14021: बहुषु बहुवचनम्¶
Padacheda: बहुषु | S | 7 | 3 |
बहुवचनम् | S | 1 | 1 |
Sutrartha¶
बहुत्वस्य निर्देशार्थम् बहुवचनसंज्ञकप्रत्ययाः प्रयुज्यन्ते । यथा - बालाः गच्छन्ति ।
यत्र बहुत्वस्य (इत्युक्ते, एकत्वं द्वित्वं च विहाय अन्यसङ्ख्यात्वस्य) निर्देशः करणीयः, तत्र बहुवचनसंज्ञकप्रत्ययाः एव प्रयोक्तव्याः - इति अस्य सूत्रस्य आशयः । यथा, <ex>बालाः गच्छन्ति</ex> इत्यत्र बालकानां बहुत्वनिर्देशार्थम् “बाल”-प्रातिपदिकात् बहुवचनसंज्ञकः “जस्”-प्रत्ययः प्रयुक्तः अस्ति, तथा च गमनक्रियायाः कर्तॄणाम् बहुत्वस्य निर्देशार्थम् “गम्”-धातोः बहुवचनसंज्ञकः “झि” इति प्रत्ययः प्रयुक्तः अस्ति ।
बहुवचनम् इति संज्ञा
अष्टाध्याय्याम् बहुवचनम् इति संज्ञा द्वाभ्यां सूत्राभ्यां पाठ्यते -
<li>1. तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) इति सूत्रेण आहत्य झि, थ, मस्, झ, ध्वम् तथा च महिङ् इति षण्णाम् “तिङ्”-प्रत्ययानाम् <hlb>बहुवचनम्</hlb> इति संज्ञा विधीयते । <li>2. सुपः (1.4.103) इति सूत्रेण आहत्य जस्, शस्, भिस्, भ्यस्, भ्यस्,**आम्** तथा च सुप् इति सप्तानां “सुप्”-प्रत्ययानाम् <hlb>बहुवचनम्</hlb> इति संज्ञा विधीयते ।
एतेषाम् बहुवचनसंज्ञकप्रत्ययानां प्रयोगः कुत्र करणीयः इत्यस्मिन् विषये प्रकृतसूत्रेण - यत्र बहुवचनस्य विवक्षा अस्ति, तत्रैव बहुवचनस्य प्रत्ययः प्रयोक्तव्यः - इति नियमः कृतः अस्ति । अतः **इदं नियमसूत्रम् **।
सर्वेषाम् कारकाणाम् बहुवचनविवक्षा वर्तते
प्रकृतसूत्रस्य काशिकाव्याख्याने ग्रन्थकारः ब्रूते - <inline>कर्मादिषु बहुषु बहुवचनम्</inline> । सर्वषाम् अपि कारकाणाम् बहुवचनत्वविवक्षा सम्भवति, तदर्थं च बहुवचनस्य प्रत्ययाः एव प्रयुज्यन्ते इति अस्य अर्थः । एवमेव न, अपितु सम्बन्धस्य, प्रातिपदिकमात्रस्य च बहुत्वनिर्देशार्थम् अपि बहुवचनस्य प्रत्ययाः प्रयुज्यन्ते । तद्यथा -
<li>1. <ex>बालैः गम्यते</ex> इत्यत्र कर्तृकारकस्य बहुत्वनिर्देशार्थम् “बाल” इति प्रातिपदिकात् “भिस्” इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । <li>2. <ex>ग्रन्थान् पठति</ex> इत्यत्र कर्मकारकस्य बहुत्वनिर्देशार्थम् “ग्रन्थ” इति प्रातिपदिकात् “शस्” इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । <li>3. <ex>पादैः चलति</ex> इत्यत्र करणकारकस्य बहुत्वनिर्देशार्थम् “पाद” इति प्रातिपदिकात् “भिस्” इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । <li>4. <ex>ब्राह्मणेभ्यः ददाति</ex> इत्यत्र सम्प्रदानकारकस्य बहुत्वनिर्देशार्थम् “ब्राह्मण” इति प्रातिपदिकात् “भ्यस्” इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । <li>5. <ex>ब्राह्मणेभ्यः स्वीकरोति</ex> इत्यत्र अपादानकारकस्य बहुत्वनिर्देशार्थम् “ब्राह्मण” इति प्रातिपदिकात् “भ्यस्” इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । <li>6. <ex>ग्रामेषु विहरति</ex> इत्यत्र अधिकरणकारकस्य बहुत्वनिर्देशार्थम् “ग्राम” इति प्रातिपदिकात् “सुप्” इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । <li>7. <ex>देवानां राजा</ex> इत्यत्र सम्बन्धस्य निर्देशार्थम् “देव” इति प्रातिपदिकात् “आम्” इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति । <li>8. <ex>बालाः गच्छन्ति</ex> इत्यत्र प्रातिपदिकमात्रस्य बहुत्वनिर्देशार्थम् “बाल” इति प्रातिपदिकात् “जस्” इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति ।
बहुत्वभिन्नस्थलेषु अपि बहुवचनस्य प्रयोगः
कुत्रचित् बहुत्वं विना अपि विकल्पेन बहुवचनस्य प्रयोगः सम्भवति । तदर्थम् अष्टाध्याय्यां त्रीणि सूत्राणि पाठितानि सन्ति -
जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् (1.2.58) इति सूत्रेण जातिनिर्देशार्थम् विकल्पेन बहुवचनं प्रयोक्तुं शक्यते । यथा - <ex>ब्राह्मणाः पूज्याः</ex> । अत्र “अनेके ब्राह्मणाः पूज्याः” इति अर्थः विवक्षितः नास्ति, अपितु “ब्राह्मणजातिः पूज्या” इति अर्थः विवक्ष्यते ।
अस्मदो द्वयोश्च (1.2.59) इति सूत्रेण “अस्मद्”-शब्दस्य सन्दर्भेण एकत्वविवक्षायां द्वित्वविवक्षायां च विकल्पेन बहुवचनस्य प्रयोगः सम्भवति । यथा - एकः एव मनुष्यः स्वस्य निर्देशं कुर्वन् <ex>वयं ब्रूमः</ex> इति वक्तुम् अर्हति । एवमेव द्वौ जनौ अपि <ex>पुनः मिलामः</ex> इति वदतः चेत् तद् साधु एव ।
फल्गुनीप्रोष्ठपदानां च नक्षत्रे (1.2.60) इति सूत्रेण “फल्गुनी” तथा च “प्रोष्ठपद” इत्येतयोः नक्षत्रयोः निर्देशः विकल्पेन बहुवचनप्रत्ययेन अपि सम्भवति । यथा - <ex>कदा पूर्वाः फल्गुन्यः</ex>, <ex>कदा पूर्वाः प्रोष्ठपदाः</ex> ।
भाषाविशेषः - आदरार्थे बहुवचनम्
अद्यतनकाले आदरस्य निर्देशार्थम् लोके एकत्वे विवक्षिते अपि बहुवचनम् एव प्रयुक्तम् दृश्यते । यथा, एकसङ्ख्यात्मकम् अपि गुरुम्, ज्येष्ठम् वा उद्दिश्य <ex>भवन्तः कथम् सन्ति</ex>, <ex>भवद्भ्यः नमः</ex>, <ex>आचार्याः वदन्ति</ex> इत्यादयः प्रयोगाः प्रसिद्धाः सन्ति । एतेषां साधुत्वार्थम् अस्मदो द्वयोश्च (1.2.59) इति सूत्रस्य साहाय्यं स्वीक्रियते । अस्मिन् सूत्रे विद्यमानः चकारः अनुक्तसमुच्चयार्थः अस्ति इति मत्वा अनेन चकारेण एतादृशानां प्रयोगाणाम् सङ्ग्रहः भवति इति अत्र शिष्टानाम् अभिप्रायः अस्ति ।
Sutrartha (English)¶
For referring to many, the बहुवचन forms are used.
Vasu English Summary¶
In expressing multeity, a Plural case affix is employed.
Vasu English Translation¶
In expressing multeity, a Plural case affix is employed. When it is intended to denote multeity those affixes should be employed after nouns and verbs, which denote plural number. Thus ब्राह्मणाः पठन्ति, The Brahmins read.
This rule applies to words which are capable of expressing numbers. Indeclinables (Avyaya) do not admit of numbers, and consequently they are always in singular number which is the general form.
Bhashya¶
बहुषु बहुवचनम् (261) बहुषु बहुवचनमित्युच्यते । केषु बहुषु ? अर्थेषु । यद्येवं वृक्षः प्लक्षः अत्रापि प्राप्नोति । बहवस्तेऽर्थाः - मूलं स्कन्धः फलं पलाशमिति । एवं तर्हि एकवचनं द्विवचनं बहुवचनमिति शब्दसंज्ञा एताः । येष्वर्थेषु स्वादयो विधीयन्ते तेषु बहुषु । केषु च स्वादयो विधीयन्ते ? कर्मादिषु । न वै कर्मादयो विभक्त्यर्थाः । के तर्हि ? एकत्वादयः । एकत्वादिष्वपि वै विभक्त्यर्थेष्ववश्यं कर्मादयो निमित्तत्वेनोपादेयाः - कर्मण एकत्वे, कर्मणो द्वित्वे, कर्मणो बहुत्वे इति । स तर्हि तथा निर्देशः कर्तव्यः। न ह्यन्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देशः । इह च इत्येके मन्यन्ते तदेके मन्यन्ते इति परत्वादेकवचनं प्राप्नोति। बहुषु बहुवचनमित्येष योगः परः करिष्यते । सूत्रविपर्यासः कृतो भवति । इह च बहुरोदनो बहुः सूप इति परत्वाद् बहुवचनं प्राप्नोति । नैषः दोषः । यत्तावदुच्यते - न ह्यन्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देश इति, तन्न । अन्तरेणापि भावप्रत्ययं गुणप्रधानो भवति निर्देशः । कथम् ? इह कदाचिद्गुणो गुणिविशेषको भवति । तद्यथा - पटः शुक्लः इति । कदाचिच्च गुणिना गुणो व्यपदिश्यते - पटस्य शुक्लः इति । तद्यदा तावद्गुणो गुणिविशेषको भवति पटः शुक्लः इति तदा सामानाधिकरण्यं गुणगुणिनोः,तदा नान्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देशः । यदा तु गुणिना गुणो व्यपदिश्यते पटस्य शुक्लः इति स्वप्रधानस्तदा गुणो भवति - - तदा द्रव्ये षष्ठी,तदाऽन्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देशः । न चेह वयमेकत्वादिभिः कर्मादीन्विशेषयिष्यामः । किं तर्हि ? कर्मादिभिरेकत्वादीन्विशेषयिष्यामः । कथम् ? एकस्मिन्नेकवचनम् । कस्यैकस्मिन् ? कर्मणः । द्वयोर्द्विवचनम् । कयोर्द्वयोः ? कर्मणोः । बहुषु बहुवचनम् । केषां बहुषु ? कर्मणामिति ॥ कथं बहुषु बहुवचनमिति ? एतदेव ज्ञापयत्याचार्यः - नानाधिकरणवाची यो बहुशब्दस्तस्येदं ग्रहणम्। न वैपुल्यवाचिनः इति । किमेतस्य ज्ञापने प्रयोजनम् ? यदुक्तं बहुरोदनो बहुः सूप इति परत्वाद्बहुवचनं प्राप्नोतीति न स दोषो न भवति । यदप्युच्यते - इत्येके मन्यन्ते, तदेके मन्यन्ते इति परत्वादेकवचनं प्राप्नोतीति। नैषः दोषः । एकशब्दोऽयं बह्वर्थः । अस्त्येव संख्यावाची । तद्यथा - एको द्वौ बहव इति । अस्त्यसहायवाची । तद्यथा - एकाग्नयः। एकहलानि एकाकिभिः क्षुद्रकैर्जितमिति । अस्त्यन्यार्थे वर्तते । तद्यथा - सधमादो द्युम्न एकास्ताः । अन्या इत्यर्थः । तद्योऽन्यार्थे वर्तते तस्यैव प्रयोगः । किमर्थं पुनरिदमुच्यते ? सुप्तिङामविशेषेण विधानाद् दृष्टविप्रयोगाच्च नियमार्थं वचनम् ॥ 1 ॥ सुपोऽविशेषेण प्रातिपदिकमात्राद्विधीयन्ते। । तिङोऽविशेषेण धातुमात्राद्विधीयते। तत्रैतत्स्याद्यद्यप्यविशेषेण विधीयन्ते नैव विप्रयोगो लक्ष्यते इति । दृष्टविप्रयोगाच्च । दृश्यते खल्वपि विप्रयोगः । तद्यथा - अक्षीणि मे दर्शनीयानि पादा मे सुकुमाराः इति । सुप्तिङोरविशेषविधानाद् दृष्टविप्रयोगत्वाच्च व्यतिकरः प्राप्नोति । इष्यते चाऽव्यतिकरः स्यादिति। तच्चाऽन्तरेण यत्नं न सिध्यतीति नियमार्थं वचनम् । एवमर्थमिदमुच्यते । अथैतस्मिन्नियमार्थे सति किं पुनरयं प्रत्ययनियमः - एकस्मिन्नेवैकवचनं, द्वयोरेव द्विवचनं, बहुष्वेव बहुवचनमिति । आहोस्विदर्थनियमः - एकस्मिन्नेकवचनमेव, द्वयोर्द्विवचनमेव, बहुषु बहुवचनमेवेति । कश्चात्र विशेषः ? तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञाऽभावोऽसुबन्तत्वात् ॥ 2 ॥ तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञा न प्राप्नोति - उच्चैः नीचैरिति । किं कारणम् ? असुबन्तत्वात् । अर्थनियमे सिद्धम् ॥ 3 ॥ अर्थनियमे सिद्धं भवति । अस्त्वर्थनियमः । अथ वा पुनरस्तु प्रत्ययनियमः । ननु चोक्तम् - ।तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञाभावोऽसुबन्तत्वादिति । नैषः दोषः । सुपां कर्मादयोऽप्यर्थाः संख्या चैव, तथा तिङाम् ॥ 4 ॥ सुपां संख्या चैवाऽर्थः कर्मादयश्च । तथा तिङाम् । प्रसिद्धो नियमस्तत्र ॥ 5 ॥ प्रसिद्धस्तत्र नियमः । नियमः प्रकृतेषु वा ॥ 6 ॥ अथ वा प्रकृतानर्थानपेक्ष्य नियमः । के च प्रकृताः ? एकत्वादयः । एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु । द्वयोरेव द्विवचनं नैकस्मिन्न बहुषु । बहुष्वेव बहुवचनं न द्वयोर्नैकस्मिन्निति । अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति - उत्पद्यन्तेऽव्ययेभ्यः स्वादयः इति। यदयम् - अव्ययादाप्सुपः (2.4.82) इत्यव्ययाल्लुकं शास्ति ॥ 21 ॥ इति श्रीभगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमाध्यायस्य चतुर्थेपादे द्वितीयमाह्निकम् ।
Kashika¶
ङ्याप्प्रातिपदिकात् स्वादयः, लस्य तिबादय इति सामान्येन बहुवचनं विहितम्, तस्यानेन बहुत्वसंख्या वाच्यत्वेन विधीयते। बहुषु बहुवचनं भवति। बहुत्वमस्य वाच्यं भवतीति यावत्। कर्मादयोऽप्यपरे विभक्तीनामर्था वाच्याः, तदीये बहुत्वे बहुवचनम्। कर्मादिषु बहुषु बहुवचनमित्यर्थः। ब्राह्मणाः पठन्ति। यत्र च संख्या संभवति तत्रायमुपदेशः। अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव॥
Siddhanta Kaumudi¶
बहुत्वे एतत्स्यात् । रुत्वविसर्गौ । रामः ॥
Laghu Siddhanta Kaumudi¶
बहुत्वविवक्षायां बहुवचनं स्यात्॥
Balamanorama¶
बहुषु बहुवचनम् - बहुषु । पूर्वसूत्राऽवैरूप्यायेहापि बहुशब्दो बहुत्वपर इत्याह — बहुत्व इति । नचात्र सूत्रे बहुशब्दस्य बहुत्वपरत्वेऽपि बहुत्वस्य एकत्वाद्बहुष्विति बहुवचनं कथमिति शङ्क्यम्, बहुत्वसंख्याधरद्रव्यगतबहुत्वस्य बहुत्वगुणे आरोपेण तदुपपत्तेः । बहुत्वं च त्रित्वचतुष्ट्वादिपराद्र्धसङ्ख्याव्यापकीभूतधर्मविशेषः, नतु त्रित्वाद्यन्यतममित्येकादशस्य प्रथमेबहुवचनेन सर्वप्राप्तेर्विकल्पः स्या॑दिति कपिञ्जलाधिकरणे तद्भाष्यवार्तिकयोः स्थितम् । प्रपञ्चितं चास्माभिरध्वरमीमांसाकुतूहलवृत्तौ । एवंच बहुरोदन इति वैपुल्यवाचिनो बहुशब्दान्न बहुवचनम् । द्वयेकयोरित्यादिप्रायपाठबलेन सङ्ख्यानियतस्यैव तथाविधबहुत्वस्यात्र विवक्षितत्वात् । एकस्यामेव स्त्र्यादिव्यक्तौ दारा इत्यादिप्रयोगे त्ववयवबहुत्वस्यावयविन्यारोपाद्बहुवचनं कोशवृद्धव्यवहारबलादित्यलम् । रुत्वविसर्गाविति । रामशब्दात्प्रथमाविभक्तौ एकवचने सुप्रत्यये सति, उकारस्य इत्त्वेन लोपे,ससजुषो॑रिति रुत्वे,खरवसानयो॑रिति विसर्ग इत्यर्थः । स इत्युकारस्तु अर्वणस्त्रसावित्यादौ विशेषणार्थः । असीत्युक्ते हि असकारादावित्यर्थः स्यात् । ततश्च वाजमर्वत्सु इत्यत्र अर्वणस्तृविधिर्न प्रवर्तेत । नचात्र रोरसुप्त्वात्तदन्तस्य पदत्वाऽभावाद्रेफस्य पदान्तत्वाऽभावात्कथमिह विसर्ग इति वाच्यम् । स्थानिवद्भावेन रोः सुप्त्वात् । नच स्थानिवद्भावे कर्तव्ये त्रैपादिकस्य रोरसिद्धत्वं शङ्क्यम्,इदुदुपधस्य चाप्रत्ययस्ये॑त्यप्रत्ययग्रहणेन स्थानिवत्त्वातिदेशे रोरसिद्धत्वाऽभावज्ञापनात् । तत्र ह्रप्रत्ययग्रहणमग्निᳵकरोति, कविभिᳵकृतमित्यादौ विसर्गपर्युदासार्थम् । स्थानिवत्त्वे कर्तव्ये रोरसिद्धत्वे तु तत्र विसर्गस्यैवाऽबावात्तद्वैयथ्र्यं स्पष्टमेवेत्यलम् । राम इति ।रमन्ते योगिनो ।ञनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्राहृआभिधीयते । इति श्रुतिः । ‘करणाधिकरणयोश्च’ इत्यधिकारे ‘हलश्च’ इत्यधिकरणे घञ् । कृत्तद्धितेति प्रातिपदिकत्वम् । अव्युत्पन्नः संज्ञाशब्दो वा । तथा सति अर्थवदिति प्रातिपदिकत्वम् ।
Tattvabodhini¶
बहुषु बहुवचनम् - बहुषु । अयमपि सङ्ख्यापर एवेत्याह — बहुत्व इति । बहुवचनं त्वाश्रयद्रव्यगतबहुत्वं धर्मे आरोप्य कृतम् । तत्फलं तुबहुः परव्त॑ इति वैपुल्यवाचिनो नेह ग्रहणमिति सूचनमेव । वस्तुतो व्यर्थं तत्, परत्वादेकवचनसंभवादिति शब्दकौस्तुभादौ स्थितम् । रुत्वविसर्गाविति । ननु रुत्वस्यासिद्धत्वादुकारस्येत्संज्ञालोपयोरभावात्स्थानिवदादेशः॑ इत्यस्यापि त्रिपाद्यामप्रवृत्त्या रेफान्तस्यसुप्तिङ्न्त॑मिति पदसंज्ञाऽभावेन विसर्गोऽत्र दुर्लभः । विसर्गविधेस्तुपुन॑रित्यादौ चरितार्थत्वादिति चेन्मैवम्,न मु ने॑ इति सूत्रेने॑ति योगं विभज्यअसिद्धं ने॑ति व्याख्यायामिष्टसिद्धिरित्युक्तत्वात् । राम इति । संज्ञाशब्दोऽयमव्युत्पन्न इति पक्षेऽर्थवत्सूत्रेण प्रातिपदिकसंज्ञा,करणाधिकरणयोश्चे॑त्याधिकारे घापवादेनहलश्चे॑ति घञा रमन्तेऽस्मिन्निति व्युत्पादने तुकृत्तद्धिते॑ति सूत्रेणेति विवेकः । अत्र केचित्परिश्कुर्वन्ति — ॒गन्धर्वः शरभो रामः सृमरो गवयः शशः । इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः इत्यमरोक्तया यदि पशुविशेषे प्रयुज्यते तदा रूढोऽयं रामशब्द इत्यर्थवत्सूत्रेण संज्ञा । यदा तु रामचन्द्रे भगवति प्रयुज्यते तदा रमन्ते योगिनोऽस्मिन्निति व्युत्पत्त्याश्रयणात्कृद्धितेति सूत्रेण संज्ञेति । सरूपाणामेकशेषः । इतरनिवृत्तिपूर्वकमवस्थानं शेषशब्दार्थः । न च विरूपेष्वेकशेषाऽप्रवृत्त्याघटकलशा॑विति द्वन्द्वापत्तिरिति शङ्क्यम्,वुरूपाणा॑मिति वार्तिकस्य वक्ष्यमाणत्वात् । वस्तुतस्तु सूत्राक्षरैरेव वार्तिकार्थो लभ्यते । रूप्यते बोध्यते । इति रूपमर्थः, समानं रूपं येषामिति सरूपाः । ज्योतिर्जनपदेत्यादिना समानस्य सभावः । तथा समानं रूपं स्वरूपं येषां ते सरूपाः । सरूपाश्च सरूपाश्च सरूपाः, तेषामित्येकशेषेण व्याख्यानात् । न च स्वाङ्गे स्वव्यापाराऽयोगो वाक्यापरिसमाप्तिन्यायादिति वाच्यम् ; उद्देश्यतावच्छेदकरूपाक्रान्ततया स्वस्मिन्नपि प्रवृत्तेः । अन्यथातुल्यास्यप्रयत्न॑मित्यादौ सवर्णदीर्घो न स्यात् । तथाऽर्थवत्सूत्रान्तर्गतानां प्रातिपदिकत्वं,प्रत्ययः॑परश्चे॑त्यत्र सुप्प्रत्ययः,ससजुषो॑रित्यत्र रुः,खरवसानयो॑रिति सूत्रे विसर्गश्च न स्यादिति सर्वोपप्लवः स्यात् ।स्वाध्यायोऽध्येतव्यः॑ इत्यस्यनेह नाने॑त्यादिश्रुतेश्च स्वस्मिन्नपि यथा प्रवृत्तिस्तथा दीर्घादीनामपीति चेत्तुल्यमेकशेषेऽपि । एतेनऐउ॑णित्यादौआद्गुणः॑ इत्यादिसन्धिकार्यं कुतो नेत्याशङ्कायाम् — ॒वर्णोपदेशकालेऽजादिसंज्ञानामनिष्पादात्सन्धिर्ने॑ति केषाञ्चित्समाधानं परास्तम् । वर्णोपदेशे इत्संज्ञायामत्प्रत्याहारे च निष्पन्ने प्रवर्तमानानां गुणादीनामुपेन्द्र इत्यादौ तटस्थ इव उद्देश्यतावच्छेदकरूपाक्रान्ते वर्णोपदेशादावपि प्रवृत्तेरावश्यकत्वात् । स्यादेतत् — ॒सरूपाणामेक एकविभक्तौ॑ इत्येव सूत्रमस्तु, किमनेनशेष॑ग्रहणेन । अत्राहुः — तथाहि सति सरूपाणां स्थाने एकोऽन्तरतम आदेशो भवतीत्यर्थः स्यात् । तथा चाआश्चाआश्चेत्यत्रोदात्तद्वयवतः स्थाने उदात्तद्वयवानादेशस्तथाऽनुदात्तद्वयवतः स्थानेऽनुदात्तद्वयवानादेशः प्रसज्येतेति । एकविभक्तौ यानीति । विभक्तिः सारूप्ये उपलक्षणं न त्वेकशैषे निमित्तम् । एवं चाऽनैमित्तिकत्वेनान्तरङ्गोऽयमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते । यद्योतन्नारभ्येत तर्हि प्रत्येकं विभक्तिः स्याद्द्वन्द्वश्च प्रवर्तते । आरब्धे त्वेकशेषेऽनेकसुबन्तविरहाद्द्वन्द्वस्य प्राप्तिरेव नास्तीति भावः । ननु सुबुत्पत्तेः प्रागेकशेषप्रवृत्तौ शिष्यमाणं यत्प्रातिपदिकं तदेकमेवार्थं बोधयतीति द्विवचनाद्यनुत्पत्तौरामौ॑र#आमा॑ इत्यादि न सिध्येत् । नैष दोषः, शिष्यमाणस्य लुप्यमानार्थाभिधीयित्वात् । अतएवकृत्तद्धितसमासैकशेषे॑त्येकशेषो वृत्तषु गण्यते । परार्थाभिधानं हि वृत्तिः । अतएव च लुप्तेऽपि प्रत्यये॒लिङ्॒धु॑गित्यादौ कर्ता प्रतीयत इति दिक् ।
Padamanjari¶
बहुवचनं विहितमिति। ततश्च तस्य विधेयविभक्तिनिर्द्दिष्टस्यापि प्राप्तत्वादनुवाद्यत्वम्, न तु विधेयत्वमिति भावः। बहुत्वसंख्यानुभूतविभक्तिर्निर्दिष्टाप्यप्रत्वाद्विधीयत इत्याह-तस्यानेनेति। इहं चापरमनेन ग्रन्थेन दर्शितम्-स्वादिविधिवाक्येन हि भिन्नमेतद् वाक्यम्,। तत्रापि विध्यर्थं न तु नियमार्थमिति। यदाह-बहुवचनं विहितमिति। बहुत्वसंख्यावाच्यत्वेन विधीयत इति च। यदि पुनरेकवाक्यतया विशिष्टविधिः स्याद्,इतरेतरश्रयं प्राप्नोति-विहितानां जसादीनां बहुवचनसंज्ञा,संज्ञया च विधानमिति। किं चाव्ययेभ्यो निःसंभ्यः स्वदयो न स्युरतो भिन्नवाक्यत्वमेव युक्तम्,तत्रापि विध्यर्थत्वमेव। इह केचिन्मन्यन्ते-स्वार्थद्रव्यलिङ्गसंख्याकर्माद्यात्मकः पञ्चकः प्रातिपदिकार्थ इति। आदितस्त्रिक इत्यन्ये। तत्र शब्दप्रवृत्तिनिमितं स्वार्थः, स चानेक प्रकारः- स्वरूपं जातिर्गुणः क्रिया द्रव्यं सम्बन्धश्चेति, डित्थो गौः शुक्लः पाचकः यष्टिः पुरुषः दण्डीति। जात्यादिशब्देष्वपि जात्यादिमात्रनिष्ठेषु स्वरूपमेव प्रवृत्तिनिमितम्। अभिधानाभिधेययोरभेदाध्यासात् शब्दरूपानुरक्तोऽर्थोऽभिधीयते। अस्य गौरिति नाम, अयं गौरिति च प्रतीतिवेषो भिद्यते। अत्र हेतुर्वैयधिकरण्यम्, सामानाधिकरण्यं च। तत्र जात्यादिवत् स्वरूपमपि शब्दत एव प्रतिपन्नमप्यर्थस्य विशेषणं मन्यन्ते। उक्तं च- ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा। तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति। तेन स्वरूपमपि स्वार्थो युज्यते। स्वार्थस्य यत्र विश्रान्तिर्वाच्यं द्रव्यं तदिष्यते॥ पर्यवसानभूमिरित्यर्थः। तच्चानेकप्रकारम्-जातिर्गुणः क्रिया द्रव्यं स्वरूपमिति; गौ सूक्लः, पाकः, डित्थः’तूष्णीमि भूवः’ इति। लिङ्गं स्त्रीत्वादि। संख्याएकत्वादि, कर्मादयो वक्ष्यमाणाः कारकविशेषाः। तदिह द्वितीयं दर्शनं वृत्तिकारेणाश्रितम्। अन्वयव्यतिरेकाभ्यां हि शब्दार्थनिश्चयः, यस्य शब्दस्यान्वये योऽर्थः प्रतीयते, व्यतिरेके च व्यतिरिच्यते स तस्यार्थः। वृक्षः वृक्षौ इत्यादौ च ततद्वचनान्वये सा सा संख्या प्रतीयते वयतिरेके च व्यतिरिच्यते सत्यपि प्रकृत्यन्वये, तेन मन्यामहे-वचनार्थः संख्येति। तथा वृक्षं वृक्षेण वृक्षायेत्यादौ ततत्रिकान्वये स स कर्मादिः प्रतीयते, व्यतिरेके च व्यतिरिच्यते, तेन मन्यामहे-त्रिकार्थः कर्मादिरिति। यद्यपि पयो दधि मध्वित्यादावन्तरेण वचनमन्तरेण च त्रिकं स सोऽर्थः प्रतीयते, नैतावता विभक्त्यर्थत्वं हीयते , न हि गर्गा इत्यत्रान्तरेणापि यञमपत्यार्थः प्रतीयते इति गार्ग्य इत्यत्रापि प्रकृतेरिवापत्यमर्थ इति युक्तं वक्तुम्, पचति पचतः पचन्तीत्यादौ वचनान्वये संख्यान्वयाद्व्यतिरेके च व्यतिरेकाद् वचनार्थ एव संख्या, न धात्वर्थः। अबिभर्भवानित्यादौ यद्यप्यन्तरेणापि तिण्ंó कर्ता संख्या च प्रतीयते, तथापि नैतावता तर्वत्र प्रकृत्यर्थत्वं यक्तम्। न हि भित्, च्छिदित्यादौ अन्तरेणापि प्रत्ययं कर्ता प्रतीयते इति भेतेत्यादावपि कर्ता प्रकृत्यर्थो भवति। तदेवं त्रिक एव प्रातपिदिकार्थः। धातोश्च क्रियैव वाच्येत्यसत्यस्मिन्ननिर्द्दिष्टार्थत्वात्स्वार्थे त्रिक एव जसादिबहुवचनं स्याद्, न बहुत्व इति बहुत्वसंख्यावाच्यत्वेन विधियते। सूत्रेऽप्यन्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशः, बहुत्व इत्यर्थः। आश्रयागतस्य बहुत्वस्य गुणे आरोपाद् बहुष्विति बहुवचनम्। आरोपस्य प्रयोजनं नानाऽऽधारस्य संख्यारूपस्य बहुत्वस्य ग्रहणं यथा स्यात्। तेनैकाश्रयं वैपुल्यं बहुवचनस्य वाच्यं न भवतिबहुरोदन इति। केचिन्मन्यन्ते-संख्याकर्मादयश्च परस्परमनन्विताः, प्रकृत्यर्थेन चान्विता विभक्तिभिरभिधीयन्ते-वृक्षान्पश्य, कोऽर्थः? बहवो वृक्षाः कर्मेति, न तु कर्मीभूता वृक्षा बहव इति; नापि बहवः कर्मेति। एवमेकवचनेऽपि’पशुना चजेत’ इति पशुरेकः पशुः करणमित्यर्थः, न तु करणीभूतः पशुरेक इति, नाप्येकः पशुः करणमिति करणत्वैकत्वयोर्युगपदभिधानादिति तान्निराकरोति-कर्मादयोऽप्यपर इत्यादि। तदीये बहुत्वे इति। कर्मादिगतमेव बहुत्वं बहुवचनस्य वाच्यम्, न तु केवलप्रातिपदीकार्थगतमित्यर्थः। प्रकृत्यर्थगतमेव बहुत्वं वाच्यम्, वृक्षशब्दस्यावयवी वाच्यः, न त्ववयवा इति द्रव्यपदार्थपक्षे तावद् वृक्षं पश्येति मूलस्कन्धफलपलाशादीनां बहुत्वेऽपि तेषामनभिधेयत्वाद्वहुवचनाभावः। आकृतिपक्षेऽपि प्रत्यासतेस्तदाधारगतं बहुत्वामाश्रीयते न त्ववयवगतम्, भिन्नवाक्यतया विधिरित्युक्तं तत्प्रयोजनमाह यत्र चेत्यादि। भाष्ये तु पञ्चकपक्षाङ्गीकारेण नियमपक्षः स्थापितः। तत्र ह्यनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे इति स्वार्थेऽपि जसादि बहुवचनं बहुत्वेऽपि सिद्धम्, तस्यापि स्वार्थत्वातत्राप्यर्थनियमाद्-बहुषु बहुवचनमेव, द्व्येकयोर्द्विवचनैकवचने एवेति। एवं’कर्मणि द्वितीया’ इत्यादावपि कर्मणि द्वितीयैवेत्येवमादिकोऽर्थनियमो वेदितव्यः। एवं हि प्रत्ययानामनियतत्वादव्ययेभ्ये निःसंख्येभ्यो निष्कारकेभ्यश्च स्वादयः सिद्ध्यन्ति। अथ वा, प्रत्ययनियमः-बहुष्वेव बहुवचनं द्व्येकयोरेव द्विवचनैकवचने। तुल्याजातीयस्य च नियमेन व्यावृत्तिः-बहुष्वेव बहुवचनं न द्व्येकयोः, एकस्मिन्नेवैकवचनं न संख्यान्तरे, द्वयोरेव द्विवचनं न संख्यान्तर इति।’कर्मणि द्वितीया’ इत्यादावप्येवम्-कर्मण्येव द्वितीया, न कारकान्तर इति। एवमपि ह्यव्ययेभ्यः स्वादयः सिद्ध्यन्ति॥
Nyaas¶
तस्यानेन बहुत्वसंख्या वाच्यत्वेन विधीयते इति। एतेन विध्यर्थतामस्य योगस्य दर्शयति। इह केषाञ्चित् स्वार्थद्रव्यलिङ्गसंख्याकर्माद्यात्मकः पञ्चकः प्रातिपदिकार्थः इति दर्सनम्। केषाञ्चित् स्वार्थद्रव्यलिङ्गात्मकस्त्रिकः प्रातिपदिकार्थः इति। तत्र स्वार्थो विशेषणम्; स्वरूपजातिगुणद्रव्याणि। द्रव्यस्तु विशेष्यम्, तत्पुनर्जातिगुणद्रव्याणि। तत्र यदा शब्दस्वरूपेण विशिष्टा जातिरभिधीयते - गौरिति, तदा शब्दस्वरूपं विशेषणत्वात् स्वार्थो भवति; जातिस्तु विशेष्यत्वाद्द्रव्यम्। यदा तु जात्या विशिष्टो गुणोऽभिधीते - पटस्य शुक्लो गुण इति, तदा जातिर्विशेषणत्वात् स्वार्थो भवति; गुणस्तु विशेष्यत्वाद्द्रव्यम्। यदा तु गुणैर्विशिष्टं पटादिकं द्रव्यमुच्यते - शुक्लः पट इति, तदा विशेषणभूतो गुणः स्वार्थो भवति; विशेष्यभूतं पटादिकं द्रव्यमेव। यदा पुनद्र्रव्यमपि द्रव्यान्तरस्य विशेषणभूतं भवति - यष्टीः प्रवेशय, कुन्तान् प्रवेशयेत्यादौ, तदा यष्टआदिकं द्रव्यं विशेषणभावापन्नं स्वार्थः; द्रव्यान्तरं विशेष्यभावापन्नं पुरुषादिकं द्रव्यमेव। क्वचित्सम्बन्धोऽपि स्वार्थो भवति - यत्र सम्बन्धनिमित्तकः प्रत्यय उत्पद्यते, यथा - दण्डी, विषाणीति। अत्र दण्डपुरुषसम्बन्धो विशेषणम्, दण्डीति द्रव्यम्। क्वचित् क्र#इयापि स्वार्थो भवति, यत्र क्रियानिमित्तकः प्रत्ययः उत्पद्यते, यथा - पाचकः, पाठक इति। क्रियाकारकसम्बन्धोऽत्र स्वार्थ इत्यपरे। लिङ्गं स्त्रीत्वादि, संख्यैकत्वादि, कर्मादयो वक्ष्यमाणाः कारकविशेषाः। तत्र पूर्वोक्तयोर्दर्शनयोर्द्वितीयं यद्दर्शनं तदिह वृत्तिकारेणाश्रितम्।धातोस्तु क्रियैव वाच्येत्यत्राचार्याणामविवाद एव। तत्र प्रातिपदिकस्य पूर्वोक्ते त्रिकेऽर्थे सति धातोश्च क्रियात्मकत्वे यदीदं सूत्रं नोच्येत, ततः अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति (सी।वृ।125) इति प्रातिपदिकाज्जसादिबहुवचनं विधीयमानं त्रिक एवार्थे स्यात्, न बहुत्वसंख्यायाम्। धातोरपि झिप्रभृति बहुवचनं विधीयमानं क्रियायामेव स्यात्; न तु बहुत्वसंख्यायाम्। तस्मादनेनैव तस्य बहुत्वसंख्यावाच्यत्वेन विधीयत इति विध्यर्थमेतद्भवति। यथा चानेन योगेन बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयते, तथा कर्मणि द्वितीया (2.3.2) इत्येवमादिभिर्योगैर्द्वितीयादीनां कर्मादि च। लः कर्मणि च भावे चाकर्मकेभ्यः (3.4.69) इत्यनेनापि लकाराणां कर्माद्येव। तस्मादेतेऽपि योगा विध्यर्था एव वेदितव्याः।येषाञ्च पञ्चकं प्रातिपदिकार्थ इति मतम्, तेषां प्रातिपदिकस्यैव पञ्चाप्यर्था वाच्याः। विभक्तयश्च तद्दयोतिका भवन्ति। तत्र अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति (सी।वृ।125) इति विनापि वचनेनानेन प्रातिपदिकाद्बहुवचनं जसादि बहुत्वे सिद्धमेव। तत्र त्वनियमेनान्यत्राप्येकत्वादौ प्राप्तमनेन नियम्यत इति नियमार्थमेतद्भवति।कस्मात् पुनर्वृत्तिकारेण त्रिकं प्रातिपदिकार्थ इति दर्शनमाश्रितम्? युक्तत्वात्। तथा हि - वृक्षं पश्येत्यादौ न हि विना विभक्तिभिः संख्याकर्मादयश्चार्थाः प्रतीयन्ते। यद्यपि पयः पयो जरयतीत्यादौ विनापि विभक्त्या संख्याकर्मादेरर्थस्य प्रतीतिर्भवतीति, तथापि पयसी पयांसि पयसेत्येवमादौ संख्याकर्मादिप्रतीत्यर्थं नियोगतो विभक्तिरपेक्ष्यत एव। न हि यथा गर्गा इत्यत्र बहुवचनेन यञ्प्रत्ययमन्तरेणापत्यार्थः प्रतीयते, तथा गाग्र्य इत्यत्र प्रकृतिरेवापत्यार्थमभिधत्त इति शक्यते वक्तुम। अपि च - पयः पयो जरयतीत्येवमादौ विभक्तिविशेषओत्पत्तिसामर्थ्यादेव संख्याकर्माद्यर्थ्स्य प्रतीतिर्भवति। तथा हि, यतः स विभक्तिविशेष उत्पन्नस्त्त एवासावर्थविशेषः प्रतीयते, नान्यस्मादिति त्रिक एव प्रातिपदिकार्थो युक्तः।यदि तर्हि बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयते तदा सूत्रे भावप्रत्ययेन बहुत्वनिर्देशः कर्तव्यः, अन्यथा बहुत्वसंख्या न प्रतीयेत? न कर्तव्यः; अन्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशो भविष्यतीति, यथा - पटस्य शुक्ल इति। नन्वेवमपि भादस्यैकत्वाद्बहुष्विति बहुवचनं नोपपद्यते, नैष दोषः; यस्माद्बहुतवसंख्याधारस्य द्रव्यस्य यो भेदस्तं बहुत्वे गुणेऽध्यारोप्य बहुष्विति बहुवचनेन निर्देशः कृतः , संख्यावाच्ययं बहुशब्दो न वैपुल्यवाचीति ज्ञापनार्थश्च। तेन वैपुल्यं बहुवचनस्य वाच्यं न भवतीति बहुरोदनः,बहुः सूप इति वैपुल्यवाचिनो बहुशब्दादेकवचनमेव भवति, न बहुवचनम्।यदि बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयते, इह वृक्षं पश्येत्यत्र बहुवचनं प्राप्नोति, द्वे ह्यत्र संख्ये - समुदायसंख्या चैकत्वम्, अवयवसंख्या च फलमूलशाखाद्यवयवसमवेता बहुत्वम्। अस्यापि प्रातिपदिकार्थेनैकार्थसमवायलक्षणः सम्बन्धोऽस्त्येव। तथा हि - येष्वयववेषु समवेत। बहुत्वसंख्या प्रातिपदिकार्थोऽपि समुदायस्तत्रैव समवेतः, ततश्च तस्माद्बहुवचनं प्राप्नोतीत्यत आह - कर्मादयः इत्यादि। कर्मादयो ह्रेकविभक्तिशब्दवाच्यत्वात् प्रत्यासन्ना बहुत्वसंख्यायाः; ततः प्रत्यासत्तेस्तदीय एव बहुत्वे बहुवचनं भवति। समुदाय एव हि वृक्षं पश्येत्यत्र दृशिक्रियया व्याप्तमिष्टतम इति स एव कर्मभावमापद्यते, नावयवाः, तत्कुतो बहुवचनस्य प्रसङ्ग? कर्मादिषु इत्यादि। कर्मादयो बहुवचनस्य वाच्याः। तदीयं बहुत्वं बहुष्वेव कर्मदिषु सम्भवति, अतः सामर्थ्यात् कर्मादिषु बहुष्वित्येषोऽर्थः सम्पद्यते।यदि तर्हि विभक्तीनां बहुवचनस्य बहुत्वसंख्या वाच्यत्वेन विधीयते, तदा निःसंख्येभ्योऽव्ययेभ्यः स्वादयो न स्युः; ततश्च पदसंज्ञा तेषां न स्यादित्याह - यत्र च इत्यादि। ननु स्वादिविधानसूत्रे संख्याकर्मादयः स्वादीनामर्थाः शास्त्रान्तरेण विहिताः, तेन सहास्यैकवाक्यतेति वक्ष्यति। तत्कुतः स्वादीनां सामान्यविहितत्वम्? न हि बहुषु बहुवचनम (1.4.21) , कर्मणि द्वितीया (2.3.2) इत्यादिना शास्त्रान्तरेण स्वौजसादेः सूत्रस्यैकवाक्यतायां स्वादीनां सामान्यविहितत्वमुपपद्यते। एवं तर्हि ज्ञापकेन अव्ययेभ्यः सामान्येन स्वाद्युत्पत्तेज्र्ञापि तत्वात् सामान्यविहिता इत्युक्तमित्यदोषः; किं पुनस्तज्ज्ञापकम्? अव्ययादाप्सुपः (2.4.82) इत्यव्ययादुत्पन्नानां सुपां लृग्ववचम्, न ह्रनुत्पन्नानां लुगुपपद्यते॥
Praudhamanorama¶
राम इति। संज्ञाशब्दोऽयमव्युत्पन्न इति पक्षेऽर्थवत्सूत्रेण प्रातिपदिकसञ्ज्ञा, ‘करणाधिकरणयोश्च’ इत्यधिकारे घापवादेन ‘हलश्च’ इति घञा रमन्तेऽस्मिन्निति व्युत्पादने तु ‘कृत्तद्धित—’ इति सूत्रेणेति विवेकः। ।
Prakriyasarvasvam¶
बह्वर्थे एतत् स्यात् । कृष्ण कृष्ण कृष्ण जस् । जलोपः । सस्य ‘न विभक्तौ—’ (२–३–४) इत्यनित्त्वम् । एकशेषः । कृष्ण अस् । ‘अतो गुणे’ (६–२–९७) इति पररूपं बाधित्वा पूर्वसवर्णदीर्घः कृष्णाः । सम्बोधनप्रथमायां कृष्ण स्,