14037: क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः

Padacheda: क्रुध-द्रुह-ईर्ष्या-असूया-अर्थानाम् | S | 6 | 3 |

यम् | S | 2 | 1 |

प्रति | S | 0 | 0 |

कोपः | S | 1 | 1 |

Sutrartha

क्रुध्, द्रुह्, ईर्ष्य् तथा च असूय - इत्यर्थकानां धातूनां प्रयोगे “यं प्रति कोपः जायते” तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - देवदत्तः यज्ञदत्ताय क्रुद्ध्यति, द्रुह्यति, ईर्ष्यति, असूयति ।

कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं षष्ठं सूत्रम् । अनेन सूत्रेण क्रुध् (क्रोधे) (4.86), द्रुह् (जिघांसायाम्) (4.96), ईर्ष्य् (ईर्ष्यायाम्) (1.588), तथा च असूय (कण्ड्वादिः) - इत्येतेषां विषये सम्प्रदानसंज्ञा विधीयते । एतासाम् क्रियाणाम् कर्ता **यं प्रति कोपं करोति तत् कारकम् प्रकृतसूत्रेण सम्प्रदानसंज्ञं भवति । क्रमेण उदाहरणानि एतानि - <listsp> <li><hlb>1. **क्रुध् (क्रोधे) (4.86)</hlb> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अमर्षः (क्रोधः) इति दत्तः अस्ति । क्रोधस्य प्रथमः सोपानः कोपः अस्ति /hl> इति शास्त्रेषु स्वीकृतम् अस्ति । अतः अत्र **यस्य विषये कोपः जायते (इत्युक्ते, यस्य विषये अग्रे क्रोधः अपि क्रियते) तस्य सम्प्रदानसंज्ञा भवति । यथा - <ex>देवदत्तः यज्ञदत्ताय क्रुध्यति</ex> । <li><hlb>2. द्रुह् (जिघांसायाम्) (4.96)</hlb> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अपकारः इति दीयते । अपकारः इत्युक्ते दुःखजनिका क्रिया । सा क्रिया यया अन्यस्य अहितं भवति, द्रोहः नाम्ना ज्ञायते । अस्य द्रोहस्य मूले अपि कोपः एव वर्तते, अतः यं प्रति कोपः विद्यते (इत्युक्ते यस्य विषये द्रोहः क्रियते) तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । यथा, <ex>देवदत्तः यज्ञदत्ताय द्रुह्यति</ex> । <li><hlb>3. ईर्ष्य् (ईर्ष्यायाम्) (1.588)</hlb> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अ-क्षमा इति दीयते । क्षमा इत्युक्ते तितिक्षा (tolerating something). अक्षमा इत्युक्ते अतितिक्षा (unable to tolerate something) । प्रकृतसूत्रस्य सन्दर्भे इदम् असहनम् “अन्यस्य उत्कर्षस्य, प्रगतेः च विषये” अस्ति । अस्याः ईर्ष्यायाः अपि प्रथमः सोपानः कोपः इत्येव अस्ति इति शास्त्रे निर्दिश्यते । एतादृशः कोपः यं प्रति जायते (इत्युक्ते यस्य विषये अग्रे मनसि ईर्ष्या उत्पद्यते) तस्य निर्देशार्थम् प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । यथा, <ex>देवदत्तः यज्ञदत्ताय ईर्ष्यति</ex> । <li><hlb>4. असूय (कण्ड्वादिः)</hlb> - अयं धातुः कण्ड्वादिगणस्य धातुः अस्ति । असू इति प्रातिपदिकात् कण्ड्वादिभ्यो यक् (3.1.27) इति सूत्रेण यक्-प्रत्यये कृते असूय इति धातुः सिद्ध्यति । काशिकायां, कौमुद्यां च अस्य अर्थः गुणेषु दोष-आविष्करणम् इति दीयते । कस्यचित् गुणेषु अपि दोषदर्शनम्, इत्युक्ते द्वेषवृत्तिः असूया नाम्ना ज्ञायते इति अत्र आशयः । अयमेव अर्थः “असूयति” इति धातुरूपेण अपि प्रकटीभवति । अस्याः** असूयायाः अपि प्रथमसोपानः कोपः एव अस्ति**, अतः यं प्रति कोपः जायते (इत्युक्ते यं प्रति असूया भवति) तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा विधीयते । </listsp>

