14020: अयस्मयादीनि च्छन्दसि¶
Padacheda: अयस्मय-आदीनि | S | 1 | 3 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
‘अयस्मय’ आदयः शब्दाः वेदेषु साधवः ज्ञेयाः ।
वेदेषु विद्यमानेषु अयस्मय, ऋक्वता, वाजिनेषु इत्यादिषु केषुचित् शब्देषु भसंज्ञासम्बन्धि तथा च पदसंज्ञासम्बन्धि कार्यम् प्राप्तम् अपि नैव कृतं दृश्यते । तथापि एतादृशाः वैदिकवाङ्मये विद्यमानाः शब्दाः यथानिर्दिष्टम् प्रकारेण एव साधवः ज्ञेयाः - इति ज्ञापयितुम् प्रकृतसूत्रम् रचितम् अस्ति । अयस्मयादीनि शब्दरूपाणि वेदेषु साधूनि ज्ञेयानि - इति अस्य सूत्रस्य अर्थः । एतेषाम् अयस्मयादीनाम् विशिष्टा आवली व्याख्यानेषु नैव उपलभ्यते, अपितु कानिचन एव उदाहरणानि दत्त्वा, ततश्च अयस्मयादिगणः आकृतिगणः अस्ति इति निर्देशः कृतः दृश्यते । वेदेषु दृष्टाः अन्ये शब्दाः, येषु भसंज्ञाविशिष्टं पदसंज्ञाविशिष्टं वा किञ्चन कार्यम् न प्रवर्तते, ते अपि सर्वे अस्मिन् गणे समावेष्टव्याः - इति अस्य निर्देशस्य आशयः । अस्मिन्नेव सन्दर्भे अत्र भाष्यकारः एकं वार्त्तिकम् अपि पाठयति - <!उभयसंज्ञानि अपि इति वक्तव्यम्!> । अयस्मयादीनाम् सिद्धौ प्रकृतेः पदसंज्ञा/भसंज्ञा इति उभये अपि संज्ञे यथायोग्यम् (यत्र आवश्यकम् तत्र) साधु मन्तव्ये - इति अस्य वार्त्तिकस्य आशयः ।
उदाहरणानि
अयस्मयादिगणस्य केषाञ्चन शब्दानां सिद्धिः अधः दत्ता अस्ति — <listsp> <li><hlb>1. अयस्मय</hlb> - “अयसः विकारः” (made of iron) अस्मिन् अर्थे “अयस्” इति शब्दात् द्व्यचश्छन्दसि (4.3.150) इति सूत्रेण “मयट्” इति तद्धितप्रत्ययः विधीयते । अस्मिन् प्रत्यये परे “अयस्”-शब्दस्य वस्तुतः स्वादिष्वसर्वनामस्थाने (1.4.17) इति पदसंज्ञा भवेत्, तथा च पदसंज्ञाविशिष्टम् रुत्वकार्यम् अपि अत्र विधीयेत । परन्तु “अयस्मय” इति शब्दस्य सिद्धौ एतत् कार्यं नैव प्रवर्तते । अतः अत्र “अयस्” शब्दस्य <!उभयसंज्ञानि अपि इति वक्तव्यम्!> इति वार्त्तिकेन भसंज्ञा एव भवति इति मत्त्वा अन्तिमं रूपं साध्यते । यथा -
अयस् + मयट् [**द्व्यचश्छन्दसि** (4.3.150) इति सूत्रेण मयट्-प्रत्ययः ]
→ अयस्मय [**अयस्मयादीनि च्छन्दसि** (1.4.20) इति सूत्रसामर्थ्यात् अयस्-शब्दस्य **भसंज्ञां स्वीकृत्य** अत्र केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति । ]
भाषायाम् तु सकारस्य रुत्वे उत्वे च कृते “अयोमयम्” इत्येव प्रयोगः साधु स्वीकर्तव्यः । <li><hlb>2. ऋक्वता </hlb> - स सुष्टुभा स ऋक्वता गणेन (ऋग्वेदः - 4.50.5) इत्यत्र विद्यमानः “ऋक्वता” इति शब्दः “ऋक्वत्” इति प्रातिपदिकात् सिद्ध्यति । “ऋक्वत्” इति प्रातिपदिकं स्वयम् “ऋच्” इति शब्दात् “मतुँप्” प्रत्ययं कृत्वा साधितम् अस्ति । अत्र “ऋच् + मतुँप्” इति प्रक्रियायाम् एकस्मिन् सोपाने “ऋच्”-शब्दस्य सन्दर्भेण पदसंज्ञाविशिष्टं कार्यम्, तथा च अग्रिमे सोपाने तस्यैव भसंज्ञां मत्त्वा पदसंज्ञायाः निषेधः - इति उभयथा कृतं दृश्यते । प्रक्रिया इयम् —
ऋक् अस्य अस्ति
= ऋच् + मतुँप् [**तदस्यास्त्यस्मिन्निति मतुप्** (5.2.94) इति मतुँप्-प्रत्ययः ।]
→ ऋच् + वत् [**झयः** (8.2.10) इति मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः ]
→ ऋक् + वत् [वत्-प्रत्यये परे प्रकृतेः **पदसंज्ञायां सत्याम्** **चोः कुः** (8.2.30) इति कुत्वम् ।]
→ ऋक्वत् [वत्-प्रत्यये परे प्रकृतेः **भसंज्ञाम् अपि स्वीकृत्य, तेन पदसंज्ञायाः बाधनात्**, पदसंज्ञायाः अभावे **झलां जशोऽन्ते** (8.2.39) इति जश्त्वं न प्रवर्तते ]
