31029: ऋतेरीयङ्¶
Padacheda: ऋतेः | S | 5 | 1 |
ईयङ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ईयङ् comes after the sūtra root ऋति ‘to reproach’.
Vasu English Translation¶
The affix ईयङ् comes after the sūtra root ऋति ‘to reproach’. The indicatory ङ shows that the verb will take the affixes of the Atmanepada; as ऋतीयते ‘he pities or reproaches’; so also, ऋतीयाते, ऋतीयन्ते.
Kashika¶
ऋतिः सौत्रो धातुर्घृणायां वर्तते, तत ईयङ् प्रत्ययो भवति। ङकार आत्मनेपदार्थः। ऋतीयते, ऋतीयेते, ऋतीयन्ते। ऋतेश्छङिति सिद्ध ईयङ्वचनं ज्ञापनार्थम् — धातुविहितानां प्रत्ययानाम् आयन्नादयो न भवन्तीति॥
Siddhanta Kaumudi¶
ऋतिः सौत्रः तस्मादीयङ् स्यात्स्वार्थे । जुगुप्सायामयं धातुरिति बहवः । कृपायां च इत्येके । सनाद्यन्ता - (SK2304) इति धातुत्वम् । ऋतीयते । ऋतीयांचक्रे । आर्धधातुकविवक्षयां तु । आयादय आर्धधातुके वा (SK2305) इतीयङभावे शेषात्कर्तरि - (SK2259) इति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् ॥ इति तिङन्तभ्वादिप्रकरणम् ॥
Balamanorama¶
ऋतेरीयङ् - ऋतेरीयङ् । ऋतेर्धातुपाठेऽदर्शनादाह — ऋतिः सौत्र इति । स्वार्थे इति । अर्थविशेषस्याऽनिर्देशादिति भावः । तकारान्तो धातुरयमिका निर्दिष्टो न त्विकारान्तः । इदन्तत्व हि सवर्णदीर्घेणैव सिद्धे ईयङिति ईकारोच्चारणवैयथ्र्यात् । नच इदन्तत्वे सति ‘एरनेकाचः’ इति यण् स्यादिति वाच्यम्, एवमपि ‘ऋतेर्ङ्यः’ इति ङ्यप्रत्यये कृतेअकृत्सार्वधातुकयोर्दीर्घः॑ इति दीर्घेणैव सिद्धे इयङ्विधिवैयथ्र्यात् । एके इति । अन्ये इत्यर्थः । ऋतीयते इति । ईयङोऽदन्तत्वाच्छपि पररूपम् । ऋतीयांचक्रे इति ।कास्प्रत्यया॑दित्याम् । ऋतीयिता । ऋतीयिष्यते । ऋतीयताम् । आर्तीयत । ऋतीयेत । ऋतीयिषीष्ट । आर्तीयिष्ट । आर्तीयिष्यत । आनर्तेति । ऋत् इति तकारान्ताल्लिटि णलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषेअत आदे॑रित्यभ्यासस्य दीर्घेतस्माननुड्द्विहलः॑ इति नुट्,नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्रते॑ इत्युक्तेरिति भावः । आनृततुः आनृतुः । अनिट्सु अस्याऽपाठात् थलि नित्यमिट् । आनर्तिथ आनृतथुः आनृत । आनर्त । आनृतिव आनृतिम । अर्तिता । अर्तिष्यति । ऋत्यात् । आर्तीदिति । ‘इट ईटि’ इति सिज्लोपः । आडागमः । आर्तिष्यत् । अथ लुगविकरणान् धातून्निरूपयितुमुपक्रमते — अद भक्षणे इति । अनिडयम् ।
Tattvabodhini¶
