81016: पदस्य

Padacheda: पदस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

Up to इडाया वा (8.3.54), inclusive, should be always supplied in every subsequent sūtra the phrase ‘of a word’ or ‘to the whole of a word’.

Vasu English Translation

Up to इडाया वा (8.3.54), inclusive, should be always supplied in every subsequent sūtra the phrase ‘of a word’ or ‘to the whole of a word’. This is an adhikara sutra, and extends up to (8.3.55). Whatever we shall treat of here-after, should be understood to apply to a full ‘pada’ or a completed word. Thus (8.2.23), (संयोगान्तस्य लोपः) teaches “there is elision of the final of what ends in a conjunct consonant”. The word पदस्य must be supplied here to complete the sense : viz, of a word which ends in a conjunct consonant, the final is elided. Thus पचन्, यजन्, from पचन्त् and यजन्त् ॥

Why do we say ‘of a Pada’? Observe पचन्तौ, यजन्तौ where the त् though sanyoganta is not elided, because the stem is no longer called pada. The force of the Genitive in पदस्य must be construed according to the context, sometimes as sthana-shashthi i.e. “in the room of the whole pada”; and sometimes as avayava-shashthi i.e. “of a pada-of the portion of a pada “.

Bhashya

पदस्य पदात् ॥ आ कुतः पदाधिकारः?॥ पदाधिकारः प्रागपदान्ताधिकारात्॥ अपदान्तस्य मूर्द्धन्य इत्यतः(1) प्राक् पदाधिकारः॥ अथ पदादित्यधिकार आ कुतः?॥ पदात्प्राक्(2) सुपि कुत्सनात्॥ पदादित्यधिकारः प्राक्सुपि कुत्सनात्। कुत्सने च सुप्यगोत्रादा(3) विति वक्ष्यति प्रागेतस्मात्॥ यणेकादेशस्वरस्तूर्ध्वं पदाधिकारात्॥ यणेकादेशस्वरस्तूर्ध्वं पदाधिकारात्कर्तव्यः॥ इह वचने ह्यपदान्तस्याऽप्राप्तिः॥ इह क्रियमाणेऽपदान्तस्याऽप्राप्तिः स्यात्। उदात्तस्वरितयोर्यणः स्वरितोनुदात्तस्येति। इहैव स्यात्-कुमार्यौ किशोर्यौ(1)। इह न स्यात् कुमार्यः किशोर्यः॥ एकादेश उदात्तेनोदात्तः-ःइहैव स्यात्-वृक्षौ प्लक्षौ। इह न स्यात्-वृक्षाः प्लुक्षाः॥ न वा पदाधिकारस्य विशेषणत्वात्॥ न वोर्ध्वं पदाधिकारात् कर्तव्यो यणेकादेशस्वरः॥ किं कारणम्?॥ पदाधिकारस्य विशेषणत्वात्। पदस्येति नैषा स्थानषष्ठी॥ का तर्हि?॥ विशेषणषष्ठी॥ किं वक्तव्यमेतत्?॥ न हि॥ कथमनुच्यमानं गंस्यते?॥ प्रत्याख्यायते स्थानषष्ठी। ॥ अन्तग्रहणाद्वा नलोपे॥ अथवा यदयं नलोपः प्रातिपदिकान्तस्येत्यन्तग्रहणं करोति तज्ज्ञापयत्याचार्योविशेषणषष्ठ्येषा न स्थानषष्ठीति॥ (पदस्य पदात्)

Kashika

पदस्येत्ययमधिकारः प्रागपदान्ताधिकारात् (८.३.५५)। यदित ऊर्ध्वमनुक्रमिष्यामः पदस्येत्येवं तद् वेदितव्यम्। वक्ष्यति — संयोगान्तस्य लोपः (८.२.२३) — पचन्। यजन्। पदस्येति किम् ? पचन्तौ। यजन्तौ। वक्ष्यमाणवाक्यापेक्षया पदस्याधिकृतस्य षष्ठ्यर्थव्यवस्था द्रष्टव्या — क्वचित् स्थानषष्ठी क्वचिदवयवषष्ठी॥

Tattvabodhini

पदात् - पदात् ।कुत्सने च सुप्यगोत्रादौ॑इत्यतः प्रागयमधिकारः । यदि तुकपत्सने च सुपी॑त्यत्रापि पदादित्यनुवर्तते, तदादेवदत्तः पचति पूति॑त्यत्रैव निघातः स्यान्न तुपचति पूती॑त्यत्र ।

Padamanjari

प्रागपदान्ताधिकारादिति । ठपदान्तस्य मूर्द्धन्यःऽ इत्यत्र तु प्रकरणे विरोध्युपादानान्नादिक्रियते । पचन्तौ, यजन्ताविति । संयोगान्तस्थेऽपि लोपो न भवति । एवं राजानावित्यत्र नलोपो न भवति, प्रशामावित्यादौ’मो नो धातोः’ इति नत्वं न भवति । अनन्तरेषु योगष्वामन्त्रितादेः सुबन्तस्य तिङ्न्तस्य च पदस्यैव कार्यविधानातेषामुल्लङ्घनम् । न च समर्थपरिभाषोपस्थानंम तेषु प्रयोजनम्, अनन्तरेणाप्येतं वस्तुतः पदकार्यत्वादेव सिद्धेः । किञ्च -‘समानवाक्ये निघातयुष्मपदस्मादादेशाः’ इति वक्ष्यते । कुत्वादीनि त्ववयवस्य भत्वेऽपि समुदायस्य पदत्वाश्रयेणेष्यन्त एव - वक्तरि, दोग्धरीति । तस्मान्न भसंज्ञकव्यावृत्तिरपि प्रयोजनम् ।’षष्ठी स्थानेयोगा’ इति वचनात्’पदस्य’ इति स्थानषष्ठी, ततश्च ठुदातस्वरितयोर्यणः स्वरितोऽनुदातस्यऽ इत्यस्यायमर्थो भवति - उदातस्वरितयोर्योयण् ततः परो योऽनुदातस्तदन्तस्य पदस्य स्वरितत्वमलोऽन्त्यस्य भवतीति । ततश्चात्रैव स्यात् - कुमार्याविति; कुमार्य इत्यत्र न स्यात्, सकारो ह्यत्र पदस्यान्तः, हल्स्वरप्राप्तौ च व्यञ्जनमविद्यमानवद्भवति । एवम् ठेकादेश उदातेनोदातःऽ इत्यत्रापि अयमर्थो भवति - उदातानुदातयोर्य एकदेशस्तदन्तस्य पदस्यालोन्त्यस्यादेशो भवतीति । तदश्चेहैव स्यात् - वृक्षाविति; वृक्षानित्यत्र न स्यात्, नकारो ह्यत्र पदस्यान्त्यः ? - इत्याशङ्क्याह - वक्ष्यमाणवाक्यापेक्षयेति । अमयभिप्रायः - अधिकारोऽयं परार्थः, परिभाषापि परार्था, ततश्च’गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्’ इति न्यायेन नात्र स्थानेयोगपरिभाषोपतिष्ठते । यत्र त्वस्या अधिकारो वक्ष्यमाणेषु वाक्येषु तेत्वेवोपस्थानम्, तत्र विशेषणविशेष्यभावे कामचाराद्यणेकादेशस्वरयोः’पदस्य’ इत्यनुवृतं कार्यिविशेषणार्थम्, न तु कार्यप्रतिपत्यर्थम् । तेन पदावयवयोरनुदातैकादेशयोः स्वरविधानादनन्त्ययोरपि भवति । संयोगान्तलएपादौ तु संयोगादिना पदस्य विशेषणात् स्थानषष्ठी, तस्माद्वक्ष्यमाणानि वाक्यान्यपेक्ष्य पर्यालोच्य पदस्येति षष्ठ।ल अर्थो व्यवस्थाप्यः, न त्वेतत्सूत्रपर्यालोचनयेति । व्यवस्थामेव दर्शयति - क्वचिदिति । यद्येषा स्थानषष्ठ।लेव स्यात्’नलोपः प्रातिपदिकान्तस्य’ इत्यत्रान्तग्रहणमनर्थकं स्यात् । तद्धि पदान्तस्य यथा स्यात्, पदावयवस्य मा भूदित्येवमर्थम् । स्थानषष्ठ।लं तु ठलोन्त्यस्यऽ इत्यस्य सिद्धत्वादन्तग्रहणमनर्थकं स्यात् । तस्मादन्तग्रहणात् क्वचिद्विशेषणषष्ठ।ल्पि विज्ञायते ॥

Nyaas

प्रागपदान्ताधिकारात् इति। अपदान्तस्य भूर्धन्यः (8.3.55) इत्यतः प्राक्। अनन्तरेषु योगेष्वामन्त्रितादेः सुबन्तस्य तिङन्तस्य च यत्? कार्य विधीयते तत्रान्तरेणापि पदाधिकारं पदस्यैव कार्यं लभ्यते, अतस्तानुल्लङ्ध्य यत्र पदाधिकारस्योपयोगस्तमेवोपन्यस्यत। वक्ष्यति -संयोगान्तस्य लोपः इति। षष्ठी स्थानेयोगा (1.1.49) इति नियमात्? पदस्य इत्येषा स्थानषष्ठी। स्थानषष्ठआञ्चास्यान्? उदात्तस्वरतयोर्यणः स्वरितोऽनुदात्तस्य (8.2.4) इत्यस्यायमर्थो जायते -उदात्तस्वरितयोर्यणः परो योऽनुदात्तस्तदन्तस्य पदस्य स्वरितो भवतीतिः तथा चात्रैव स्यात् -कुमार्याविति, कुमार्य इत्यत्र न स्यात्। न ह्रेतदुदात्तस्वरितयोर्यणः परो योऽनुदात्तस्तदन्तं पदम्, किं तर्हि? सकारान्तम्। एकादेश उदात्तेनोदात्तः (8.2.5) इत्यत्रापि स्थानषष्ठआमस्यामयमर्थो जायते -उदात्तानुदात्तयोर्य एकदेशस्तदन्तस्य पदस्योदात्तो भवतीति। तथा चात्रैव स्यात् -वृक्षाविति, वृक्षा इत्यतर न स्यात्। न ह्यत्रोदात्तानुदात्तयोर्य एकादेशस्तदन्तं पदम्, किं तर्हि? सान्तमिति यश्चोदयेत्, तं प्रत्याह -वक्ष्यमाणवाक्यापेक्षया इत्यादि। हेतावियं तृतीया। वक्ष्यमाणानां वाक्यानां याऽपेक्षा तया हेतुभूतया पदस्याधिकृतस्य षष्ठर्थव्यवस्था द्रष्टव्या। व्यवस्था=नियम इत्यर्थः। वक्ष्यमाणानि हि वाक्यानि कानिचित्? संयोगान्तस्य लोपः (8.2.23) इत्येवमादीनि पदस्येति स्थानवष्ठीमपेक्षन्ते। कानिचित्? उदात्तस्वरितयोर्यणः (8.2.4) इत्येवमादीन्यवयवषष्ठीमिति। अत एव परापेक्षया षष्ठर्थे नियमो भवति। अधिकारा हि परार्था भवन्ति। एवञ्चैषां परार्थता भवति यदि ते परापेक्षानुरोधेनार्थमात्मसात्? कुर्वन्ति। क्यचित् इत्यादिना तामेव षष्ठर्थव्यवस्थां दर्शयति। किं पुनः कारणन्? षष्ठो `स्थाने योगा (1.1.49) इत्येष नियमोऽत्र न प्रवर्तते? एवं मन्यते -सम्बन्धन्ध्यन्तरापेक्षया नियमोऽयम्। योगो हि सम्बन्धः, स चानेकसम्बन्ध्याधारः। न चेहाधिकारसूत्रे सम्बन्ध्यन्तरं विद्यते, अतो नास्त्येव तस्येहोपस्थानमिति॥