14032: कर्मणा यमभिप्रैति स सम्प्रदानम्

Padacheda: कर्मणा | S | 3 | 1 |

यम् | S | 2 | 1 |

अभिप्रैति | T | | |

सः | S | 1 | 1 |

सम्प्रदानम् | S | 1 | 1 |

Sutrartha

यम् उद्दिश्य दानं दीयते तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - उपाध्यायाय गां ददाति ।

कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं प्रथमं सूत्रम् । दानस्य कर्मणि **यम् उद्दिश्य दानं दीयते तस्य सम्प्रदान**संज्ञा भवति । यथा, यदि कश्चन राजा उपाध्यायम् उद्दिश्य (उपाध्यायस्य कृते) गां ददाति, तर्हि तत्र “उपाध्याय”पदार्थस्य सम्प्रदानसंज्ञा विधीयते । अग्रे चतुर्थी सम्प्रदाने (2.3.13) इति सूत्रेण सम्प्रदानस्य निर्देशार्थम् चतुर्थीविभक्तेः प्रयोगं कृत्वा <ex>उपाध्यायाय गां ददाति</ex> इति वाक्यं सिद्ध्यति । एवमेव, <ex>माणवकाय भिक्षां यच्छति</ex> “हरये पुष्पाणि अर्पयति</ex>, <ex>अग्नये हूयते</ex> इत्यादयः प्रयोगाः सङ्गच्छन्ते ।

<hlb>अभिप्रैति</hlb> इति शब्दस्य अर्थः

सूत्रे विद्यमानस्य अभिप्रैति इति शब्दस्य अर्थः अभिसम्बध्नाति इति दीयते । दानं दत्त्वा कर्ता कर्मसंज्ञकपदार्थस्य येन सह सम्बन्धं प्रस्थापयितुम् इच्छति, तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति इति अत्र आशयः वर्तते । यथा, <ex>राजा उपाध्यायाय गां ददाति</ex> इत्यत्र <qt>गो”पदार्थः कर्मसंज्ञकः । दानक्रियया राजा अस्य “गो”पदार्थस्य उपाध्यायेन सह सम्बन्धं स्थापयति; अतः अत्र दानक्रियायाः कृते उपाध्यायस्य सम्प्रदानसंज्ञा भवति । किञ्च, अस्मिन् कार्ये कर्मसंज्ञकपदार्थस्य साहाय्यं स्वीक्रियते, अतः “ददाति” इत्यस्याः क्रियायाः कर्मपदम् “अभिप्रैति” इति क्रियायाः करणत्वरूपेण विधीयते । अनेन प्रकारेण “ राजा गवा उपाध्यायम् अभिप्रैति” इत्यस्यैव अर्थस्य निर्देशार्थम् <ex>राजा गाम् उपाध्यायाय ददाति</ex> इति वाक्यं सिद्ध्यति । अतएव प्रकृतसूत्रे काशिकाकारः <inline>कर्मणा करणभूतेन कर्ता यम् अभिप्रैति</inline> इति अर्थं व्याचष्टे ।

<hlb>दानम्</hlb> इति शब्दस्य व्याख्या

भट्टोजिदीक्षितः प्रौढमनोरमायां दानशब्दस्य व्याख्याम् इत्थं ददाति - <inline>दानं च अ-पुनर्ग्रहणाय, स्व-स्वत्व-निवृत्तिपूर्वकम् पर-स्वत्व-उपादानम् </inline> । यत्र स्वस्य कस्यचन पदार्थस्य त्यागं कृत्वा (इत्युक्ते “सः पदार्थः मया पुनः न स्वीकरिष्यते” इति निश्चित्य) तस्य पदार्थस्य विषये कस्यचन अन्यस्य स्वामित्वं स्वीक्रियते, तत्रैव “दानम्” भवति इति उच्यते । यदि एतादृशः “नियतत्यागः” नास्ति, इत्युक्ते यदि किञ्चित् कालं यावत् एव स्वस्य किञ्चन वस्तु अन्यस्य कृते दीयते, तर्हि तत्र तत् कर्म “दानकर्म” नाम्ना नैव स्वीक्रियते, अतश्च तत्र प्रकृतसूत्रस्य प्रयोगः अपि न भवति । अतएव <nex>देवदत्तः रजकस्य वस्त्रं ददाति</nex> इति प्रयोगः क्रियते । देवदत्तः स्वस्य वस्त्रस्य त्यागं नैव करोति अपितु केवलं क्षालनार्थं तत् रजकस्य समीपे स्थापयति, अतः रजकस्य सम्प्रदानसंज्ञा नैव भवितुम् अर्हति इति अत्र आशयः अस्ति ।

<hlb>सम्प्रदानम्</hlb> इति अन्वर्थसंज्ञा उत न ?

