14028: अन्तर्द्धौ येनादर्शनमिच्छति

Padacheda: अन्तर्द्धौ | S | 7 | 1 |

येन | S | 3 | 1 |

अदर्शनम् | S | 1 | 1 |

इच्छति | T | | |

Sutrartha

व्यवधानस्य आधारेण यस्मात् अदर्शनम् इष्यते, तत् कारकम् अपादानसंज्ञं भवति । यथा - कृष्णः मातुः निलीयते ।

कारके (1.4.23) इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं पञ्चमं सूत्रम् । यत्र कस्यचित् व्यवधानस्य साहाय्यं स्वीकृत्य “अदर्शनं भवेत्” इति इच्छा विद्यते, तत्र **यस्मात् अदर्शनं भवेत् तस्य अपादानसंज्ञा भवति** । यथा, यदि कृष्णः “माता मां न पश्येत्” इति हेतुना भित्तेः पृष्ठतः तिष्ठति, तर्हि तत्र <ex>कृष्णः मातुः निलीयते</ex> इति प्रयोगः सम्भवति । अत्र कृष्णः “मातृ”पदार्थात् अदर्शनम् इच्छति, अतः प्रकृतसूत्रेण “मातृ”पदार्थस्य अपादानसंज्ञा भवति । एवमेव, <ex>शिष्यः उपाध्यायात् अन्तर्धत्ते</ex> इति प्रयोगः अपि सिद्ध्यति ।

<hlb>अन्तर्धिः</hlb> इति शब्दस्य अर्थः

प्रकृतसूत्रे विद्यमानः अन्तर्धौ इति शब्दः अन्तर्धिः इत्यस्य सप्तम्येकवचनम् अस्ति । अन्तर्धिः इत्युक्ते व्यवधानम् / आच्छादनम् / तिरोधानम् (hinderance / cover etc) । “वृक्षः”, “भित्तिः”, “गौः” इत्यादिकस्य पदार्थस्य व्यवधानरूपेण प्रयोगं कृत्वा “कश्चन माम् न पश्येत्” इति इच्छा यदा क्रियते तदा सः पदार्थः अन्तर्धिः इति नाम्ना ज्ञायते । अस्याः अन्तर्धेः उपस्थितौ, यस्मात् अदर्शनम् इष्यते तस्य प्रकृतसूत्रेण अपादानसंज्ञा दीयते ।

दलकृत्यम्

  1. “अन्तर्धिः” इति किमर्थम् ? यदि व्यवधानं नास्ति तर्हि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, <nex>चौराः माम् न पश्येयुः</nex> इति केवलं इच्छा क्रियते; परन्तु तदर्थम् चौरेभ्यः गूहितुम् अन्तर्धेः आधारः नैव स्वीक्रियते, तत्र प्रकृतसूत्रेण “चौर”पदार्थस्य अपादानसंज्ञा नैव भवति ।

  2. ** “येन” इति किमर्थम् ? ** यः स्वयं भित्त्यादीनां पृष्ठतः स्थित्वा गूहति, तेन कृतस्य अदर्शनस्य विषये अत्र चिन्तनं नास्ति; अपितु यस्मात् गूह्यते सः गूढस्य दर्शनं न कुर्यात् इति अत्र इच्छा वर्तते । The person who is hiding behind a wall etc wishes that the other person should not see him. Whether the hidden person sees the other person is irrelevant here. एतत् स्पष्टीकर्तुम् एव अस्मिन् सूत्रे येन इति शब्दः प्रयुक्तः अस्ति ।

  3. “इच्छति” इति किमर्थम्? ** “अदर्शनम् अभवत् उत न” इति विषयं विना एव, केवलम् **इच्छायाः सन्दर्भेण अपि प्रकृतसूत्रस्य प्रयोगः अवश्यम् सम्भवति - इति स्पष्टीकर्तुम् प्रकृतसूत्रे “इच्छति” इति शब्दः प्रयुक्तः अस्ति । यथा, यत्र कृष्णः “माता मां न पश्येत्” इति हेतुना भित्तेः पृष्ठे गूहति, तत्र “माता वस्तुतः कृष्णम् पश्यति उत न पश्यति” इत्यस्य चिन्तनं विनैव प्रकृतसूत्रस्य प्रयोगं कृत्वा <ex>कृष्णः मातुः निलीयते</ex> इति प्रयोगः अवश्यं सिद्ध्यति, यतः कृष्णस्य मनसि “माता मां न पश्येत्” इति इच्छा तु अवश्यमेव वर्तते ।

