Sutras 21 - 40¶
- 14021: बहुषु बहुवचनम्
- 14022: द्व्येकयोर्द्विवचनैकवचने
- 14023: कारके
- 14024: ध्रुवमपायेऽपादानम्
- 14025: भीत्रार्थानां भयहेतुः
- 14026: पराजेरसोढः
- 14027: वारणार्थानामीप्सितः
- 14028: अन्तर्द्धौ येनादर्शनमिच्छति
- 14029: आख्यातोपयोगे
- 14030: जनिकर्तुः प्रकृतिः
- 14031: भुवः प्रभवः
- 14032: कर्मणा यमभिप्रैति स सम्प्रदानम्
- 14033: रुच्यर्थानां प्रीयमाणः
- 14034: श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः
- 14035: धारेरुत्तमर्णः
- 14036: स्पृहेरीप्सितः
- 14037: क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः
- 14038: क्रुधद्रुहोरुपसृष्टयोः कर्म
- 14039: राधीक्ष्योर्यस्य विप्रश्नः
- 14040: प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता