौप्रत्ययोत्तरपदयोश्चे॑ति मपर्यन्तसय् त्वमौ । त्व अद् इ, म अद् इ, इति स्थिते आह — पररूपादिति । कृते अकृते च पररूपे टिलोपस्य प्रवृत्तेर्नित्यत्वं बोध्यम् । त्व इ म इ इति स्तिते आह — वृद्धिरिति । अकारस्य आकारः । टिलोपस्य स्थानिवत्तवं तु न शङ्क्यम्, अजादेशत्वाऽभावात् । पुगिति ।अर्ती॑त्यनेनेति भावः । तदेवं प्राचीनमतमुपन्यस्यस्वमतमाह — त्वादयतीत्यादिना । तदेवोपपादयति — अन्तरङ्गत्वादिति । त्व अद् इ, म अद् इ, इति स्थिते नित्यमपि टिलोपं बाधित्वा अन्तरङ्गत्वात्पररूपे कृतेप्रकृत्यैका॑जिति प्रकृतिभावे टिलोपस्याऽप्रवृत्तौ उपधावृद्धिरिति भावः । ननु इष्ठेमेयस्सु किमुदाहरणमिति प्रश्ने प्रेयान् प्रेमा प्रेष्ट इत्युदाहरणानि प्रदश्र्य,नैतदस्ति प्रयोजनंप्रस्थस्फे॑ति विहित प्रादीनामाभीयत्वेनाऽसिद्धतया तत्र टिलोपाऽप्रसक्ते॑ रित्युक्त्वा, श्रेयान् श्रेष्ठ इत्यत्र ‘प्रशस्यस्य श्रः’ इति श्रादेशस्य पाञ्चमिकतया आभीयत्वाभावेनाऽसिद्धत्वाऽभावाट्टिलोपे प्राप्ते प्रकृतिभावविधिरित्युदाहरणान्तरं प्रदश्र्य॑श्रादेशे अकारोच्चारणसामर्थ्याट्टिलोपो न भविष्यती॑त्युक्त्वा, रुआग्वितमः रुआजिष्ठ इत्यत्रविन्मतोर्लु॑गिति लुकि टिलोपनिवृत्त्यर्थं प्रकृतिभावविधानमित्युक्त्वा, प्राप्त एव टिलोपे आरभ्यमाणस्य लुकस्तदपवादतया लुका टिलोपस्य बाधो भविष्यती॑ति ‘प्रकृत्यैका’ जित्यस्य् भाष्ये प्रत्याख्यातत्वात्त्वादयति मादयतीत्यत्र प्रकृतिभावोपन्यासो न युज्यते इत्याशङ्क्य निराकरोति — न चेत्यादि । कुत इत्यत आह — भाष्यस्येति । उदाहृतभाष्यस्य हि प्रेयान् प्रेष्ठ इत्यादीनां प्रकृतिभावं विनाऽपि साधने तात्पर्यं, न तु प्रकृततिभावप्रत्याख्यानमभिमतम्, स्वमाचष्टे स्वपायतीत्यादौ तदावश्यकत्वात् । अत एवप्रकृत्यैकाजिष्ठेमेयस्सु चेन्नैकाच उच्चारणसामर्थ्यादवचनात्पर्कृतिभावः॑ इति वार्तिकव्याख्यावसरेअन्तरेणापि वचनं प्रकृतिभावो भविष्यती॑ति भाष्ये उक्तम् । अन्यथा ‘अन्तरेणैव वचन’ मित्युच्येतेत्यास्तां तावत् ।प्रत्ययोत्तरपदयोश्चे॑त्यत्र ‘एकवचने’ इत्यनुवृत्तम् । तच्च यौगिकमाश्रीयते । तेन एकत्वविशिष्टवाचिनोर्युष्मदस्मदोरिति लभ्यते इति मत्वाऽऽह युवामावां वेति । न च द्वयोरुक्तौ युवावादेशौ शङ्क्यौ, विभक्तेर्लुका लुप्तत्वात् । न च लुकः प्रागेव युवावौ किं न स्यातामिति वाच्यम् ।अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते॑ इत्युक्तेरिति भावः । शावयतीति । आआनमाचष्टे इत्यर्थः । आन्शब्दाण्णौ आन् इ इति स्थिते आह — नस्तद्धिते इति ।