31035: कास्प्रत्ययादाममन्त्रे लिटि

Padacheda: कास्प्रत्ययात् | S | 5 | 1 |

आम् | S | 1 | 1 |

अमन्त्रे | S | 7 | 1 |

लिटि | S | 7 | 1 |

Sutrartha


Vasu English Summary

आम् is the affix of the verb कास् ‘to cough’ and of those roots that are formed by affixes i.e. the derivative verbs, when लिट् (Perfect Tense) follows, in the मन्त्र।

Vasu English Translation

आम् is the affix of the verb कास् ‘to cough’ and of those roots that are formed by affixes i.e. the derivative verbs, when लिट् (Perfect Tense) follows, in the मन्त्र। This forms the Periphrastic Perfect. The Perfect of कास् will be कासाम्, after which the terminations of the Perfect are all elided (2.4.81) and instead, the perfect tense of the auxiliary verb भू or अस् is added. As कासाञ्चक्रे ‘he coughed’; चोरयामास ‘he stole’. So also लोलूवाञ्चक्रे.

This rule however does not apply to the Vedas; as कृष्णो नोनाव Rig. Veda (I.79.2).

Vart:- This rule also applies where the root is polysyllabic consisting of more than one vowel; as चुलुम्पाञ्चकार, दरिद्राञ्चकार ॥

The final म् of आम् is not indicatory.

Bhashya

कास्प्रत्ययादाममन्त्रे लिटि (652) (408 आम्विकरणविधिसूत्रम् ॥ 3.1.3 आ. 7) (1806 आम्विधिवार्तिकम् ॥ 1 ॥) - कास्ग्रहणे चकास उपसंख्यानम्- (भाष्यम्) कास्ग्रहणे चकास उपसंख्यानं कर्तव्यम्। चकासांचकार ॥ (न्यासान्तरेण वैर्यथ्यभाष्यम्) न कर्तव्यम्। चकास्प्रत्ययादिति वक्ष्यामि ॥ (1807 न्यासान्तरेपि वार्तिककरणम् ॥ 2 ॥) - चकास्ग्रहणे कास उपसंख्यानम्- (भाष्यम्) चकास्ग्रहणे कास उपसंख्यानं कर्तव्यम्। कासांचक्रे ॥ (दूषणभाष्यम्) यथान्यासमेवास्तु ॥ (दूषणस्मारणभाष्यम्) ननु चोक्तम् कास्ग्रहणे चकास उपसंख्यानम् इति ॥ (दूषणोद्धारभाष्यम्) नैष दोषः। चकास्शब्दे काश्शब्दोऽस्ति तत्र कास्प्रत्ययादित्येव सिद्धम् ॥ (दूषणस्थैर्यभाष्यम्) न सिध्यति। किं कारणम्। अर्थवतः कास्शब्दस्य ग्रहणम्। न च चकास्शब्दे काश्शब्दोऽर्थवान् ॥ (समाधानसिद्धान्तिवार्तिकशेषभाष्यम्) एवं तर्हि। (1808 समाधानवार्तिकम् ॥ 3 ॥) - कास्यनेकाचश्चुलुम्पाद्यर्थम्- (भाष्यम्) कास्यनेकाचः इति वक्तव्यम्। किं प्रयोजनम्?। चुलुम्पाद्यर्थम्। चुलुम्पांचकार दरिद्रांचकार ॥ कास्प्रत्यया ॥ 35 ॥

Kashika

कासृ शब्दकुत्सायाम् ततः प्रत्ययान्तेभ्यश्च धातुभ्य आम् प्रत्ययो भवति लिटि परतोऽमन्त्रविषये। कासाञ्चक्रे। प्रत्ययान्तेभ्यः — लोलूयाञ्चके। अमन्त्र इति किम्? कृ॒ष्णो नो॑नाव (ऋ० १.७९.२)॥ कास्यनेकाच इति वक्तव्यं चुलुम्पाद्यर्थम्॥

