14036: स्पृहेरीप्सितः

Padacheda: स्पृहेः | S | 6 | 1 |

ईप्सितः | S | 1 | 1 |

Sutrartha

स्पृह् (स्पृहयति) इति धातोः प्रयोगे यः ईप्सितः पदार्थः, तत् कारकं सम्प्रदानसंज्ञकं भवति । यथा - देवदत्तः पुष्पेभ्यः स्पृहयति ।

कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं पञ्चमं सूत्रम् । स्पृह (ईप्सायाम्, चुरादिः) (10.410) अस्य धातोः सन्दर्भे प्रकृतसूत्रेण सम्प्रदानसंज्ञा उक्ता अस्ति। स्पृह इति अदन्तः धातुः ईप्सा (= प्राप्तुम् इच्छा) इत्यस्मिन् अर्थे प्रयुज्यते । तत्र **यः पदार्थः ईप्सितः (= कर्त्रा अभिप्रेतः, प्राप्तुम् इष्टः इत्याशयः) तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति** । यथा, <ex>देवदत्तः पुष्पेभ्यः स्पृहयति </ex> । अत्र “देवदत्ताय पुष्पाणि रोचन्ते अतः सः पुष्पाणि प्राप्तुम् इच्छति” - इति आशयः वर्तते । एवमेव <ex>देवदत्तः फलेभ्यः स्पृहयति</ex>, <ex> गणेशः मोदकेभ्यः स्पृहयति</ex>, <ex>हरिः भक्तये स्पृहयति</ex> इत्यादिकाः प्रयोगाः सङ्गच्छन्ते ।

दलकृत्यम्

  1. **स्पृहेः इति किमर्थम् ? ** **प्रकृतसूत्रस्य प्रयोगः अन्येषां धातूनां विषये मा भूत् ** । यथा, <nex>देवदत्तः पुष्पाणि लिप्सते</nex> (लब्धुम् इच्छति) इत्यत्र प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति ।

  2. ईप्सितः इति किमर्थम् ? ** ** यः पदार्थः प्राप्तुम् इष्टः नास्ति, तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति । यथा, <nex>देवदत्तः पुष्पेभ्यः वने स्पृहयति</nex> इत्यत्र वनस्य ईप्सितत्व-अभावात् तस्य विषये प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति ।

<hlb>ईप्सितम्</hlb> तथा <hlb>ईप्सिततमम्</hlb>

प्रकृतसूत्रे ईप्सितः इति शब्दः प्रयुक्तः अस्ति । अग्रे कर्तुरीप्सिततमं कर्म (1.4.49) इत्यत्र ईप्सिततम इति शब्दः प्रयुक्तः दृश्यते । एतयोः द्वयोः सूत्रयोः मध्ये विप्रतिषेधः अस्ति । तदित्थम् - स्पृह-धातोः विषये कर्तुः यत् ईप्सितम् तस्य विषये स्पृहेरीप्सितः (1.4.36) इत्यनेन सम्प्रदानसंज्ञा भवति । अन्येषां धातूनाम् विषये कर्तुः यद् ईप्सिततम्, तस्य विषये कर्तुरीप्सिततमं कर्म (1.4.49) इत्यनेन कर्मसंज्ञा भवति । अनेन प्रकारेण द्वयोः अपि सूत्रयोः अन्यत्रप्राप्तिः वर्तते । परन्तु यदा स्पृह्-धातोः ईप्सिततमस्य चिन्तनं क्रियते, तदा ईप्सिततमपदार्थः ईप्सितः अपि अस्ति एव इति कारणात् तत्र स्पृहेरीप्सितः (1.4.36) इत्यनेन सम्प्रदानसंज्ञा प्राप्नोति, किञ्च तस्मिन्नेव स्थले कर्तुरीप्सिततमं कर्म (1.4.49) इत्यनेन कर्मसंज्ञा अपि प्राप्नोति । एतादृश्यां युगपत् सूत्रद्वयस्य प्राप्तौ विप्रतिषेधे परं कार्यम् (1.4.2) इति सूत्रेण कर्तुरीप्सिततमं कर्म (1.4.49) इत्यस्यैव प्रयोगः भवति, येन <nex>देवदत्तः पुष्पाणि स्पृहयति</nex> इति साधुप्रयोगः सङ्गच्छते । अतएव प्रकृतसूत्रे कौमुदीकारः स्पष्टीकरोति - <inline>ईप्सितमात्रे इयं संज्ञा, प्रकर्षविवक्षायां तु परत्वात् कर्मसंज्ञा, पुष्पाणि स्पृहयति । </inline>

Vasu English Summary

In the case of the verb स्पृह् ‘to desire’, the thing desired is called सम्प्रदान कारक।

Vasu English Translation

In the case of the verb स्पृह् ‘to desire’, the thing desired is called सम्प्रदान कारक। The verb स्पृह to desire, belongs to the churadi class. The word governed by this verb takes the Dative case. As पुष्पेभ्यः स्पृहयति he desires flowers, फलेभ्यः स्पृहयति he desires fruits.

Why do we say ‘the thing desired.’ Observe पुष्पेभ्यो वने स्पृहयति he desires flowers in the forest. Here वने is in the Locative case.