प्रकृत्यैका॑जिति प्रकृतिभावमाशङ्क्याह — प्रकृतिभावस्तु नेति । कुत इत्यत आह — येनेति ।टे॑रिति टिलोपे प्राप्ते सत्येवप्रकृत्यैका॑जित्यारभ्यते, ‘नस्तद्धिते’ इत्यस्य रुआजिष्ठ इत्यादावप्राप्तावपि प्रकृतिभाव आरभ्यते इति भावः । भत्वादिति । इष्ठवत्त्वेन भत्वात्आयुवे॑त संप्रसारणमित्यर्थः । तथा च आन् इ इति स्थिते टिलोपे सति तस्याभीयत्वेनाऽसिद्धत्वादन्नन्तत्वाद्वस्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धावावादेशः । अन्येत्विति । इष्ठनि दृष्टस्यैव इष्ठवदित्यतिदेशः । टेरित्येव टिलोप इष्ठनि दृष्टो, न तु॑ ‘नस्तद्धिते’ इति । अतो नाऽस्यातिदेश इत्यर्थः । नन्वतिशयेन ब्राहृआ ब्राहिऋष्ठ इत्यत्र नस्तद्धिते इति टिलोपो दृष्ट इत्यत आह — ब्राहिऋष्ठ इत्यादाविति । तेनेति । ‘नस्तद्धिते’ इत्यस्याऽप्रवर्तनेनेत्यर्थः । ततश्च प्रकृतिभावात् ‘टेः’ इति लोपस्याऽभावे संप्रसारणे शुनयतीति रूपमित्यर्थः । आहुरित्यस्वरसोद्भावनम् । तद्बीजं तु ब्राहृवच्छब्दादिष्ठानि टेरिति टिलोपापवादेविन्मतोर्लु॑गिति मतुपो लुकि ‘नस्तद्धिते’ इति टिलोपो दृष्ट एव । ततश्चइष्ठनि तस्याऽदृष्टत्वा॑ दित्यत्युक्तम् । किं चब्राहिऋष्ठ इत्यादौ परत्वाट्टेरित्यस्य प्रवृत्ति॑रित्ययुक्तम्, केवलस्य ब्राहृन्शब्दस् वेदादिवचनस्य गुणवचनत्वाऽभावेन इष्ठनो दुर्लभत्वात्,अजादी गुणवचनादेवे॑त्युक्तेः । मत्वन्तादिष्ठनि तु मतोर्लुकि तेनटे॑रित्यस्य प्रवृत्तिबाधेन लुगुत्तरं तदप्रवृत्त्या परत्वादित्यप्यसङ्गतिरिति शब्देन्दुशेखरे स्थितम् । विद्वयतीति । विद्वस् शब्दाण्णौ टिलोपः । ननु इष्ठवत्त्वाद्भत्वेवसोः संप्रसारण्मित्याशङ्क्याह — अङ्गवृत्तेति ।अङ्गवृत्ते पुनर्वृत्तावविधि॑रिति परिभाषयेत्यर्थः । अङ्गकार्ये कृते पुनर्नाङ्गकार्यमिति तदर्थः । वस्तुतस्तु विद्वयतीत्यत्रटे॑रित्यसो लोपे वस्वन्तत्वाऽभावात्संप्रसारणाऽप्रसक्तेरङ्गवृत्तपरिभाषोपन्यासो वृथेत्यस्वरसं सूचयति — इत्येके इति । संप्रासरणे इति । विद्वच्छब्दाम्णौ इष्ठवत्त्वेन टिलोपे कृते वकारस्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धौ आवादेशे विदावयतीत्यन्ये मन्य्नते इत्यर्थः । अत्रापि पूर्ववदेवाऽस्वरसः, टिलोपे सति वस्वन्तत्वाऽभावात् । नित्यत्वादिति । टिलोपे कृते अकृते च प्रवृत्तेः संप्रसारणं नित्यम् । टिलोपस्तु कृते संप्रसारणे पूर्वरूपे च कृते उसो भवति, अकृते तु अस इत्यनित्यः,शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः॑ इति न्यायादिति भावः । ननु कृतेऽपि संप्रासरणे पररूपात्प्राक् अस एव टिलोप इति तस्यनित्यत्वमित्यत आह — अन्तरङ्गत्वात्पूर्वरूपं टिलोप इति । संप्रसारणे पूर्वरूपे च कृते उसो लोपेऽपि वस्वन्तत्वस्य विनङ्क्ष्यत्त्वान्न संप्रसाणमित्यस्वरसं सूचयति — इत्यपरे इति । एवं च विद्वयतीति प्रथमपक्ष एव स्थितः । तत्राङ्गवृत्तपिरभाषोपन्यास एव वृथेति स्थितम् । उदीचयतीति । उत्पूर्वकादञ्चेः ऋत्विगित्यादिना क्विनिअनिदिता॑मिति नलोपे उदच्शब्दः । तस्माण्णौ इष्ठवत्त्वेन भत्वादच इत्यकारलोपं बाधित्वाउद ई॑दिति ईत्त्वेउदीची॑ति ण्यन्ताल्लडादय इति भावः । उदैचिदिति । लुङिद्विर्वचनेऽची॑ति णिलोपनिषेधाच्चिशब्दस्य द्वित्वम् ।उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते॑ इत्युक्तेरुद उपर्याडिति भावः । एवं च उदः पृथक्करणेनप्रकृत्यैकाजिति प्रकृतिभावान्न टिलोपः । प्रतीचयतीति । ‘अच’ इत्यल्लोपे ‘चौ’ इति पूर्वस्य दीर्घः । प्रत्यचिचदिति । इह अच इत्यल्लोपे चिशब्दात्प्रागटि तकारादिकारस्य यण् अच इत्यकारलोपस्याभीयत्वेऽपि असमानाश्रयत्वान्नाऽसिद्धत्वम्, लोपस्य णिनिमित्तत्वात्, आटस्तु लुङ्निमित्तत्वात् । इकोऽसवर्णे इतीति । ‘न समासे’ इति तु न, पृथक्करणेन समासनिवृत्तेः । समीचयतीति । ‘समःसमि’ इति सम्यादेशः । ‘अच’ इति लोपे ‘चा’ विति दीर्घः । सम्यचिचदिति । सम्यादेशस्य स्थानिवत्त्वेनोपसर्गत्वात् पृथक्करणम्, पृथक्करणेन उत्तरपदपरत्वाऽभावेऽप्य्नतरङ्गत्वाज्जातः सम्यादेशो न निवर्तते । तिराययतीति ।तिर॑सित्यव्ययम् । तत्पूर्वादञ्चेः क्विनि नलोपे तिरस् अच् इत्यस्माण्णौ टिलोपेन धातोर्निवृत्तौ ‘तिरसस्तिर्यलोपे’ इति तिरिभावे इकारस्य वृद्धावायादेशे ‘तिरायी’ त्यस्माण्ण्य्नताल्लडादीति भावः । न च तिरसः पृथक्करणे सति धातोःप्रकृत्यैका॑जिति प्रकृतिभावात्कथं टिलोप इति वाच्यं, तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाऽभावेन पृथक्करणाऽभावात् । नन्वेवं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह — अञ्चेष्टिलोपेनेति । बहिरङ्गत्वेनेति । बहिर्भूतणिनिमित्तकत्वादिति भावः । न च तिरसः पृथक्करणे सति धातोःप्रकृत्यैका॑जिति प्रकृतिभावात्कथं टिलोप इति वाच्यं, तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाऽभावेन पृथक्करणाऽभावात् । नन्वेवं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतिपरकत्वविरहात्कथमिह सति अञ्चतिपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह — अञ्चेष्टलोपेनेति । बहिरङ्गत्वेनेति । बहिर्भूतणिनिमित्तकत्वादिति भावः । नन्वस्तु तिरसस्तिरिः, तत्र रेफादकारस्य टेरिति लोपः स्यादित्यत आह — असिद्धवदवेति । प्रथमटिलोपोऽसिद्ध इत्यन्वयः । तिरस् अच् इ इति स्थिते प्रथमप्रवृत्तः अच् इत्येवंरूपटेर्लोपःतिरे टिलोपे कर्तव्ये आभीयत्वादसिद्ध इत्यर्थः । ननु प्रथमटिलोपस्य कथं तिरेष्टिलोपे कर्तव्ये असिद्धत्वं, टिलोपशास्त्रस्य एकत्वादित्यत आह — चिणो लुङ्न्यायेनेति । पचधातोर्भावकर्मणोर्लुङस्तङि प्रथमपुरुषैकवचने तशब्दे परेचिण् भावकर्मणो॑रिति च्लेश्चिणि उपधावृद्धौ अटि अपाचि त इत्यस्मात्तिङश्चे॑ति तरपि तदन्तात्किमेत्तिङव्ययघादा॑मित्याम्प्रत्यये अपाचिततरामिति स्थितेचिणो लु॑गिति प्रथमस्य तशब्दस्य लुकि कृते पुनस्तरप्प्रत्ययतशब्दस्य लुङ् न भवति, स्थानिभेदेन लुको भेदमाश्रित्य प्रथमलुकोऽसिद्धत्वेन व्यवधानादिति स्थितिः । एवमिहापीत्यर्थः । अत इति । प्रतमटिलोपस्याऽसिद्ध्त्वादित्यर्थः । अङ्गवृत्तपरिभाषया वेति ।पुनष्टिलोपे ने॑त्यनुषज्यते । न च तिरेरिकारस्याङ्गवृत्तपरिभाषयाटे॑रिति लोपाऽभावे तिराययतीति वृद्धिरपि तस्य न स्यादिति वाच्यम्, अङ्गवृत्तपरिभाषाया अनित्यत्वेन वृद्धिविषये तदप्रवृत्तेः । अग्लोपित्वादिति । तिरस् अच् इ इति स्थितेटे॑रित्यचो धातोर्लोपे सति तिरि इत्यस्य अग्लोपित्वम्चो धातोर्लोपे अकारस्यापि लोपसत्त्वादित्यभिमानः । सध्राययतीति । सहस्य सध्रिः । तिराययतीतिवद्रूपम् । सहेत्यस्य उपसर्गत्वाऽभावान्न पृथक्करणम् । तदाह — अससध्रायदिति । विष्वद्रञ्चमिति । विष्वक् अच् इ इति स्थितेविष्वग्देवयोश्चे॑ति विष्वक्शब्दटेरद्रआदेशे टेरित्यचो धातोर्लोपे विष्वद्रि इ इति स्थिते वृद्धौ आयादेशे विष्वद्रायि इति ण्यन्ताल्लटि विष्वद्राययतीति रूपम् । देवद्रञ्चमिति । देवशब्दस्य टेरद्रआदेशे देवद्राययतीति सिद्धवत्कृत्य लुङ्याह — अदिदेवद्रायदिति । अतितिरायदितिवद्रूपम् । आददद्रायदिति । सर्वनामत्वाददस्शब्दस्य टेरद्रआदेशः ।त्यदाद्यत्वे सत्येव उत्त्वमत्वे॑ इति पक्षे इदम्, अदस्शब्दाद्विभक्तेर्लुका लुप्तत्वेन विभक्तिपरकत्वाऽभावेन त्यदाद्यत्वाऽप्रवृत्तेः ।त्यदाद्यत्वाऽविषयत्वेऽपि उत्त्वमत्त्वे स्त॑ इति मतमाश्रित्य आह — अमुमुयञ्चमिति । अदस् अच् इ इति स्थिते टेरद्रआदेशे अच् इत्यस्य टेर्लोपे अदद्रि इ इति स्थितेअदसोऽद्रेः पृथङ्मुत्व॑मिति मते दकाराऽकारयोर्दकाररेफयोश्च मत्वेत्त्वयोःकृतयोः अमुमु इ इति स्तिते प्रथमस्य इकारस्य णिचि वृद्धौ आयादेशे अमुमु आयीति ण्यन्ताल्लडादीति भावः । मुत्वस्याऽसिद्धत्वान्न यण् । अदमुआययतीति ।केचिदन्त्यसदेशस्ये॑ति मते इदम् । भुवमिति । भुमाचष्टे इत्यर्थ भूशब्दाण्णिच् । वृद्ध्यावादेशौ, भावीत्यस्माल्लडादीति भावः । अबीभवदिति । ओः पुयण्जी॑ति इत्त्वम् । अबुभ्रवदिति । अवर्णपरकपवर्गादिपरत्वाऽभावात्ओः पुयण्जी॑ति न । स्वआमिति । सुशोभनः अआ इति विग्रहः । स्वाशश्वदिति । उपसर्गसमानाकारस्य पृथक्करणादआशब्दस्यअजादेर्द्वितीयस्ये॑ति द्वित्वमाडागमश्च । स्वरिति । स्वरित्यस्माण्णिचि ‘अव्ययानां भमात्रे’ इति टिलोपः, इष्ठवत्त्वेन भत्वात् ।प्रकृत्यैकाजिति प्रकृतिभावस्तु येन नाप्राप्तिन्यायेनटे॑रित्यस्यैव बाधकः । असस्वदिति । द्वित्वे कार्ये णावजादेशस्य निषेधात् टिलोपं बाधित्वा स्वर्शब्दस्य द्वित्वम्, ‘अ’ रित्यस्य लोपे अकारस्यापि लोपसत्त्वेन अजादेशत्वादिति भावः । असिस्वदिति । अर्लोपस्य अजादेशत्वं नेति मते द्वित्वे कार्ये णौ टिलोपस्य निषेधाऽभावाट्टिलोपे कृते णिचा सह स्विशब्दस्य द्वित्वमिति भावः । बहूनिति । बहुशब्दाण्णिचिणाविष्ठव॑दित्यतिदेशात्बहोर्लोपो भू च बहो॑रिति बहोर्भूभावः ।इष्ठस्य यिट् चे॑ति यिडागमस्तु न, ‘णाविष्ठव’ दिति सप्तम्या इष्ठनि परे दृष्टस्यैव कार्यस्यातिदेशादिति भावः । बहयतीति । यिडभावे तत्संनियोगशिष्टस्य भूभावस्याप्यभावादिति भावः । रुआजयतीति । इष्ठवत्वात्विन्मतो॑रिति लुक् । नचाऽजादी गुणवचनादेवेति इष्ठन्प्रत्ययः रुआग्विन्शब्दाद्दुर्लभ इति इष्ठवत्त्वमत्र कथमिति शङ्क्यं,विन्मतो॑रिति लुग्विधानेन रुआग्विन्शब्दादिष्ठवत्त्वसिद्धरिति भावः । उपधावृद्धिमाशङ्क्याह — संज्ञापूर्वकत्वान्न वृद्धिरिति ।णाविष्ठव॑दित्येनातिदेशेन विनो लुकः सत्त्वादङ्गवृत्तपरिभाषया न वृद्धिरिति कैयटः । श्रीमतीमिति । श्रीमतीशब्दाण्णिचिणाविष्ठव॑दित्यतिदेशेन ‘भस्याऽढे’ इति पुंवत्त्वे ‘विन्मतोः’ इति मतो लुकि रेफादिकारस्य वृद्ध्यादेशयोः ‘श्रायी’ त्यरमाल्लडादीति भावः । अशिश्रयदिति । णावच आदेशो नेति वृद्ध्यायादेशयोः प्रागेव श्रीशब्दस्य द्वित्वे उत्तरखण्डे वृद्ध्यायादेशयोः कृतयोरुपधाह्रस्वः इति माधवः । मतुपो लुकि अकारस्यापि लोपसत्त्वेन अग्लोपित्वान्नोपधाह्रस्व इत्यन्ये । पयस्विनीमिति । णिचि इष्ठवत्त्वाद्विन्मतोरिति मतुपो लुगिति भावः । पयस्यतीत्यत्र इष्ठवत्त्वाट्टिलोपमाशङ्क्य आह — इह टटिलोपो नेति.