आमोऽमित्त्वमदन्तत्वादगुणत्वं विदेस्तथा।

आस्कासोरांविधानाच् च पररूपं कतन्तवत्॥

Siddhanta Kaumudi

कास्धातोः प्रत्ययान्तेभ्यश्चाम् स्याल्लिटि न तु मन्त्र ।<!कास्यनेकाज् ग्रहणं कर्तव्यम् !> (वार्तिकम्) ॥ सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽकाचेति वाच्यमित्यर्थः ॥

Balamanorama

कास्प्रत्ययादाममन्त्रे लिटि - तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः । तत्र आयप्रत्ययपक्षे आह -कास्प्रत्ययात् । आम् — अमन्त्रे इति च्छेदः । चकासृ दीप्तौ, जागृ निद्राक्षये इत्यादिभ्योऽपि लिटि आमिष्यते । प्रत्ययान्ताच्चेति लभ्यते । ततश्च अ इवाचरति अति । क्विबन्ताल्लडादयः । लिटि औ अतुरित्यादीष्टं न सिध्येत्, प्रत्ययान्तत्वेन आमः प्रसङ्गात् । यदि तु कासृधातोश्च, अनेकाचः प्रत्ययान्ताच्चेति व्याख्यायेत, तदा चकासृजाग्रादिभ्यो न स्यादित्यत आह — प्रत्यग्रहणमपनीयेति । तथाच कास्धातोरनेकाचश्च आमित्येतावदेव लभ्यत इति नोक्तदोषद्वयमिति भावः । वस्तुतस्तु अ इवाचरति अतीत्यादि नास्त्येवेति सुब्धातुनिरूपणे वक्ष्यते । तथा च गोपया — आमिति स्थितम् ।

Tattvabodhini

कास्प्रत्ययादाममन्त्रे लिटि - कास्प्रत्यया । अमन्त्रेति किम् । कृष्णो नोनाव । अच्छन्दसीति तु नोक्तं, मन्त्रभिन्ने छन्दसि आम इष्टत्वात् । यथा — पुत्रमामन्त्रयामास॑ । प्रत्ययान्तत्वादाम् ।अथ ह शुनः शेप ईक्षांचक्रे॑ ।इजादेश्चे॑त्याम् । इह चुलुम्पचकासृदरिद्रादिब्य आमोऽप्राप्तौकास्यनेकाच॑ इति वार्तिकमारभ्यते ।कास्यनेकाज्ग्रहणं कर्तव्यम् । प्रत्ययग्रहणमपनीयेति । अन्यथा अ इवाचरति अति । अस्य लिटि औ अतुरित्यादि वक्ष्यमाणं न सिध्येदिति भावः । अन्ये तु भाष्यावार्तिकयोः प्रत्ययग्रहणमपनीयेत्यनुतया प्रत्ययान्तादेकाचोप्याम् भवत्येव । अ इवाचरति इत्याचारक्विपि लिटि आंचकार आंचक्रतुरित्यादीत्याहुः ।

