Sutras 1 - 20¶
- 81001: सर्वस्य द्वे
- 81002: तस्य परमाम्रेडितम्
- 81003: अनुदात्तं च
- 81004: नित्यवीप्सयोः
- 81005: परेर्वर्जने
- 81006: प्रसमुपोदः पादपूरणे
- 81007: उपर्यध्यधसः सामीप्ये
- 81008: वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु
- 81009: एकं बहुव्रीहिवत्
- 81010: आबाधे च
- 81011: कर्मधारयवत् उत्तरेषु
- 81012: प्रकारे गुणवचनस्य
- 81013: अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्
- 81014: यथास्वे यथायथम्
- 81015: द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु
- 81016: पदस्य
- 81017: पदात्
- 81018: अनुदात्तं सर्वमपादादौ
- 81019: आमन्त्रितस्य च
- 81020: युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