यद्यपि सूत्रे पाणिनिमहर्षिभिः दानकर्मणा इति स्पष्टरूपेण नोच्यते, तर्ह्यपि प्रकृतसूत्रस्य प्रयोगः दानक्रियायाः सन्दर्भेण एव भवति इति अत्र काशिकाकारस्य मतम् अस्ति । तस्य पुष्ट्यर्थम् सः सम्प्रदानसंज्ञाम् अन्वर्थसंज्ञा**रूपेण स्वीकरोति । **सम्प्रदानम् इत्यस्याः संज्ञायाः व्युत्पत्तिः - सम्यक् प्रदीयते अस्मै तत् सम्प्रदानम् - इति दानकर्मणः सन्दर्भेण एव दीयते, अतः अस्य सूत्रस्यापि प्रयोगः दानकर्मणः सन्दर्भेण एव स्यात् - इति काशिकाकारस्य आशयः वर्तते । परन्तु प्रकृतसूत्रस्य भाष्ये एतादृशः अन्वर्थतायाः आग्रहः न दृश्यते । किञ्च, भाष्यकारेण <ex>खण्डिकोपाध्याय शिष्याय चपेटिकां ददाति</ex> (The teacher gives a slap to the student) इत्येताः प्रयोगाः स्वयं कृताः सन्ति । अत्र यद्यपि “ददाति” इति क्रियापदं विद्यते तथापि अत्र “दानकर्म” नास्ति । एतादृशाः प्रयोगाः अपि भाष्यसम्मताः एव, अतश्च प्रकृतसूत्रस्य प्रयोगः दानकर्मं विहाय अन्येषु स्थलेषु अपि सम्भवति इति बहवः वैयाकरणाः मन्यन्ते । अतएव <ex>पिता पुत्राय पत्रं लिखति</ex>, <ex>माता बालकाय अपूपान् पचति</ex> इत्यादयः प्रयोगाः अपि सङ्गच्छन्ते । किञ्च, अस्मिन् पक्षे <ex>देवदत्तः रजकाय वस्त्रं ददाति</ex> इत्यपि प्रयोगः उचितः एव । अतः अस्मिन् पक्षे <nex>देवदत्तः रजकस्य वस्त्रं ददाति</nex> इति प्रयोगस्य साधुत्वम् - “सम्प्रदानस्य अविवक्षायां शेषत्वविवक्षया षष्ठी शेषे (2.3.50) इत्यनेन षष्ठी भवति” - इति दीयते ।

वार्त्तिकम् - <! क्रियया यमभिप्रैति सोऽपि सम्प्रदानम् !>

यत्र वाक्ये कर्मपदं न विद्यते, तत्र कर्ता क्रियया स्वस्य सम्बन्धं येन सह स्थापयितुम् इच्छति, तस्य अपि सम्प्रदानसंज्ञा भवति - इति अस्य वार्त्तिकस्य अर्थः । यत्र कर्मपदं विद्यते तत्र तु कर्मणा यमभिप्रैति स सम्प्रदानम् (1.4.32) इत्यनेनैव प्राप्ता सम्प्रदानसंज्ञा अनेन वार्त्तिकेन अकर्मकधातूनां सन्दर्भेण अपि विधीयते । अस्य व्याख्यानेषु उपलब्धानि उदाहरणानि एतादृशानि -

<li>1. <ex>श्राद्धाय निगर्हते </ex> - “श्राद्धस्य निन्दां करोति” इति अस्य अर्थः । कश्चन देवदत्तः श्राद्धादेः कार्यस्य यदा निन्दां करोति तदा तेन निन्दाकर्मणा सः “मम अस्मिन् श्राद्धे विश्वासः नास्ति / इदं श्राद्धं मम मतेन न सम्यक् कृतम्” इत्यादिप्रकारेण श्राद्धक्रियया सह स्वस्य सम्बन्धं प्रस्थापयति । अतः अत्र <!क्रियया यमभिप्रैति सोऽपि सम्प्रदानम्!> इति वार्त्तिकेन “श्राद्ध”पदार्थस्य सम्प्रदानसंज्ञा विधीयते । <li>2. <ex>युद्धाय सन्नह्यते </ex> -“युद्धस्य निश्चयं करोति / युद्धार्थम् सज्जः भवति” इति अस्य अर्थः । अत्र सैनिकः “अहं युद्धं करोमि” इति निश्चयेन युद्धेन सह स्वस्य सम्बन्धं प्रस्थापयति, अतः अत्रापि अनेन वार्त्तिकेन “युद्ध”पदार्थस्य सम्प्रदानसंज्ञा विधीयते । <li>3. <ex>पत्ये शेते </ex>- “पत्या सह शेते / पतिम् अनुकूलयितुयम् शेते” इति अस्य अर्थः । अत्र पत्नी शयनक्रियया पत्या सह स्वस्य सम्बन्धं योजयति, अतः अत्रापि “पति<qt>पदार्थस्य अनेन वार्त्तिकेन सम्प्रदानसंज्ञा भवति ।

वस्तुतस्तु भाष्यकारेण तु इदं वार्त्तिकम् “अनावश्यकम्” इति उक्त्वा प्रत्याख्यातम् अस्ति । भाष्यकारस्य मतेन, सूत्रे विद्यमानः कर्मणा इति शब्दः** क्रियायाः** अपि अवश्यमेव ग्रहणं करोति, अतः एतानि उदाहरणानि अपि सूत्रस्यैव आधारेण साधुत्वं प्राप्नुवन्ति, तदर्थम् वार्त्तिकम् नैव आवश्यकम्, इति । अस्मिन् विषये अधिकं पिपठिषवः अस्य सूत्रस्य भाष्यं पश्येयुः ।

वार्त्तिकम् - <! यजेः कर्मणः करणसंज्ञा वक्तव्या संप्रदानस्य च कर्मसंज्ञा !>

**यज् (1.1157) (यज्ञं करोति इत्यर्थः) अस्य धातोः कर्मपदस्य करणसंज्ञा भवति, तथा च सम्प्रदानस्य कर्मसंज्ञा भवति** । अस्य उदाहरणं भाष्ये दीयते - <ex>पशुना रुद्रं यजते</ex> - इति । कस्मिंश्चित् यज्ञे रुद्रं मोदयितुम् पशोः बलिः दीयते चेत्, अत्र दानकर्मणि <qt>पशुः” इति वस्तुतः कर्मपदम्, तथा च “रुद्रः” इति सम्प्रदानसंज्ञकं स्यात्, येन <ex>पशुम् रुद्राय ददाति</ex> इति प्रयोगः सिद्ध्यति । परन्तु अत्र दा-धातोः स्थाने यदि यज्-धातोः प्रयोगः क्रियते, तर्हि अनेन वार्त्तिकेन पशु इति कर्मपदस्य करणसंज्ञा, तथा च “रुद्र” इति सम्प्रदानस्य कर्मसंज्ञा भवति, येन <ex>पशुना रुद्रं यजते</ex> इति प्रयोगः सङ्गच्छते ।