Padamanjari

कास्प्रत्ययादाममन्त्रे लिटि॥ आम् प्रत्ययो भवतीति। हलन्तपक्षे एतदुक्तम्, अदन्तपक्षे त्वामः प्रत्ययो भवतीति वक्तव्यम्। अमन्त्रविषय इति। मन्त्रविषयश्चेत्प्रयोगो न भवतीत्यर्थः। ऋग्यजुः सामलक्षणो मन्त्रम्, तत्रैवाभियुक्तैर्मन्त्रशब्दस्य प्रयोगात्। आथर्वणा अपि मन्त्रा ऋग्यजुष एवान्तर्भवन्ति। तान्त्रिकेषु मन्त्रशब्दप्रयोगो मन्त्रवदुपचारात्। च्छन्दसीति नोक्तम्, ब्राह्मणेऽपि यथा स्यात् - अथ ह शुनः शेप ईक्षांचक्रे ते ह तदन्तर्वेद्यासाञ्चक्रिरे अविज्ञातानि च दर्शयाञ्चकार। कासाञ्चक्र इति। आमन्तस्य पदत्वम्ठ् आमःऽ इत्यत्रोपपादितम्। नोनावेति। नौतेर्यङ्लुगन्तात्प्रत्ययलक्षणेन प्राप्त आम् न भवति। कारयनेकाचेति वक्तव्यमिति। यथान्यासे हि कशब्दादशब्दाद्वागादिभ्यश्चाचारक्विबन्तेभ्य एकाज्भ्योऽपि प्रत्ययान्तत्वादाम्प्रसङ्ग, चुलुम्पादिभ्यश्चाप्रत्ययान्तत्वादप्रसङ्गः; अतोऽव्याप्त्यतिव्याप्तिपहिहाराय प्रत्ययग्रहणमपनीयानेकाज्ग्रहणं कर्तव्यमित्यर्थः। तत्र कशब्दस्य णलि ठचो ञ्णितिऽ इति वृद्धौ ठात औ णलःऽ चकौ, अन्यत्र ठतो लोपःऽ चकतुः, चकुः; अशब्दस्य णलि रूपम् - औ इति, अन्यत्र ठत आदेःऽ इति दीर्धत्वे ठातो लोप इटि चऽअतुः, उः। चकासांचकारेति।’चकासृदीप्तौ’ । दरिद्राञ्चकारेति। ठात औ णलःऽ इत्यत्र ओकारे विधातव्ये औकारविधानं दरिद्रातेरार्द्धधातुकलोप उत्याकारलोपेऽप्यौकारस्य श्रवणार्थम्, तेन ददरिद्रावित्यपि भवतीत्याहुः। चुलुम्पाञ्चकारेति! चुलुम्पतिर्वार्तिककारवचनात्साधुः। आमो मकारस्य’हलन्त्यम्’ इतीत्संज्ञा कस्मान्न भवतीत्याह - आमो मित्वमिति। कारयाश्चकारेत्यादौ प्रयोगे य आम्शब्दस्तस्यामित्वं मकार इत्संज्ञको यस्य नास्ति सोऽमित् तस्य भावः अमित्वम्। कुत इत्याह? अदन्तत्वादिति। अद् अन्ते समीपे यस्य सोऽदन्तः, सूत्रे विधानवेलायां समीपेऽकारवत्वादित्यर्थः। तेनैतन्न चोदनीयम् - आम् चेत्कथमदन्तः, अथादन्तः कथमामिति। सूत्रे विधीयमानस्यैव वा प्रत्ययस्योपलक्षणमाम इति। अगुणत्वं विदेस्तथेति। विदाञ्चकारेत्यत्र विदेरामि गुणाभावोऽपि तथा, अदन्तत्वादेवेत्यर्थः। अदन्तत्वादित्येतत्प्रसङ्गेन चेदमिहोक्तम्, ठुषविदजागृभ्योऽन्यतरस्याम्ऽ इत्यत्र तु वक्तव्यम्। तत्र हि विदेरकारान्तत्वमाम्प्रत्ययसन्नियोगेन निपात्यते, तत्रातो लोपस्य स्थानिवत्वाद् गुणो न भवति। न पुनः’विद ज्ञाने’ इत्यकारो विवक्षित इत्युच्यते; वेतीत्यादौ श्रवणप्रसङ्गात्। अभ्युपेत्यापि मकारान्तत्वमित्संज्ञाभावमाह - आस्कासोराम्विधानाच्चेति। आमोऽमित्वमित्यनुषङ्गः, सति हि मित्वे आस्कासोराम् भवन्नप्यचामन्त्यात्परः स्यात्, तथा च सवर्णदीर्घत्वे सत्यकिञ्चित्करः स्यात्। अतः’दयायासश्च’ कास्प्रत्ययादिति आस्कासोराम्विधानादप्यामऽमित्वमवसीयते त्यिर्थः। आस्चकासोर्विधानाच्च इत्यन्ये पठन्ति, तदयुक्तम्; न हि सूत्रे चकास आम्विधानमस्ति। यदपि कास्यनेकाज्ग्रहणं तदपि चुलुम्पादौ सावकाशम्। नन्वदन्तत्वपक्षे आमामन्त्र इति निर्देश्यं स्यातत्राह - पररूपं कतन्तवदिति। यथा’सर्वत्र लोहीतादिकतन्तेभ्यः’ इत्यत्र पररूपम्, एवमत्रापि निपातनात्पररूपमित्युक्तं भवति॥