<hlb>कोपः</hlb> इत्यस्य विषये

प्रकृतसूत्रे निर्दिष्टाः क्रुध्, द्रुह्, ईर्ष्य् तथा च असूय - एतासां क्रियाणाम् अर्थाः यद्यपि पृथक् सन्ति, तथापि एतासु सर्वासु अपि क्रियासु कोपः इति सामान्य-अंशः अवश्यम् विद्यते - इति भाष्यकारः प्रकृतसूत्रे स्पष्टीकरोति । इत्युक्ते, कोपः इति क्रोध-द्रोह-ईर्ष्या-असूयार्थानाम् प्रथमसोपानरूपेण स्वीकृतः अस्ति । अस्मिन् सन्दर्भे भाष्यकारः ब्रूते - <inline>न हि अकुपितः क्रुध्यति, न वा अकुपितः द्रुह्यति, न वा अकुपितः ईर्ष्यति, न वा अकुपितः असूयति </inline> । क्रोधादीनां प्रथमसोपानरूपेण कोपः एव उद्भवति, अतएव प्रकृतसूत्रे <hl>यं प्रति कोपः** इति निर्देशः लभ्यते - इति अत्र भाष्यकारस्य आशयः वर्तते । अस्याः एव कोपावस्थायाः वर्णनं कुर्वन् कैयटः ब्रूते - <inline>अननद्भूता कोपावस्था</inline> । कोपावस्थायां केवलं चित्ते परिवर्तनं भवति, मुखे, शरीरे च न किञ्चन परिवर्तनं दृश्यते इति अत्र कैयटस्य आशयः अस्ति । अग्रे द्वितीये सोपाने क्रोध-द्रोह-ईर्ष्या-असूयासु तु मुखे अपि परिवर्तनं भवति - यथा, नेत्रे स्फुरतः, ध्वनिः उन्नतः भवति, मुखे रक्तवर्णः वर्धते - इत्यादिकम् । अतएव अस्य वर्णनं कैयटेन इत्थं क्रियते - <inline> द्वितीया च उद्भूता विकृतवाक्कायव्यापार-अनुमीयमाना </inline> इति ।

<hlb>क्रुधद्रुहेर्ष्यासूयार्थ:</hlb> इति शब्दस्य विषये

सूत्रे प्रयुक्तः क्रुधद्रुहेर्ष्यासूयार्थानाम् इति शब्दः क्रुधद्रुहेर्ष्यासूयार्थ इत्यस्य षष्ठीबहुवचनम् अस्ति । क्रुधद्रुहेर्ष्यासूयार्थ इत्यत्र क्रुध, द्रुह, ईर्ष्य तथा च असूय इत्येतेषां इतरेतरद्वन्द्वसमासः विद्यते । क्रुधश्च द्रुहश्च ईर्ष्या च असूया च इति क्रुधद्रुहेर्ष्यासूयाः । अस्य च अग्रे “अर्थ” इत्यनेन सह क्रुधद्रुहेर्ष्यासूयाः अर्थः येषाम् ते इति बहुव्रीहिसमासे कृते क्रुधद्रुहेर्ष्यासूयार्थ इति प्रातिपदिकं सिद्ध्यति । अस्मिन् प्रातिपदिके विद्यमानस्य द्वन्द्वसमासस्य अन्ते “अर्थ” इति यत् पदं स्थापितम् अस्ति, तत् द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते इति न्यायेन समासस्य प्रत्येकं पदेन सह अन्वेति । अतः अत्र क्रुधार्थाः, द्रुहार्थाः, ईर्ष्यार्थाः तथा च असूयार्थाः इति अर्थः सिद्ध्यति । अतएव, केवलं क्रुध्-द्रुह्-ईर्ष्य्-असूय-धातूनां विषये एव न, अपितु अस्मिन्नेव अर्थे प्रयुज्यमाणानाम् अन्येषां धातूनां सन्दर्भे अपि प्रकृतसूत्रेण अवश्यं सम्प्रदानसंज्ञा भवितुम् अर्हति । यथा - <ex>देवदत्ताय भामते</ex>, <ex>देवदत्ताय अपराध्यति</ex>,<qt>देवदत्ताय सूर्क्ष्यति</ex>, <ex>देवदत्ताय ईर्क्ष्यति</ex> इत्यादिषु वाक्येषु अपि प्रकृतसूत्रस्य प्रयोगः अवश्यं भवति ।