** सम्प्रदानस्य त्रयः भेदाः**

वाक्यपदीये भर्तृहरिणा सम्प्रदानस्य त्रयः भेदाः निर्दिष्टाः वर्तन्ते । तत्रस्था कारिका इयम् - <karika> अनिराकरणात्कर्तुस्त्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥ <light>वाक्यपदीये 3.7.129</light>

अन्वयः -**कर्तुः कर्मणा ईप्सितं त्यागाङ्गम् अनिराकरणात्, प्रेरण-अनुमतिभ्याम् च सम्प्रदानतां लभते । </karika> अत्र विद्यमानः **त्यागाङ्गम् इति शब्दः दानग्राहकस्य, इत्युक्ते “यः दानं स्वीकरोति” (यथा, उपाध्यायः) तस्य निर्देशं करोति । कर्मणा ईप्सितम् इति अस्य त्यागाङ्गस्य विशेषणम् । यत् त्यागाङ्गम् (दान)कर्मणा ईप्सितम्, तत् त्रिभिः प्रकारैः सम्प्रदानसंज्ञां लभते - इति अस्याः कारिकायाः आशयः । तदित्थम् -

<li>1. <hlb>अनिराकरणात्</hlb> - यत्र त्यागाङ्गं न हि किञ्चन याचते, न च दानक्रियात् पूर्वम् त्यागाङ्गस्य अनुमतिः स्वीक्रियते, न च दत्तं दानम् त्यागाङ्गं त्यजति - तत्र तस्य त्यागाङ्गस्य सम्प्रदानसंज्ञा अनिराकरणात् भवति । यथा - <ex>भक्तः ईश्वराय पुष्पाणि ददाति </ex>। अत्र ईश्वरः न हि पुष्पाणि याचते, न च ईश्वरं पृष्ट्वा तस्मै पुष्पाणि दीयन्ते, न च ईश्वरः अर्पितानि पुष्पाणि निराकरोति । अतः अत्र “ईश्वर”पदार्थस्य सम्प्रदानसंज्ञा अनिराकरणात् भवति । <li>2. <hlb>प्रेरणात्</hlb> - यत्र याचकेन पुनः पुनः पृष्टे सति, याचकस्य प्रार्थनया प्रेरणं प्राप्य तस्मै दानं दीयते, तत्र याचकस्य सम्प्रदानसंज्ञा प्रेरणात् भवति । यथा - <ex>धनिकः माणवकाय भिक्षां ददाति </ex> । अत्र माणवकेन पुनः पुनः पृष्टे सति तस्य स्थितिं दृष्ट्वा धनिकः तस्मै भिक्षां ददाति, अतः अत्र माणवकस्य सम्प्रदानसंज्ञा प्रेरणात् भवति । <li>3. <hlb>अनुमानात् / अनुमतेः</hlb> - यत्र त्यागाङ्गेन कृतस्य कस्यचित् कर्मणः कृते तस्मै दक्षिणास्वरूपेण, उपायनस्वरूपेण (gift) वा किञ्चित् दीयते, तथा च तस्य दानस्य अस्वीकरणम् अपि त्यागाङ्गः कर्तुं शक्नोति, तत्र त्यागाङ्गस्य सम्प्रदानसंज्ञा अनुमतेः भवति । यथा, <ex>पिता उपाध्यायाय गां ददाति</ex> । अत्र उपाध्यायेन पाठनादिकं कार्यं किञ्चित् कृतम् अस्ति, अतः दक्षिणास्वरूपेण पिता उपाध्यायाय् गां ददाति - इति आशयः वर्तते । किञ्च, यदि उपाध्यायः इदानीं गां न इच्छति, तर्हि अस्य दानस्य अस्वीकारम् अपि सः कर्तुम् अर्हति । अतः अत्र उपाध्यायस्य सम्प्रदानसंज्ञा अनुमतेः भवति ।

अस्मिन् विषये अधिकं पिपठिषवः वाक्यपदीयम्, अथवा प्रकृतसूत्रस्य पदमञ्जरीव्याख्यानं पश्येयुः ।

Vasu English Summary

The person whom one wishes to connect with the object of giving, is called सम्प्रदान or recipient.

Vasu English Translation

The person whom one wishes to connect with the object of giving, is called सम्प्रदान or recipient. Though the word कर्मणा in the sutra is indefinitely used, meaning ‘with the object’ yet it is not every object of any verb. The object must be of the verb ‘to give.’

As उपाध्यायाय गां ददाति he gives the cow to the teacher. माणवकाय भिक्षान् ददाति he gives alms to the boy. Here the words ‘cow’ and ‘alms’ are the object of the verb ‘give’; the persons connected with this object are the teacher and the boy respectively. These latter are in the Dative case and take the 4th case-affix.

Vart:- The person whom one wishes to connect with the action should also be called recipient. As श्राद्धाय निगर्हते he censures for the sake of Sraddha. युद्धाय सनह्यते he prepares for battle. पत्ये शेते she sleeps for her husband.

Vart:- 2. After some verbs (especially to sacrifice), the object (karma) gets the name of Instrument (karana) and the recipient (Sampradana) is called object (karma).

Thus पशुना रुद्रं यजते or पशुं रुद्राय ददाति he sacrifices with an animal to Rudra, which is equivalent to, ‘he gives an animal to Rudra.’

