31029: ऋतेरीयङ्

Padacheda: ऋतेः | S | 5 | 1 |

ईयङ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ईयङ् comes after the sūtra root ऋति ‘to reproach’.

Vasu English Translation

The affix ईयङ् comes after the sūtra root ऋति ‘to reproach’. The indicatory ङ shows that the verb will take the affixes of the Atmanepada; as ऋतीयते ‘he pities or reproaches’; so also, ऋतीयाते, ऋतीयन्ते.

Kashika

ऋतिः सौत्रो धातुर्घृणायां वर्तते, तत ईयङ् प्रत्ययो भवति। ङकार आत्मनेपदार्थः। ऋतीयते, ऋतीयेते, ऋतीयन्ते। ऋतेश्छङिति सिद्ध ईयङ्वचनं ज्ञापनार्थम् — धातुविहितानां प्रत्ययानाम् आयन्नादयो न भवन्तीति॥

Siddhanta Kaumudi

ऋतिः सौत्रः तस्मादीयङ् स्यात्स्वार्थे । जुगुप्सायामयं धातुरिति बहवः । कृपायां च इत्येके । सनाद्यन्ता - (SK2304) इति धातुत्वम् । ऋतीयते । ऋतीयांचक्रे । आर्धधातुकविवक्षयां तु । आयादय आर्धधातुके वा (SK2305) इतीयङभावे शेषात्कर्तरि - (SK2259) इति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् ॥ इति तिङन्तभ्वादिप्रकरणम् ॥

Balamanorama

ऋतेरीयङ् - ऋतेरीयङ् । ऋतेर्धातुपाठेऽदर्शनादाह — ऋतिः सौत्र इति । स्वार्थे इति । अर्थविशेषस्याऽनिर्देशादिति भावः । तकारान्तो धातुरयमिका निर्दिष्टो न त्विकारान्तः । इदन्तत्व हि सवर्णदीर्घेणैव सिद्धे ईयङिति ईकारोच्चारणवैयथ्र्यात् । नच इदन्तत्वे सति ‘एरनेकाचः’ इति यण् स्यादिति वाच्यम्, एवमपि ‘ऋतेर्ङ्यः’ इति ङ्यप्रत्यये कृतेअकृत्सार्वधातुकयोर्दीर्घः॑ इति दीर्घेणैव सिद्धे इयङ्विधिवैयथ्र्यात् । एके इति । अन्ये इत्यर्थः । ऋतीयते इति । ईयङोऽदन्तत्वाच्छपि पररूपम् । ऋतीयांचक्रे इति ।कास्प्रत्यया॑दित्याम् । ऋतीयिता । ऋतीयिष्यते । ऋतीयताम् । आर्तीयत । ऋतीयेत । ऋतीयिषीष्ट । आर्तीयिष्ट । आर्तीयिष्यत । आनर्तेति । ऋत् इति तकारान्ताल्लिटि णलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषेअत आदे॑रित्यभ्यासस्य दीर्घेतस्माननुड्द्विहलः॑ इति नुट्,नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्रते॑ इत्युक्तेरिति भावः । आनृततुः आनृतुः । अनिट्सु अस्याऽपाठात् थलि नित्यमिट् । आनर्तिथ आनृतथुः आनृत । आनर्त । आनृतिव आनृतिम । अर्तिता । अर्तिष्यति । ऋत्यात् । आर्तीदिति । ‘इट ईटि’ इति सिज्लोपः । आडागमः । आर्तिष्यत् । अथ लुगविकरणान् धातून्निरूपयितुमुपक्रमते — अद भक्षणे इति । अनिडयम् ।

Tattvabodhini

ऋतेरीयङ् - ऋतेरीयङ् । तान्तोऽयं धातुरिका निर्दिष्टो न त्विकारान्तः,वञ्चिलुञ्च्यृतश्चे॑ति निर्देशात् । केचित्तु ईयङिति दीर्घोच्चारणात्तान्तोऽयमिति ज्ञायते । इदन्तत्वे हि सवर्णदीर्घेणैव सिद्धेरियङमेव कुर्यादित्याहुस्तञ्चन्त्यम् । इदन्तत्वे तुएरनेकाच॑ इति यणा सवर्णदीर्घस्य बाधात् । न च ऋतेर्यङ्विधावकृत्सार्वेति दीर्घोपपत्तेरीयङ्विधानं तान्तत्वेलिङ्गं भवत्येवेति वाच्यं, यङ्विधौसन्यङो॑रिति द्वित्वापत्तेः । कृपायां चेति ।अर्तनं च ऋतीया च ह्यिणीया च घृणार्थकाः॑ इति,जुगुप्सा करुणा घृणे॑ति चाऽमरः ।

Padamanjari

ऋतेरीयङ्॥ सौत्र इति। अस्मिन्नेव सूत्रे उच्चरित इत्यर्थः। घृणायां वर्तत इति। नात्र कृपायां घृणाशब्दः, किं तर्हि? जुगुप्सायास;’घृणा जुगुप्साकृपयोः’ इति वचनात्। जुगुप्साउनिन्दा, बीभत्सेत्यर्थः। ऋतीयाशब्दो बीभत्सापर्यायो निघण्टुअषु पठितः। अथ कस्मादीयणुच्यते न च्छणेóवोच्यते, तस्य ईयादेशे कृते ऋतीयत इति सिद्धम्, परत्वादिडागमे कृते सत्यप्रत्ययादित्वादीयादेशोच न स्यादिति चेत्? न; अन्तङ्गत्वात्, आयन्नदिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति वचनादन्तरङ्गत्वम्। ज्ञापनार्थ तु, एतज्ज्ञापयति - धातुप्रत्ययानामयन्नादयो न भवन्तीति, तेन’कणेष्ठः’ इत्यत्रेकादेशो न भवति। क्वचितु वृतावेवं पठ।ल्ते - ठृतेश्च्छङ्ऽ इत्येव सिद्धे ईयङ्वचनं ज्ञापक् - धातुविहितानामायन्नादयो न भवन्तीति। अत्र ब्रूमः -‘द्विवचनविभज्योपपदे तरप्च्छसुनौ’ इत्येव सिद्धे ईयसुन्वचनं ज्ञापकं प्रातिपदिकप्रत्ययानामायन्नादयो न भवन्तीति। उच्यन्ते चायन्नादयस्ते वचनादुभयेषामपि स्युः, तस्माद्दतेश्च्छङ्त्याइदि वृतौ न पठनीयमिति॥

Nyaas

सौत्रः इति। सूत्रे परिपठितत्वात्। सूत्रे भवः सौत्रः। घृणायां वर्तते इति। घृणा = जुगुप्सा। तस्यामयं स्वभावत एव वर्तते। अथ कस्मादीयङुच्यते, न च्छङित्येवोच्येत, तस्येयादेशे ऋतीयत इति सिध्यति? न सिध्यति; परत्वादिडागमे कृते सत्यप्रत्ययादित्वादीयादेशो न स्यात्। ननु चान्तरङ्गत्वादीयादेश एव भविष्यति, अन्तरङ्गत्वन्तु तस्यायन्नादिषु उपदेशिवद्वचनमिष्टस्वरसिद्ध्यर्थम् (7.1.2।वा।1) इति वचनात्; एवं तह्र्रेतज्ज्ञापयति - धातुप्रत्ययानामायन्नादयो न भवन्ति इति। तेन शमेर्ढप्रत्यये कृते शण्ढः इत्येवमादयः सिद्धा भवन्ति। अथ वा - स्वरविधावुपदेशिवद्भावः स्वरसिध्यर्थमिति वचनात्। तेन नास्त्यन्तरङ्गतेति परत्वादिडागमः स्यात्, तस्मादीयङ् विधीयते॥

Prakriyasarvasvam

स्वार्थे स्यात् । प्राग्वद् धातुत्वम् । ङित्त्वात् तङ् । ऋतीयते । यकि ‘आयादय आर्धधातुके वा’ इति ईयङ्विकल्पात् ऋतीय्यते, ऋत्यते । लिङि ऋतीयेत । ऋतीयेयाताम् । लोटि ऋतीयताम् । लङि ।