**कुप्-धातोः विषये प्रकृतसूत्रस्य प्रयोगः**

दिवादिगणस्य कुप् (क्रोधे) (4.146) धातोः विषये प्रकृतसूत्रस्य प्रयोगः भवेत् वा - अस्मिन् विषये वैयाकरणेषु मतान्तराणि विद्यन्ते । नागेशः लघुशब्देन्दुशेखरे <inline>कुप्-धातोः योगे प्रकृतसूत्रस्य प्रयोगः न भवति</inline> इति स्पष्टीकृत्य षष्ठी शेषे (2.3.50) इत्यनेन षष्ठीविभक्तेः प्रयोगं कृत्वा <nex>देवदत्तस्य कुप्यति</nex> इत्यस्य प्रयोगस्य साधुत्वं प्रतिपादयति । बालमनोरमायाम् अपि अस्यैव पक्षस्य समर्थनं कृत्वा उच्यते - <inline>कुप्यति कस्मैचित् इत्यादि असाधु एव - कोपमूलकत्व-अभावात्, क्रुध्यार्थक-अभावात् च </inline> । कुप्-धातोः विषये प्रथमसोपानात् अनन्तरम् क्रोधादिकः द्वितीयः सोपानः नैव वर्तते, अतः तस्य विषये प्रकृतसूत्रस्य प्रयोगः नैव करणीयः - इति बालमनोरमाकारस्य अत्र आशयः अस्ति । परन्तु माधवीयधातुवृत्तौ, प्रक्रियासर्वस्वग्रन्थे च <ex>हरये कुप्यति</ex>, <ex>देवदत्ताय कुप्यति</ex> इत्यादीनि उदाहरणानि अपि साधुरूपेण प्रदर्शितानि लभ्यन्ते, अतः एतेषां ग्रन्थकर्तॄणां मतेन कुप्-धातोः सन्दर्भेण अपि प्रकृतसूत्रस्य प्रयोगः अवश्यं भवितुम् अर्हति । तत्त्वबोधिन्याम्, वैयाकरणभूषणसारे तु द्वौ अपि पक्षौ प्रदर्शितौ स्तः । <note>कुप्-धातुः अकर्मकः अस्ति, अतः “देवदत्तम् कुप्यति” इति प्रयोगः तु सर्वथा अनुचितः एव ज्ञेयः ।</note>

**द्विष्-धातोः विषये प्रकृतसूत्रस्य प्रयोगः**

अदादिगणस्य द्विष् (अप्रीतौ) (2.3) अस्य धातोः मूलः अर्थः अप्रीतिः = अनभिनन्दनम् = निन्दा इति अस्ति । अयम् अर्थः “क्रोधः, द्रोहः, ईर्ष्या, असूया” - इत्येतेभ्यः पृथक् वर्तते । अतश्च, द्विष्-धातोः विषये प्रकृतसूत्रस्य प्रयोगः नैव करणीयः इत्यत्र वैयाकरणवृन्दे ऐकमत्यं वर्तते । अमुम् एव विषयम् स्पष्टीकुर्वन् तत्त्वबोधिनीकारः ब्रूते - <inline> द्विषादौ अतिप्रसङ्गवारणाय विशिष्य उपादानम् </inline> । द्विष्-इत्यादिकानां भिन्नार्थक-धातूनां योगे प्रकृतसूत्रस्य प्रयोगः मा भूत् - इति स्पष्टीकर्तुम् एव अत्र क्रुधादीनां विशेषरूपेण ग्रहणं कृतम् अस्ति - इति अत्र पदमञ्जरीकारस्य आशयः वर्तते । अतएव <nex>यो अस्मान् द्वेष्टि, यं च वयं द्विष्मः</nex> इत्यादिषु वाक्येषु प्रकृतसूत्रस्य प्रयोगः न भवति ।

दलकृत्यम्

  1. **क्रुधद्रुहेर्ष्यासूयार्थानाम् इति किमर्थम् ? ** ** द्विष्-इत्यादीनां विषये प्रकृतसूत्रस्य प्रयोगः मा भूत् **। यथा - <nex>यो अस्मान् द्वेष्टि</nex> इत्यत्र प्रकृतसूत्रेण सम्प्रदानत्वं नैव विधीयते ।

