14022: द्व्येकयोर्द्विवचनैकवचने¶
Padacheda: द्वि-एकयोः | S | 7 | 2 |
द्विवचन-एकवचने | S | 1 | 2 |
Sutrartha¶
द्वित्वस्य निर्देशार्थम् द्विवचनसंज्ञकप्रत्ययाः, तथा च एकत्वस्य निर्देशार्थम् एकवचनसंज्ञकप्रत्ययाः प्रयुज्यन्ते । यथा - बालौ गच्छतः, बालः गच्छति ।
यत्र द्वित्वस्य निर्देशः करणीयः, तत्र द्विवचनसंज्ञकप्रत्ययाः एव प्रयोक्तव्याः, तथा च यत्र एकत्वस्य निर्देशः करणीयः, तत्र एकवचनसंज्ञकप्रत्ययाः एव प्रयोक्तव्याः - इति अस्य सूत्रस्य आशयः । यथा -
<li>1. <ex>बालौ गच्छतः</ex> इत्यत्र बालकपदार्थस्य द्वित्वनिर्देशार्थम् “बाल”-प्रातिपदिकात् द्विवचनसंज्ञकः “औ”-प्रत्ययः प्रयुक्तः अस्ति, तथा च गमनक्रियायाः द्वौ कर्तारौ दर्शयितुम् “गम्”-धातोः द्विवचनसंज्ञकः “तस्” इति प्रत्ययः प्रयुक्तः अस्ति । <li>2. <ex>बालः गच्छति</ex> इत्यत्र बालकपदार्थस्य एकत्वनिर्देशार्थम् “बाल”-प्रातिपदिकात् एकवचनसंज्ञकः “सुँ”-प्रत्ययः प्रयुक्तः अस्ति, तथा च गमनक्रियायाः एकं कर्तारं दर्शयितुम् “गम्”-धातोः एकवचनसंज्ञकः “तिप्” इति प्रत्ययः प्रयुक्तः अस्ति ।
द्विवचनम्, एकवचनम् इति संज्ञे
अष्टाध्याय्याम् द्विवचनम् तथा च एकवचनम् इति संज्ञे द्वाभ्यां सूत्राभ्यां पाठ्येते -
<li>1. तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) इति सूत्रेण आहत्य तस्, थस्, वस्, आताम्, आथाम् तथा च वहि इति षण्णाम् “तिङ्”-प्रत्ययानाम् <hlb>द्विवचनम्</hlb>, तथा च तिप्, सिप्, मिप्, त, थास् तथा च इट् इति अन्येषां षण्णाम् “तिङ्”-प्रत्ययानाम् <hlb>एकवचनम्</hlb> इति संज्ञा विधीयते । <li>2. सुपः (1.4.103) इति सूत्रेण आहत्य औ, औट्, भ्याम्, भ्याम्, भ्याम्, ओस् तथा च ओस् एतेषां सप्तानां “सुप्”-प्रत्ययानाम् <hlb>द्विवचनम्</hlb>, तथा च सुँ, अम्, टा, ङे, ङसिँ, ङस् तथा च ङि इति अन्येषां सप्तानाम् “सुप्”-प्रत्ययानाम् <hlb>एकवचनम्</hlb> इति संज्ञा विधीयते ।
<spacer> एतेषाम् द्विवचनसंज्ञकप्रत्ययानाम् एकवचनसंज्ञकप्रत्ययानां च प्रयोगः कुत्र करणीयः इत्यस्मिन् विषये प्रकृतसूत्रेण - यत्र द्विवचनस्य विवक्षा अस्ति, तत्रैव द्विवचनस्य प्रत्ययः प्रयोक्तव्यः; यत्र च एकवचनस्य विवक्षा अस्ति तत्र एकवचनस्य प्रत्ययः प्रयोक्तव्यः ** - इति **नियमः कृतः अस्ति । अतः **इदं नियमसूत्रम् **।
द्वित्वभिन्नस्थलेषु अपि द्विवचनस्य प्रयोगः
“तिष्यः च पुनर्वसू च” इति द्वन्द्वसमासं कृत्वा “तिष्यपुनर्वसु” इति यत् प्रातिपदिकं सिद्ध्यति, तस्य विषये तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् (1.2.63) इति सूत्रेण बहुत्वनिर्देशार्थम् अपि द्विवचनसंज्ञकप्रत्ययाः एव विधीयन्ते । यथा - <ex>उदितौ तिष्यपुनर्वसू दृश्येते</ex> इति ।
Sutrartha (English)¶
For referring to two, the द्विवचन forms are used, where as for referring to one, the एकवचन forms are used.
Vasu English Summary¶
The dual and singular case-affixes are employed severally in the sense of duality and unity.
Vasu English Translation¶
The dual and singular case-affixes are employed severally in the sense of duality and unity. This is also clear. When duality is to be expressed, a dual case-affix should be employed, and in the case of unit, the singular case-affix. Thus ब्राह्मणौ पचतः the two Brahmins cook. ब्राह्मणः पचति the Brahmin cooks.
Kashika¶
द्वित्वैकत्वयोरर्थयोर्द्विवचनैकवचने भवतः। एतदपि सामान्यविहितयोर्द्विवचनैकवचनयोरर्थाभिधानम्। द्वित्वे द्विवचनं भवति, एकत्व एकवचनं भवति। ब्राह्मणौ पठतः। ब्राह्मणः पठति॥
Siddhanta Kaumudi¶
द्वित्वैकत्वयोरेते स्तः ॥
Laghu Siddhanta Kaumudi¶
द्वित्वैकत्वयोरेते स्तः॥
Balamanorama¶
द्व्येकयोर्द्विवचनैकवचने - द्वयेकयोः ।द्वयेकयो॑रिति भावप्रधानो निर्देशः, अन्यथाद्वयके॑ष्विति स्यादित्यभिप्रेत्य व्याचष्टे — द्वित्वैकत्वयोरिति ।
Tattvabodhini¶
द्व्येकयोर्द्विवचनैकवचने - द्वयेकयोः । इहद्वयेक॑शब्दौ सङ्ख्यापरावित्यभिप्रेत्याह — द्वित्वैकत्वयोरिति । सङ्ख्येयपरत्वे तु बहुवचनं स्यादिति भावः ।
Padamanjari¶
द्विशब्देन साहचर्यादेकशब्दः संख्यावाची। अयमपि भावप्रधानो निर्देशः, अत एवठ्द्व्येकयोःऽ इति द्विवचनम्, तदाह-द्वित्वैकत्वयोरिति। एतदपीत्यादि। अनेनास्यापि विध्यर्थत्वं दर्शयति। कथं तर्हि सामान्यविहितयोरिति, यावता नियमार्थत्वे एतद् घटते? उच्यते; साधारणपर्यायः सामान्यशब्दः ससंख्यनिःसंख्यसाधारण्येन विहितयोरित्यर्थः। अर्थाभिधानमिति। अर्थःउवाच्योऽभिधीयतेउकथ्यते येन तदर्थाभिधानम्। द्व्येकयोरितयत्र’संख्याया अल्पीयस्यः’ इत्येकशब्दस्य पूर्वनिपातोऽस्मादेव निपातनान्न भवति। संख्येयवचनष्वेवार्थद्वारकमल्पीयस्त्वमित्यन्ये॥
Nyaas¶
द्व्येकयोः इति। अयमपि भावप्रधानो निर्देशः; अन्यथा हि बहुत्वाद्बहुवचनं स्यात्। भावप्रधाने तु निर्देशे,द्वित्वमेकत्वञ्च द्वावेतावर्थाविति युक्तं द्विवचम्। एतदपि इत्यादिनाऽस्यापि योगस्य विध्यर्थतां दर्शयति। अर्थाभिधानम् इति। अर्थो वाच्योऽभिधीयते येन तदर्थाभिधानम्॥
Prakriyasarvasvam¶
द्वित्वैकत्वयोरर्थयोः क्रमादेते स्तः । इत्येकवचनं सु । कृष्ण सु उलोपः । ‘ससजुषो रुः’ (८-२-६६) इति रुः । ‘खरवसानयोः-’ (८-३-१५) इति विसर्गः । कृष्णः । <karika>सामान्येनैकवचनं वाच्यं नैकत्व एव तत् । सङ्ख्याहीनेऽप्यव्ययादौ तेनैकवचनं भवेत् ॥ ५७५ ॥</karika> द्विवचने त्वर्थद्वित्वाद् द्विष्प्रयोगः । कृष्ण कृष्ण औ । ‘सरूपाणाम्—’ (१–२–६४) इत्येकशेषः । कृष्ण औ ॥
Sarala¶
द्व्येकयोरिति । भाष्यकृता - तु “एकवचनम्” इति सामान्यसूत्रं कृत्वा तस्य बाधकं “द्विबह्वोर्द्विवचनबहुवचने” इति सूत्रं कृत्वा एकपदं प्रत्याख्यातम् । तथा चोच्चैरित्याद्यव्ययेभ्योऽप्येकवचनं सिद्ध्यति । प्रातिपदिकार्थगते एकत्वे विवक्षिते एकवचनं, द्वित्वे विवक्षिते द्विवचनमिति च सूत्रार्थः ॥
Sudha¶
द्व्येकयोरिति । द्व्येकयोरिति भावप्रधाननिर्देशः । अन्यथा द्व्येकेष्विति स्यादित्यभिप्रेत्याह - द्वित्वैकत्वयोरिति ।