14038: क्रुधद्रुहोरुपसृष्टयोः कर्म¶
Padacheda: क्रुध-द्रुहोः | S | 6 | 2 |
उपसृष्टयोः | S | 6 | 2 |
कर्म | S | 1 | 1 |
Sutrartha¶
सोपसर्गस्य क्रुध् तथा द्रुह् धातोः प्रयोगे “यं प्रति कोपः जायते” तत् कारकं कर्मसंज्ञं भवति । यथा - देवदत्तः यज्ञदत्तम् अभिक्रुध्यति, देवदत्तः यज्ञदत्तम् अभिद्रुह्यति ।
कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं प्रथमं सूत्रम् । अनेन सूत्रेण सोपसर्गस्य क्रुध् (क्रोधे) (4.86), तथा द्रुह् (जिघांसायाम्) (4.96), एतयोः धात्वोः विषये कर्मसंज्ञा विधीयते । एतयोः क्रिययोः कर्ता **यं प्रति कोपं करोति तत् कारकम् प्रकृतसूत्रेण कर्मसंज्ञं भवति** । क्रमेण उदाहरणानि एतानि - <listsp> <li><hlb>1. क्रुध् (क्रोधे) (4.86)</hlb> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अमर्षः (क्रोधः) इति दत्तः अस्ति । क्रोधस्य प्रथमः सोपानः कोपः अस्ति ** इति शास्त्रेषु स्वीकृतम् अस्ति । अतः अत्र **यस्य विषये कोपः जायते (इत्युक्ते, यस्य विषये अग्रे क्रोधः अपि क्रियते) तस्य कर्मसंज्ञा भवति । यथा - <ex>देवदत्तः यज्ञदत्तम् अभिक्रुध्यति</ex> । <li><hlb>2. द्रुह् (जिघांसायाम्) (4.96)</hlb> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अपकारः इति दीयते । अपकारः इत्युक्ते दुःखजनिका क्रिया । सा क्रिया यया अन्यस्य अहितं भवति, द्रोहः नाम्ना ज्ञायते । अस्य द्रोहस्य मूले अपि कोपः एव वर्तते, अतः यं प्रति कोपः विद्यते (इत्युक्ते यस्य विषये द्रोहः क्रियते) तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । यथा, <ex>देवदत्तः यज्ञदत्तम् अभिद्रुह्यति</ex> । </listsp>
बाध्यबाधकभावः
प्रकृतसूत्रम् क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः ** (1.4.37) इत्यस्य **अपवादरूपेण प्रवर्तते</b> । क्रुध् तथा द्रुह् धात्वोः सन्दर्भेण यं प्रति कोपः वर्तते, तस्य क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः ** (1.4.37) इत्यनेन वस्तुतः सम्प्रदानसंज्ञा प्राप्नोति । परन्तु उपसर्गस्य उपस्थितौ अस्याः **सम्प्रदानसंज्ञायाः बाधं कृत्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते ।
दलकृत्यम्
उपसृष्टयोः इति किम् ? ** - **केवलस्य (अनुपसर्गस्य) **क्रुध्-धातोः विषये, द्रुह्-धातोः च विषये प्रकृतसूत्रस्य प्रयोगः मा भूत्** - इति दर्शयितुम् अत्र उपसृष्टयोः इति पदं स्थापितम् अस्ति । अतएव <nex>देवदत्ताय क्रुध्यति</nex>, <nex>देवदत्ताय द्रुह्यति</nex> इत्यत्र प्रकृतसूत्रेण कर्मसंज्ञा न भवति ।
सूत्रनिर्माणस्य प्रयोजनम्
क्रुध् तथा द्रुह् एतौ धातू सोपसर्गौ अपि अकर्मकौ एव स्तः । अतश्च एतयोः विषये यं प्रति कोपः भवति तस्य कर्तुरीप्सिततमं कर्म (1.4.49) इत्यनेन कर्मसंज्ञा नैव सम्भवति । अतएव प्रकृतसूत्रेण एतयोः विषये विशेषरूपेण कर्मसंज्ञा उच्यते । यदि प्रकृतसूत्रं नैव स्यात्, तर्हि सोपसर्गयोः क्रुध्/द्रुह्-धात्वोः विषये अपि क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः ** (1.4.37) इत्यनेन सम्प्रदानसंज्ञा एव अभविष्यत् । अपि च, तस्याः निषेधार्थम् प्रकृतसूत्रस्य स्थाने “क्रुधद्रुहोरुपसृष्टयोः न” इति सूत्रं रच्यते चेदपि तत्र कस्यापि कारकस्य अभावात् **षष्ठी शेषे (2.3.50) इत्यनेन षष्ठीविभक्तिः अभविष्यत् । एतादृशं मा भूत्, अपितु इष्टा कर्मसंज्ञा एव भवेत् इति ज्ञापनाय अत्र प्रकृतसूत्रम् आवश्यकम् अस्ति ।
Vasu English Summary¶
But in the case of the verbs क्रुद्ध् and द्रुह् , when preceded by prepositions, the person against whom the feeling of anger etc. is directed is called कर्म कारक or object.
Vasu English Translation¶
But in the case of the verbs क्रुद्ध् and द्रुह् , when preceded by prepositions, the person against whom the feeling of anger etc. is directed is called कर्म कारक or object. This aphorism is a proviso to the last, and enjoins accusative case, where by the last, there would have been dative. The word upasrishta means having upasarga or preposition. As देवदत्तमभिक्रुध्यति अभिद्रुह्यति. When used simply, those verbs of course govern the Dative case by the last aphorism. As देवदत्ताय क्रुध्यति.
Kashika¶
पूर्वेण संप्रदानसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। क्रुधद्रुहोरुपसृष्टयोरुपसर्गसंबद्धयोर्यं प्रति कोपः, तत् कारकं कर्मसंज्ञं भवति। देवदत्तमभिक्रुध्यति। देवदत्तमभिद्रुह्यति। उपसृष्टयोरिति किम्? देवदत्ताय क्रुध्यति। यज्ञदत्ताय द्रुह्यति॥
Siddhanta Kaumudi¶
सोपसर्गयोरनयोर्यं प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूरमभिक्रुध्यति । अभिद्रुह्यति ॥
Balamanorama¶
क्रुधद्रुहोरुपसृष्टयोः कर्म - क्रुधद्रुहोः ।उपसृष्टयो॑रित्येतद्व्याचष्टे — सोपसर्गयोरिति । पूर्वसूत्रापवादोऽयम् । हरेः क्रोधद्रोहोद्देश्यत्वाऽभावात्क्रियया यमभिप्रैती॑ति संप्रदानत्वस्य न प्रसक्तिः । नापि तादथ्र्यचतुर्थ्याः । क्रुधद्रुहोरकर्मकत्वान्नहरेः कर्मत्वम् । अतः शेषषष्ठआं प्राप्ताया वाचनिकां कर्मत्वम् ।
Padamanjari¶
उपसर्गेण सम्बद्धयोरिति। ठुपसर्गाः क्रियायोगेऽ उपसृजन्तीत्युपसर्गाः, पचाद्यचि न्यङ्क्वादित्वात् कुत्वम्। तेनोपसृष्टयोरित्यस्योपसर्गेण सम्बद्धयोरित्ययमर्थो भवति। स्वनिकायप्रसिद्धिर्वा॥
Prakriyasarvasvam¶
सोपसर्गयोरनयोः कोपविषयः कर्मैव । कृष्णमभिक्रुध्यत्यभिद्रुह्यति च कंसः ।
Sutra Prayogas¶
भूतानाम् (किरातार्जुनीयम्): क्रुधद्रुहोरुपसृष्टयोः कर्म इति कर्मसंज्ञा।
मां (भट्टिकाव्यम्): क्रुध - द्रुहोरुपसृष्टयोः इति कर्मसंज्ञा।
माम् (भट्टिकाव्यम्): क्रुध द्रुहोरुपसृष्टयोः कर्म इति कर्मसंज्ञा।