कुत इत्यत आह — तदपवादस्येति । न च टिलोपं बाधित्वा मतुपो लुकि कृते पयसष्टेर्लोः कुतो न स्यादिति वाच्यं,सत्यपि संभवे बाधन॑मिति न्यायेन पयसष्टिलोपस्यापि मतुपो लुका बाधात् । स्थवयतीति । स्थूलशब्दाण्णिचि इष्ठवत्त्वात्स्थूलदूरेति स्थूलशब्दस्य यणादेर्लोपे #ऊकारस्य गुणे अवादेशे स्थवि इत्यस्माल्लडादीति भावः । गुणे ओकारस्याऽचो ञ्णितीति वृद्धिस्तु न शङ्क्या, अङ्गकार्ये कृते पुनरङ्गकार्यस्याऽप्रवृत्तेः । दवयतीति.पूर्ववद्यणादिलोपो गुणश्च ।कथं तर्हीति ।स्थूलदूरे॑ति यणादिलोपस्य टिलोपाऽपवादत्वादिति भावः । दूरमततीति । ‘अत सातत्यगमने’ इति धातोःअन्येभ्योऽपि दृश्यते॑ इति क्विपि दूरादिति रूपम् । अय गतावित्यस्मात् क्विपिलोपो व्यो॑रिति यलोपेह्रस्वस्य पिती॑ति तुकि दूरादित्येव रूपम् । तस्माण्णौ टिलोपेदूरी॑ति ण्यन्तात् शतृप्रत्यये शपि इकारस्य गुणे अयादेशे दूरयच्छब्दस्य दूरयतीति सप्तम्यन्तमिति भावः । तदाह — दूरातं कुर्वतीत्यर्थ इति ।कुर्वती॑ति सप्तम्यन्तम् । यवयतीति । युवन्शब्दाण्णौ स्थूलदूरेति वनो यणादेर्लोपः । पूर्वस्य उकारस्य गुणे अवादेशः । यवि इत्यस्माल्लडादि । कनयतीति । युवन्शब्दस्य कनादेशपक्षे रूपम् । तदाह — युवाल्पयोरिति । नेदयतीति । अन्तिकशब्दस्य णौ नेदादेशः,अन्तिकबाढयोर्नेदसाधा॑वित्युक्तेः । साधयतीति । बाढशब्दस्य णौ साधादेशः । इहेति । प्रशस्ययतीत्यत्र ‘प्रशस्यस्य श्रः’ज्य चे॑ति श्रज्यौ नत्यर्थः । कुत इत्यत आह — उपसर्गस्येति । तत्पृथक्करणे सति विशिष्टस्य स्थानिनोऽभावान्नादेशाविति भावः । वृद्धं — ज्यापयतीति ।वृद्धस्य चे॑ति वृद्धशब्दस्य ज्यादेशे वृद्धौ पुगिति भावः ।प्रियस्थिरे॑ति सूत्रक्रमेणोदाहरति — प्रियं — प्रापयतीति । प्रियशब्दस्य प्रादेशे वृद्धिः पुक् । स्थापयतीति । स्थिरशब्दस्य स्थादेशे वृद्धिपुकौ ।वरयति वारयतीति । उरुशब्दस्य वर् । संज्ञापूर्वकविधेरनित्यत्वादुपधावृद्धिविकल्प इति माधवः । बंहयतीति । बहुलस्य बंहादेशः । गरयतीति । गुरोर्गुर् । वृद्धं वर्षयतीति । वृद्धस्य वर्षादेशःवृद्धस्य चे॑ति ज्यादेशेन विकल्प्यते । त्रपयतीति । तृप्रस्य त्रप् आदेशः । अदुपधः । संज्ञापूर्वकत्वान्न वृद्धिः । गरयतीत्यादिवत् ।त्रापयती॑ति क्वचित्पाठः । द्राघयतीति । दीर्घस्य द्राघादेशः । वृन्दयतीति । बृन्दारकस्य बृन्दादेशः । इति नामधातुक्रिया ।अथ ण्यन्तप्रक्रिया ।

