14024: ध्रुवमपायेऽपादानम्

Padacheda: ध्रुवम् | S | 1 | 1 |

अपाये | S | 7 | 1 |

अपादानम् | S | 1 | 1 |

Sutrartha

“एकस्मात् पदार्थात् अपरस्य पदार्थस्य पृथक्करणम्” अस्यां क्रियायाम् “यस्मात्” पृथक्करणं भवति, तत् कारकम् अपादानसंज्ञं भवति । यथा - वृक्षात् पर्णं पतति ।

कारके (1.4.23) इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं प्रथमम् सूत्रम् । यस्यां क्रियायां अपायः (= विश्लेषः / पृथक्करणम् / separation) विद्यते, तस्यां क्रियायाम् यद् **अवधिभूतम् अस्ति, इत्युक्ते यः पदार्थः पृथक्करणस्य सीमां दर्शयति (यस्मात् पदार्थात् अन्यस्य पदार्थस्य अपायः जायते इत्याशयः), सः पदार्थः <hlb>अपादानम्</hlb> इति संज्ञां प्राप्नोति** । यथा -

<li>1. <ex>वृक्षात् पर्णं पतति</ex> इति क्रियायाम् “पर्णस्य वृक्षात् पृथक्करणं” भवति । अत्र “वृक्ष”पदार्थः अवधिभूतः, अतः अत्र “वृक्ष”पदार्थस्य अपादानसंज्ञा भवति । <li>2. <ex>देवदत्तः धावतः अश्वात् पतति</ex> इति क्रियायाम् “देवदत्तस्य अश्वात् पृथक्करणं” भवति । अत्र “अश्व”पदार्थः अवधिभूतः, अतः अत्र “अश्व”पदार्थस्य अपादानसंज्ञा भवति । <li>3. <ex>देवदत्तः ग्रामात् निर्गच्छति</ex> इति क्रियायाम् “देवदत्तस्य ग्रामात् पृथक्करणं” भवति । अत्र “ग्राम”पदार्थः अवधिभूतः, अतः अत्र “ग्राम”पदार्थस्य अपादानसंज्ञा भवति । <li>4. <ex>कपिः पर्वताद् अवरोहति</ex> इति क्रियायाम् “कपेः पर्वतात् पृथक्करणं” भवति । अत्र “पर्वत”पदार्थः अवधिभूतः, अतः अत्र “पर्वत”पदार्थस्य अपादानसंज्ञा भवति । <li>5. <ex>देवदत्तः सार्थात् हीनः</ex> इति क्रियायाम् “देवदत्तस्य सार्थात् (= समूहात्) पृथक्करणं” भवति । अत्र “सार्थ”पदार्थः (समूहपदार्थः) अवधिभूतः, अतः अत्र “सार्थ”पदार्थस्य अपादानसंज्ञा भवति ।

<hlb>ध्रुवम्</hlb> इति शब्दस्य अर्थः

सूत्रे प्रयुक्तस्य ध्रुवम् इति शब्दस्य अर्थः यद्यपि कोशेषु “स्थिरः” इति सामान्यरूपेण दीयते, तथापि अत्र अस्य शब्दस्य अर्थः अवधिभूतः इति स्वीक्रियते । यदि “ध्रुवम्” इत्यस्य अर्थः “स्थिरः” इति स्वीक्रियेत, तर्हि <ex>देवदत्तः धावतः अश्वात् पतति</ex> अस्मिन् वाक्ये “अश्व”पदार्थस्य स्थिरत्व-अभावात् अपादानसंज्ञा नैव स्यात् । परन्तु अत्रापि अपादानसंज्ञा अवश्यम् इष्यते, अतः अत्र “ध्रुवम्” इति शब्दस्य अर्थः सः पदार्थः यः पृथक्करणस्य सीमां प्रदर्शयति इति स्वीक्रियते ।

वस्तुतस्तु, ध्रुवम् इत्यस्य अर्थः स्थिरः इत्येव स्वीक्रियते चेदपि अत्र न कश्चन दोषः, यतः “स्थिरत्वम्” केवलम् “पृथक्करणस्य सन्दर्भेण” अस्ति, अन्यक्रियायाः सन्दर्भेण न । यथा, <ex>देवदत्तः धावतः अश्वात् पतति</ex> इत्यत्र यद्यपि धावनक्रियानुरोधेन अश्वस्य स्थिरत्वं नास्ति, तथापि पतनक्रियानुरोधेन तस्य स्थिरत्वमेव स्वीक्रियते, यतः अत्र अश्वः स्वयं नैव पतति । अतएव बालमनोरमाकारः ब्रूते - <inline>द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृश-चलन-अनाश्रयभूतम् ध्रुवम् ।</inline> द्वौ पदार्थौ, यौ आदौ संयुक्तौ स्तः (यथा - “वृक्षः” “पर्णं” च), ताभ्याम् यदा एकः पदार्थः (“पर्णम्”) अन्यस्य (“वृक्षस्य”) अपेक्षया चलनं प्रारभते तदा तत्र <hlb>विश्लेषः</hlb> अस्ति इति उच्यते । अस्मिन् विश्लेषे द्वितीयः पदार्थः (“वृक्षः”) तु प्रथमस्य (“पर्णस्य”) अपेक्षया स्थिरः एव अस्ति । अयमेव विषयः ध्रुवम् इति शब्देन निर्दिष्टः वर्तते - इति अत्र बालमनोरमाकारस्य आशयः अस्ति ।

वार्त्तिकम् - <!जुगुप्साविरामप्रमादार्थानाम् उपसङ्ख्यानम् !>

अस्मिन् सूत्रे भाष्ये, काशिकायां च <!जुगुप्साविरामप्रमादार्थानाम् उपसङ्ख्यानम् !> इति वार्त्तिकं पाठ्यते । जुगुप्सा (घृणा, निन्दा), विरामः (परावृत्तिः), तथा च प्रमादः (कर्तव्यविस्मरणम्) - एतेषाम् अर्थानाम् सन्दर्भेण अपि अपादानं भवति - इति अस्य वार्त्तिकस्य आशयः । क्रमेण स्पष्टीकरणम् एतादृशम् -

<li>1. <hlb>जुगुप्सा</hlb> - जुगुप्सा इत्युक्ते निन्दा, घृणा । यस्य पदार्थस्य विषये निन्दा प्राकट्यते, तस्य अपादान**संज्ञा भवति । यथा - <ex>पापात् जुगुप्सति</ex> । पापस्य निन्दां करोति इत्यर्थः । एवमेव, <ex>पापात् बीभत्सते</ex> । अत्र द्वयोः अपि उदाहरणयोः पापपदार्थस्य अपादानसंज्ञा भवति । <li>2. <hlb>विरामः</hlb> - विरामः इत्युक्ते **कस्माच्चित् पदार्थात् चित्तनिवृत्तिः । यस्मात् पदार्थात् चित्तनिवृत्तिः भवति, तस्य अपादान**संज्ञा भवति । यथा - <ex>पापात् विरमति</ex> । पापस्य चिन्तनं न करोति इत्याशयः । एवमेव, <ex>पापात् निवर्तते</ex> । उभयत्र पापपदार्थस्य अपादानसंज्ञा जायते । <li>3. <hlb>प्रमादः</hlb> - प्रमादः इत्युक्ते **स्वकर्तव्यात् विमोहः / परावृत्तिः । यस्मात् पदार्थात् एतादृशी परावृत्तिः भवति, तस्य **अपादान**संज्ञा भवति । यथा - <ex>धर्मात् प्रमाद्यति</ex> । स्वधर्मस्य पालनं न करोति इत्याशयः । एवमेव <ex>धर्मात् मुह्यति </ex>। उभयत्र धर्मशब्दस्य अपादानसंज्ञा भवति ।

अपादानस्य निर्देशार्थम् पञ्चम्याः प्रयोगः

विभक्तिप्रकरणे अपादाने पञ्चमी (2.3.28) इति सूत्रं पाठ्यते । यस्मिन् पदार्थे अपादानशक्तिः विद्यते, तस्य पदार्थस्य शब्देन निर्देशार्थम् पञ्चमीविभक्तेः प्रयोगः भवति - इति अस्य सूत्रस्य आशयः । यथा, <ex>वृक्षात् पर्णं पतति</ex> इत्यत्र “वृक्ष”पदार्थे विद्यमानाम् अपादानशक्तिं दर्शयितुम् “वृक्ष”शब्दात् पञ्चमीविभक्तेः प्रत्ययस्य प्रयोगः कृतः अस्ति ।

अपादानस्य त्रयः भेदाः

वाक्यपदीये साधनसमुद्देशे भर्तृहरिणा अपादानस्य त्रयः भेदाः उक्ताः सन्ति - <karika> निर्दिष्टविषयं किंचिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानमुच्यते ॥ (<light>वाक्यपदीये 3.7.136</light>) </karika>

अपादानं त्रिविधम् अस्ति - (अ) निर्दिष्टविषयम् अपादानम्, (आ) उपात्तविषयम् अपादानम्, तथा च (इ) अपेक्षितक्रियम् अपादानम् । एतानि त्रीणि अपि अपादानानि प्रकृतसूत्रेणैव सिद्ध्यन्ति । एतेषाम् अर्थाः, उदाहरणानि च एतादृशानि - <listsp> <li><hlb>1. निर्दिष्टविषयम् अपादानम्</hlb> यत्र अपायस्य साक्षात् (प्रत्यक्षरूपेण) निर्देशः दृश्यते, तत् अपादानम् निर्दिष्टविषयम् अपादानम् इत्युच्यते । यथा - <ex>वृक्षात् पर्णं पतति</ex>, <ex>ग्रामाद् आगच्छति</ex>, <ex>पर्वताद् अवरोहति</ex> - इत्यादिकम् । <li><hlb>2. उपात्तविषयम् अपादानम्</hlb> उपात्तम् इत्युक्ते कथञ्चित् प्राप्तम् । यत्र अपायस्य साक्षात् (प्रत्यक्षरूपेण) निर्देशः न वर्तते, परन्तु अन्यस्यां कस्यांश्चित् क्रियायाम् “अपायः” गर्भितः अस्ति (इत्युक्ते तस्याः क्रियायाः माध्यमेन अपायः जायते), तत्र विद्यमानम् अपादानम् उपात्तविषयम् अपादानम् अस्ति इत्युच्यते । यथा - <ex>बलाहकात् विद्युत् विद्योतते</ex> (The lightening shines from the clouds) । अत्र “विद्योतते” इति मुख्या क्रिया अस्ति । परन्तु अस्याः क्रियायाः पूर्त्यर्थम् विद्युतः मेघात् निष्क्रमणम् अपि भवति । अनेन प्रकारेण अत्र मेघात् विद्युतः अपायः अप्रत्यक्षरूपेण “विद्योतते” अनया क्रियया प्रदर्शितः वर्तते । अतः अत्र “उपात्तविषयम् अपादानम् अस्ति” इति स्वीक्रियते । एवमेव, <ex>कुसुलात् पचति</ex> इत्यस्य अर्थः “कुसुलदेशात् पचनसामग्रीम् आनीय पचति” इति अस्ति । अत्रापि मुख्यक्रिया “पचति” इति अस्ति, तथापि अस्यां क्रियायाम् “पचनसामग्रेः कुसुलदेशात् पृथक्करणम्” इति अपायः अपि गर्भितः वर्तते । अतः इदम् अपि उपात्तविषयकस्य अपादानस्य उदाहरणम् । <li><hlb>3. अपेक्षितक्रियम् अपादानम्</hlb> यत्र वाक्ये काऽपि क्रिया निर्दिष्टा नास्ति, परन्तु सन्दर्भं दृष्ट्वा समुचितायाः क्रियायाः अध्याहारं च कृत्वा तस्याः आधारेण अपायस्य ज्ञानं भवति, तत्र अपेक्षितक्रियम् अपादानम् अस्ति इत्युच्यते । यथा - <ex>कुतो भवान् ? अहं पाटलीपुत्रात्</ex> इत्यस्मिन् संवादे न काचित् क्रिया स्पष्टरूपेण दृश्यते । परन्तु अत्र सन्दर्भं दृष्ट्वा “इयं चर्चा आगमनक्रियायाः सन्दर्भेण अस्ति” इति निर्णयः भवितुम् अर्हति । अस्याम् आगमनक्रियायाम् “पाटलीपुत्र”पदार्थस्य अवधिभूतत्वात् अपादानसंज्ञा अपि जायते । इदम् अपेक्षितक्रियम् अपादानम् ।

<!जुगुप्साविरामप्रमादार्थानाम् उपसङ्ख्यानम् !> इति वार्त्तिकस्य अनावश्यकता

प्रकृतसूत्रस्य भाष्ये भाष्यकारेण <!जुगुप्साविरामप्रमादार्थानाम् उपसङ्ख्यानम् !> इति वार्त्तिकं अवश्यं पाठितम् अस्ति; परन्तु तत्रैव अग्रे सः इदं वार्त्तिकम् अनावश्यकम् अस्ति इत्यपि ब्रूते - <source>

तत्तर्हीदं बहु वक्तव्यम् ? न वक्तव्यम् । इह तावद् - अधर्माज्जुगुप्सते अधर्माद्बीभत्सते इति। य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति - दुःखोऽधर्मो नाऽनेन कृत्यमस्तीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम्। इह धर्माद्विरमति धर्मान्निवर्तते इति। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। इह य एष मनुष्यः संभिन्नबुद्धिर्भवति स पश्यति - नेदं किंचिद्धर्मो नाम नैनं करिष्यामीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् । <light>- महाभाष्यम्</light>

</source> अत्र भाष्यकारस्य आशयः अयम् - जुगुप्सा, विरामः, तथा च प्रमादः इत्येताभिः क्रियाभिः उपात्तविषयम् अपादानं दीयते, यत् सूत्रस्यैव आधारेण ज्ञापयितुम् शक्यम् । तत्कथम् इति चेत्, <ex>पापात् जुगुप्सति</ex> इत्यत्र आदौ बुद्धौ अहं पापं न करिष्यामि इति निर्णयं कृत्वा, ततः पापात् स्वस्य पृथक्करणं क्रियते, अतः जुगुप्सक्रियायाम् अपायः अवश्यमेव गर्भितः वर्तते । एवमेव, विरामस्य प्रमादस्य चापि विषये बुद्ध्याः निवृत्तिः अवश्यं भवति, अतश्च तत्रापि अपायः अवश्यमेव गर्भितः अस्ति इति भाष्यकारस्य आशयः अस्ति । अनेन प्रकारेण तिसृषु अपि क्रियासु अपायस्य उपस्थितित्वात्, ध्रुवमपायेऽपादानम् (1.4.24) इति प्रकृतसूत्रेणैव त्रयाणाम् अपि विषयाणाम् सन्दर्भेण अपादानसंज्ञा सम्भवति, तदर्थम् पृथक् वार्त्तिकम् अनावश्यकम् एव ज्ञेयम् - इति निर्णयः भाष्यकारेण अत्र दत्तः अस्ति ।

Vasu English Summary

A noun whose relation to an action is that of a fixed point from which departure takes place is called अपादान or Ablation.

Vasu English Translation

A noun whose relation to an action is that of a fixed point from which departure takes place is called अपादान or Ablation. This defines the Ablation or Apadana karaka. Thus ग्रामादागच्छति he comes from the village. पर्वतादवरोहति he descends from the mountain. स्वार्थाद्धीनः lost his object. रथात् पतितः fallen from the chariot. The Apadana takes the 5th case-affix (2.3.28) and the above examples show this. When therefore this relation is to be expressed, ‘the fixed point (like grama, purvata &c., in the above) which is the limit denoted by a word dependent on a verb, is called ablation.’

Vart:- The objects of verbs denoting ‘aversion,’ ‘cessation’ and ‘negligence’ are also called ablation. Thus:- अधर्माञ्जुगुप्सते he dislikes injustice; अधर्माद्विरमति he ceases from injustice. धर्मात्प्रमाद्यति he neglects justice.

Bhashya

ध्रुवमपायेऽपादानम् (264) ध्रुवग्रहणं किमर्थम् ? ग्रामादागच्छति शकटेन। नैतदस्ति । करणसंज्ञाऽत्र बाधिका भविष्यति। इदं तर्हि - ग्रामादागच्छन्कंसपात्र्यां पाणिनौदनं भुङ्क्ते इति । अत्राप्यधिकरणसंज्ञा बाधिका भविष्यति । इदं तर्हि - वृक्षस्य पर्णं पतति, कुड्यस्य पिण्डः पततीति । जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् ॥ 1 ॥ जुगुप्साविरामप्रामादार्थानामुपसंख्यानं कर्तव्यम् । जुगुप्सा - अधर्माज्जुगुप्सते । अधर्माद्बीभत्सते। विराम - धर्माद्विरमति । धर्मान्निवर्तते । प्रमाद - धर्मात्प्रमाद्यति । धर्मान्मुह्यति । इदं चोपसंख्यानं कर्तव्यम् - सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति । तत्तर्हीदं बहु वक्तव्यम् ? न वक्तव्यम् । इह तावद् - -अधर्माज्जुगुप्सते अधर्माद्बीभत्सते इति। य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति - दुःखोऽधर्मो नाऽनेन कृत्यमस्तीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम्। इह धर्माद्विरमति धर्मान्निवर्तते इति। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। इह य एष मनुष्यः संभिन्नबुद्धिर्भवति स पश्यति - नेदं किंचिद्धर्मो नाम नैनं करिष्यामीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् । इह च साङ्काश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति यस्तैः साम्यं गतवान्भवति स एतत्प्रयुङ्क्ते । गतियुक्तेष्वपादानसंज्ञा नोपपद्यतेऽध्रुवत्वात् ॥ 2 ॥ गतियुक्तेष्वपादानसंज्ञा नोपपद्यते । रथात्प्रवीतात्पतितः । अश्वात्र्रस्तात्पतितः। सार्थाद्गच्छतो हीन इति । किं कारणम् ? अध्रुवत्वात् । न वाऽध्रौव्यस्याविवक्षितत्वात् ॥ 3 ॥ न वैष दोषः । किं कारणम् ? अध्रौव्यस्याविवक्षितत्वात् नाऽत्राऽध्रौव्यं विवक्षितम् । किं तर्हि ? ध्रौव्यम् । इह तावदश्वात्त्रस्तात्पतित इति, यत्तदश्वेऽश्वत्वमाशुगामित्वं तद्ध्रुवं तच्च विवक्षितम् । रथात्प्रवीतात्पतित इति यद्रथे रथत्वं रमन्तेऽस्मिन् रथ इति तद्ध्रुवं तच्च विवक्षितम् । सार्थाद्गच्छतो हीन इति, यत्तत्सार्थे सार्थत्वं सहार्थीभावस्तद्ध्रुवं तच्च विवक्षितम् । यद्यपि तावदत्रैतच्छक्यते वक्तुम्। ये त्वेतेऽत्यन्तंगतियुक्तास्तत्र कथम् - धावतः पतितस्त्वरमाणात्पतित इति ? अत्रापि - ।न वाऽध्रौव्यस्याऽविवक्षितत्वादित्येव सिद्धम्। कथं पुनः सतो नामाऽविवक्षा स्यात् ? सतोऽप्यविवक्षा भवति । तद्यथा - अलोमिका एडका। अनुदरा कन्येति । असतश्च विवक्षा भवति - समुद्रः कुण्डिका, विन्ध्यो वर्धितकमिति ॥ 24 ॥

Kashika

ध्रुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तत् कारकमपादानसंज्ञं भवति। ग्रामादागच्छति। पर्वतादवरोहति। सार्थाद् धीनः। रथात् पतितः॥ जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्॥ अधर्माज् जुगुप्सते। अधर्माद् विरमति। धर्मात् प्रमाद्यति। अपादानप्रदेशाः — अपादाने पञ्चमी (२.३.२८) इत्येवमादयः॥

Siddhanta Kaumudi

अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् ॥

Laghu Siddhanta Kaumudi

अपायो विश्लेषस्तस्मिन्साध्ये यद् ध्रुवमवधिभूतं कारकं तदपादानं स्यात्॥

Balamanorama

ध्रुवमपायेऽपादानम् - अथ पञ्चमी । ध्रुवमपाये । अपायपदं व्याचष्टे — अपायो विश्लेष इति । वियोग इत्यर्थः ।ध्रुव॑पदं व्याचष्टे-अवधिभूतमिति । द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृशचलनाऽनाश्रयभूतं ध्रुवम् । तच्चेहार्थादवधिभूतं विवक्षितमिति भावः ।

Tattvabodhini

ध्रुवमपायेऽपादानम् - ध्रुवमपाये ।ध्रु गतिस्थैर्ययोः॑ अस्मात्पचाद्यचि कुटादित्वान्ङित्त्वे उवङ् ।ध्रुव स्थेर्ये॑ इति केचित् । तत्रइगुपध — ॑इति कः । ध्रुवं स्थिरम् । अपायशब्देन विवक्षितमाह — विश्लेष इति । एवं च प्रकृतधात्वर्थाऽनाश्रयत्वे सति तज्जन्यविभागाश्रयो ध्रुवमिति फलितम् । तच्चाऽर्थादवधिरेवेत्याह — अवधिभूतमिति । धावत इति । इह धावनक्रियाविशिष्टस्याऽप्यआस्य प्रकृतपतनधातूपात्तक्रियां प्रत्यवधित्वं न विरुध्यते,परस्परस्मान्मेषावपसरतः॑ इत्यत्र तु सृधातुना गतिद्वयस्याप्युपादानादेकनिष्ठां गतिं प्रति इतरस्याप्यपादानत्वं न विरुध्यते । उक्तं च हरिणा — ॒अपाये यदुदासीनां चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदावेशात्तदपादानमुच्यते । पततो ध्रुव एवास्वो यस्मादआआत्पतत्यसौ । तस्याप्यआस्य पतेन कुडआदि ध्रुवमिष्यते । मेषान्तरक्रियापेक्षमवधित्वं पृथकं पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक्॥ इति ।पर्वतात्पततोऽआआत्पतती॑त्यत्र तु पर्वतावधिकपतनाश्रयो योऽआस्तदवधिकं देवदत्तादिनिष्ठं पतनमर्थः, पञ्चम्यर्थाऽवधौ अभेदेन संसर्गे प्रकृत्यर्थः परवतादिर्विशेषणम्, प्रत्ययार्थस्तु पतनक्रियायाम्, स चाऽवधिरूपो धर्मी, न तु धर्ममात्रम्,उद्धृतौदन स्थाली॑ त्यात्रौदनकर्मकोद्धरणावधिभूता स्थालीति सामानाधिकरण्यदर्शमात् । एतच्च मनोरमायां स्थितम् । नन्विह ध्रुवग्रहणं किमर्थम् । न चग्रामादागच्छति शकटेने॑त्यत्र शकटेऽतिव्याप्तिवारणाय तदिति वाच्यम्, परत्वात्तत्र करणसंज्ञाप्रवृत्तेः । न च संज्ञिनिर्देशार्थं ध्रुवग्रहणम्, कारकाऽधिकारात् कारकमिति लभ्यत इति ध्रुवग्रहणं चिन्त्यप्रयोजनमिति चेत् । अत्र वदन्ति — कारकत्वरूपव्यापकधर्ममात्रविवक्षायां साधकतमत्वेन विवक्षाऽभावदशायां करणसंज्ञाप्रसङ्गेन शकटस्याऽपादानत्वं स्यात्तन्मा भूदित्येतदर्थं ध्रुवग्रहणमिति ।जुगुप्साविरामप्रमादार्थानासुपसंख्यानम् । जुगुप्सेति । जुगुप्सा-निन्दा, विरमो विरतिः, प्रमादोऽनवधानता, एतदर्थकानां धातूनां कारकमपादानसंज्ञं स्यादित्यर्थः । संयोगपूर्वको विश्लेषो विभागः, स चेह नास्ति, बुद्धिकृतस्तु गौणत्वान्नेह गृह्रत इति सूत्रेणाऽप्राप्तौ वार्तिकारम्भः । भाष्याकारस्तु — कारकप्रकरणे गौणमुक्यन्यायो नाश्रीयत इति तमब्ग्रहणेन ज्ञापितत्वाज्जुगुप्सादीनां तत्पूर्वकनिवृत्तिवाचित्वामाश्रित्येदं वार्तिकं,भीत्रार्थानाम् -॑इत्यादि सूत्राणि च प्रत्याचख्यौ । पूर्वं हि बुद्द्याऽपायं संप्राप्य ततो दोषदर्शनान्निवर्तत इत्यस्त्येवाऽत्र बुद्धिकृतोऽपायः ।