Nyaas

प्रत्ययग्रहणेनेह सन्नादीनां प्रत्यायानां ग्रहणम्। प्रत्ययग्रहणे यस्मात् (पु।प।वृ।44) इति परिभाषया येन विधिस्तदन्तस्य (1.1.72) इति वा तदन्तविधिर्विज्ञायते।धात्वधिकाराच्च प्रत्ययग्रहणेनेह धातवो विशिष्यन्त इत्याह - प्रत्ययान्तेभ्यो धातुभ्यः इति। आम्प्रत्ययो भवतीति हलन्तपक्षमाश्रित्योक्तम्। अदन्तपक्षे त्वामः प्रत्ययो भवतीत्येवं वक्तव्यम्, तच्च नोक्तम्; वक्ष्यमाणादामोऽमित्त्वमदन्तत्वादित्यत एवावगम्यमानत्वात्। अमन्त्रे इति विषयसप्तमीयम्, न परसप्तमी, तेन मन्त्रप्रतिषेधात् भाषायां ब्राआहृणे च विषयेऽयं विधिर्विज्ञायते। ब्राआहृणो नाम मन्त्राणामेव व्याख्यानग्रन्थः। न च नञिवयुक्तन्यायेन (व्या।प।65) ब्राआहृण एव भवितव्यम्, न भाषायाम्? नैतत्; यदि भाषायामपि न स्यात् ब्राआहृण इत्येवं ब्राऊयात्। कासाञ्चक्रे इति। आमः (2.4.81) इति लेर्लुक्। लिटः कृत्तवाल्लुप्ते तस्मिन् कृत्तद्धितसमासाश्च (1.2.46) इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञा, सुः, स्वरादिपाठात् तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाद्वाऽव्ययसंज्ञायां सोर्लुक्। अथ हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन#आत्र सोर्लोपो भविष्यति, किमत्राव्ययसंज्ञया। लोलूयाञ्चक्रे इति। लोलूयशब्दाद्यङन्तादाम्।नोनाव इति। णु स्तुतौ (धातुपाठः-1035), णो नः (6.1.63) इति नत्वम्, यङ, नोनूयत इति स्थिते यङोऽचि च (2.4.74) इति यङो लुक्, लिट्, तिप्, परस्मैपदानाम् (3.4.82) इति णल्, वृद्धिः। अत्र प्रत्ययलक्षणेन प्रत्ययान्तादाम् स्यात्, अमन्त्र इति वचनान्न भवति।कास्यनेकाचः इत्यादि। प्रत्ययग्रहणमपनीयानेकाज्ग्रहणं कर्तव्यमित्यर्थः। किमर्थमित्याह - चुलुम्पाद्यर्थम् इति। यथान्यासं हि क इत्यस्मात् प्रजापतिवाचिनो विष्णुवाचिनोऽशब्दादाचारक्विपि तदन्तादप्याम् प्रसज्येत, चकासृप्रभृतिभ्योऽप्रत्ययान्तेभ्यश्च न स्यात्, तस्मादिदं न्यासान्तरं द्रष्टव्यम्। अन्ये तु प्रत्ययग्रहणस्यानेकाजुपलक्षणान्न कर्तव्यमेतदिति मन्यन्ते, एतच्चायुक्तम्; न हि प्रत्ययग्रहणमनेकाजुपलक्षणार्थमुपपद्यते, एकाचामपि प्रत्ययानां धातूनां विद्यमानत्वात्। यथा त्वेतन्न्यासान्तरं प्रत्याख्येयं भवेत् तथोत्तरत्र दर्शयिष्यामः। चकासाञ्चकार, दरिद्राञ्चकार इति। चकासृ दीप्तौ (धातुपाठः-1074), दरिद्रा दुर्गतौ (धातुपाठः-1073)। चुलुम्पाञ्चकार इति। चुलुम्पतेर्धातुष्वपरिपठितस्यापि कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमिति कात्यायनवचनप्रामाण्यात् धातुत्वं वेदितव्यम्।