Bhashya

कर्मणा यमभिप्रैति स सम्प्रदानम् कर्मग्रहणं किमर्थम् ? यमभिप्रैति स सम्प्रादानमितीयत्युच्यमाने कर्मण एव सम्प्रदानसंज्ञा प्रसज्येत । कर्मग्रहणे पुनः क्रियमाणे न दोषो भवति । कर्म निमित्तत्वेनाश्रीयते । अथ यंसग्रहणं किमर्थम् ? कर्मणाऽभिप्रैति सम्प्रदानमितीयत्युच्यमाने अभिप्रयत एव सम्प्रदानसंज्ञा प्रसज्येत । यंसग्रहणे पुनः क्रियमाणो न दोषो भवति । यंसग्रहणादभिप्रयतः सम्प्रदानसंज्ञा निर्भज्यते । अथाऽभिप्रग्रहणं किमर्थम् ? कर्मणा यमेति स सम्प्रदानमितीयत्युच्यमाने यमेव सम्प्रत्येति तत्रैव स्यात् - उपाध्यायाय गां ददातीति । इह न स्याद् - उपाध्यायाय गामदादुपाध्यायाय गां दास्यतीति । अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति । अभिराभिमुख्ये वर्तते, प्रशब्द आदिकर्मणि । तेन यं चाभिप्रैति, यं चाऽभिप्रैष्यति, यं चाभिप्रागादाभिमुख्यमात्रे सर्वत्र सिद्धं भवति । क्रियाग्रहणम् ॥ क्रियाग्रहणमपि कर्तव्यम् । इहापि यथा स्यात्-श्राद्धाय निगर्हते । युद्धाय सन्नह्यते । पत्ये शेते इति ॥ तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । कथम् ? क्रियां हि नाम लोके कर्मेत्युपचरन्ति - कां क्रियां करिष्यसि । किं कर्म करिष्यसीति । एवमपि कर्तव्यम् । कृत्रिमाऽकृत्रिमयोः कृत्रिमे सम्प्रत्ययो भवति ॥ क्रियाऽपि कृत्रिमं कर्म । न सिध्यति । कर्तुरीप्सिततमं कर्म (1.4.49) इत्युच्यते, कथं च नाम क्रियया क्रियेप्सितमा स्यात् ? क्रियापि क्रिययेप्सिततमा भवति । कया क्रियया ? सन्दर्शनक्रियया वा, प्रार्थयतिक्रियया वा, अध्यवस्यतिक्रियया वा । इह य एष मनुष्यः प्रेक्षापूर्वकारी भवति स बुद्ध्या तावत्कंचिदर्थं पश्यति, संदृष्टे प्रार्थना, प्रार्थनायामध्यवसायः, अध्यवसाय आरम्भः, आरम्भे निर्वृत्तिः, निर्वृत्तौ फलाऽवाप्तिः । एवं क्रियाऽपि कृत्रिमं कर्म । एवमपि - कर्मणः करणसंज्ञा वक्तव्या, सम्प्रदानस्य च कर्मसंज्ञा । पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः । अग्नौ किल पशुः प्रक्षिप्यते तद्रुरुद्रायोपह्रियत इति ॥ 32 ॥

Kashika

कर्मणा करणभूतेन कर्ता यमभिप्रैति, तत् कारकं संप्रदानसंज्ञं भवति। अन्वर्थसंज्ञाविज्ञानाद् ददातिकर्मणेति विज्ञायते। उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति॥ क्रियाग्रहणमपि कर्तव्यम्॥ क्रिययापि यमभिप्रैति स संप्रदानम्। श्राद्धाय निगर्हते। युद्धाय संनह्यते। पत्ये शेते। संप्रदानप्रदेशाः — चतुर्थी संप्रदाने (२.३.१३) इत्येवमादयः॥ कर्मणः करणसंज्ञा वक्तव्या संप्रदानस्य च कर्मसंज्ञा॥ पशुना रुद्रं यजते। पशुं रुद्राय ददातीत्यर्थः॥

Siddhanta Kaumudi

दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात्॥

Balamanorama

कर्मणा यमभिप्रैति स सम्प्रदानम् - अथ चतुर्थी । कर्मणा यमभि । कर्मसंज्केन गवादिद्रव्येण यमभिप्रैति शेषित्वेनऽध्यवस्यति स संप्रदानमित्यर्थः । शेषित्वं-भोक्तृत्वम् । संप्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थसंज्ञैषा । ततश्च कस्याः क्रियायाः कर्मणेत्याकाङ्क्षायां दानस्येति गम्यते । तदाह — दानस्येत्यादिना । देयद्रव्योद्देश्यं संप्रदानमिति फलितम् । दानस्येति किम् पयो नयति देवदत्तस्य । अत्र देवदत्तस्य पयोनयनोद्देश्यत्वेऽपि न संप्रदानत्वं, पयसो दानकर्मत्वाऽभावात् ।