ऋतेरीयङ् - ऋतेरीयङ् । तान्तोऽयं धातुरिका निर्दिष्टो न त्विकारान्तः,वञ्चिलुञ्च्यृतश्चे॑ति निर्देशात् । केचित्तु ईयङिति दीर्घोच्चारणात्तान्तोऽयमिति ज्ञायते । इदन्तत्वे हि सवर्णदीर्घेणैव सिद्धेरियङमेव कुर्यादित्याहुस्तञ्चन्त्यम् । इदन्तत्वे तुएरनेकाच॑ इति यणा सवर्णदीर्घस्य बाधात् । न च ऋतेर्यङ्विधावकृत्सार्वेति दीर्घोपपत्तेरीयङ्विधानं तान्तत्वेलिङ्गं भवत्येवेति वाच्यं, यङ्विधौसन्यङो॑रिति द्वित्वापत्तेः । कृपायां चेति ।अर्तनं च ऋतीया च ह्यिणीया च घृणार्थकाः॑ इति,जुगुप्सा करुणा घृणे॑ति चाऽमरः ।
Padamanjari¶
ऋतेरीयङ्॥ सौत्र इति। अस्मिन्नेव सूत्रे उच्चरित इत्यर्थः। घृणायां वर्तत इति। नात्र कृपायां घृणाशब्दः, किं तर्हि? जुगुप्सायास;’घृणा जुगुप्साकृपयोः’ इति वचनात्। जुगुप्साउनिन्दा, बीभत्सेत्यर्थः। ऋतीयाशब्दो बीभत्सापर्यायो निघण्टुअषु पठितः। अथ कस्मादीयणुच्यते न च्छणेóवोच्यते, तस्य ईयादेशे कृते ऋतीयत इति सिद्धम्, परत्वादिडागमे कृते सत्यप्रत्ययादित्वादीयादेशोच न स्यादिति चेत्? न; अन्तङ्गत्वात्, आयन्नदिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति वचनादन्तरङ्गत्वम्। ज्ञापनार्थ तु, एतज्ज्ञापयति - धातुप्रत्ययानामयन्नादयो न भवन्तीति, तेन’कणेष्ठः’ इत्यत्रेकादेशो न भवति। क्वचितु वृतावेवं पठ।ल्ते - ठृतेश्च्छङ्ऽ इत्येव सिद्धे ईयङ्वचनं ज्ञापक् - धातुविहितानामायन्नादयो न भवन्तीति। अत्र ब्रूमः -‘द्विवचनविभज्योपपदे तरप्च्छसुनौ’ इत्येव सिद्धे ईयसुन्वचनं ज्ञापकं प्रातिपदिकप्रत्ययानामायन्नादयो न भवन्तीति। उच्यन्ते चायन्नादयस्ते वचनादुभयेषामपि स्युः, तस्माद्दतेश्च्छङ्त्याइदि वृतौ न पठनीयमिति॥
Nyaas¶
सौत्रः इति। सूत्रे परिपठितत्वात्। सूत्रे भवः सौत्रः। घृणायां वर्तते इति। घृणा = जुगुप्सा। तस्यामयं स्वभावत एव वर्तते। अथ कस्मादीयङुच्यते, न च्छङित्येवोच्येत, तस्येयादेशे ऋतीयत इति सिध्यति? न सिध्यति; परत्वादिडागमे कृते सत्यप्रत्ययादित्वादीयादेशो न स्यात्। ननु चान्तरङ्गत्वादीयादेश एव भविष्यति, अन्तरङ्गत्वन्तु तस्यायन्नादिषु उपदेशिवद्वचनमिष्टस्वरसिद्ध्यर्थम् (7.1.2।वा।1) इति वचनात्; एवं तह्र्रेतज्ज्ञापयति - धातुप्रत्ययानामायन्नादयो न भवन्ति इति। तेन शमेर्ढप्रत्यये कृते शण्ढः इत्येवमादयः सिद्धा भवन्ति। अथ वा - स्वरविधावुपदेशिवद्भावः स्वरसिध्यर्थमिति वचनात्। तेन नास्त्यन्तरङ्गतेति परत्वादिडागमः स्यात्, तस्मादीयङ् विधीयते॥
Prakriyasarvasvam¶
स्वार्थे स्यात् । प्राग्वद् धातुत्वम् । ङित्त्वात् तङ् । ऋतीयते । यकि ‘आयादय आर्धधातुके वा’ इति ईयङ्विकल्पात् ऋतीय्यते, ऋत्यते । लिङि ऋतीयेत । ऋतीयेयाताम् । लोटि ऋतीयताम् । लङि ।