81012: प्रकारे गुणवचनस्य

Padacheda: प्रकारे | S | 7 | 1 |

गुणवचनस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

An adjective is repeated, when it is meant to express that the said attribute belongs to a thing only to a limited degree and the double word is treated like a कर्मधारय समास ।

Vasu English Translation

An adjective is repeated, when it is meant to express that the said attribute belongs to a thing only to a limited degree and the double word is treated like a कर्मधारय समास । The word प्रकार means both ‘difference’ and ‘resemblance’. It means ‘resemblance’ here: i.e. the person or thing resembles, but is not fully like, the thing expressing the attribute. Thus पटुपटुः꣡, ‘tolerably sharp’, मृदुमृदुः꣡ “pretty soft”, पण्डितपण्डितः꣡ &c. The sense is that the attribute is not fully possessed by the person. The affix जातयिर् (5.3.69) also expressing प्रकार, is not debarred by this sutra. Thus पटुजातीयः, मृदुजातीयः ॥

Why do we say prakare “when denoting somewhat like it”? Observe पटुर्देवदत्तः ‘the clever Devadatta’. Why do we say ‘an attributive or adjective word’? Observe अग्निर्माणवकः, ‘a fiery boy’, गौर्वाहीकः ‘a cow-like Bahika’. