14034: श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः¶
Padacheda: श्लाघ-ह्नुङ्-स्था-शपाम् | S | 6 | 3 |
ज्ञीप्स्यमानः | S | 1 | 1 |
Sutrartha¶
श्लाघ्, ह्नुङ्, स्था, तथा च शप् - इत्येतेषां विषये कर्ता यं बोधयितुम् इच्छति, तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - गोपी कृष्णाय श्लाघते, ह्नुते, तिष्ठते, शपते ।
कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं तृतीयं सूत्रम् । अनेन सूत्रेण **श्लाघ् (कत्थने) (1.122), ह्नुङ् (अपनयने) (2.77), स्था (गतिनिवृत्तौ) (1.1077), तथा च शप् (आक्रोशे) (1.1155) / (4.64) - इत्येतेषां विषये सम्प्रदानसंज्ञा विधीयते** । एतासाम् क्रियाणाम् कर्ता एताभिः क्रियाभिः “यस्य बोधः भवेत्” इति इच्छति, तत् कारकम् प्रकृतसूत्रेण सम्प्रदानसंज्ञं भवति । क्रमेण उदाहरणानि एतानि - <listsp> <li><hlb>1. श्लाघ् (कत्थने) (1.122)</hlb> - कत्थनम् इत्युक्ते स्तुतिः, अतिप्रशंसनम् इति । यथा - <nex>देवदत्तः यज्ञदत्तं श्लाघते</nex> = देवदत्तः यज्ञदत्तस्य अतिप्रशंसां करोति । अस्मिन् वाक्ये “यज्ञदत्त”पदार्थस्य कर्मसंज्ञा कृता अस्ति । परन्तु अनया अतिप्रशंसया यदि देवदत्तः यज्ञदत्तं स्वस्य कञ्चन हेतुम् अपि बोधयितुम् इच्छति (यथा - अहं इदं कार्यं कथं करणीयम् इति जानामि, मह्यम् एव कार्यं देहि इति) तर्हि अत्र कर्मसंज्ञायाः बाधं कृत्वा प्रकृतसूत्रेण “यज्ञदत्त”पदार्थस्य सम्प्रदानसंज्ञा भवति, येन <ex>देवदत्तः यज्ञदत्ताय श्लाघते</ex> इति वाक्यं सिद्ध्यति । अनेनैव प्रकारेण <ex>गोपी कृष्णाय श्लाघते</ex> इदम् उदाहरणम् अपि सङ्गच्छते । गोपी कृष्णस्य अतिप्रशंसां कुर्वती, स्वमनसि कृष्णं प्रति विद्यमानां प्रीतिं कृष्णं बोधयितुम् इच्छति, अथ वा कृष्णस्य विरहेण जायमानायाः वेदनायाः विषये कृष्णं बोधयितुम् इच्छति - इति अत्र आशयः वर्तते । <li><hlb>2. ह्नुङ् (अपनयने) (2.77)</hlb> - अपनयनम् इत्युक्ते दूरीकरणम्, गोपनम् । यथा - <nex>देवदत्तः यज्ञदत्तं अपह्नुते</nex> = देवदत्तः यज्ञदत्तं दूरे नयति, गोपयति । अस्मिन् वाक्ये “यज्ञदत्त”पदार्थस्य कर्मसंज्ञा कृता अस्ति । परन्तु अनेन गोपनेन यदि देवदत्तः यज्ञदत्तं स्वस्य कञ्चन हेतुम् अपि बोधयितुम् इच्छति (यथा - धनिकः आगतः, तेन त्वं न द्रष्टव्यः इत्यादिकम्) तर्हि अत्र कर्मसंज्ञायाः बाधं कृत्वा प्रकृतसूत्रेण “यज्ञदत्त”पदार्थस्य सम्प्रदानसंज्ञा भवति, येन <ex>देवदत्तः यज्ञदत्ताय अपह्नुते</ex> इति वाक्यं सिद्ध्यति । अनेनैव प्रकारेण <ex>गोपी कृष्णाय ह्नुते</ex> इदम् उदाहरणम् अपि सङ्गच्छते । गोपी कृष्णं अन्याभ्यः गोपीभ्यः दूरे नयन्ती स्वमनसि कृष्णं प्रति विद्यमानां प्रीतिं, तथा च अन्याः गोपीः प्रति स्वमनसि विद्यमानं मत्सरम् अपि कृष्णं बोधयितुम् इच्छति - इति अत्र आशयः वर्तते । <li><hlb>3. स्था (गतिनिवृत्तौ) (1.1077)</hlb> - यद्यपि अस्य धातोः धातुपाठे गतिनिवृत्तिः इति अर्थः दत्तः अस्ति, तथापि अयं धातुः प्रकाशनम् अस्मिन् अर्थे अपि प्रयुज्यते । प्रकाशनम् इत्युक्ते एकस्मिन् स्थले स्थित्वा कस्यचन कृतः बोधः**(स्वकृत्या मनसि विद्यमानस्य कस्यचन हेतोः प्रकटीकरणम्) । अयमेव अर्थः प्रकृतसूत्रे अपि इष्यते । किञ्च, अस्मिन् अर्थे स्था-धातोः प्रयोगः यदा क्रियते तदा **प्रकाशनस्थेयाख्ययोश्च (1.3.23) इति सूत्रेण अस्मात् धातोः केवलम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति । यथा - <ex>देवदत्तः यज्ञदत्ताय तिष्ठते</ex> । अस्य वाक्यस्य आशयः अस्ति - “देवदत्तेन ‘त्वं गच्छ’ इति उक्ते सति अपि, यज्ञदत्तः तत्रैव स्थित्वा, स्वक्रियया यज्ञदत्तं किञ्चित् बोधयितुम् इच्छति” इति । एवमेव <ex>गोपी कृष्णाय तिष्ठते</ex> इति वाक्यम् अपि सङ्गच्छते । कृष्णेन “त्वं गच्छ” इति उक्तायां सत्याम् अपि तत्रैव स्थित्वा गोपी स्वमनसि कृष्णं प्रति विद्यमानां प्रीतिं तमेव बोधयितुम् इच्छति - इति अत्र आशयः वर्तते । <li><hlb>4. शप् (आक्रोशे) (1.1155) / (4.64) </hlb> - यद्यपि धातुपाठे अस्य सूत्रस्य अर्थः आक्रोशः इति दीयते, तथापि प्रस्तुतसूत्रस्य सन्दर्भेण अस्य अर्थः उपालम्भः इति स्वीक्रियते । उपालम्भः इत्युक्ते वाचा शरीरस्पर्शनम् - इत्युक्ते, “अहं तव चरणौ स्पृशामि” इत्यादि वचनम् । अत्र शरीरस्य साक्षात् स्पर्शः न क्रियते, केवलम् वाण्या “अहं तादृशं करोमि” इति निर्दिश्यते । एतादृशं उपलम्भं कुर्वन् यदि कर्ता किञ्चित् बोधयितुम् अपि इच्छतिु, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगं कृत्वा सम्प्रदानसंज्ञा भवति । यथा -<ex> देवदत्तः यज्ञदत्ताय शपते </ex> । अत्र देवदत्तः यज्ञदत्तं “अहं भवतः चरणौ स्पृशामि” इति उक्त्वा स्वाशयं, (यथा “मया चौरकार्यं न कृतम्” इत्यादिकं किञ्चित्) बोधयियुम् इच्छति - इति आशयः वर्तते । एतादृशेषु प्रयोगेषु शप्-धातोः <!शप उपलम्भने इति वक्तव्यम्!> (सूत्रम् **क्रीडोऽनुसम्परिभ्यश्च ** (1.3.21)) इति वार्त्तिकेन केवलम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति, अतः अत्र “शपते” इति प्रयोगः कृतः वर्तते । एवमेव, <ex>गोपी कृष्णाय शपते</ex> इति प्रयोगः अपि सङ्गच्छते । गोपी कृष्णस्य चरणस्पर्शस्य वचनेन स्वस्य मनसि कृष्णं प्रति विद्यमानां प्रीतिं तमेव बोधयितुम् इच्छति - इति अत्र आशयः वर्तते । </listsp>
<hlb>ज्ञीप्स्यमानः</hlb> इति शब्दस्य अर्थः
प्रकृतसूत्रे विद्यमानः ज्ञीप्स्यमान: इति शब्दः ज्ञा (अवबोधने, क्र्यादिः) (9.43) इति धातोः णिजन्तस्य सन्नन्तस्य कर्मणि-शानजन्तं रूपम् अस्ति । अत्र रूपसिद्धेः क्रमः अयम् - 1. ज्ञा (अवबोधने, क्र्यादिः) (9.43) इत्यस्य अर्थः अवगच्छति / बुद्ध्यते इति । यथा - <nex> देवदत्तः जानाति</nex> । 2. ज्ञा-धातोः प्रेरणार्थे णिच्-प्रत्यये कृते ज्ञपि इति आतिदेशिकधातुः सिद्ध्यति । अस्य अर्थः अवगमयति / बोधयति इति । यथा - <nex> देवदत्तः यज्ञदत्तं ज्ञापयति </nex> । 3. ज्ञपि-धातोः इच्छार्थके सन्-प्रत्यये कृते ज्ञीप्स इति आतिदेशिकधातुः सिद्ध्यति । अस्य अर्थः अवगमयितुम् इच्छति / बोधयितुम् इच्छति इति । यथा -<ex> देवदत्तः यज्ञदत्तं ज्ञीप्सति </nex> । 4. अस्यैव कर्मणि प्रयोगे परिवर्तनं क्रियते चेत् - <nex>देवदत्तेन यज्ञदत्तः ज्ञीप्स्यते</nex> इति सिद्ध्यति । 5. अन्ते, अत्र लट्-लकारस्य आदेशरूपेण तिङ्-प्रत्ययस्य अपेक्षया शानच्-प्रत्ययः प्रयुज्यते चेत् - <nex>देवदत्तेन यज्ञदत्तः ज्ञीप्स्यमानः अस्ति</nex> इति सिद्ध्यति । देवदत्तः “यज्ञदत्तस्य बोधः भवेत्” इति इच्छति - इति अस्य वाक्यस्य अर्थः । अतएव अत्र काशिकाकारः स्पष्टीकरोति - <inline>ज्ञीप्स्यमानः = ज्ञपयितुम् इष्यमाणः = बोधयितुम् अभिप्रेतः</inline> । एतादृशस्य ज्ञीप्स्यमानस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति ।
दलकृत्यम्
श्लाघह्नुङ्स्थाशपाम् इति किमर्थम्? ** - **एतेषां धातूनाम् एव अर्थे प्रयुक्तानां अन्येषां धातूनां विषये अस्य सूत्रस्य प्रयोगः मा भूत् । यथा - <nex>देवदत्तः यज्ञदत्तं स्तौति</nex> - इत्यत्र “बोधयितुम् इच्छति” इति अर्थः विद्यते चेदपि प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति ।
ज्ञीप्स्यमानः इति किमर्थम् ? ** - **यदि बोधस्य इच्छा नास्ति, तर्हि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - <nex>देवदत्तः यज्ञदत्तं श्लाघते</nex> । अत्र देवदत्तः यज्ञदत्तस्य स्तुतिम् अवश्यं करोति, परन्तु अनया स्तुत्या सः यज्ञदत्तस्य कमपि बोधं कर्तुं न इच्छति । अस्यां स्थितौ प्रकृतसूत्रस्य प्रयोगः न भवति ।
Vasu English Summary¶
In case of verbs श्लाघ् ‘to praise’, ह्नु ‘to take away’, स्था ‘to stand’, शप् ‘to curse’, the person whom it is intended to inform of or persuade by, these actions, is called सम्प्रदान।
Vasu English Translation¶
In case of verbs श्लाघ् ‘to praise’, ह्नु ‘to take away’, स्था ‘to stand’, शप् ‘to curse’, the person whom it is intended to inform of or persuade by, these actions, is called सम्प्रदान। The word ज्ञीप्स्यमान means whom it is desired to make known or inform. As देवदत्ताय श्लाघते he praises Devadatta, i.e., while praising Devadatta, he wishes that he should know this praise. So also with other verbs. As देवदत्ताय ह्नुते he hides from (wishing that Devadatta should know of it) Devadatta, देवदत्ताय तिष्ठते she offers herself to Devadatta (for sexual embrace, wishing that he should know of it). देवदत्ताय शपते he reviles Devadatta.
Why do we say ‘the person whom it is intended to inform’? Observe देवदत्ताय श्लाघति पथि. Here pathi is in the Locative case.
Kashika¶
श्लाघ, ह्नुङ्, स्था, शप् इत्येतेषां ज्ञीप्स्यमानो योऽर्थः, तत् कारकं संप्रदानसंज्ञं भवति। ज्ञीप्स्यमानो ज्ञपयितुमिष्यमाणो बोधयितुमभिप्रेतः। देवदत्ताय श्लाघते। देवदत्तं श्लाघमानस्तां श्लाघां तमेव ज्ञपयितुमिच्छतीत्यर्थः। एवं देवदत्ताय ह्नुते। यज्ञदत्ताय ह्नुते। देवदत्ताय तिष्ठते। यज्ञदत्ताय तिष्ठते। देवदत्ताय शपते। यज्ञदत्ताय शपते। ज्ञीप्स्यमान इति किम्? देवदत्तः श्लाघते॥
Siddhanta Kaumudi¶
एषां प्रयोगे बोधयितुमिष्टः संप्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते ह्नुते तिष्ठते शपते वा । ज्ञीप्स्यमानः किम् ? देवदत्ताय श्लाघते पथि ॥
Balamanorama¶
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः - श्लाघह्नुङ् । ‘श्लाघृ कत्थने’ ‘ह्नुङ् अपनयने’ ‘ष्ठा गतिनिवृत्तौ’ ‘शप उपालम्भे’ एषां द्वन्द्वः ।शपा॑मित्यनन्तरं ‘प्रयोगे’ इत्यध्याहार्यम् । श्लाघादीनां स्तुत्यादिना बोधनमर्थः, ज्ञीप्स्यमान इति लिङ्गात् । ज्ञापनवाचिनो ज्ञपेः सन्नन्तात्कर्मणि शानच् । तदाह — एषां प्रयोगे इत्यादिना । गोपी स्मरादीति । मन्मथपीडावशाद्नोपी आत्मस्तुत्या विरहवेदनां कृष्णं बोधयतीत्यर्थः । कृष्णस्यैव स्तुत्यत्वे तु द्वितीयैवेत्याहुः । ह्नुते इति । सपत्न्यपनयनेन स्वाशयं कृष्णं बोधयतीत्यर्थः । तिष्ठते इति । गन्तव्यमित्युक्तेऽपि स्थित्या स्वाशयं कृष्णं बोधयतीत्यर्थः ।प्रकाशनस्थेयाख्ययोश्चे॑त्यात्मनेपदम् । शपते इति । उपालम्भेन स्वाशयं कृष्णं बोधयतीत्यर्थः ।
Tattvabodhini¶
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः - श्लाघह्नुङ् ।श्लाघृकत्थने,॑ह्नुङ् अपनयने॑ष्ठा गतिनिवृत्तौ,॒॑शप उपलम्भे॑ । कृष्णाय श्लाघत इति । अस्मस्तु पक्षे शेष षष्ठआं प्राप्तायां वचनम् । ह्नुतीति । सपत्नीभ्यः कृष्णं ह्नुवाना तमेवाऽर्थं कृष्णं बोधयतीत्यर्थः । यस्य कस्यचिथ्नुति बोधयतीति वा । तिष्ठत इथि । स्थित्या स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः ।प्रकाशनस्थेयाख्ययोश्चे ॑ति तङ् । शपत इति । उपालम्भेन स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः ।शप उपालम्भे॑ इति तङ् ।
Padamanjari¶
ज्ञीप्स्यमान इति।’मारणतोषणनिशामनेषु ज्ञा’ इति घटादिषु पठ।ल्ते, तस्मान्निशामनेऽर्थे हेतुमण्णिचि सनि ठाप्ज्ञपृधामीत्ऽ,ठत्र लोपोऽभ्यासस्यऽ,कर्मणि लटः शानजादेशः। निशामनं चेह ज्ञानमात्रमुच्यते, न चक्षुर्विज्ञानमेव, यदाह-बोघयितुमभिप्रेत इति। कथं तर्हि प्रयुज्यते - तज्ज्ञापयत्याचार्थः, विज्ञापना भर्तृषु सिद्धिमेतीति? तस्मान्निशानेष्विति पाठः।’शो तनूकरणे’ ल्युडन्तः, संज्ञपितः पशुरित्युदाहरणम्। ज्ञीप्स्यमानो ज्ञपयितुमिष्यमाण इति प्रयोगःठ्ज्ञप मिच्चऽ इति चुरादिणिजन्तस्य। अन्ये तु -ठ्मितां ह्रस्वःऽ इत्यत्र’वा चितविरागे’ इत्यतो वेत्यनुवृतेर्व्यवस्थितविभाषाविज्ञानाच्चानिष्टे विषये ह्रस्वाभावमाहुः। देवदतं प्रति श्लाघमानास्तां श्लाघां तमेव ज्ञपयितुमिच्छतीत्यर्थ इति। श्लाघा स्तुतिः, प्रत्यक्षेण देवदतं स्तौतीति यावत्। एवं हि तां देवदतः शक्यते ज्ञापयितुम्। अन्ये त्वाहुः- देवदतायात्मानं परं श्लाघ्यं कथयतीत्यर्थ इति। तथा च भट्टिकाव्यम् - श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिपः॥ इति। आत्मानं श्लाघ्यं परस्त्रीभ्यः कथयन्नित्यर्थः। एवं देवदताय निह्नुत इति।’ह्नुङ् अपनयने’ देवदतं प्रति निह्न्वानस्तां निह्नुतिं तमेव ज्ञापयितुमिच्छतीत्यर्थः। इत्येष एवंशब्दस्यार्थः। निह्नुतिरपलापः, संनिहितमेव देवदतं धनिकादेरपलपतीत्यर्थः। अन्ये तु ह्नोतव्यं किञ्चिद्देवदतं ज्ञापयतीत्यर्थ इत्याहुः- देवदताय तिष्ठत इति। ईद्दशोऽहमिति देवदतस्य स्थनेन प्रकाशयतीत्यर्थः। देवदताय शपते इति। शपथेन किञ्चित्प्रकाशयतीत्यर्थः। देवदतः श्लाघते इति। ज्ञीप्स्यमानवचनात् कर्मसंज्ञैव बाध्यते, न कर्तृसंज्ञेत्यर्थः। एवं गार्गिकया श्लाघते सभायामिति करणाधिकरणसंज्ञे न बाध्येते। क्वचितु देवदतं श्लाघते इति पाठः। तत्रायं भावः-यस्मायाख्यायते स ज्ञीप्स्यमान इत्याख्यायामाना द्विनीयैव न्याय्येति। ये त्वाख्यायमानं ज्ञीप्स्यमानं वदन्ति तेषां यस्मायाख्यायते ततः षष्ठी भवति - देवदताय श्लाघते यज्ञदतो विष्णुमित्रस्येति॥
Nyaas¶
ज्ञीप्स्यमानः इति। मारणतोषणनिशामनेषु ज्ञा (धातुपाठः-811) इति घटादिषु पठते। तस्मात् निशामने ज्ञाने वर्तमानात् हेतुमण्णिच्। अथ वा ज्ञप मिच्च (धातुपाठः-1624) इति चुरादौ पठते। तस्माच्चुरादिणिच्, मित्त्वात् ह्रस्वत्वम्, सन्, द्विर्वचनम्, आप्ज्ञप्यृधामीत् (7.4.55) इतीत्वम्, अत्र लोपऽभ्यासस्य (7.4.58) इत्यभ्यासलोपः, कर्मणि लकारः, शानच् यक्, अतो लोपः (6.4.48) । श्लाघते इति। श्लाघु कत्थने (धातुपाठः-115) अनुदात्तेत्। {ह्नुते- काशिका, `निह्नुते-पदमञ्जरी।} अपह्नते इति। ह्नुङ अपनयने (धातुपाठः-1082), आदादिकः। तिष्ठते इति। प्रकाशनस्थेयाख्ययोश्च (1.3.23) इति तङ। शपते इति। {शप आक्रोशे- धातुपाठः-} शप उपलम्भने (धातुपाठः-1000) इत्यनेनोपलसंख्यानन तङ॥
Praudhamanorama¶
श्लाघा स्तुतिः। कृष्णाय श्लाघते। कृष्णं स्तौतीत्यर्थः। अन्ये त्वाहुः—कृष्णायात्मानं परं वा श्लाघ्यं कथयतीत्यर्थ इति। तत्राद्ये पक्षे कर्मत्वे प्राप्ते, द्वितीये तु कारकशेषत्वात् षष्ठ्यां प्राप्तायां वचनम्। ह्नुते इति। सपत्नीभ्यः कृष्णं ह्नुवाना तमेवार्थं कृष्णं बोधयतीत्यर्थः। यस्य कस्यचित् ह्नुते इति वा। तिष्ठते इति। स्थित्या स्वाभिप्रायं बोधयतीत्यर्थः। ‘प्रकाशन-स्थेयाख्ययोश्च’ इति तङ्।
Prakriyasarvasvam¶
<karika>श्लाघादेर्योगे ज्ञापयितुमिष्यमाणः सम्प्रदानम् । कृष्णाय श्लाघते गोपी तस्मै चापह्तुते क्वचित् । तिष्ठते सस्मिता तस्मै शपते शप्यतीति वा ॥ ५३४ ॥</karika> तत्राद्ये कृष्णं बोधयितुं तद्गुणं स्वगुणं वा श्लाघत इत्यर्थः । अपह्नुत इति त्वदर्थं मयैवमुक्तमिति कृष्णं ज्ञापयन्ती कृष्णोऽत्र नास्तीत्यन्यान् प्रत्यपदिशतीत्यर्थः । तस्मै स्वामाकुलतां बोधयितुं स्वगात्रमन्यद्वा किञ्चिन्निगूहयतीत्यन्ये । निगूह्यमान- स्याभावोऽत्र ज्ञाप्यत इति शङ्करः । तस्मै स्वागांसि निह्नुते निरागस्तां तस्मै ज्ञापयितुमित्यर्थः ।।
Sutra Prayogas¶
सौमित्रयेऽसकौ (भट्टिकाव्यम्): श्लाघ- हुङ् इत्यादिना सम्प्रदानसंज्ञा।
पर-स्त्रीभ्यस् (भट्टिकाव्यम्): श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः इति सम्प्रदानत्वम्।
द्विषद्भ्यश्चाऽशपंस्तथा (भट्टिकाव्यम्): श्लाघ-हुङ् इत्यादिना सम्प्रदानसंज्ञा।
मैथिल्यै (भट्टिकाव्यम्): श्लाघ- हुइ इत्यादिना कर्मणि सम्प्रदानसंज्ञा।