  2. यं प्रति कोपः इति किमर्थम् ? ** **यत्र केवलम् ईर्ष्या (असहनम्) वर्तते, परन्तु सा ईर्ष्या कमपि उद्दिश्य नास्ति, तत्र कोप-अभावात् प्रकृतसूत्रस्य प्रयोगः मा भूत् । यथा, कश्चन देवदत्तः स्वस्य भार्यायाः अन्यैः कृतं वीक्षणम् नैव सहते चेत् तस्य मनसि भार्यायाः कृते असूया (असहनम्) अवश्यं वर्तते परन्तु तत्र विशेषरूपेण कस्यापि कृते कोपः नास्ति । अस्यां स्थितौ प्रकृतसूत्रस्य प्रयोगः न भवति, अतः <nex>भार्याम् ईर्ष्यति, मा एनाम् अन्यः द्राक्षीत्</nex> (He is intolerent towards his wife being seen by others) अस्मिन् वाक्ये प्रकृतसूत्रस्य उपयोगः न भवति ।

**क्रुध् तथा द्रुह् धात्वोः विषये बाध्यबाधकभावः**

क्रुध् (क्रोधे) (4.86) तथा च द्रुह् (जिघांसायाम्) (4.96) एतौ धातू यदि उपसर्गेण सह प्रयुज्येते, तर्हि तयोः सन्दर्भे यं प्रति कोपः वर्तते तस्य प्रकृतसूत्रेण प्राप्तां सम्प्रदानसंज्ञां बाधित्वा क्रुधद्रुहोरुपसृष्टयोः कर्म (1.4.38) इति अग्रिमसूत्रेण कर्मसंज्ञा विधीयते । यथा - <nex>देवदत्तम् अभिक्रुध्यति</nex>, <nex>देवदत्तम् अभिद्रुह्यति</nex> । उपसर्गं विना प्रयुक्तयोः एतयोः विषये तु प्रकृतसूत्रस्य प्रयोगः अवश्यमेव भवति, यथा - <ex>देवदत्ताय क्रुध्यति</ex>, <ex>देवदत्ताय द्रुह्यति</ex> इति ।

Vasu English Summary

In the case of the verbs having the sense of क्रद्ध् ‘to be angry’, द्रुह् ‘to injure’, ईर्ष्या ‘to envy’, असूया ‘to detract’, the person against whom the feeling of anger etc. is directed is called सम्प्रदान।

Vasu English Translation

In the case of the verbs having the sense of क्रद्ध् ‘to be angry’, द्रुह् ‘to injure’, ईर्ष्या ‘to envy’, असूया ‘to detract’, the person against whom the feeling of anger etc. is directed is called सम्प्रदान। Krudh means non-tolerance, droha means doing wrong or hurt, irshya jealousy; and asuya means to find out the faults of another. The word kopa includes all the above four sorts of actions. As देवदत्ताय क्रुध्यति-द्रुह्यति-ईर्ष्यति or असूयति he is angry upon, (i. e. with) or bears malice to, or is jealous of, or finds out the faults of Devadatta. Here Devadatta is in the Dative case.

Why do we say ‘against whom the feeling of anger is directed.’ Be if there be no feeling of anger, then these verbs will not govern the dative case, but the accusative. Thus भार्यामीर्ष्यति he is jealous of his wife, i.e., does not wish her to be seen by others. Here the word bharya is in the accusative case.

Bhashya

क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः किमेत एकार्थाः, आहोस्विन्नानार्थाः ? किं चातः ? यद्येकार्थाः किमर्थं पृथङ्निर्दिश्यन्ते ? अथ नानार्थाः, कथं कुपिना शक्यन्ते विशेषयितुम् ? एवं तर्हि नानार्थाः, कुपौ त्वेषां सामान्यमस्ति । नह्यकुपितः क्रुध्यति, न वाऽकुपितो द्रुह्यति, न वाऽकुपित इर्र्ष्यति, न वाऽकुपितोऽसूयति ॥ 37 ॥

Kashika

अमर्षः क्रोधः। अपकारो द्रोहः। अक्षमेर्ष्या। गुणेषु दोषाविष्करणमसूया। क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः, तत् कारकं संप्रदानसंज्ञे भवति। क्रोधस्तावत् कोप एव, द्रोहादयोऽपि कोपप्रभवा एव गृह्यन्ते। तस्मात् सामान्येन विशेषणं यं प्रति कोप इति। देवदत्ताय क्रुध्यति। देवदत्ताय द्रुह्यति। देवदत्तायेर्ष्यति। देवदत्तायासूयति। यं प्रति कोप इति किम्? भार्यामीर्ष्यति, मैनामन्यो द्राक्षीदिति॥

Siddhanta Kaumudi

क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति । द्रुह्यति । ईर्ष्यति । असूयति । यं प्रति कोपः किम् ? भार्यामीर्ष्यति मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्याऽक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रुहादयोऽपि कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन यं प्रति कोप इति ॥

Balamanorama

क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः - क्रुधाद्यर्थानामिति । क्रुध क्रोधे, द्रुह द्रोहे श्यन्विकरणौ । ईर्ष्य ईर्ष्यायां शब्विकरणः । असूञ् उपतापे कण्ड्वादिः । एषामर्था एवार्था येषामिति विग्रहः । हरये क्रुध्यतीति ।रावणादिरिति शेषः । हरिविषयकं कोपं करोतीत्यर्थः । घातेच्छासमनियतश्चित्तवृत्तिविशेषः कोपः । अकर्मकत्वात्षष्ठी प्राप्ता । द्रुह्यतीति । कोपाद्धरिविषयकमपकारं करोतीत्यर्थः । अकर्मकत्वात्षष्ठी प्राप्ता । अपकारो दुःखजनिका क्रिया । धात्वर्थोपसङ्ग्रहादकर्मकः । ईर्ष्यतीति । ईर्ष्या असहनम् । हरिं कोपान्न सहत इत्यर्थः । कर्मणि द्वितीया प्राप्ता । असूयति वेति । असूया गुणेषु दोषारोपः । यथाविहितकर्माचारे दम्भादिकृत्वारोपणम् । इह कोपाद्धरिं दुर्गुणं मन्यत इत्यर्थः । मैनामिति । एनां भार्यामन्यो न पश्येदित्येतदर्थं भार्यागुणेषु दोषारोपणं करोतीत्यर्थः । नात्र भार्यां प्रति कोपः, किन्तु परेण दृश्यमानां तां न सहत इत्येव विवक्षितमिति बोध्यम् । एवंच क्रोधद्रोहेर्ष्यासूयानां कोपमूलकत्व एवेदमिति भाष्ये स्थितम् । तथा च कुप्यति कस्मैचिदित्याद्यसाध्वेव, कोपमूलकत्वाभावात्क्रुधार्थकत्वाऽभावाच्च । प्ररूढकोप एव हि क्रोधः, न ह्यकुपितः क्रुध्यति इति भाष्यात् ।

Tattvabodhini

क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः - क्रुधे क्रोधे, द्रुह जिघांसायाम्, ईर्ष्य ईर्ष्यायाम्, असूयतिः कण्ड्वादियगन्तः, एषामर्थ इवार्थे येषां धातूनामित्यर्थः । द्रोहोऽपकार इति । द्रुह द्रोहे इति पाठाभिप्रायेणोक्तं, जिघांसाद्रोह एवेत्यर्थतोऽनुभाषणं वा । अक्षमेति । परसंपत्त्यसहनमित्यर्थः । क्रुधद्रुहोरकर्मकत्वात्तद्योगे षष्ठी प्राप्ता, अन्ययोस्तु सकर्मकत्वाद्द्वितीया प्राप्ता । ननु चित्तदोषार्थानामित्येवास्तु, किं क्रोधादीनां विशिष्योपादानेनेति चेदत्राहुः — द्विषादावतिप्रसङ्गवारणाय विशिष्योपादानम् । तेन योऽस्मान्द्वेष्टि यं च वयं द्विष्मः इत्यत्र चतुर्थी न भवति । तत्र ह्यनभिनन्दनं द्विषेरर्थः । अत एवाऽचेतनेषु न प्रयुज्यते — औषधं द्वेष्टि देवदत्त इति । कोपप्रभवा एवेति । कथं तर्हि कुप्यसि कस्मैचिदिति । न हि कोपः कोपप्रभवः । अत्र व्याचख्युः — कुपिरत्र द्रोहार्थ इति । पत्ये शेते इतिवत् ‘क्रियया यम्’ इत्येव सिद्धे क्रुधद्रुहोर्ग्रहणं चिन्त्यप्रयोजनमित्याहुः ।

Padamanjari

गुणेष्विति। शौचाचारादिषुः दाषा विष्करणमिति। दम्भादिदोषाध्यास इत्यर्थः। तत्र क्रुधद्रुहावकर्मकाविति कारकशेषत्वान्नटस्य शृणोतीतिवत् षष्ठ।लं प्राप्तायां वचनम्, इतरयोस्तु सकर्मकत्वाद् द्वितीया प्राप्नोति। अत्र च चितदोषरूपत्वं यद्यपि क्रोधादीनामविशिष्टम्, तथाप्यन्येषामेवञ्जातीयकानां द्वेषादीनामग्रहणार्थमवान्तरभेदविवक्षया पृथगिमे निर्दिष्टाः, न तु चितदोषार्थानामिति। तेनास्मान् द्वेष्टीत्यत्र न भवति, अनभिनन्दनं ह्यस्यार्थः। तथा चाचेतनेष्वपि प्रयुज्यते - औषधं द्वेष्टीति। कथं पुनरेकेन क्रुधिना सर्वे क्रुधादयः शक्या विशेषयितुमत आह - क्रोधस्तावदिति। भार्यामीर्ष्यतीत्यत्र केवलं परैर्द्दश्यमानां भार्यां, न तु तां प्रति कोपः॥

