14025: भीत्रार्थानां भयहेतुः

Padacheda: भी-त्रा-अर्थानाम् | S | 6 | 3 |

भयहेतुः | S | 1 | 1 |

Sutrartha

भीत्यर्थकानां त्राणार्थकानां च धातूनां प्रयोगे “भयस्य कारणम्” कारकं अपादानसंज्ञं भवति । यथा - चोरात् बिभेति, चोरात् त्रायते ।

कारके (1.4.23) इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं द्वितीयम् सूत्रम् । **भीतिः तथा च त्राणम् (रक्षणम्) एतयोः क्रिययोः सन्दर्भे यः भयस्य कारणम् सः पदार्थः अपादानम् इति संज्ञां प्राप्नोति** । क्रमेण विवरणम् एतादृशम् -

<li><hlb>1. भीतिः</hlb> - यस्मात् भयं जायते, तस्य अपादानसंज्ञा भवति । यथा - <ex>देवदत्तः चौरेभ्यः बिभेति</ex> । अत्र “चौराः” इति भयस्य कारणम्, अतः तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । एवमेव, <ex>सर्पाद् भीः</ex>, <ex>सिंहाद् भयम्</ex>, <ex>वृश्चिकाद् भीतिः</ex> इत्यादिषु वाक्येषु अपि ज्ञेयम् । <li><hlb>2. त्राणम्</hlb> - यस्मात् जायमानात् भयात् रक्षणं क्रियते तस्य अपादानसंज्ञा विधीयते । यथा - <ex>देवदत्तः चौरेभ्यः धनं रक्षति</ex> । अत्र “चौराः धनम् अपहरिष्यन्ति” इति भीतिः मनसि वर्तते, अतश्च धनस्य चौरेभ्यः रक्षणम् अपि क्रियते । अनेन प्रकारेण अत्र भीतेः कारणम् “चौराः” इति; अतः “चौर”पदार्थस्य अत्र अपादानसंज्ञा भवति । एवमेव, <ex>दुःखात् त्रायते</ex>, <ex>असुरात् पाति</ex>, <ex>शत्रुभ्यः अवतात्</ex> इत्यादिषु वाक्येषु अपि ज्ञेयम् । <note>”भीतेः यत् कारणम्” तस्मादेव “रक्षणम्” अपि भवति । अतः “यस्मात् रक्षणं भवति तस्य अपादानम्” इति उच्यते चेद् अपि न विशेषः दोषः । </note>

दलकृत्यम्

  1. भीत्रार्थानाम् इत्यत्र अर्थग्रहणं किमर्थम् ? ** - सूत्रे **भीत्रार्थानाम् इति पदे अर्थः इति शब्दः प्रयुक्तः अस्ति । अनेन इदं स्पष्टी भवति यत् केवलम् भी तथा त्रै इत्येतयोः द्वयोः धात्वोः विषये एव न, अपितु भीत्यर्थकानाम्, रक्षणार्थकानां च अन्येषां धातूनां विषये अपि प्रकृतसूत्रेण अवश्यम् एव अपादानसंज्ञा भवति । अतएव <ex>चोरात् विजते</ex> तथा च <ex>चोरात् रक्षति</ex> इत्यादिषु वाक्येषु अपि प्रकृतसूत्रेण अपादानसंज्ञा अवश्यमेव विधीयते ।

  2. हेतुः इति किमर्थम् ? ** - भयस्य, एवमेव रक्षणस्य च सन्दर्भेण **भयस्य यः हेतुः (कारणम्) तस्यैव निर्देशार्थम् अपादानसंज्ञा भवति - इति स्पष्टीकर्तुम् सूत्रे हेतु इति शब्दः प्रयुक्तः वर्तते । अतएव <nex>अरण्ये रक्षति</nex> / <nex>अरण्ये बिभेति</nex> इत्यत्र अरण्यपदार्थस्य अपादानसंज्ञा न भवति । अत्र भयस्य कारणम् “अरण्यम्” इति नास्ति अपितु अरण्ये विद्यमानाः पशवः दस्यवः वा सन्ति, अतश्च अत्र “अरण्य”शब्दस्य प्रकृतसूत्रेण अपादानसंज्ञा नैव सम्भवति ।

** भाष्ये सूत्रस्य प्रत्याख्यानम्**

भाष्यकारेण इदं सूत्रम् अनावश्यकम् अस्ति इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् - <source> अयं योगः शक्योऽवक्तुम् । कथं वृकेभ्यो बिभेति दस्युभ्यो बिभेति, चोरेभ्यस्त्राते दस्युभ्यस्त्रायत इति ? …य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति - यदि मां वृकाः पश्यन्ति ध्रुवो मे मृत्युरिति । स बुद्ध्या संप्राप्य निवर्तते , तत्र ध्रुवमपायेऽपादानम् (1.4.24) इत्येव सिद्धम् । इह चौरेभ्यस्त्रायते दस्युभ्यस्त्रायत इति, य एष मनुष्यः प्रेक्षापूर्वकारी सुहृद्भवति स पश्यति - यदीमं चौराः पश्यन्ति ध्रुवमस्य वधबन्धनादिपरिक्लेशा इति । स बुद्ध्या संप्राप्य निवर्तयति । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् <light>- महाभाष्यम्</light> </source> भयस्य हेतुः, इत्युक्ते यस्मात् पदार्थात् भयं जायते, तस्य पदार्थस्य सकाशे न गन्तव्यम् (तस्मात् दूरे एव स्थातव्यम्) इति चिन्तनं कृत्वा बुद्ध्या तस्मात् पदार्थात् आदौ एव निवृत्तिः क्रियते । अनेन प्रकारेण, यद्यपि अत्र साक्षात् अपायः नास्ति, तथापि अत्र बुद्धिकृतः अपायः अवश्यं वर्तते, अतश्च इदम् उपात्तविषयम् अपादानम् एव मत्त्वा ध्रुवमपायेऽपादानम्>> (1.4.24) इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , अतश्च पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।

Vasu English Summary

In case of words implying ‘fear’ and ‘protection from danger’ that from which the danger of fear proceeds is called अपादान कारक।

Vasu English Translation

In case of words implying ‘fear’ and ‘protection from danger’ that from which the danger of fear proceeds is called अपादान कारक। The verbs signifying ‘fear’ or ‘protection’ govern the object feared of, or the danger to be protected from, in the ablative case. Thus चौरेभ्यो बिभेति he is afraid of thieves, चौरेभ्य उद्विजते he is agitated because of the thieves. चौरेभ्यस्त्रायते or रक्षति. He protects or saves from the thieves.

Why do we say ‘the cause of fear (bhaya-hetu) is put in the ablative case’? Observe अरण्ये बिभेति or त्रायते he fears or protects in the forest.

Bhashya

भीत्रार्थानां भयहेतुः (265) अयं योगः शक्योऽवक्तुम् । कथं वृकेभ्यो बिभेति दस्युभ्यो बिभेति, चोरेभ्यस्त्राते दस्युभ्यस्त्रायत इति ? इह तावद् - वृकेभ्यो बिभेति दस्युभ्यो बिभेतीति। य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति - यदि मां वृकाः पश्यन्ति ध्रुवो मे मृत्युरिति । स बुद्ध्या संप्राप्य निवर्तते , तत्र ध्रुवमपायेऽपादानम् (1.4.24) इत्येव सिद्धम् । इह चौरेभ्यस्त्रायते दस्युभ्यस्त्रायत इति, य एष मनुष्यः प्रेक्षापूर्वकारी सुहृद्भवति स पश्यति - यदीमं चौराः पश्यन्ति ध्रुवमस्य वधबन्धनादिपरिक्लेशा इति । स बुद्ध्या संप्राप्य निवर्तयति । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् ॥ 25 ॥

Kashika

बिभेत्यर्थानां त्रायत्यर्थानां च धातूनां प्रयोगे भयहेतुर्यस्तत् कारकमपादानसंज्ञं भवति। चौरेभ्यो बिभेति। चौरेभ्य उद्विजते। त्रायत्यर्थानाम् — चौरेभ्यस्त्रायते। चौरेभ्यो रक्षति। भयहेतुरिति किम्? अरण्ये बिभेति। अरण्ये त्रायते॥

Siddhanta Kaumudi

भयार्थानां त्राणार्थानां च प्रयोगे हेतुरपादानं स्यात् । चोराद् बिभेति । चोरात्त्रायते । भयहेतुः किम् ? अरण्ये बिभेति त्रायते वा ॥

Balamanorama

भीत्रार्थानां भयहेतुः - भीत्रा । चोराद्विभेतीति । चोरेण हेतुनेत्यर्थः । हेतुतृतीया प्राप्ता । चोरात्रायत इति । चोरेण हेतुना आत्मानं तत्कृतवधबन्धनादिनिवृत्त्यै रक्षतीत्यर्थः । यदा तु चोराद्विभेति=भीत्या निवर्तते, चोरात्रायते=आत्मानं त्रातु निवर्तयतीत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम् ।

Tattvabodhini

भीत्रार्थानां भयहेतुः - भीत्रा ।कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे॑ इति रामायणे तुकस्ये॑ त्यस्य संयुगेनान्वयान्नास्ति भयहेतुत्वमिति षष्ठीप्रयोगः सङ्गच्छत एव । न चैवं संयुगस्याऽपादानत्वापत्तिरिति वाच्यम् । परया अधिकरणसंज्ञया अपादानसंज्ञा[या]बाधात् । अधिकरणत्वाऽविवक्षायां तु इष्टापत्तेः । भीत्रार्थेति किम् । व्याघ्रं पश्यति । न च कर्मत्वेन बाधः शङ्क्यः, कर्मत्वाऽविवक्षायां शेषषष्ठीं बाधित्वा पञ्चमी प्रसङ्गादित्याहुः । भयतहेतुग्रहणं चिन्त्यप्रयोजनम्, अरण्ये बिभेतीत्यत्र परत्वादधिकरणसंज्ञाप्रवृत्तेरिति चेत्, अत्र वदन्ति — भयहेतुग्रहणाऽभावे कारकशेषत्वविवक्षायामतिप्रसङ्गः स्यात् । तथा च अरण्यस्य चोराद्बिभेतीति प्रयोगो न स्यादिति ।

Padamanjari

भयं भीः, त्राणं त्राः, सम्पदादित्वाद्भावे क्विप्। भीत्रौ अर्थौ येषां ते भीत्रार्थाः, षष्ठीप्रयोगापेक्षया कारकापेक्षया चेत्याह - बिभेत्यर्थानामित्यादि। अत्र बिभेतित्रायतिशब्दौ तदर्थयोर्वर्तेते, तदर्थोऽर्थो येषामित्यर्थः। त्राणं बाधकेभ्यो रक्षणम्, बाधकाश्च भयहेतव इति त्रार्थानामपि भयहेतुः कारकं भवत्येव। चोरेभ्य इति । चोरयतेः पचाद्यचि चोरः। क्वचित् चौरेभ्य इति पाठः। तत्र स्वार्थिकः प्रज्ञाद्यण्। च्छत्रादिषु वा चुराशब्दः पठ।ल्ते, स चाऽप्रत्ययादित्यस्य’ण्यासश्रन्थो युच्’ इति युचि बाधके प्राप्ते तस्मादेव निपातनादकारप्रत्यये णिलुकि च व्युत्पाद्यते, ततश्चुरा स्तेयं शीलमस्येति णे कृते स एवार्थो भवति। बिभेतीति।’ञिभी भये’ जुहोत्यादिः। उद्विजते इति। ठोविजीभयचलनयोःऽ तौदादिकोऽनुदातेत्। अरण्ये इति। अत्र तत्स्थेभ्यो वृक्षादिभ्यो भयम्, नारण्यात्। ननु च ध्रुवमित्यनुवर्तिष्यते, न चारण्यमविधित्वेन विवक्षितम्, परत्वाच्चाधिकरणसञ्ज्ञैव भविष्यति, सत्यम्; पूर्वस्यैवायं प्रपञ्चः, कथम्? भयादिपूर्विकायां निवृतौ भ्यादयो वर्तन्ते-बिभेतीति कोर्थः? भीत्या निवर्तत इत्यर्थः, त्रायत इति कोऽर्थः? चोरकृताद्वधादेस्त्राणेन निवर्तयतीत्यर्थः। कथं तर्हि चोरमध्यवर्तिनि चोरेभ्यो बिभेतीति प्रयोगः, न ह्यत्र निवृत्तिरस्ति? अत्रापि भीत्या निवर्तितुमिच्छतीत्यर्थो द्रष्टव्यः। तदेवं बुद्धिपरिकल्पितोऽपायोस्तीत्युपातविषयमिदमपादानमिति। कृतस्न एव प्रयोगप्रपञ्चे किमवयवपर्यनुयोगेन! ॥

Nyaas

भीतिर्भीः; त्राणं त्राः; सम्पदादित्वात्? क्विप्। भीश्च त्राश्च भीत्रौ। भीत्रादर्थौ येषां ते भीत्रार्थाः। बिभेत्यर्थानाम् इत्यादि। बिभेतित्रायतिशब्दाविह साहचर्याद्बिभेतित्रायत्यर्थयोर्वर्तेते। बिभेतिरर्थो येषां ते बिभेत्यर्थाः। त्रायतिरर्थो येषां ते त्रायत्यर्थाः। बिभेति इति। ञिभी भये (धातुपाठः-1084), जौहोत्यादिकः। उद्विजते इति। ओविजी भयचलनयोः (धातुपाठः-1460) तौदादिकोऽनुदात्तेत्। त्रायते #इति। त्रैङ पालने (धातुपाठः-965) भौवादिकः।अरण्ये बिभेति इति। नात्रारण्याद्भयम्, किं तर्हि? तत्रस्थेभ्यश्चौरादिभ्यः। ननु चात्राधिकरणसंज्ञा परत्वात् बाधिका भविष्यति।अपि च - ध्रुवमित्यनुवर्तते, ध्रुवञ्चावधिभूतम् इत्युक्तम्। न चारण्यमवधिबावेन विवक्षितम्, तत्किमेतन्निवृत्त्यर्थेन भयहेतुग्रहणेन? एवं तर्हि पूर्वस्यायं प्रपञ्चः। न हि कायसम्प्राप्तिपूर्वक एवापायो भवति, किं तर्हि? बुद्धिसम्प्राप्तिपूर्वकोऽपि। अस्ति चेह बुद्धिकसंप्राप्तिपूर्वकोऽप्ययायः, तथा हि - चौरेभ्यो बिभेतीत्यत्र यस्तावत् पुरुषः प्रेक्षावान् भवति स एवं पश्यति - यदि मां चौराः पश्येयुध्र्रुवं मे मृत्युः इति विचारयंस्तान् बुद्ध्या प्राप्नोति, प्राप्य चततो निवर्तते। तत्र ध्रुवमित्यादिनैव सिद्धम्। तस्मात् पूर्वस्यायं प्रपञ्चः। न च प्रपञ्चे गुरुलाघवं चिन्त्यते। एवमुत्तरेऽपि योगाः पूर्वस्यैव प्रपञ्चा वेदितव्याः; तदुदाहरणानां अध्ययनात् पराजयते इत्येवमादीनां पूर्वेणैव सिद्धत्वात्। यथा च तेषां सिद्धत्वं तथा भाष्ये एव प्रतिपादितम्। तस्मात् तत्रापि गुरुलाघवं न चिन्तनीयम्॥

Praudhamanorama

कथं तर्हि— ‘कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे’ इति रामायणम्? अत्राहुः- कस्य संयुगे इति । न चैवं संयुगस्यैवापादानसञ्ज्ञापत्तिः, परयाऽधिकरणसंज्ञया बाधात्। अधिकरणत्वाविवक्षायां त्विष्टापत्तिः।

Prakriyasarvasvam

भयार्थानां त्राणार्थानां च योगे भयहेतुरपादानम् । दैत्याद् बिभेति । दैत्याद् रक्षति ।

Sutra Prayogas

  • गुरोः (रघुवंशम्): भीत्रार्थानां भयहेतुः इत्यपादानात्पञ्चमी।

  • तस्मात् (रघुवंशम्): भीत्रार्थानां भयहेतुः इत्यपादानत्वात्पञ्चमी।

  • तृणबिन्दोः (रघुवंशम्): भीत्रार्थानां भयहेतुः इत्यपादानात्पञ्चमी।

  • दिवाकरात् (कुमारसम्भवम्): भीत्रार्थानां भयहेतुः इत्यपादानत्वात्पञ्चमी।

  • स्त्रीभ्योऽपि (कुमारसम्भवम्): भीत्रार्थानां भयहेतुः इत्यपादानत्वात्पञ्चमी।

  • गणबलस्य (किरातार्जुनीयम्): भीत्रार्थानां भयहेतुः इति पञ्चमी स्यात्।

  • करेणोः (शिशुपालवधम्): भीत्रार्थानां भयहेतुः इत्यपादानत्वम्।

  • सैन्यान्न (शिशुपालवधम्): भीत्रार्थानां भयहेतुः इत्यपादानत्वम्।

  • कबन्धाद् (शिशुपालवधम्): भीत्रार्थानां भयहेतुः इति पञ्चमी।

  • वैरायमाणेभ्यः (भट्टिकाव्यम्): भीत्रार्थानां भयहेतुः इत्यपादानसंज्ञा।

  • यस्मात् (भट्टिकाव्यम्): भीत्रार्थानां भयहेतुः इत्यपादाने पञ्चमी।

  • अ-धर्मान् (भट्टिकाव्यम्): भी - त्रार्थानाम् इत्यपादानसंज्ञा।