14035: धारेरुत्तमर्णः¶
Padacheda: धारेः | S | 6 | 1 |
उत्तमर्णः | S | 1 | 1 |
Sutrartha¶
धारि (धारयति) इति धातोः प्रयोगे “यः ऋणं ददाति” तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - देवदत्तः यज्ञदत्ताय शतं धारयति ।
कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं चतुर्थं सूत्रम् । **धृञ् (धारणे, भ्वादिः) (1.1047) इत्यस्मात् धातोः णिच्-प्रत्यये कृते धारि इति यः आतिदेशिकधातुः सिद्ध्यति, तस्य सन्दर्भे प्रकृतसूत्रेण सम्प्रदानसंज्ञा उक्ता अस्ति** । धारि इति धातोः सामान्यः अर्थः वर्तते स्थिरीकरणम् इति । प्रकृतसूत्रस्य सन्दर्भेण तु अस्य धातोः अर्थः विशेषरूपेण ऋणं स्वीकृत्य ऋणदातृरूपेण कस्यचित् स्थिरीकरणम् इति स्वीक्रियते । यथा, कश्चन देवदत्तः यज्ञदत्तात् शतं रुप्यकाणि ऋणरूपेण स्वीकरोति चेत् <nex>देवदत्तः यज्ञदत्तं ऋणे स्थिरीकरोति</nex> इति उच्यते । अपि च, एतादृशं अर्थम् प्रकटीकर्तुम् धारि इति धातोः यदा वाक्ये प्रयोगः भवति, तदा उत्तमर्णस्य (इत्युक्ते, यस्मात् ऋणं स्वीकृतम् तस्य) सम्प्रदानसंज्ञा भवति । अनेन प्रकारेण <ex>देवदत्तः यज्ञदत्ताय शतं धारयति</ex> इति प्रयोगः सिद्ध्यति । अत्र देवदत्तः = ऋणस्य स्वीकर्ता = अधमर्णः, तथा च यज्ञदत्तः = ऋणस्य दाता = उत्तमर्णः इति शब्दप्रयोगः क्रियते । प्रकृतसूत्रस्य कौमुदीकारेण दत्तम् उदाहरणम् अस्ति - <ex>हरिः भक्ताय मोक्षं धारयति</ex> इति । अत्र कौमुदीकारस्य आशयः वर्तते - वस्तुतः भक्तः एव मोक्षस्य स्वामी अस्ति, परन्तु सः भक्तः लौकिकसुखम् इच्छन्, तदर्थम् हरिं सम्प्रार्थ्य स्वस्य मोक्षं हरेः सकाशे ऋणरूपेण स्थापयति - इति । अतः अत्र “मोक्षः” इति पदार्थस्य दाता “भक्तः” (स च उत्तमर्णः) तथा च स्वीकर्ता “हरिः” (स च अधमर्णः) इति आशयः वर्तते ।
<hlb>ऋणम्, अधमर्णः, उत्तमर्णः</hlb> इति शब्दाः
एतेषां त्रयाणां व्याख्याः बालमनोरमाकारेण इत्थं दीयन्ते - <source> अन्यस्वामिकं द्रव्यं नियतकाले पुनरर्पणबुद्ध्या गृहीतम् ऋणम् इत्युच्यते । तत्र ऋणस्य ग्रहीता अधमर्णः । ऋणस्य अर्पयिता = धनस्वामी = उत्तमर्णः । </source> सूत्रपाठे ऋणमाधमर्ण्ये (8.2.60) इति सूत्रेण अधमर्णः इति शब्दः निपात्यते । तत्र अस्य शब्दस्य व्याख्या दीयते - <inline>ऋणे अधमः = अधमर्णः</inline> । एवमेव, ऋणे उत्तमः = उत्तमर्णः इति शब्दः अपि अनेनैव सूत्रेण सिद्ध्यति ।
दलकृत्यम्
1. उत्तमर्णः इति किम् ? ** - **यः ऋणं न ददाति, तस्य विषये प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, <nex>देवदत्ताय ग्रामे शतं धारयति</nex> इत्यत्र ग्रामपदार्थस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा न भवति ।
Vasu English Summary¶
In the case of the verb धारि ‘to owe’, the creditor is called सम्प्रदान।
Vasu English Translation¶
In the case of the verb धारि ‘to owe’, the creditor is called सम्प्रदान। The word उत्तमर्ण is compounded of two words उत्तम best and ऋण debt meaning (whose debt is best) creditor, as opposed to अधमर्ण debtor. As देवदत्ताय शतं धारयति he owes hundred to Devadatta.
Why do we say ‘the creditor is called Recipient’? Observe देवदत्ताय शतं धारयति ग्रामे he owes hundred to Devadatta in the village. Here village is in the Locative case.
Kashika¶
धारयतेः प्रयोग उत्तमर्णो योऽर्थः, तत् कारकं संप्रदानसंज्ञं भवति। उत्तममृणं यस्य स उत्तमर्णः। कस्य चोत्तममृणम्? यदीयं धनम्, धनस्वामी प्रयोक्ता उत्तमर्णः, स संप्रदानसंज्ञो भवति। देवदत्ताय शतं धारयति। यज्ञदत्ताय शतं धारयति। उत्तमर्ण इति किम्? देवदत्ताय शतं धारयति ग्रामे॥
Siddhanta Kaumudi¶
धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । उत्तमर्णः किम् ? देवदत्ताय शतं धारयति ग्रामे ॥
Balamanorama¶
धारेरुत्तमर्णः - धारेरुत्तमर्णः ।धारे॑रित्यनन्तरं ‘प्रयोगे’ इत्यध्याहार्यम् । ‘धृङ् अवस्थाने’ इत्यस्य हेतुमण्ण्यन्तस्य धारेरिति निर्देशः । तदाह — धारयतेरित्यादिना । अन्यस्वामिकं द्रव्यं नियतकाले पुनरर्पणबुद्ध्या गृहीतम् ऋणमित्युच्यते । तत्र ऋणस्य ग्रहीता-अधमर्णः, ऋणस्यार्पयिता-धनस्वामी-उत्तमर्णः । प्रतिमासमशीतिभगादिवृद्ध्या उत्तमम्= अधिकतां प्राप्तम् ऋणं यस्येति विग्रहः । भक्तायेति । भक्तसंबन्धी यो मोक्षः= अपरिमितनित्यसुखविशेषस्तं धारयतीत्यर्थः । धरते मोक्षः, अवतिष्ठते इत्यर्थः । तं प्रेरयति धारयति, अवस्थापयतीति यावत् । पूजयन्हि भक्तस्तुलसीदलादिद्रव्यं प्रयच्छति, तच्च गृह्णन्तुष्टो हरिस्तत्प्रत्तद्रव्यं मोक्षदानेन निष्क्रीणाति । तदाहुः पौराणिकाः-॒तोयं वा पत्रं वा यद्वा किञ्चित्समर्पितं भक्त्या । तदृणं मत्वा देवो निःश्रेयसमेव निष्क्रयं मनुते ।॑ इत्यादि । तथाचात्र भक्तस्य ऋणदातृत्वेन उत्तमर्णत्वात्संप्रदानत्वं संबन्धषष्ठपवादः ।
Tattvabodhini¶
धारेरुत्तमर्णः - धारेरुत्तमर्णः ।धृङ् अवस्थाने॑ । हेतुमण्ण्यन्तः । उत्तमर्णो=धनस्वामी । अर्तेः क्तः । ऋणम् । ऋणमाधमण्र्ये इथ्यत्र व्यवहारविशेषोपलक्षणार्थमाधमण्र्यग्रहणमिति व्याख्यानादुत्तमर्णेऽपि निष्ठानत्वं भति । अस्मादेव निपातनादत्र बहुव्रीहौ निष्ठान्तस्य परनिपातो बोध्यः । भक्तायेत्यादि । इह भक्त उत्तमर्णो, हरिरधमर्णः । धृङोऽकर्मकत्वादणौ कर्तुर्मोक्षस्य णौ कर्मत्बम् । शतं धारयति ग्राम इति । परत्वादिहाऽधिकरणसंज्ञा भविष्यतीति चेदुत्तमर्णेऽपि तर्हि हेतुसंज्ञा स्यादिति हरदत्तः ।ततश्चोत्तमर्णग्रहणाऽभावे हेतुसंज्ञाया इवाधिकरणसंज्ञाया अप्ययमपवादः स्यात्तद्वारणयोत्तमर्णग्रहणमिति भावः । एवं च कृतेऽप्युत्तमर्णग्रहणेतत्प्रयोजको हेतुश्च॑ इति हेतुसंज्ञायां प्राप्तायां तद्बाधनार्थमिदं संप्रदानसंज्ञावचनमिति निष्कर्षमाहुः । मनोरमायां तु षष्ठआं प्राप्तायामिदं वचनमिति स्थितम् ।
Padamanjari¶
उतममृणं यस्येति। उतममूत्कुष्टतमम्, उत्कृष्टार्थवृतेरुच्छब्दातमपि द्रव्यप्रकर्षत्वादामभावः। अर्तेः क्तः, ऋणम् ठृणमाधमर्ण्येऽ इत्यत्र कालान्तरे देयद्रव्यविनिमयोपलक्षणार्थमाधमर्ण्यग्रहणमित्युतमर्णेऽपि नत्वं भवति। अत्र बहुव्रीहौ निष्ठायाः पूर्वनिपाते’जातिकालसुखादिभ्यः’ परवचनम् इति सुखादेराकृतिगणत्वादस्मादेव वा निपातनाद्दणशब्दस्य परनिपातः। शतं धारयतीति।’धृङ् अवस्थाने’ ,ध्रियमाणं स्वरूपेणावतिष्ठमानं स्वभावादप्रच्यवमानं शतं प्रयुङ्क्त इति णिच्। ग्राम इति। नन्वत्र परत्वादधिकरणसंज्ञैव भविष्यति; उतमर्णेऽपि तर्हि हेतुसञ्ज्ञा स्यात्॥
Nyaas¶
उत्तमर्णः इति। ऋणे उत्तमुत्तमर्णः। अत एव निपातनात् समासः, सप्तमीसमासे ऋणस्य पूर्वनिपातात्। ननु चोत्तमर्णे ऋणशब्देन न भवितव्यम्। ऋणमाधमण्र्ये ` (8.2.60) इत्याधमण्र्ये तस्य निपातनात्, नैतदस्ति; कालान्तरे देयनियमोपलक्षणार्थं हि तत्राधमण्र्यग्रहणम्। अत उत्तमर्णोऽपि भवत्येव। `शतं धारयति इति। धृङ अवस्थाने (धातुपाठः-1412), शतं ध्रियते स्वरूपेणावतिष्ठते, स्वभावान्न प्रच्यवते। तदन्यः प्रयुङ्क्त इति हेतुमति च (3.1.26) इति णिच्। ग्रामे इति ग्रामस्याधिकरणस्यानुत्तमर्णस्य न भवति॥
Praudhamanorama¶
षष्ठ्यां प्राप्तायां वचनम्।
Prakriyasarvasvam¶
धारयतेः प्रयोगे ऋणदाता सम्प्रदानम् । वणिजे शतं धारयति ।।
Sutra Prayogas¶
धारयान्निव (भट्टिकाव्यम्): धारेरुत्तमर्णः इति सीतायाः कदाचिदुत्तमर्णया तुल्यत्वात्।