Nyaas

क्रुधद्रुहावकर्मकौ, तत्र षष्ठ्यां प्राप्तायामयमारम्भः ; इतरौ सकर्मकौ, तत्र द्वितीयायां प्राप्तायाम् । कथं पुनरेषां भिन्नार्थत्वे सति ‘यं प्रति कोपः’ इति सामान्येन तद्विशेषणमुपपद्यत इत्याह - क्रोधस्तावत् इत्यादि। सुगमम् । क्रुद्ध्यति, द्रुह्रति इति। क्रुध कोपे(धातुपाठः-1189), द्रुह जिघांसायाम् (धातुपाठः-1197) दैवादकौ। ईर्ष्यति इति। ईर्क्ष सूर्क्ष ईर्ष्य ईर्ष्यार्थाः । असूयति इति। असूयशब्दः कण्ड्वादियगन्तः। भार्यामीर्ष्यति इति । अस्ति भार्यायामीर्ष्या, न तु तां प्रति कोपः। केवलं परैर्दृश्यमानां तां न क्षमते। अथास्मिन् द्वेष्टीत्यत्र कथं न भवति सम्प्रदानसंज्ञा? द्विषेरक्रोधाद्ययर्थत्वात्। अप्रीतौ ह्येनं स्मरन्ति; तथा चाचेतनेष्वपि प्रयुज्यते - औषधं द्वेष्टीति। नाभिनन्दतीति गम्यते ॥

Praudhamanorama

क्रुध कोपे, द्रुह द्रोहे, ईर्ष्य ईर्ष्यायाम्। असूयेति कण्ड्वादियगन्तः। एषामर्थ इवार्थो येषां धातूनामित्यर्थः। तत्र क्रोधोऽमर्षः, द्रोहोऽपकारः, ईर्ष्या असहनम्, असूया तु गुणेषु दोषारोपः। क्रुधद्रुहोरकर्मकत्वात्तद्योगे षष्ठी प्राप्ता, अन्ययोः सकर्मकत्वाद् द्वितीया प्राप्ता।

Prakriyasarvasvam

एषां प्रयोगे कोपविषयः सम्प्रदानम् । हरये क्रुध्यति चैद्यो द्रुह्यति चेर्ष्यत्यसूयति द्वेषात् । पूजाद्यसहनमीर्ष्या गुणेषु दोषप्रकल्पनासूया ।। ५३५ ।। <karika>अकोपविषयत्वे तु न स्यादीर्ष्यति वल्लभाम् । तां परैर्दृश्यमानां न क्षमते कामतो हि तत् ॥ ५३६ ॥</karika>

Sutra Prayogas

  • तस्मै (रघुवंशम्): क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः इति संप्रदानसंज्ञायां चतुर्थी।

  • भर्त्रे (रघुवंशम्): स्पृहेरीप्सितः इति संप्रदानत्वाञ्चतुर्थी।

  • आसन्नद्विपपदवीमदानिलाय (किरातार्जुनीयम्): क्रुधद्रुह- इत्यादिना संप्रदानत्वाच्चतुर्थी।

  • यूनः (किरातार्जुनीयम्): क्रुधद्रुह- इत्यादिना अत्र संप्रदानत्वे चतुर्थी न।

  • तपस्यते (किरातार्जुनीयम्): क्रुधद्रुह- इत्यादिना संप्रदानत्वाच्चतुर्थी ।

  • न्यसनाय (शिशुपालवधम्): क्रुधद्रुह- इत्यादिना संप्रदानसंज्ञा।

  • द्रुह्यद्भ्योऽपि (भट्टिकाव्यम्): क्रुध - द्रुह इति सम्प्रदानत्वम् ।

  • सीतायै (भट्टिकाव्यम्): क्रुध- द्रुह इत्यादिना सम्प्रदानम्।

  • भर्त्रे (भट्टिकाव्यम्): क्रुध - द्रुह इत्यादिना सम्प्रदानसंज्ञा।