Tattvabodhini

कर्मणा यमभिप्रैति स सम्प्रदानम् - कर्मणा । महासंज्ञाकरणमन्वर्थसंज्ञाविधानार्थम् । सम्यक् प्रदीयतेऽस्मै तत्संप्रदानमिति । अत एवाह -दानस्येति । दानक्रियाकर्मणा कर्ता यमभिप्रैति सम्बन्ध्नाति, सम्बन्द्धुमीप्सति वा तस्कारकं सम्प्रदानसंज्ञकमित्यर्थः । तेनअजां नयति ग्रामं॑हस्तं निदधाति वृक्षे॑ इत्यादौ नाऽतिप्रसङ्गः । दानं चाऽनुपुनग्र्रहणाय स्वस्वत्विनिवृत्तिपूर्वकं परस्वत्वोत्पादनम् । अतएवरजकस्य वस्त्रं ददाती॑त्यादौ न भवति । तत्र हि ददातिर्भाक्तः । एतच्च वृत्तिमतम् । भाष्यमते तु नाऽन्वर्थतायामाग्रहःखण्डिकोपाध्यायः शिष्याय चपेटां ददाति॑ इत्यादिप्रयोगात् ।राजकस्य ददाती॑ति प्रयोगस्तु शेषत्वविवक्षायां भविष्यति । न चैवमजां नयति ग्राममित्यादावतिप्रसङ्गः शङ्क्यः, अजां प्रति ग्रामस्य शेषित्वाऽभावात् ।यमभिप्रैती॑त्युक्त्या हि यमिति निर्दिष्टस्य शेषित्वं, कर्मणश्च शेषत्वं लभ्यते, गां प्रति तु विप्रस्य शेषित्वमस्तीति भवति तस्य संप्रदामसंज्ञा । अत्र अभि प्र एतीत्येतत्पदत्रयं, न तु समासः ।॑ उदात्तवता गातिमता च तिङा गतेः समासो वक्तव्यः॑ इति वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः । भाषाविषयत्वे तुयत्प्रकुरुते॑ इत्यादौ समासत्वात्सोर#उत्पत्तिः स्यात् । लिङ्गसर्वनाम नपुंसकतामभ्युपेत्यस्वमोर्नपुंसकात् इति लुकि कृतेऽपिह्रस्वो नपुंसके -॑ इति ह्रस्वः स्यात्,यत्प्रकुर्वीर॑न्नित्यत्र तु नलोपः स्यात्, तस्मादुक्तवार्तिकस्य छन्दोविषयत्वंयुक्तमेव । दानीय इति । बाहुलकात्संप्रदाने अनीयरि । क्रिययेति । क्रियायाः कृत्रिमाकर्मत्वाऽभावात्तया अभिप्रेयमाणस्य सूत्रेण संज्ञा न प्राप्नोतीति वचनम् । एतच्चक्रियार्थोपपदस्य च कर्मणि स्थानिनः॑ इत्यनेन सिद्धम् ।पत्ये शेते॑ इत्यादौ पतिमनुकूलयितुं शेते इत्याद्यर्थाभ्युपगमे वाधकाऽभावात् । भाष्यकारमते तुकर्मणा यमभिप्रैति॑ इति सूत्रेणैव सिद्धम्,संदर्शनप्रार्थनाऽध्यवसायैराप्यमाणत्वात्क्रियापि कृतिंरमं कर्म॑ इति तैरुक्तत्वात् । नचैवमपि ददातिकर्मत्वाऽभावात्क्रियया यमभिप्रैति॑ इत्येतद्वचनं कर्तव्यमेवेति वाच्यम्, भाष्येऽन्वर्थसंज्ञात्बस्वोकारात् । नन्वेनं कटं करोति, ओदनं पचतीत्यादावपि संप्रदानत्वप्रसङ्गस्तथा च वचनद्वयबलात्कर्मसंप्रदानयोः पर्यायत्वेकटाय करोती॑त्याद्यनिष्टप्रयोगोऽपि स्यादिति चेत् । अत्राहुः — ॒पत्ये शेते॑ इत्यकर्मकस्थले सावकाशायाः संप्रदानसंज्ञायाः निरवकाशया कर्मसंज्ञया बाधितत्वान्नैवाऽनिष्टप्रसक्तिः । न चैवंगत्यर्थकर्मणि द्वितीयाचतुथ्र्यौ -॑ इति सूत्रमावश्यकमेवेति तत्प्रत्याख्यानं भाष्यस्थं न सङ्गच्छत इति वाच्यम् । भाष्ये तत्प्रत्याख्यानस्य प्रौढिवादमात्रत्वादिति दिक् । स्यादेतत् -दानस्य तदर्थत्वात्तादर्थ्ये चतुर्थी सिद्धैव किमनया संप्रदानसंज्ञया । मैवम् । दानक्रियार्थं हि संप्रदानं न तु दानक्रिया तदर्था । कारकाणां क्रियार्थत्वात् ।कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा । कर्मणः करणसंज्ञेत्यादि । छन्दसमेतत् । अत एवेदं सुब्व्यत्यत्येन सिद्धत्वादिति प्रत्याख्यायते ।