<li><hlb>3. वाजिनेषु </hlb> - नैनं हिन्वन्त्यपि वाजिनेषु (ऋग्वेदः - 10.71.05) इत्यत्र विद्यमानः “वाजिनेषु” इति शब्दः “वाजिन” इति शब्दस्य सप्तमीबहुवचनम् अस्ति ।अयम “वाजिन” इति शब्दः “वाचाम् इनः (प्रभुः)” इति अर्थे षष्ठीतत्पुरुषसमासं कृत्वा सिद्ध्यति । अत्र समस्तपदनिर्माणस्य प्रक्रियायाम् “वाच् + इन” इत्यत्र यद्यपि “इन” इति प्रत्ययः नास्ति, तथापि आदौ भसंज्ञां कृत्वा तया पदसंज्ञायाः बाधं कृत्वा पदसंज्ञाविशिष्टं कुत्वं निषिध्यते, ततश्च अग्रिमसोपाने पुनः पदसंज्ञां कृत्वा तत्रैव जश्त्वं विधीयते । प्रक्रिया इयम् -
वाचाम् इनः [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषसमासः]
→ वाच् इन [**कृत्तद्धितसमासाश्च** (1.2.46) इति समस्तपदस्य प्रातिपदिकसंज्ञा । अतः **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति वाच्-शब्दात् विहितस्य, इन-शब्दात् विहितस्य च विभक्तिप्रत्ययस्य लुक् भवति ।]
→ वाच् इन [वाच्-शब्दस्य **भसंज्ञां स्वीकृत्य, तया पदसंज्ञायाः बाधे कृते**, अत्र पदसंज्ञाविशिष्टम् **चोः कुः** (8.2.30) इति कुत्वं न भवति ।]
→ वाज् इन [कुत्वनिषेधात् अनन्तरम् वाच्-शब्दस्य **पदसंज्ञां स्वीकृत्य**, **झलां जशोऽन्ते** (8.2.39) इति पदसंज्ञाविशिष्टम् जश्त्वम् अत्र प्रवर्तते ।]
→ वाजिन
</listsp>
**वृद्धिराजैदङे्गुणः इति संहितापाठे अस्य सूत्रस्य प्रयोगः**
छन्दोवत्सूत्राणि भवन्ति इति वचनेन अष्टाध्याय्याः सूत्राणि अपि छन्दोवत् (वेदसदृशानि) एव स्वीक्रियन्ते । अतः अयस्मयादीनि च्छन्दसि (1.4.20) इति सूत्रस्य प्रयोगः अष्टाध्याय्याः सूत्राणां विषये अपि भवितुम् अर्हति । यथा, अष्टाध्याय्याः प्रथमम् सूत्रम् - वृद्धिरादैच् (1.1.1) - इत्यत्र पदान्ते चकारः विद्यते, अतः अत्र वस्तुतः अत्र चोः कुः (8.2.30) इति अस्य चकारस्य कुत्वं प्रसज्यते । परन्तु इदं सूत्रम् अपि अयस्यमादिषु एव स्वीकृत्य, अयस्मयादीनि च्छन्दसि (1.4.20) इति सूत्रेण अत्र कुत्वस्य समये पदसंज्ञां बाधित्वा भसंज्ञा विधीयते, येन अत्र कुत्वं निषिध्यते । अग्रे संहितापाठे इदं सूत्रम् अग्रिमसूत्रेण (इत्युक्ते अदेङ् गुणः (1.1.2) इत्यनेन) सह यदा उच्चार्यते, तदा “आदैच्” इत्यस्य पुनः पदसंज्ञां स्वीकृत्य झलां जशोऽन्ते (8.2.39) इत्यनेन जश्त्वे कृते वृद्धिरादैजदेङ्गुणः इति शब्दः सिद्ध्यति ।
Sutrartha (English)¶
The ‘अयस्मय’ and other words should be considered valid words in the वैदिक literature.
Vasu English Summary¶
Words like अयस्मय etc. are valid forms in the छन्दस्।
Vasu English Translation¶
Words like अयस्मय etc. are valid forms in the छन्दस्। These words being taught here in the topic relating to pada and Bha, show that they have been properly forced in the chhandas by the application of the rules of Bha and pada. Thus अयस् + मय = अयस्मय made of iron. Here the word अयस् is treated as Bha and hence the स् is not changed into र. Thus अयस्मयं वर्म iron-made coat of mail. अयस्मयानि पात्राणि iron vessels. The present form of this word is अयोमयं. In some places both these pada and Bha apply simultaneously. Thus in the word ॠक्वत् formed by ऋच् + वत्, the च् is first changed into क् by treating the word rich as a pada. Then the word ॠक् is treated as Bha, and therefore the क् is not changed into ग् before वत्. For had it been pada, the form would have been ॠग्वत् Rigvat. These irregularly formed words occur only in the chhandas or Vedic literature. Thus स सुष्टुभास ऋक्वता गणेन.
Bhashya¶
अयस्मयादीनि च्छन्दसि (260) उभयसंज्ञान्यपि॥ 1 ॥ उभयसंज्ञान्यपीति वक्तव्यम् । स सुष्टुभा स ऋक्वता गणेन ॥ 20 ॥
Kashika¶
अयस्मयादीनि शब्दरूपाणि छन्दसि विषये साधूनि भवन्ति। भपदसंज्ञाधिकारे विधानात् तेन मुखेन साधुत्वमयस्मयादीनां विधीयते। अयस्मयं वर्म (पै०सं० १.३.७.५)। अयस्मयानि (कौ०सू० ८१.१८) पात्राणि। क्वचिदुभयमपि भवति। स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ (ऋ० ४.५०.५)। पदत्वात् कुत्वं भत्वाज् जश्त्वं न भवति। छन्दसीति किम्? अयोमयं वर्म। आकृतिगणोऽयम्।
Siddhanta Kaumudi¶
एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोग्यं संज्ञाद्वयं बोध्यम् । तथा च वार्तिकम् ॥<! उभयसंज्ञान्यपीति वक्तव्यमिति !> (वार्तिकम्) ॥ स सुष्टुभा स ऋक्वता गणेन (स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑) । पदत्वात्कुत्वम् । भत्वाज्जश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् । नैनं हिन्वन्त्यपि वाजिनेषु (नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु) । अत्र पदत्वाज्जश्त्वम् । भत्वात्कुत्वाभावः । ते प्राग्धातोः (SK2230) ॥
Padamanjari¶
यदि संज्ञा विधीयेत आनन्तर्थाद्भसंज्ञाविधानद्वारेणैव निपातनं स्यात्, पदसंज्ञा न स्याद्, भपदसंज्ञयोः समावेशो न स्यात्, तस्मात्साधुत्वमेव युक्तं विधातुमिति मत्वाह-अयस्मयादिनीत्यादि। साधुत्वे प्रकारविशेषं दर्शयति। भपदसंज्ञाधिकार इत्यादि। द्वारमूपायः। अयस्मयमिति। अयसो विकारः’द्व्यचश्च्छन्दसि’ इति मयट्॥
Nyaas¶
यद्यत्र भसंज्ञा विधीयेत तदा पदसंज्ञा न स्यात्, अथ यदि पदसंज्ञा विधीयेत तदाऽत्र भसंज्ञा न स्यात्, तदा भपदसंज्ञयोः समावेशो न स्यात्; एकसंज्ञाधिकारात्। साधुत्वविधाने त्वेष दोषो न भवति, तद्धि केषाञ्चिद्भसंज्ञा विधीयते पदसंज्ञकानाम्, केषाञ्चिदुभयसंज्ञाकानाम्; तस्मात् साधुत्वमेव विधातुं युक्तमित्यत आह - अयस्मयादीनि इत्यादि। कथं पुनरेषां साधुत्वं विधीयत इत्याह - भपदसंज्ञाधिकारे इत्यादि। द्वारम्, मुखम्, उपाय तत्र भाषाग्रहणमस्ति, तथाप्ययस्मयशब्दस्यास्मादेव साधुत्वविधानाच्छन्दस्यपि मयड् भवतीति भत्वाद्रुत्वं न भवति। सऋक्वता इति। ऋचोऽस्य सन्तीति मतुप्। पदत्वात् चोः कुः 8.3.30) इति कुत्वम्। भत्वात् झलां जशोऽन्ते (8.2.39) इति जश्त्वं न भवति। आकृतिगणोऽयम् इति। आदिशब्दस्य प्रकारवाचित्वात्॥
Prakriyasarvasvam¶
एतानि भपदकार्यवन्ति निपात्यन्ते । अयस्मयस्तमादामेति । अयस्मयानि पात्राणीति भत्वात् रुत्वाभावः । एवं चमोऽन्नभस्मयम् । वृषभः ककुद्मानित्यत्र “तसौ मत्व” (१-४-१९) इति भत्वं विना पदत्वाज्जश्त्वम् । स ऋष्वता गणेनेत्यत्र पदत्वात्कुत्वं भत्वाज्जश्त्वम् नेत्युभयम् । ‘पुनश्चनसोश्छन्दसि गतित्वं- वाच्यं’ (वा. १-४-६०) पुनर्दायब्रह्मजायाम् । उशिग्दूतश्चनो हितः । गतित्वा- त्समासादि ।
Vartika¶
उभयसंज्ञान्यपीति वक्तव्यम् ।