Padamanjari

ध्रवमिति। ध्रु गतिस्थैर्ययोः इत्यस्मात्कुटादेः पचाद्यचि रूपम्। ये तु’ध्रुव गतिस्थैर्ययोः’ इति पठन्ति, तेषामिगुपधलक्षणः कः प्रत्ययः। अपायःउ विश्लेषः, विभागस्तद्धेतुभूतश्च गतिविशेषोऽवधिसापेक्षः, तत्र विभागस्य द्विष्ठत्वात् न केवलमपयन्नेव तेन युक्तः, किं तर्हि? यतोऽपैति सोऽपि युक्त एवेत्याह-ध्रुवं यदपाययुक्तमिति। कथं पुनः सप्तमीनिर्द्देशेऽप्यपाययुक्तमिति प्रतिपद्येमहीत्यत्राह-अपाये साध्य इति। साध्यत्वेन विषयत्वात् सामर्थ्यलभ्यो योग इति भावः। ध्रुवमित्येकरूपमुच्यते- ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति, इह तदपायेन विशेष्यते-उपाये यद् ध्रुवमिति, न तु सार्वत्रिकम्, तच्चापाये ध्रुवमुच्यते-यदपायेनानाविश्यते उपयुज्यते चापाये, तच्चार्थादवधिभूतमित्याह-यदवधिभूतमिति। एवं च सार्थाद् हीनः, रथात्पतितः, धावतः पतित इत्यादौ क्रियान्तरावेशाच्चलत्वे ततद्धावनादिक्रियानावेशातन्निमितमपायं प्रत्यौदासीन्यादस्त्येव ध्रुवत्वमिति भवत्येव संज्ञा। उक्तं च - अपाये यदुदासीनं चलं वा चदि वा चलम्। ध्रुवमेवातदावेशात् पदपादानमुच्यते॥ इति। पततः पतित इत्यत्रापि परगतपातापेक्षया ध्रौव्यमेव। तथा हि- पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ। तस्य त्वश्वस्य पतने कुड।लदिर्ध्रुव उच्यते॥ इह तु परस्परम्मान्मेषावपसर्पत इति मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक्। मेषयोः स्वक्रिययापेक्षं कर्तृत्वं च पृथक्पृथक्॥ गतिर्विना त्ववधिना नापाय इति कथ्यते॥ जुगुप्सेति। प्रश्लेषपूर्वको विश्लेषोऽपायः, स चात्र नास्ति; बुद्धिपरिकल्पितस्तु गौणः, न च मुख्ये संभवति गौणस्य ग्रहणं युक्तम्। अत एव’भीत्रार्थानाम्’ इत्यादेरारम्भ इति वाक्यकारस्याभिप्रायः। अत्र च कारकशेषत्वात् षष्ठी प्राप्नोति-नटस्य श्टणोतीति यथा। प्रत्याख्यानं तु साधकतममिति तमब्ग्रहणं लिङ्गम, कारकप्रकरणे यथासम्भवमेव साधकत्वमिति। तदिह-अधर्माज्जुगुप्सते इत्यादौ जुगुप्सादिपूर्विकायां निवृतौ जुगुप्सादीनां वृत्तिरिति स्थिते य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति- दुःखहेतुरधर्मो नैनं करिष्यामीति; स बुद्ध्या तं प्राप्नोति, प्राप्य तच ततो निवर्तते। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। य एष नास्तिकः पुरुषः, स पश्यति-नानेन धर्मेण किंचिदाप्यते, नैनं करिष्यामीति स बुद्ध्या तं प्राप्नोति, प्राप्य च ततो निवर्तते, तत्र ध्रुमपायैत्येव सिद्धमिति। तच्चैतत् - निर्द्दिष्टविषयं किञ्चिदुपातविषयं तथा। अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते॥ यत्र धातुनापायलक्षणः संज्ञाविषयो निर्दिश्यते, यथा-ग्रामादागच्छतीति, तन्निर्दिष्टविषयम्। यत्र धातुर्धात्वन्तरार्थाङ्गं स्वार्थमाह, यथा-बलाहकाद् विद्योतते विद्यौद् इति, अत्र हि निः सरणाङ्गविद्योतने विद्यौतिर्वर्तते-बलाहकन्निः-सृत्य विद्योतत इत्येव; कुसुलात्पचतीत्यत्राऽऽदानाङ्गे पाके पचिर्वर्तते-कुसूलादादाय पचतीति, तदुपातविषयम्। अपेक्षितक्रियं तु-यत्र क्रिया न श्रुयते, प्रमाणान्तरेण तु प्रतीयते, यथा-आगच्छन्तं पुरुषं प्रत्यक्षेण पश्यन्नाह-कुतो भवानिति, सोऽपि तदेव प्रत्यक्षसिद्धमागमनमुपजीवन्नाह-पाटलिपुत्रादिति। ध्रुवग्रहणं किम्? ग्रामादागच्छति शकटेन - अत्र शकटस्य मा भूत्। अथ क्रियमाणेऽपि ध्रुवग्रहण इह कस्मान्न भवति - धनुषा विघ्यतीति, अत्र हि शराणामपायं प्रति अवधिभावेनैव धनुषः साधकतमत्वम्? सत्यम्; उभयप्रसङ्गे परत्वात्करणसंज्ञा भविष्यति। नन्वेवमक्रियमाणेऽपि शकटस्य नैव भविष्यति, एवं संज्ञान्तरविषये सर्वत्र। वृक्षस्य पत्रं पततीत्यत्र त्वपायस्याविवक्षितत्वादकारकत्वाच्च न भविष्यति । संज्ञिनिर्देशार्थं तु न हि’कारके’ इति सप्तम्यन्तेन शक्यः संज्ञी निर्देअष्टुअम्, सिद्धं तु निर्द्धार्यमाणस्य संज्ञित्वादपायविषयेषु कारकेषु मध्ये यत्कारकं संज्ञान्तरस्याविषयस्तदपादानमिति, तदेवं ध्रुवग्रहणं चिन्त्यप्रयोजनम्॥

Nyaas

अपायः = विश्लेषःक; विभाग इत्यर्थः। तस्य द्विष्ठत्वाद्याथा तेन विभागेन योऽपैति सोऽपाययुक्तः, तथा यतोऽपैति सोऽप्यपाययुक्तः; तस्मादुभयत्र पञ्चम्या भवितव्यमित्यत एवाह - ध्रुवं यदापायमुक्तम् इति। अपाये साध्ये इति। विषयसप्तमीयम्। अपायस्य साध्यत्वेन विषयभूत इत्यर्थः। यद्यपि ध्रुवशब्दो लोक एकरूपतामाचष्टे - ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति; तथाप्ययाये साध्येऽभिहितया तया न कश्चिदर्थः सम्पद्यत इति नात्र ध्रुवताऽपायं प्रत्युपयुज्यते? सैवोपदीयते, सा चावधिभाव एव। तस्यादपायस्य सन्निधौ ध्रुवशब्दः सम्बन्धात् सश्लेषलक्षणात् प्रच्यवमानस्यावधिभावमाचष्टे, इत्यत आह - अवधिभूतम् इति। अत एवापाये साध्येऽवधिभूतं यत्तदिह ध्रुवशब्देनोच्यते। तेन धावतोऽआआत् पतित इत्येवमादावप्यपादानसंज्ञा अआआदेः सिद्धा भवति। असति ह्यत्रापि सत्यपि चलत्वेऽआआदेरप्यपायेऽवधिभावः।अथेह कथमपादानसंज्ञा - अधर्याज्जुगुप्सते, अधर्माद्विरमति, धर्मात्प्रमाद्यतीति, न ह्यत्रापायोऽस्ति? कथम्? कार्यसम्प्राप्तिपूर्वको ह्रपायो भवति, न चेह कार्यसम्प्राप्तिरस्तीति आह - जुगुप्सा इत्यादि। जुगुप्साद्यर्थानां धातूनां प्रयोगेऽपादानासंज्ञाया उपसंख्यानम् = प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - अपादानम्िति महती संज्ञा क्रियते, महाविषयेयं संज्ञेति सूचनार्थम्। एवञ्च महाविषया भवतीयम् - यदि सूत्रोपात्तात् संज्ञिनोऽन्योऽप्यस्या विषयो भवति, नान्यथा; तेन दजुगुप्सादीनां प्रयोगेऽसत्यपायेऽपादानसंज्ञा भविष्यतीति। अथ वा - अस्त्येवाऽत्रापायः, न हि कार्यसम्प्राप्तिपूर्वक एवापायो भवतीति, किं तर्हि? चित्तसम्प्राप्तिपूर्वकोऽपि भवति। इह तावदधर्माज्जुगुप्सते, अधर्माद्विरमतीति, य एव मनुष्यः प्रेक्षापूर्वकारी भवति स एवं पश्यति - दुःख हेतुरयमधर्मो नाम, अतो नार्हत्येनं सचेताः कर्त्तुमिति; एवं पश्यति - `नास्माद्धर्मात् किञ्चिदिष्टं सम्पद्यते, दुःखमेव केवलं तदारम्भ निमित्तकं भवति स एवं विचारयंस्तं बुद्ध्या प्राप्नोति, प्राप्य च ततो निवर्तते। तथा च ध्रुवमपायेऽपादानमित्येवं स#इद्धम्। प्रमाद्यति इति। मदी हेर्षे (धातुपाठः-1208), शमामष्टानां दीर्घः श्यनि (7.3.74) इति दीर्घः। अथेह कथमपादानसंज्ञा - ग्रामान्नागच्छतीति? कथञ्च न स्यात्? ग्रामस्यापायेनायुक्तत्वात्। यस्यां सत्यामपायो भवति, सा प्रतिषिद्ध्यते चापादनसाधनागमनक्रिया, तदसत्यां तस्यां कुतोऽपायः? नैष दोषः अत्र ह्रपादानसंज्ञायां समुपजातायां पश्चात्प्रतिषेधेन सम्बन्धः क्रियते,अन्यथा हि प्रतिषेधस्य विषयो न दर्शितः स्यात्। तथा ह्रपादानसाधनागमनक्रिया प्रतिषेद्धुमिष्टा।तत्र यदि चादावेव निषेधः स्यात्, अपायाभावात् तदसम्बद्धस्य ग्रामस्यापादानसंज्ञा सिद्धा न स्यात्। ततश्च या प्रतिषेध्यापादानसाधनागमनक्रिया प्रतिषेधस्य विषयभूता; सा न शक्यते प्रदर्शकयितुम्; न चात्राप्रदर्शितकविषयेत प्रतिषेधः शक्यते वक्तुम्। तस्मात् पूर्वमपादानसंज्ञा भवति, पश्चात्प्रतिषेधेन योग इत्येष क्रमः।

Praudhamanorama

ध्रुवमिति। ध्रु गतिस्थैर्ययोः, अस्मात्कुटादेः पचाद्यच्। ध्रुव स्थैर्ये इति पाठे तु इगुपधलक्षणः कः। ध्रुवं—स्थिरम्, प्रकृतधातूपात्तगत्यनाविष्टत्वे सति तज्जन्यविभागाश्रयः। तच्चार्थादवधेरेवेत्याह—

Prakriyasarvasvam

कस्यचिदपगमे सति यत् पूर्वस्मादविशेषं तदपादानसंज्ञम् ।।

Vartika

जुगुप्साविरामप्रमादार्थनामुपसंख्यानम् ।

Sutra Prayogas

  • मुनिव्रतात् (कुमारसम्भवम्): ध्रुवमपायेऽपादानम् इति सूत्रेण अपादानत्वसिद्धिः।

  • वृक्षाद् (भट्टिकाव्यम्): ध्रुवमपायेऽपादानम् इति अपादानसंज्ञायां पञ्चमी।