Padamanjari

कर्मणा करणभूतेनेति। कथं पुनरेकमेव वस्तु युगपत्कर्म च करणं च भवति? क्रियाभेदाद्दानक्रियायां कर्माभिप्रायेण क्रियायां करणम्, दीयमानाया हि गवा शिष्य उपाध्यायामभिप्रैति संबध्नाति ईप्सति वा, अभिप्रपूर्वो हीण् ईप्सतिना समानार्थः। अभिप्रेतमित्युक्ते ईप्सितमिति गम्यते। उक्तं च - अनिराकरणात्कर्तुस्त्यागाङ्गं कर्मणोप्सितम्। प्रेरणानुमतिभ्यां वा लभते सम्प्रदानताम्॥ इति। त्यागो दानम्, त्यागस्याङ्गं शेषभूतं कर्मणा गवादिनेप्सितमाप्तुमिष्टं संप्रदानतां लभते, अनिराकरणात्प्रेरणादेवमस्त्विति अनुमानाद्वा, देवेभ्यः सुमनसो ददाति, याचकाय भिक्षा ददाति, उपाध्यायाय गां ददाति; न तु निराकुर्वन् संप्रदानं भवतीति श्लोकार्थः। अत्र केचिदाहुः- ‘कुगतिप्रादयः’ इत्यत्र वार्तिकम्- दातवता तिङ गतेः समासवचनम् इति। यो जात एव प्रथमोमहस्वावो देवा क्रतुना पर्यभूषत्, यो यः शम्बरमन्वविन्दत्, यस्मान्न ऋते किं वजयन्ते, यो वै प्रयवयतामप्येनं प्रतिपद्यते-इत्याद्यौदाहरणानि। अत्र सर्वत्र’यद्वृतान्नित्यम्’ इति निपातप्रतिषेधात् तिङ्न्तमुदातवत्, ततश्चायमभिप्रैतीत्यत्रापि समासे सति प्रातिपदिकत्वात् विभक्त्युत्पत्तिः स्यादिति। नेति वयम्; तस्य छन्दोविषयत्वात्। यदि कर्मणा यमभिप्रैति स संप्रदानम्, अजां नयति ग्राममिति अजैर्नयतिक्रिया कर्मभिस्संबध्यमानस्य ग्रामस्य संप्रदानतां प्राप्नोति? न प्राप्नोति, किं कारणम्? कर्मणेति करणे तृतीयेत्यक्तम्। न च यथा शिष्यस्योपाध्यायसम्बन्धे गौः करणम्, एवमजा ग्रामसम्बन्धे। ईप्सतिना समानार्थे तु सुतरामप्राप्तिः। तथा हि-‘यमभिप्रैति’ इत्युक्ते यमिति निर्दिष्टस्य शेषित्वम्, कर्मणेति निर्दिष्टस्य गवादेः करणस्य शेषत्वं च प्रतीयते; यथा-ठ्कर्त्रभिप्राये क्रियाफलेऽ इति कर्तुः शेषित्वं क्रियाफलस्य शेषत्वम्, न चात्र शेषशेषिभावः प्रतीयते। किं च’नीवह्यएर्हरतेश्च’ इति द्विकर्मकेषु नयतिः परिगण्यते, अतोऽपि ग्रामस्य न भविष्यति। अथ किमर्थं महती संज्ञा क्रियत इत्याह-अन्वर्थसंज्ञाविज्ञानादिति। सम्यक्प्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थत्वात्सञ्ज्ञाया ददातिकर्मणा यमभिप्रैति स संप्रदानमित्यर्थः। एवमपि रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठ्ंअ ददातीत्यत्र कस्मान्न भवति? अदानत्वात्, किं पुनर्दानम्? दानं किञ्चदुद्दिश्यापुनर्ग्रहणाय स्वद्रव्यत्यागाः, यथा-वृक्षाय जलं ददाति, देवेभ्यः सुमनसः, याचकाय भिक्षाम्, उपाध्यायाय गाम्, खण्डिकोपाध्यायस्तस्मै चपेटिकां ददाति, न शूद्राय मतिं दद्यादिति। करतलप्रहारःउचपेटिका। रजके तु पुनर्ग्रहणाद्दानाभावः, उपमानातु ददातिप्रमोगः,तत्र कारकशेषत्वान्नटस्य शृणोतीतिवत् षष्ठी कर्मणेति किम्, यावता उपाध्यायाय गां ददातीत्यत्र गोरुपाध्यायस्य वाभिप्रेयमाणत्वम्,यतो गौर्दानक्रियया करणभूतयाभिप्रेयते, गवा तूपाध्यायः; तत्र परत्वाद्रोः कर्मसंज्ञेति पारिशेष्याद् उपाध्यायस्यैव संप्रदानसंज्ञा भविष्यति? नैतदस्ति;सत्यप्युभयोरभिप्रेयमाणत्वेऽन्तङ्गत्वात्कर्मण एव गवादेः स्यात्। कर्मसज्ञा तु ददातिकर्मणोऽन्यत्र सावकाशा, कारकप्रकरणे च प्रकर्षो नाश्रीयते, न त्वन्तरङ्गबहिरङ्गभावोऽपि । यंसग्रहणेऽक्रियमाणेऽभिप्रेतुरेव संप्रदानसंज्ञा स्यात्; श्रुतपदार्थसम्बन्धे सति तेनैव निराकाङ्क्षत्वादध्याहारानुपपतेः। सत्यपि वाध्याहारे यः स इत्येवाध्याहारात् तत