81006: प्रसमुपोदः पादपूरणे¶
Padacheda: प्रसमुपोदः | S | 6 | 1 |
पादपूरणे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
प्र 2. सम् 3. उ and 4. उत् are repeated when by so doubling, the foot of a verse is completed.
Vasu English Translation¶
1. प्र 2. सम् 3. उ and 4. उत् are repeated when by so doubling, the foot of a verse is completed. As प्र प्रायमग्निभरतस्य शृण्वे (Rig VII.8.4), संसमिद्युवते वृषन् ॥ (Rig X. 191.1), उपोप मे परामृश (Rig I.126.7), किं नोदुदु हर्षसे दातवाउ (Rig IV. 21.9). Why do we say when ‘a foot of a verse is completed there by’? Observe प्रदेवं देव्या धिया ॥ This rule applies only to the Vedic verses, for there alone the Preposition may be used separate from its verb. In the secular literature, this rule has no applicability, as Prepositions are never so used.
Kashika¶
प्र सम् उप उद् इत्येतेषां पादपूरणे द्वे भवतः, द्विर्वचनेन चेत् पादः पूर्यते। प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ (ऋ० ७.८.४)। संस॒मिद्यु॑वसे वृष॒न् (ऋ० १०.१९१.१)। उपो॑प मे॒ परा॑ मृश॒ (ऋ० १.१२६.७)। किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ (ऋ० ४.२१.९)। पादपूरण इति किम् ? प्र दे॒वं दे॒व्या धि॒या (ऋ० १०.१७६.२)। सामर्थ्यात् छन्दस्येवैतद् विधानम्। भाषायामनर्थकं स्यात् प्रयोगाभावात्॥
Siddhanta Kaumudi¶
एषां द्वे स्तः पादपूरणे । प्रपायमग्निः । संसमिद्युवसे (संसमिद्यु॑वसे) । उपोप मे परामृश (उपो॑प मे परा॑मृश) । किं नोदुदु हर्पसे (किं नोदु॑दु हर्पसे) ॥
Nyaas¶
प्रसमुपोदः इति। द्वन्द्वाच्चुदषहान्तात्? समाहारे (5.4.106) इति समासान्तो न कृतः; समासान्तविधेरनित्यत्वात्। पादपूरणे इति। यस्य च भावेन भावलक्षणम् (2.3.37) इति सप्तमीयम्। पादपूरणस्य भावेनोत्पत्तिलक्षणेन द्विर्वचनसक्य भावो लक्ष्यते। ननु च द्विर्वचनात्? प्राक्? पादपूरणमसदेव, तत्? कुतस्तस्य भावो द्विर्वचनस्य लक्षणं स्यात्, न हि तत्? सत्त्वम्? असारमेतत्; तदुत्पत्तिह्र्रत्र भावः, सा चानिष्पन्नसत्ताकस्यैव भवति, न निष्पन्नसत्ताकस्य। न हि मृत्तिकावस्थायां सन्तो घटादय उत्पद्यन्तेः पादश्चेह विशेषानभिधानेऽपि सामर्थ्यादृच एव गृह्रते, न श्लोकस्य। लौकिको हि श्लोकः, लोके चार्थपरत्वादनर्थकस्य प्रयोगो नोपपद्यते॥
Prakriyasarvasvam¶
द्विरुक्तिः स्यात् । छन्दस्येवेष्यते । प्रप्रायमग्निः । संसमित् । उपोप मे । उदुदु हर्षसे ।