Tattvabodhini

मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् - त्रिलोकीतिष त्रयाणां लोकानां समाहारेतद्धितार्थ॑इति द्विगुः ।अकारान्तोत्तरपदो द्विगु॑रिति स्त्रित्वम् । त्रिफलेति । अत्रद्विगो॑रिति ङीप्प्राप्नोति नतुपाककर्णे॑ति ङीष्, तत्रजाते॑रित्यनुबृत्तेः । त्र्यनीकेति । अनीकम् — अग्रता । त्रयाणामनीकानां समाहारः ।अजादेराकृतिगणत्वाट्टा॑बिति त्र्यनीकाधिकरणे मीमांसकाः ।

Padamanjari

मण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्॥ किमर्थमिदम्, न प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धम्; न च तत्करोतीत्यादिना तत्र धात्वर्थनियमः क्रियते, राजानमतिक्रान्तवानत्यरराजदित्यपि दर्शनात्? मुण्डं करोति माणवक मित्यादौऽ सापेक्षेभ्योऽपि णिज् यथा स्यादित्येवमर्थ प्रपञ्चार्थ वा। हलिकल्योस्त्वदन्तत्वनिपातनार्थम्, अन्यथा हलि इ कलि इ इति स्थिते ठचो ञ्णितिऽ इति वृद्धिः प्राप्नोति,’णाविष्ठवत्’ इति टिलोपश्च; तत्र लोपः शब्दान्तरप्राप्त्याऽनित्यः, वृद्धिस्तु टिलोपे कृतेऽप्राप्तेवैत्युभयोरनित्ययोः परत्वाद् वृद्धौ कृतायामैकारस्य लोपस्तन्नाग्लोप्यङ्गं भवतीति’सन्वल्लघुनि’ इति सन्वद्भावः स्यात्,’दीर्घो लघोः’ इति दीर्घश्च, अत्वनिपातने तु यद्यपि परत्वाद् वृद्धिस्तथाप्यगेव लुप्यते इति सन्वद्भावो न भवति, तदाह - हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति। उपलक्षणमेतत्,’दीर्घो लघोः’ इति दीर्घाभावार्थ च।’दीर्घो लघोः’ इत्यत्राप्यनग्लोप इति वर्तते। एवं च बलिपटुअप्रभृतिभ्यो णिचि अबिवलत्, अपीपटदिति भवति, न त्वबबलत् अपपटदिति।’सत्यापपाश’ इत्यत्र मुण्डादयः पठितव्यास्तथा तु न कृतमित्येव॥

Nyaas

प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च (धातुपाठः-ग।सू।186) इत्यनेन मुण्डादिभ्यः सिद्धो णिच्। अयञ्च तस्यैव प्रपञ्चः। यद्यपि तस्य तत्करोतीत्यादिः प्रपञ्च उक्तः, तथापीह मन्दबुद्धीनामनुग्रहाय पुनरुच्यते। तन्निवृत्तौ वा इति। भोजननिवृत्तौ। पयो व्रतयति इत। पयो भुङ्क्त इत्यर्थः। वृषलान्नं व्रतयति इति वृवलान्नं न भुङ्क्त इत्यर्थः। हलिं गृह्णाति हलयति, कलिं गृह्णाति कलयति इति। ननु चेह हलकलशब्दयोः एतेनैतद्दर्शयति - सूत्रेऽपि हलिकल्योरेव ग्रहणम्, तयोस्त्वत्त्वनिपातनं कृतम्, सन्वल्लघुनि (7.4.93) इत्यादिना सन्वद्भावो मा भूदिति। अतो