उपाध्यायाय शिष्येण गौर्दीयत इत्यत्रार्थे शिष्यायोपाध्यायस्य गौर्दीयत इति स्यात्। कर्मसंज्ञायां हि कर्तृग्रहणं स्वतन्त्रोपलक्षणार्थमिति तेन शिष्यस्य कर्तृ त्वाभावेऽपि गोः कर्मसंज्ञा युज्यत एव। तथा च सार्थाद्धीयत इति कर्मणि लकारोत्पतिः। अभिप्रग्रहणं किम्, यावता कर्मणा यमेति गच्छति प्राप्नोति संबध्नातीत्यर्थः, अभिप्रैतीत्युक्ते स एव? अभिप्रग्रहणेऽक्रियमाणे कालविवक्षा स्यात्; ततश्च यमेव संप्रत्येति तत्रैव स्यात्, यमगात् यं चैष्यति तत्र न स्यात्; अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति। अभिराभिमुख्ये वर्तते, प्रशब्दश्चादिकर्मणि, ततश्चोपसर्गद्वयोपादानसामर्थ्यात्कालान्तरावच्छिन्ना क्रिया नाश्रीयते। ननु यथा’तेन दीव्यति’ इत्यादौ सङ्ख्याकालयोरविवक्षा, तथेहापि संख्यावत्कालस्याप्यविवक्षा सिद्धा, सत्यम्; अयमेव न्यायसिद्धोऽर्थ उपसर्गद्वयोपादानेन प्रदर्श्यते। यदा त्वभिप्रैतीत्यस्य ईप्सतीत्यर्थः, तदाभिप्रग्रहणं कर्तव्यमेव। क्रियाग्रहणमपि कर्तव्यमिति वार्तिकम्, एतद्व्याचष्टे-क्रिययेत्यादि। ननु क्रियामपि लोके कर्मेत्युपचरन्ति-किं कर्म करिष्यसि, कां क्रियामिति, तत्र कर्मणा यमभिप्रैतीत्येव सिद्धम्। एवमपि कर्तव्यम्;’कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययो भवति’ संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्। क्रियापि कृत्रिमं कर्म, तथा हि-य एव मनुष्यः प्रेक्षापूर्वकारी भवति, स बुद्ध्या तावत्कञ्चिदर्थं संपश्यति-इदमीद्दशमिति, तद् द्दष्ट्ंअ प्रार्थयते-अयि ममेदं स्यादिति, ततस्तदुपायभूतां क्रियां पश्यति-अस्या एतत्फलमिति, ततः प्रार्थयते-कथमियं निष्पपाद्यतामिति, ततस्तत्साधनानि समवधार्य कर्तुमध्यवस्यति। प्रतीयमानक्रियापेक्षोऽपि कारकभावो भवत्येव, यथा-प्रविश पिण्डीमित्यत्र भक्षयेति गम्यते। सूत्रकारश्च सूत्रयति-ठ्क्रियार्थोपपदस्य च कर्मणि स्थानिनःऽ इति। एवमपि क्रियाग्रहणं कर्तव्यम्; ददातिकर्मत्वात्। निगर्हते इति। नास्तिक्यान्निन्दतीत्यर्थः।’गर्ह गल्ह कुत्सायाम्’ अनुदातेत्। युद्धायेति। युद्धविषयं संनाहपूर्वकं निश्चयं करोतीत्यर्थः। नह्यतिः स्वरितेत्। पत्ये शेते इति। पतिमुपसृत्य शेत इत्यर्थः। यदि तर्हि क्रिययाभिप्रेयमाणस्यापि भवति कटङ्करोतीत्यादावपि प्राप्नोति, वचनाद्धि कर्मसंप्रदानसंज्ञयोः पर्यायः स्यात्? नैतत्सार्वत्रिकम्, किं तर्हि? प्रयोगदर्शनवशेन नियतविषयम्। कर्मणः करणसंज्ञेत्यादि। एतछन्दोविषयम्, सर्वे विधयश्च्छन्दसि विकल्पन्ते, इति यथाप्राप्तमपि प्रयोगो भवति। भाष्ये तु ददातिकर्मणेति नाश्रितम्, प्रयोगाश्च बहवः-अर्यम्णे चरुं निर्वपेत्, देवेभ्यो ब्रह्माएदनमपक्षत्, देवेभ्यो हव्यं वहन्तः च्छन्दांसि वै देवेभ्यो हव्यमूर्धा, यदङ्गमाशुषे त्वम्, शं नः करत्पर्वते इत्यादयः, तन्मते क्रियाग्रहणं न कर्तव्यम्। कथं यत्र संप्रदानत्वमिष्यते? तत्र संदर्शनादीनां क्रियायाश्च भेदो विवक्ष्यते, ततश्च तैराप्यमाना क्रियापि कृत्रिमं कर्मेति सिद्धं तयाभिप्रेयमाणस्य संप्रदानत्वम्, यत्र तु नेष्यते तत्र भेदो न विवक्ष्यते, ततश्चौदनाद्येकफलावच्छेदेनैकीकृतया क्रिययाऽऽप्यमानस्य कर्मत्वमेव भविष्यति-कटङ्करोति, ओदनं पचतीति। गत्यर्थेषु तूभयं विवक्ष्यते-भेदः, अभेदश्च; तत्र भेदविवक्षायां ग्रामं गच्छतीति प्रयोग इति’गत्यर्थकर्मणि’ इत्येतदपि न वक्तव्यं भवति॥

