14030: जनिकर्तुः प्रकृतिः

Padacheda: जनिकर्तुः | S | 6 | 1 |

प्रकृतिः | S | 1 | 1 |

Sutrartha

जननक्रियायाः यः हेतुः (कारणम्) तत् कारकम् अपादानसंज्ञं भवति । यथा - शृङ्गात् शरः जायते ।

कारके (1.4.23) इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं सप्तमं सूत्रम् । जननक्रियायाम् (इत्युक्ते निर्माणस्य क्रियायाम्) **य पदार्थः हेतुरूपेण (कारणरूपेण) प्रयुज्यते तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा - “शृङ्गात् शरः जायते “ । अत्र शरस्य निर्माणे शृङ्गपदार्थः कारणम्, अतः तस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति** ।

<hlb>जनिकर्तुः</hlb> इति शब्दस्य अर्थः

अस्मिन् सूत्रे प्रयुक्तम् जनिकर्तुः इति पदम् समस्तपदम् अस्ति । जनिः इत्युक्ते जननम् ** (जन्मप्राप्तिः) । **जन्-धातोः धात्वर्थनिर्देशार्थम् इण् इति प्रत्ययं सयोज्य जनि इति शब्दः सिद्ध्यति । अस्याः जननक्रियायाः यः कर्ता (इत्यक्ते यः जायते) सः जनिकर्ता (प्रातिपदिकं जनिकर्तृ इति) इत्यनेन पदेन निर्दिश्यते । अस्य जनिकर्तुः निर्माणे यत् कारणम् , तस्य पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । यथा, शरस्य निर्माणम् शृङ्गात् भवति, अतः <ex>शृङ्गात् शरः जायते</ex> इति प्रयोगः सिद्ध्यति ।

<hlb>प्रकृति:</hlb> इति शब्दस्य अर्थः

अस्मिन् सूत्रे विद्यमानः प्रकृतिः इति शब्दः कारणम् / हेतुः अस्मिन् अर्थे प्रयुक्तः अस्ति । जननक्रियायाः कारणम् - इत्युक्ते यस्य पदार्थस्य साहाय्येन निर्माणं भवति - सः अत्र प्रकृतिशब्देन निर्दिश्यते । अस्य पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । इयं प्रकृतिः द्विधा भवति - <listsp> <li>1. उपादानकारणम् - तत् कारणम् यस्मिन् परिवर्तनं कृत्वा नूतनपदार्थस्य निर्माणं भवति । यथा, “मृद्” इति घटस्य उपादानकारणम् । एवमेव “शृङ्गः” इति शरस्य उपादानकारणम् । अस्य उपादानकारणस्य प्रकृतसूत्रेण अपादानसंज्ञा सम्भवति, अतएव <ex>मृदः घट: जायते</ex>, <ex>शृङ्गात् शरः जायते</ex> इत्यादीनि वाक्यानि सिद्ध्यन्ति । <li>2. ** सहकारिकारणम्**- तत् कारणम् यत् निर्माणक्रियायां सहकार्यं करोति । यथा, घटनिर्माणकार्ये “जलम्”, “अग्निः”, “कुम्भकारः” - एते सर्वे सहकारिणः । एतादृशस्य सहकारिकारणस्य अपि प्रकृतसूत्रेण ग्रहणं भवति । अतएव <ex>पुत्रात् प्रमोदः जायते</ex> इति वाक्यम् सिद्ध्यति । अत्र प्रमोदः साक्षात् पुत्रस्य अंशेन (पुत्रे परिवर्तनं कृत्वा) निर्मितः नास्ति, अपितु पुत्रं दृष्ट्वा मनसि उद्भवति । अतः अत्र “पुत्रः” इति प्रमोदस्य सहकारिकारणम् वर्तते । अस्यापि प्रकृतसूत्रेण अपादानसंज्ञा भवति । एवमेव <ex>कामात् क्रोधः जायते</ex> इत्यत्रापि “कामः” इति क्रोधस्य सहकारिकारणम्, अतः तस्य अपि प्रकृतसूत्रेण अपादानसंज्ञा भवति । <note>**सहकारिकारणस्य नित्यम् अपादानसंज्ञा एव भवेत् इति न आवश्यकम्** । कारकप्रकरणम् एकसंज्ञाधिकारे विद्यते, अतः अग्रे विद्यमानाः सम्प्रदानादिसंज्ञाः परत्वात् एकसंज्ञाधिकारत्वात् च अपादानसंज्ञां अवश्यं बाधितुम् अर्हन्ति । अतएव घटनिर्माणे अग्नेः अपादानसंज्ञां बाधित्वा करणसंज्ञा भवति, एवमेव देवदत्तस्य अपादानसंज्ञां बाधित्वा कर्तृसंज्ञा विधीयते ।</note>

सिद्धान्तकौमुद्यां भट्टोजिदीक्षितः अस्य सूत्रस्य <ex>ब्रह्मणः प्रजा: प्रजायन्ते</ex> इति उदाहरणं पाठयति । अस्य उदाहरणस्य द्वेधा अर्थसङ्गतिः सम्भवति -

1. “ब्रह्मन्” इति शब्दः परब्रह्म अस्मिन् अर्थे स्वीक्रियते चेत् “इयं सर्वा प्रजा ब्रह्मणः एव अंशः” इत्यस्मिन् अर्थे “ब्रह्मन्” इत्यस्य उपादानत्वेन प्रकृतसूत्रेण अस्य अपादानसंज्ञा भवितुम् अर्हति । अथवा, 2. “ब्रह्मन्” इति शब्दः ब्रह्मदेवः अस्मिन् अर्थे स्वीक्रियते चेत् प्रजानिर्माणे ब्रह्मणः सहकारिकारणत्वं सिद्ध्यति, यतः ब्रह्मदेवात् साक्षात् सम्पूर्णा सृष्टिः न निर्मिता, अपितु ब्रहदेवात् मनोः शतरूपायाः च निर्माणम्, ततः च ताभ्याम् अन्येषाम् निर्माणम् जातम् । अत्रापि अस्य सहकारिकारणस्य प्रकृतसूत्रेण अपादानसंज्ञा सिद्ध्यति ।

<note>अस्य सूत्रस्य विषये भाष्ये केवलम् उपादानकारणस्य एव उदाहरणानि लभ्यन्ते । अतएव अस्य सूत्रस्य प्रयोगः केवलम् उपादानकारणस्य विषये एव भवति, सहकारिकारणस्य विषये न - इति पक्षः कैयटेन, नागेशेन च स्वीकृतः वर्तते । अस्मिन् विषये अधिकं पिपठिषवः प्रदीपोद्द्योतं, लघुशब्देन्दुशेखरं च पश्येयुः । काशिकायां तु द्वौ अपि पक्षौ उक्तौ स्तः । कौमुद्याम् अपि उभयोः तादृशमेव उदाहरणं दत्तं वर्तते येन उभयोः अपि पक्षयोः साधुत्वं वक्तुं शक्यम् । </note>

<hlb>गोमयात् वृश्चिकः जायते</hlb> इति उदाहरणम्

प्रकृतसूत्रे काशिकायाम्, भाष्ये च <ex>गोमयात् वृश्चिकः जायते</ex> (A scoprion is created from cow-dung) इति उदाहरणं दत्तम् अस्ति । यद्यपि गोमयात् वृश्चिकस्य निर्माण नैव शक्यम्, तथापि लोके सामान्यतः गोमयात् एव वृश्चिकं बहिः आगतं दृष्ट्वा जनाः (कथञ्चित्) गोमयम् वृश्चिकस्य उपादानकारणरूपेण एव स्वीकुर्वन्ति । एवमेव भाष्ये <ex>अविलोमभ्यः दूर्वाः जायन्ते</ex> इति अपरम् उदाहरणम् अपि दत्तम् अस्ति । “अविः” इत्युक्ते मेषः । “मेषस्य लोमानि (केशाः) भूमौ निखन्यन्ते (burried) चेत् तेभ्यः दूर्वाः उद्भवन्ति” इति सामान्यतः लोके स्वीक्रियते, अतः अत्रापि “अवि-लोमानि” इति दूर्वाणाम् उपादानकारणरूपेण एव भाष्ये निर्दिष्टानि सन्ति ।

** भाष्ये सूत्रस्य प्रत्याख्यानम्**

भाष्यकारेण “इदं सूत्रम् अनावश्यकम् अस्ति” इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् - <source> अयमपि योगः शक्योऽवक्तुम् । कथं गोमयाद्वृश्चिको जायते। गोलोमाऽविलोमभ्यो दूर्वा जायन्ते इति ? अपक्रामन्ति तास्तेभ्यः । <light>- महाभाष्यम्</light> </source> <ex>गोमयात् वृश्चिकः जायते</ex> इत्यादिषु उदाहरणेषु वृश्चिकाः गोमयात् बहिः आगत्य पृथक् भवन्ति, अतश्च अत्र अपायः अवश्यम् गर्भितः अस्ति । किञ्च, <ex>मृदः घटः जायते</ex> इत्यादिषु उदाहरणेषु अपि “मृत्”-पदार्थात् “घट”-पदार्थस्य बुद्ध्या पृथक्करणं कृत्वा ततः एव “घट” इति भिन्नं नाम दीयते, अतश्च तत्रापि अपायः अवश्यमेव दृश्यते । अतश्च इदम् उपात्तविषयम् अपादानम् इत्येव मत्त्वा ध्रुवमपायेऽपादानम्>> (1.4.24) इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , तदर्थम् पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।

Vasu English Summary

The prime cause of the agent of the verb जन् ‘to be born’, is called अपादान।

Vasu English Translation

The prime cause of the agent of the verb जन् ‘to be born’, is called अपादान। That which is the Agent (कर्ता) of the verb jan, is called जनिकर्ता. That which is the prime-cause (प्रकृति) of the agent (or product) of the root jan is put in the ablative case. As शृङ्गाच्छरो जायते, the arrow is produced from horn गोमयाद् वृश्चिको जायते the scorpion is produced from cowdung.

Bhashya

जनिकर्तुः प्रकृतिः (270) अयमपि योगः शक्योऽवक्तुम् । कथं गोमयाद्वृश्चिको जायते। गोलोमाऽविलोमभ्यो दूर्वा जायन्ते इति ? अपक्रामन्ति तास्तेभ्यः । यद्यपक्रामन्ति किं नात्यन्तायाऽपक्रामन्ति ? सन्ततत्वात् । अथवाऽन्याश्चाऽन्याश्च प्रादुर्भवन्ति ॥ 30 ॥

Kashika

जनेः कर्ता जनिकर्ता। जन्यर्थस्य जन्मनः कर्ता जायमानः, तस्य या प्रकृतिः कारणं हेतुः, तत् कारकमपादानसंज्ञं भवति। शृङ्गाच् छरो जायते। गोमयाद् वृश्चिको जायते॥

Siddhanta Kaumudi

जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ॥

Balamanorama

जनिकर्त्तुः प्रकृतिः - जनिकर्तुः प्रकृतिः । जनिर्जननमुत्पत्तिः ।जनी प्रादुर्भावे॑दैवादिकोऽकर्मकः । ‘इण्जादिभ्यः’ इति भावे इण् ।जनिवध्योश्चे॑ति निषेधान्नोपधावृद्धिः । जनेः कर्तेति विग्रहः । शेषषष्ठआ समासः ।तृजकाभ्यां कर्तरी॑ति निषेधस्तु कारकषष्ठआ एवेति वक्ष्यते । जायमानस्येति । जनधातोः कर्तरि लटश्शानच्, श्यन्, ‘ज्ञाजनोर्जा’आने मुक् । उत्पत्त्याश्रयस्येत्यर्थः । प्रकृतिशब्दं व्याचष्टे-हेतुरिति । ब्राहृण इति । हिरण्यगर्भादित्यर्थः । घटादिषु कुलालादिवत्तस्य प्रजोत्पत्तौ निमित्तकारणत्वमिति भावः । वृत्तिकृन्मतमेतदयुक्तम्, संयोगविश्लेषसत्त्वेन ‘ध्रुवमपाये’ इत्येव सिद्धत्वात् । अतोऽत्र मूले हेतुशब्द उपादानकारणपर एव । अत एव भाष्यकैयटयोःगोमायाद्वृश्चिका जायन्ते॑ गोलोमाऽविलोमभ्यो दूर्वा जायन्ते॑ इत्युदाहृत्य परिणामेषु प्रकृतिद्रव्यवायवानुस्यूतिसत्त्वेऽपि बुद्धिकृतविश्लेषसत्त्वात् ‘ध्रुवमपाये’ इत्येव सिद्धमिति प्रत्याख्यानं सङ्गच्छते । एवं चब्राहृणः प्रजाः प्रजायन्ते॑ इत्यत्र ब्राहृशब्देन मायोपहितमीआरचैतन्यमेव विवक्षितम् । तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः ।

Tattvabodhini

जनिकर्त्तुः प्रकृतिः - जनिकर्तुः । जननं जनिः — उत्पत्तिः ।इञजादिभ्यः॑इति जनेर्भावे इञ् ।जनिवध्योश्च॑इति वृद्धिप्रतिषेधः । तस्याः कर्तेति शेषषष्ठआ समासो, न तु कारकषष्ठआ,॒तृताभ्याम् -॑इति यथा । तदेतदाह — जायमानस्येति । एतेनइक्श्तिपौ धातुनिर्देशे॑इति इका निर्देशोऽयं जनिरित्याश्रित्यगमहन -॑ इत्युपधालोपमर्थाऽसङ्गतिं समासानुपपतिंत चोद्भाव्य व्याकरणाधिकरणे जरन्तो मीमांसकाः समाहिता इति भावः । इह प्रकृतिग्रहणं हेतुमात्रपरमिति वृत्तिकृन्मतम्,पुत्रात् प्रमोदो जायते॑ इत्युदाहरणात् । उपादानमात्रपरमिति तु भाष्यकैयटमतं, तदुभयसाधारणमुदाहरणमाह — ब्राहृण इति । ब्राहृआ=हिरण्यगर्भ- । स च हेतुरेव न तूपादानम् । किंच मायोपहितं चैतन्यं ब्राहृ, तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः ।

Padamanjari

जनेः कर्ता जनिकर्तेति कर्मणि षष्ठयाः समासः। अयमेव च निर्देशो ज्ञापयति-कर्तरि च इति प्रतिषेधोऽनित्य इति। कः पुनरसावित्यत आह-जन्यर्थस्येति। एतदुक्तं भवति-जनिशब्दोऽयमिणजादिभ्यः इति जनेर्भाव इञमुत्पाद्य व्युत्पादितः। जनिवध्योश्च इति वृद्धिप्रतिषेधो जन्यार्थवाची, न तु इश्तिपौ धातुनिर्देशे इति इक्प्रत्ययान्तः, गमहन इत्युपधाया लोपप्रसङ्गात् । नाप्यागन्तुकेनेकारेण धातोर्निर्देशः; शब्दात्मकस्य धातोः कर्त्रा सम्बन्धायोगात्। अथाप्यर्थद्वारको योगः स्याद्? एवमपि धातुनिर्देशे तस्यैव प्रयोगे स्याद्, न पर्यायस्य; अङ्गादङ्गास्तम्भवोऽस्तीति। अर्थग्रहणे त्वत्रापि भवतीति। प्रकृतिरित्यस्य विवरणम् - कारणमिति। उपादानकारणमित्यर्थः। अन्ये तु ध्रुवग्रहणानुवृतेरेव प्रकृतिपरिग्रहे सिद्धे प्रकृतिग्रहणं कारणमात्रपरिग्रहार्थं वर्णयन्ति। अत एव वृतावुक्तम्-कारणमिति, न पुनरुपादानकारणमिति। तेन च पुत्रात्प्रमोदो जायत इत्यादावपि भवतीति। किं पुनः सत् जायते उतासत्? न तावत्सत्; जन्मवैयर्थ्यात्। यदि जन्मनः प्रागेव सत्, किं जन्मना? अथैवमपि जन्म, जायस्व जायस्वेत्येव घटो जायते। नाप्यसत्; असतः कर्तृत्वायोगात्, शशविषणादेरपि जन्मप्रसङ्गच्च। उक्तमत्र - पूर्वावस्थामविजहत्संस्पृशन् धर्ममुतरम्। संमूर्च्छित इवार्थात्मा जायमानोऽभिछीयते॥ इति। एतच्च आन्महतः इत्यत्रोपपादयिष्यामः। किञ्चास्माकमनेन दुस्तर्केण, अस्ति तावत् ‘शृङ्गाच्छरो जायते’ इति प्रयोगः, स उपपादनीय इत्येतावत्! अयमपि प्रपञ्चः। लोके हि यद्यस्माज्जायते तततो निर्गच्छतीत्युच्यते, लोकप्रसिद्ध्यनुसारेण शब्दप्रयोगः, अर्थतत्वं तु तथा भवत्वन्यथा वा॥

Nyaas

जनिशब्दोऽत्र साहचर्याज्जन्यर्थे वर्तते। अत एवाह - जन्यर्थस्य इति। जन्मनः इति। एतेन जन्यर्थं दर्शयति। तथा हि - जनी प्रादुर्भावे (धातुपाठः-1149) इति पठ्यते। प्रादुर्भावो जन्म एव। कः पुनस्तस्य कर्तेत्यत आह - जायमानः इति। ज्ञाजनोर्जा (7.3.79) इति जादेशः। अथ प्रकृतिग्रहणं किमर्थम्? यावता ध्रुवमित्यनुवर्तते, ध्रुवञ्चावधिभुतमित्युक्तम्। जनिकर्त्तृश्चावधिः कारणमेव भवति; तत्रान्तरेणापि प्रकृतिग्रहणं प्रकृतेरेव भविष्यति, नैतदस्ति; पुत्रात् प्रमादो जायत इत्यादौ पुत्रादेरप्यपादानासंज्ञा यथा स्यादित्येवमर्थं प्रकृतिग्रहणम्। द्विविधं हि कारणम् - उपादानकारणम्, सहकारिकारणञ्च। तत्र यत् कार्येणाभिन्नदेशं तदुपादानकारणम्, यथा- घटस्य मृत्पिण्डः। सहकारिकारणं यत् कार्येण भिन्नदेशम्, यथा - तस्यैव दण्डचक्रादि। तत्रासति प्रकृतिग्रहणे प्रत्यासत्तेरुपादानकारणस्यैव स्यात्, नेतरस्य। प्रकृतिग्रहणे तु सति सर्वस्यैव कारणमात्रस्य भवति॥

Praudhamanorama

जननं जनिरुत्पत्तिः। ‘इञजादिभ्यः’(वा.) इति जनेर्भावे इञ्, ‘जनिघसिभ्यामिण्’ इत्युणादिसूत्रेण इण् वा। ‘जनिवध्योश्च’ इति वृद्धिप्रतिषेधः। तस्याः कर्तेति शेषषष्ठ्या समासः। तथा च धात्वन्तरयोगेऽपि भवति। ‘अङ्गादङ्गात्सम्भवसि’ इति यथा। तदेतदाह- जायमानस्येति। एतेन ‘इक्श्तिपौ धातुनिर्देशे’ इति इका निर्देशोऽयमित्याश्रित्य ‘गमहन’ इत्युपधालोपप्रसङ्गमर्थासङ्गतिं समासानुपपत्तिं चोद्भावयन्तो मीमांसावार्तिककाराः समाहिता इति भावः। इह सूत्रे प्रकृतिग्रहणं हेतुमात्रपरमिति वृत्तिकृन्मतम्, ‘पुत्रात्प्रमोदो जायते’ इत्युदाहरणम्। उपादानमात्रपरमिति तु भाष्यकैयटमतम्। तदुभयसाधारणमुदाहरणमाह— ब्रह्मण इति। ब्रह्मा= हिरण्यगर्भः। स च हेतुरेव, न तूपादानम्। किं च ब्रह्म= मायाशबलम्, तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः।

Prakriyasarvasvam

जायमानस्य कारणमपादानम् । समुद्राद्रमा जाता ।

Sutra Prayogas

  • वायोर्जातस् (भट्टिकाव्यम्): जनिकर्तुः प्रकृतिः इति अपादानसंज्ञा।