** भाष्ये सूत्रस्य प्रत्याख्यानम्**

भाष्यकारेण “इदं सूत्रम् अनावश्यकम् अस्ति” इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् - <source> अयमपि योगः शक्योऽवक्तुम् । कथम् - उपाध्यायादन्तर्धत्त इति ? पश्यत्ययं यदि मामुपाध्यायः पश्यति ध्रुवं मे प्रेषणमुपालम्भो वेति ,स बुद्ध्या सम्प्राप्य निवर्तते । । तत्र ध्रुवमपायेऽपादानम् (1.4.24) इत्येव सिद्धम् । <light>- महाभाष्यम्</light> </source> <ex>छात्रः उपाध्यायात् अन्तर्धत्ते</ex> इत्यादिषु प्रयोगेषु छात्रः “उपाध्यायः मां न पश्येत्” इति हेतुना अन्तर्धेः साहाय्यं स्वीकरोति । इत्युक्ते, आदौ छात्रः उपाध्यायस्य दर्शनात् स्वस्य निवर्तनं चिन्तयति, ततश्च अन्तर्धेः आधारेण “उपाध्यायः मां न पश्येत्” इति इच्छति । अनेन प्रकारेण अत्र अदर्शनक्रियायाम् प्रारम्भे बुद्धिकृतः अपायः अवश्यं वर्तते, अतश्च इदम् उपात्तविषयम् अपादानम् एव मत्त्वा ध्रुवमपायेऽपादानम्>> (1.4.24) इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , तदर्थम् पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते ।

Vasu English Summary

When concealment is indicated, the person whose sight one wishes to avoid, is called अपादान कारक।

Vasu English Translation

When concealment is indicated, the person whose sight one wishes to avoid, is called अपादान कारक। Thus उपाध्यायादन्तर्धत्ते or निलीयते he conceals or hides from the teacher; so that the teacher may not find him out or see him.

Why do we say ‘when concealment is indicated’? Observe चौरात् न दिदृक्षते he does not wish to see the thieves. Here the term chauran is in the accusative case.

Why has the word ichchhati been used in the text? The apadana karaka is to be used there only, where one desires that he should not be seen, yet he shows himself.

Bhashya

अन्तर्द्धौ येनाऽदर्शनमिच्छति (268) अयमपि योगः शक्योऽवक्तुम् । कथम् - उपाध्यायादन्तर्धत्त इति ? पश्यत्ययं यदि मामुपाध्यायः पश्यति ध्रुवं मे प्रेषणमुपालम्भो वेति ,स बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानम् (1.2.24) इत्येव सिद्धम् ॥ 28 ॥

Kashika

व्यवधानमन्तर्धिः। अन्तर्धिनिमित्तं येनादर्शनमात्मन इच्छति, तत् कारकमपादानसंज्ञं भवति। उपाध्यायाद् अन्तर्धत्ते। उपाध्यायाद् निलीयते। मा मामुपाध्यायो द्राक्षीदिति निलीयते। अन्तर्धाविति किम्? चौरान् न दिदृक्षते। इच्छतिग्रहणं किम्? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात्॥

Siddhanta Kaumudi

व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्णः । अन्तर्धौ किम् ? चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ॥

Balamanorama

अन्तर्द्धौ येनादर्शनमिच्छति - अन्तर्धौ । अन्तर्धावित्येतद्व्याचष्टे — व्यवधाने सतीति । व्यवधानेनेति यावत् । यत्कर्तृकस्येति । येनेति कर्तृतृतीयेति भावः । आत्मनो दर्शनस्येति । ‘आत्मन’ इति दर्शनशब्दयोगे कर्मणि षष्ठी । ‘आत्मन’ इत्यध्याहारलभ्यम् । अत एव येनेति कर्तरि तृतीया सङ्गच्छते । अन्यथा कृद्योगषष्ठीप्रसङ्गात् । ‘आत्मन’ इत्यध्याहारे तु उभयप्राप्तौ कर्मण्येवेति नियमान्न कृद्योग९षष्ठी । आत्मशब्देन इच्छतिकर्ता विवक्षितः । व्यवदानेन स्वविषये यत्कर्तृकदर्शनस्य अभावमिच्छतीति यावत् । मातुर्निलीयते कृष्म इति ।लीङ्श्लेषणे॑श्यन्विकरणः । इह तूपसर्गवशाद्व्यवधानेन परकर्तृकस्वविषयकदर्शनविरहानुकूलव्यापारे वर्तते । ततश्च कृष्णो मातृकर्तृकस्वविषयकदर्शनविरहाय कुडआदिना प्रच्छन्नो भवतीत्यर्थः । अत्र व्यवधानमाश्रित्य मातृकर्तृकस्वविषयकदर्शनविरहस्य कृष्णेनेष्यमाणतया मातुरपादानत्वात्पञ्चमी । कर्तृतृतीयापवादोऽयं , षष्ठपवादो वा । भाष्ये तु बुद्धिकृतमपादानत्वमाश्रित्य इदमपि प्रत्याख्यातम् ।