युक्तं हलिकल्योग्र्रहणम्। तथा हि - नात्र णिज् दुर्लभः, गणसुत्रेणैव सिद्धत्वात्। केवलं प्रपञ्चार्थमिदमुच्यते। स च प्रपञ्चो हलिकल्योरपि ग्रहण उपपद्यत एव। अयन्तु विशेषः - अकारान्तयोग्र्रहणे सतीकारान्ताभ्यामपि गणसूत्रेणैव णिच् प्राप्नोति, तत्र कृते सतीष्ठवद्भावेन टिलोपः प्राप्नोति, अचो ञ्णिति (7.2.115) इति वृद्धिश्च,उभयोरपि तयोरनित्यत्वम्। तथा हि, टिलोपस्य सत्यपि कृताकृतप्रसङ्गित्वे शब्दान्तरप्राप्त्याऽनित्यत्वम्। तथा हि, कृतायां वृद्धावैकारस्य प्राप्नोति, अकृताय#आन्त्विकारस्य; वृद्धेस्तु टिलोपे सत्यप्राप्त्याऽनित्यम्। अप्राप्तिस्त्वनजन्तत्वात्। उभयोरनित्ययोः परत्वाद्वृद्धिः, तस्यां कृतायां टिलोपः, तत्राप्यग्लोप्यङ्गं न भवति। तथा च सति सन्वल्लघुनि (7.4.93) इति सन्वद्भावेऽभ्यासस्येत्वे दीर्घो लघोः (7.4.94) इति दीर्घत्वे च अचीकलत्, अजीहलादित्यनिष्टं रूपं प्रसज्येत। हलिकलिशब्दयोस्तु कृतात्त्वयोग्र्रहणे सति यद्यपि परत्वाद्वृद्धिर्भवति, तथापि सत्यामपि तस्यामगेव लुप्यत इत्यग्लोप्यङ्गं भवति। ततश्च सन्वद्भावात् अचकलत्, अजहलादितीष्टं रूपं सिध्यति। तत्र ययोग्र्रहणे सतीष्टं सिध्यति तयोरेव ग्रहणम्, न तु ययोग्र्रहणेऽनिष्टं प्राप्नोति। नह्रनिष्टार्था शास्त्रे प्रकॢप्तिर्युक्ता॥

Prakriyasarvasvam

एभ्यः कृञर्थे णिच् । प्राग्वट्टिलोपः । मुण्डयति वटुम्, मुण्डयते । मिश्रयति, श्लक्ष्णयति, लवणयति, व्यञ्जनम् । अत्राम्ल्लोपित्त्वाच्चङ्यभ्यासस्य ‘सन्वल्लघुनि-’ (७-४-९३) इति सन्वद्वित्वं न । अललवणत् ।<!व्रताद् भोजने, तत्परिहारे वा!> (वा) । औषधं व्रतयति; अपथ्यं व्रतयति । वस्त्रात् समाच्छादने परिधाने चेति भोजः । संवस्त्रयति । कंबलम् देहे समाच्छादयति इत्यर्थः । परिवस्त्रयति दुकूलम् । परिधत्त इत्यर्थः । प्रकृत्यर्थस्य विवक्षायामकर्मकतापि ।<!हलकलकृतानां ग्रहणेऽर्थे!> (वा) । हलिं गृह्णाति हलयति रामः । कलिं गृह्णाति कलयति वैरी । कृतं गृह्णाति कृतयति । तेन चङि-अजहलत् अचकलत् इति सन्वद्वद्भावाभाव एव । एवम् अचकृतत् ।<!तस्ताद् विहनने!> (वा) । तूस्तं पापं, जटीभूतकेशः, केशमात्रं, वस्त्रदशा वा । तद् विहन्ति वितूस्तयति ।

Vartika

हलिकल्योरत्वनिपातनं सन्वद्भावप्रतिषेधार्थम् ।

Sutra Prayogas

  • संवस्त्र्य (भट्टिकाव्यम्): मुण्डमिश्र इत्यादिना णिच्।

  • समवस्त्रयन् (भट्टिकाव्यम्): मुण्ड - मिश्र इति वस्त्रात्समाच्छादने णिच्।