Nyaas

कर्मणा करणभूतेन इति। ननु च कथं कर्म करणं भवति? क्रियाभेदसम्बन्धात्। तथा हि ददातिक्रिययाऽस्तुमिष्टतमत्वात् तस्याः कर्मत्वम्, अभिप्रयाणक्रियां प्रति तस्य साधकतमत्वात् करणत्वम्। अभिप्रैति इति। अभिसम्बध्नातीत्यर्थः। यदि कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञो भवति, एवमजां नयति ग्राममित्यजादिभिर्नयनक्रियाकर्मभिः सम्बध्यमानस्य ग्रामस्य सम्प्रदानसंज्ञा प्रसज्येतेत्यत आह - अन्यर्थसंज्ञाविज्ञानात् इत्यादि। सम्प्रदानमिति। तेन ददातेः कर्मणा यमभिप्रैति तत् सम्प्रदानमिति विज्ञायते। नन्वेवमपि रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठं ददातीत्यतत्र प्राप्नोति, नैतदस्ति; दानं हि नाम पूजानुग्रहकाम्यया स्वकीयद्रव्यपरित्यागः परस्वत्वापत्तिः, तच्चेह नास्ति, अतो न भविष्यति। कर्मणेति किमर्थम्? ` यमभिप्रैति स सम्प्रदानम्` इत्युच्यमाने यमभिप्रैति तस्य कर्मण एव सम्प्रदानसंज्ञा स्यात्। कर्मसंज्ञायास्तु ददातिकर्मणोऽन्यत्रावकाशः स्यात् - ओदनं पचतीति। यं स ग्रहणं किमर्थम्? कर्मणाभिप्रैति सम्प्रदानम् इत्युच्यमाने कोऽभिप्रैति तस्य सम्प्रदानसंज्ञा स्यात्। ततश्च कर्तुः सम्प्रदानसंज्ञा स्यात्, कर्तृसंज्ञायास्तु यत्र कर्मसम्बन्धो नास्ति, सोऽवकाशः स्यात् - आस्ते, शेते इति। अथाभिप्रग्रहण किमर्थम्? कर्मणा यमेति स सम्प्रदनाम् इत्युच्यमाने कालविशेषविवक्षा स्यात्, वर्तमान एव स्यात्। ततश्चोपाध्यायस्य गामदात्, उपाध्यायायं गां दास्तीत्यत्र न स्यात्, अभिग्रहणे तु सति भवति। अभिराभिमुख्ये वर्तते तच्चाप्यतीतेऽप्यस्ति। प्रशब्द आदिकर्मणि, प्रारम्भे। स चासन्निहितायां भाविन्यामपि क्रियायां सम्भवतीति सर्वत्र संज्ञा सिद्धा भवति। नैतदभिप्रग्रहस्य प्रयोजनमुपपद्यते। यथैव कर्मणेत्यत्रैकत्वसंख्याया विवक्षा न भवति; यथा च यं सः इत्यत्र लिङ्गसंख्योर्विवक्षा न भवति तथा कालस्यापि न भविष्यति। किं कारणम्? उपलक्षणार्थत्वात्। यथा - सोऽर्थो योऽनर्थं बाधते इत्युक्ते योऽपि बाधितवान्, योऽपि बाधिष्यते सोऽप्यर्थ एव। एवं तर्हि ग्रन्थाधिक्यादर्थाधिक्यं यथा स्यादित्यवमर्थमभिप्रग्रहणम्। एतेन क्रिययापि यमभिप्रैति तस्यापि सम्प्रदानसंज्ञा सिद्धा भवति; अन्यथा हि यद्यपि क्रिया प्रार्थनाध्यवसानाभ्यां व्याप्तुमिष्टतमत्वात् कर्म, तथापि ददातिकर्मसम्बन्धाभावान्न सिद्ध्येत्। कथं पुनरेतदवसितम् - क्रियया यमभिप्रैतिस सम्प्रदावमित्ययमर्थोऽत्र प्रतिपादयितुमिष्टतम् इति? अभिप्रग्रहणात्। अस्ति ह्यत्राचार्यस्य कश्चिदर्थोऽधिकोऽभिमतः, यस्यावभासनायाधिकं शब्दान्तरं प्रयुक्तमिति गम्यते, न त्वर्थविशेषः। न हि तत् तस्य वाचकम्। यद्यप्यवाचकं स्यात्, तथापि लक्ष्यदर्शनवशादविच्छिन्नाचार्यपारम्पर्योपदेशाच्च विशेषावगतिर्भविष्यतीत्यद्वेष्यमेतत्। क्रियाग्रहणमपि कर्तव्यम् इति। क्रियया ग्रहणं क्रियाग्रहणम्। येन क्रिया गृह्रते, तद्वयाख्यानं कर्तव्यम्। किं पुनस्तद्व्याख्यानम्? तच्चास्माभिरभिग्रहण्सय प्रयोजनं वर्णयद्भिः कृतमेव। का पुनरिह क्रिया, ययाभिप्रेयमाणस्य सम्प्रदानसंज्ञेष्यते? सा विवक्षिता। अत आह - क्रिययापि यमभिप्रैति इत्यादि। निगल्हते इति। गर्ह गल्ह कुत्सायाम् (धातुपाठः-६३६,६३७) अनुदात्तेत्। युद्धाय सन्नह्यते इति। नह बन्धने (धातुपाठः-११६६) दिवादौ स्वरितेत्। स चेह निश्चये वर्तते, युद्धे निश्चयं करोतीत्यर्थः। पत्ये शेते इति। शीङत्रोपसर्पणपूर्वके शयन वर्तते। पतिमुपसृत्य शेते इत्यर्थः। कर्मणः करणसंज्ञा इत्यादि। एतत् पशुना रुद्रं यजते इत्येतद्विषयमेव वेदितव्यम्। यजिः स्वरितेत्। एतच्च व्यत्ययो बहुलम् ३.१.८५ इति सुब्व्यत्ययेन सिद्धमेवेति न वक्तव्यम्॥

Praudhamanorama

दानस्येति। तेन ‘अजां नयति ग्रामम्’ ‘हस्तं निदधाति वृक्षे’ इत्यादौ नातिप्रसङ्ग इति भावः। दानं चापुनर्ग्रहणाय स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वोत्पादनम्। अत एव ‘रजकस्य वस्त्रं ददाति’ इत्यादौ न भवति; तत्र हि ददातिर्भाक्तः। एतच्च वृत्तिकृन्मतम्। भाष्यमते तु नान्वर्थतायामाग्रहः, ‘खण्डिकोपाध्यायः शिष्याय चपेटां ददाति’ इति प्रयोगात्। ‘रजकस्य वस्त्रं ददाति’ इति तु शेषत्वविवक्षायां बोध्यम्। न चैवम् ‘अजां नयति ग्रामम्’ इत्यत्रापि प्रसङ्गः ‘यमभिप्रैति’ इत्युक्त्या हि यमिति निर्दिष्टस्य शेषित्वं, कर्मणश्च शेषत्वं लभ्यते। ग्रामस्य अजां प्रति शेषित्वं नास्ति।

Prakriyasarvasvam

येनकेनचित् कर्मणा कर्ता यमर्थमभ्येति स सम्प्रदानं स्यात् ॥

Vartika

क्रियया यमभिप्रैति स सम्प्रदानम् ।

Sutra Prayogas

  • ताभ्यां (रघुवंशम्): क्रियाग्रहणमपि कर्तव्यम् (वार्तिकम्) इति संप्रदानत्वात् चतुर्थी।

  • वः (कुमारसम्भवम्): कर्मणा यमभिप्रैति स सम्प्रदानम् इति संप्रदानत्वम्।

  • रतये (कुमारसम्भवम्): कर्मणा यमभिप्रैति स सम्प्रदानम् (वार्त्तिकम्- क्रियाग्रहणमपि कर्तव्यम्) इति सम्प्रदानसंज्ञायां चतुर्थी।

  • वृषभध्वजाय (कुमारसम्भवम्): कर्मणा यमभिप्रैति स सम्प्रदानम् (वार्तिक- क्रियया यमभिप्रैति सोऽपि सम्प्रदानम्) इति सम्प्रदानत्वम्।

  • पाण्डवसायकेभ्यः (किरातार्जुनीयम्): क्रियाग्रहणाच्च (वार्तिकम्) इति सम्प्रदानत्वाच्चतुर्थी।

  • रक्षोभ्यः (भट्टिकाव्यम्): कर्मणा यमभिप्रैति स सम्प्रदानम् इति सम्प्रदानम्।