Tattvabodhini

अन्तर्द्धौ येनादर्शनमिच्छति - अन्तर्धौ । येनेति कर्तरि तृतीया । न च कृद्योगषष्ठीप्रसङ्गः,उभयप्राप्तौ कर्मण्येवे ति नियमात् । अत्र ह्रात्मन इति गम्यमानत्वादस्त्युभयोः प्राप्तिः । निलीयत इति ।लिङ् श्लेषणे॑ दैवादिकः । नन्वन्तद्र्धाविति व्यर्थं,न दिदृक्षते चोरो नित्यत्र परत्वात्कर्मसंज्ञासिद्धेः । अत्राहुः — चोराः आत्मानं मा द्राक्षुरिति बुद्द्या चोरन्न दिदृक्षत इत्ययमर्थोऽत्र विवक्षितस्तत्र कर्मणः शेषत्वविवक्षायामिदं पूर्ववत्प्रत्युदाहरणमिति । शब्दकौस्तुभे तुअन्तर्धौ॑ इत्येतच्चिन्त्यप्रयोजनमिति स्थितम् ।

Padamanjari

अन्तर्द्धौ इति नेयं’निमितात्कर्मयोगे’ इति सप्तमी, यथा हि-वेतनेन धान्यं लुनातीत्यत्र वेतनस्य धान्येन योगोऽस्ति,तथेहाप्यदर्शनमिच्छतीतीच्छाकर्मणाऽदर्शनेनान्तर्द्धेर्योगो नास्ति। अथादर्शनस्य यत्कर्म आत्माख्यमात्मनोऽदर्शनमिच्छतीति तेनान्तर्द्धेर्योगोऽस्ति? यस्यैवादर्शनंतस्यैवान्तर्द्धानमित्युच्येत। एवमपि’निमितात्कर्मयोगे’ इति किं निमितं गृह्यते, कारणम्? प्रयेजनं वा? कारणं चेज्जाड।लेन बद्धः- अत्रापि प्राप्नोति, य एव बद्ध्यते तत्रैव जाड।ल्मिति; तस्मात् प्रयोजनस्य तत्र ग्रहणम्। यथा-चर्मणि द्वीपिनं हन्तीति चर्म द्वीपिहननस्य प्रयोजनम्। इह त्वन्तर्द्धानमदर्शनस्य कारणम्, अन्तर्हितः खल्वसौ न द्दश्यते। तस्माद्विषयसप्तम्येषा, सत्सप्तमी वा। येनेति कर्तरि तृतीया। ननु च दर्शनेन योगात्’कर्तृ कर्मणोः कृति’ इति षष्ठ।ल भाव्यम्। उभयप्राप्तौ कर्मण्येवेति नियमात् तृतीया भविष्यति। कम त्वत्रादर्शनस्यात्मा। नन्वात्मने इति न श्रूयते, मा श्रावि; येनादर्शनमिच्छतीत्युक्ते कस्येत्यपेक्षायामात्मन इति गम्यते। अन्तर्द्धिनिमितमिति। अन्तर्द्धिना कारणेनेत्यर्थः।’निमितकारणहेतुषु सर्वासां प्रायदर्शनम्’ इति प्रथमा। अथ वा-बहुब्रीहिरदर्शनस्य समानाधिकरणं विशेषणम्। सूत्रऽनुपातोऽपि तच्छब्दो यतदोर्नित्यसम्बन्धाल्लभ्यत एवेत्याह-तत्कारकमिति। अन्तर्द्धते इति। तिरोभवतीत्यर्थः। निलीयते इति।’लीङ् श्लेषणे’ दैवादिकः। चौरान्न दिद्दक्षते इति। आत्मानं ते मा द्राक्षुरित्येवमर्थम्। ननु परत्वात्कर्मसंज्ञा भविष्यति, सत्यम्; अयमपि प्रपञ्चः, कथम्? पश्यत्येवम्-यद्यौपाध्यायः पश्येद् ध्रुवं मे प्रेषणमुपालम्भो वा भवेदिति, स बुद्ध्या संप्राप्य निवर्तते। येनेत्यस्मिन्नसत्यदर्शनमिच्छतः शिष्यस्यैव स्यात्, ध्रुवमित्यनुवर्तिष्यते। एवं तर्हि सूत्रस्यावाचकत्वं मा भूत्। असति हि तस्मिन्नन्तर्द्धौ ध्रुवमपादानसंज्ञं भवति तच्चेद् ध्रुवमदर्शनमिच्छतीत्यर्थः स्यात्। न च ध्रुवमिच्छति, यच्चेच्छति न तद् ध्रुवमित्यवाचकं स्यात्॥

Nyaas

अन्तर्द्धौ इति निमित्तसप्तमीयम्। निमित्तात् कर्मयोगे (वा-138) इति सप्तमी, यथा - चर्मणि द्वीपिनं हन्तीति। एतदेव ज्ञापकम् - निमित्तात् कर्मसंयोगेऽस्ति सप्तमीति। अस्ति ह्यत्रादर्शनेन कर्मणा संयोगः । येन इति। कर्तरि तृतीया। ननु च कर्त्तृकर्मणोः कृति (2.3.65) इति षष्ठ्या भवितव्यमिति? नैतदस्ति; उभयप्राप्तौ कर्मणि (2.3.66) इति नियमात् कर्मण्येव, न कर्तरि। कर्म त्वत्रादर्शनस्यात्मा, तस्यान्तरङत्वात् स एव कर्म विज्ञायते। तत् कारकम् इति। यद्यप्यत्र सूत्रे तच्छब्दो नोपात्तः, तथापि स यत्तदोर्नित्याभिसम्बन्धाल्लभ्यते। उपाध्यायादन्तर्धत्ते इत्यत्रोपाध्यायेन कर्ता शिष्य आत्मनः कर्मभूतस्यादर्शनमिच्छति। अन्तर्द्धिनिमित्तम्। अन्तर्धत्ते इति दधातेर्लट्,**स्वरितञितः** (1.3.72) इत्यात्मनेपदम्, शपः श्लुः, श्लौ (6.1.10) इति द्विर्वचनम्, श्नाभ्यसत्योरातः (6.4.112) इत्याकारलोपः, अभ्यासस्य जश्त्वम्, दधस्तथोश्च (8.2.38) इति दकारस्य धकारः, परस्य धकारस्य खरि च (8.4.54) इति चर्त्वम् तकारः। निलीयते इति। लीङ श्लेषणे (धातुपाठः-1139) दैवादिकः। चौरान्न दिदृक्षते इति। अत्र यश्चौरान् न दिदृशत इति स तैरात्मनोऽदर्शनमिच्छति, न त्वन्तर्द्धिनिमित्तम्; किन्तूपघातनिवृत्त्यर्थम्। विस्पष्टार्थञ्चान्तर्द्धिग्रहणम् । परत्वात् कर्मसंज्ञयैव बाधितत्वाच्चौराणामिहापादानसंज्ञा न भविष्यति। प्रपञ्चार्थोऽयं योगः, न च प्रपञ्चे गुरुलाघवं चिन्त्यत इत्युक्तम्। उपाध्यायादन्तर्धत्ते शिष्य इति शिष्यस्यान्तर्द्धातुर्मा भूत्, नैतदस्ति; ध्रुवमित्यनुवर्तते, ध्रुवञ्चावधिभूतमित्युक्तम्; न चान्तर्द्धातावधिभूतः। एवं तर्ह्यसति येनेत्येतस्मिन् वचने, सत्यामपि ध्रुवमित्यस्यानुवृत्तौ सूत्रस्यावाचकत्वं स्यात् । अतस्तन्माभूदिति येनेत्युक्तम् ॥

Prakriyasarvasvam

तिरोधाने सति यत्कर्तृकमदर्शनमिष्यते सोऽपादानम् । मातुर्निलीयते कृष्णः ।

Sutra Prayogas

  • रघु-व्याघ्रात्तस्मात्त्वं (भट्टिकाव्यम्): अन्तर्धौ येना इत्यपादानसंज्ञा।

  • मत्तो (भट्टिकाव्यम्): अन्तर्धी इत्यपादानसंज्ञायां पञ्चम्यास्तसिः ।

  • रक्षोभ्यो (भट्टिकाव्यम्): अन्तर्धौ येनादर्शनमिच्छति इति अपादानसंज्ञा।