अथामो मकारस्य हलन्त्यम् (1.3.3) इतीत्संज्ञा कस्मान्न भवतीत्याह - आमोऽमित्तवम् इत्यादि। मकार इद्यस्य सोऽयमित्, न मिदमित्, तस्य भावोऽमित्त्वम्। कथममित्तवमित्याह - अदन्तत्वात् इत्यादि। मकारान्तत्वे हि सति मकार्सयेत्संज्ञा स्यात्। न चास्य मकारान्तत्वम्, किं तर्हि? अदन्तत्वम्। तेनाकार एव उपदेशेऽजनुनासिक इत् ((1.3.2#ः इतीत्संज्ञामनुभवन् मकारस्येत्संज्ञां प्रतिबध्नाति। यथा चामेऽमित्तवमदन्तत्वादगुणत्वं विदेस्तथा। गुणाभावोऽपि हि विदेर्विदाञ्चकारेत्यत्राकारान्तत्वादावेव भवति। अथाकारान्तत्वे सत्यतो लोपे (6.4.48) तस्याः अचः परस्मिन् पूर्वविधौ (1.1.57) इति स्थानिवद्भावादिकार उपधा न भवति, तेन लघूपपधगुणो न भवति। अदन्तत्वं तु विदेः उषविदजागृभ्योऽन्यतरस्याम् (3.1.38) इत्यनेनाम्प्रत्ययसन्नियोगेनाकारान्तत्वनिपातनात्। अभ्युपेत्यामो मकारान्तत्वममित्त्वं प्रतिपादयितुमाह - आश्चकासोर्विधानाच्च इति। आमोऽमित्त्वमिति प्रकृतेन सम्बन्धः,`दयायासश्च`( 3.1.37) इत्यास आमो विधानात्। कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमित्युपसंख्यानाच्चकासेः। आदिग्रहणेन हि चकासेरपि ग्रहणम्। मकारस्येत्संज्ञैयतत् प्रय#ओजनम् - अचोऽन्त्यात् परो यथा स्यादिति। यदि चामोऽमित्त्वं स्यात् तदाऽऽश्चकासोरामो विधानमनर्थकं स्यात्। न हि तयोरचोऽन्त्यात् प आशि भवत्यभवति वा कश्चिद्विशेषः। उभयथा हि अकः सवर्णे दीर्घः (6.1.101) इति दीर्घत्वे तदेव रूपं स्यात्, तदेतदाश्चकासोरामो विधानं कथमर्थवद्भवति? यद्यमित्तवमामो भवति नान्यथा। न ह्रन्यत् किञ्चित्प्रयोजनमस्तीति प्रयोजनाभावादित्संज्ञा न भविष्यति। आश्चकासोर्विधानसमाथ्र्यात् सवर्णदीर्घत्वमिह न भविष्यति। मिदचोऽन्त्यात्परः (1.1.47) इति परिभाषा वा नोपस्थास्य इत्येतच्च नाशङ्कनीयं लक्ष्यविरोधमनिच्छता। एवं ह्रनिष्टं रूपं स्यात्। न चानिष्टार्था शास्त्रे प्रकॢप्तिर्युक्ता। यदि तह्र्रमोऽदन्तत्वमेवं सत्याममन्त्र इति निर्देशो नोपपद्यते, सवर्णदीर्घत्वे आमामन्त्रे इति भवितव्यमित्याह - पररूपं कतन्तवत् इति। यथा` सर्वत्र लोहितादिकतन्तेभ्यः` (4.1.18) इत्यत्र पररूपं तथेहापीति न भवति निर्देशानुपपत्तिः॥

Prakriyasarvasvam

अत्र प्रत्ययग्रहणमपनीयानेकाज्ग्रहणं कार्यम् ; कासृधातोरनेकाचश्च लिटि पर आमप्रत्ययः स्यात्, न तु मन्त्रे । आम अमन्त्र इति च्छेदः२ । अकारो मकार- परित्राणार्थः । गोपायाम् ल् ।

Vartika

कास्यनेकाज्ग्रहणं कर्तव्यम् ।

Sutra Prayogas

  • संत्रासयांचकाराऽरिं (भट्टिकाव्यम्): आभ्यां हेतुमण्ण्यन्ताभ्याम् कास्प्रत्ययात् इत्यादिना आम्।

  • कासांचक्रे (भट्टिकाव्यम्): कास् इत्यादिना आम्।