Kashika

स्पृह ईप्सायाम् चुरादावदन्तः पठ्यते। तस्येप्सितो योऽर्थः, तत् कारकं संप्रदानसंज्ञं भवति। ईप्सित इत्यभिप्रेत उच्यते। पुष्पेभ्यः स्पृहयति। फलेभ्यः स्पृहयति। ईप्सित इति किम्? पुष्पेभ्यो वने स्पृहयति॥

Siddhanta Kaumudi

स्पृहयतेः प्रयोगे इष्टः संप्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सितः किम् ? पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ॥

Balamanorama

स्पृहेरीप्सितः - स्पृहेरीप्सितः ।स्पृह ईप्सायाम्चुरादावदन्तः । ततः स्वार्थे णिचि अल्लोपस्य स्थानिवत्त्वाल्लघूपधगुणाऽभावे स्पृहिशब्दात्षष्ठएकवचनम् । ‘प्रयोग’ इत्यध्याहार्यम् । तदाह — स्पृहयतेरित्यादिना । ननुपुष्पेभ्यः स्पृहयती॑त्येव स्यात्, नतु पुष्पाणि स्पृहयतीत्यपि । उभयं त्विष्यते । तत्राह ईप्सितमात्र इति । यदा त्वीप्सितत्वस्यापि न विवक्षा, किं तु विषयतामात्रविवक्षा, तदापुष्पाणां स्पृहयती॑ति साधु ।कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति चे॑त्यादिदर्शनात् । वाक्यपदीये तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठआश्चायमपवाद इति स्थितम् । हेलाराजोऽप्येवम् । तन्मते पुष्पाणि स्पृहयति पुष्पाणां स्पृहयतीत्याद्यसाध्वेवेत्यन्यत्र विस्तरः ।

Tattvabodhini

स्पृहेरीप्सितः - स्पृहेरीप्सितः ।स्पृह ईप्सायां॑ चुरादावदन्तः, तेन स्पृहयतीत्यत्र लघूपधगुणो न । परत्वादिति । तेन॒परस्परेण स्पृहणीयशोभम्, स्पृहणीयगुणैर्महात्मभिः॑ इत्यादौ कर्मण्यनीयर् सिध्यति । शेषत्वविवक्षायां तुकुमार्य इव कान्तस्य त्रस्यान्ति स्पृहयन्ति च ॑ इत्यत्र षष्ठपि सिध्यतीति हरदत्तादयः । वाक्यपदीयहेलाराजीयग्रन्थयोस्तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठआश्च बाधिकेयं संप्रदानसंज्ञेति स्थितम् । युक्तम चेतत् -॒क्रियया यमभिप्रैति -॑ इत्यनेनैवेष्टसिद्धेस्पृहेरीप्सितः॑इत्येत्सूत्रस्य हरदत्तादिमते वैयथ्र्यप्रसङ्गात् । तस्माद्वाक्यपदीयादिग्रन्थानुरोधेनपरस्परेण स्पृहणीयशोभम् इत्यादौदानीयो विप्रः॑ इतिवद्बाहुलकात्संप्रदानेऽनीयरिति व्याख्येयम् ।कुमार्य इव कान्तस्य॑ इथ्यत्र तु त्रस्यन्तीत्येतदर्थतया कृतार्थस्य कान्तस्येति षष्ठन्तस्य विभक्तिविपरिणामेनकान्ताय स्पृहयन्ती॑ति व्याख्येयमिति केचित् ।

Padamanjari

चुरादावदन्तः पठ।ल्त इति। तेन स्पृहयतीत्यत्रातो लोपस्य स्थानिवद्भावाल्लघूपधगुणो नेति भावः। ईप्सित इति।’मतिबुद्धि’ इत्यादिना वर्तमाने क्तः। ईप्सितमात्रे इयं संज्ञा। प्रकर्षविवक्षायां तु परत्वात् कर्मसंज्ञैव भवति - पुष्पाणि स्पृहयतीति। यदा त्वीप्सितमीप्सिततमं वा शेषत्वेन विवक्ष्यते, तदा षष्ठी भवति॥

Nyaas

स्पृहयति इति। अतो लोपस्य (6.4.48) अचः परस्मिन् पूर्वविधौ (1.1.57) इति स्थानिवद्भावाद्गुणो न भवति। यदा तु पुष्पादीनामीप्सिततमत्वं विवक्ष्यते, तदा परत्वात् कर्मसंज्ञैव भवति - पुष्पाणि स्पृह्रतीति॥

Praudhamanorama

परत्वादिति। तेन ‘परस्परेण स्पृहणीयशोभम्’ ‘स्पृहणीयगुणैर्महात्मभिः’ इत्यादि सिद्धम्। यदा तु शेषत्वविवक्षा तदा षष्ठी। तेन — ‘कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च’। इति सिद्धम्। एतच्च सर्वं हरदत्तादिरीत्योक्तम्। वाक्यपदीयहेलाराजग्रन्थयोस्तु ‘स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठ्याश्च बाधिकेयं सम्प्रदानसंज्ञा इति स्थितम्। तन्मते स्पृहणीयमित्यत्र दानीय इतिवत् सम्प्रदाने कृत्यः। कुमार्य इवेत्यत्र तु विभक्तिविपरिणामेन कान्ताय स्पृहयन्तीति व्याख्येयम्। गृण इति श्नान्तस्यानुकरणात् षष्ठी।

Prakriyasarvasvam

हरये स्पृहयति । वेति भोजः । हरिं स्पृहयति ।।

Sutra Prayogas

  • स्त्रीभ्यो (भट्टिकाव्यम्): स्पृहेरीप्सितः इति सम्प्रदानसंज्ञा।

  • तस्यै (भट्टिकाव्यम्): स्पृहेरीप्सितः इति स्पृहयतेः स्वार्थिकण्यन्तस्य प्रयोगे सीताया ईप्स्यमानत्वात् सम्प्रदानसंज्ञा।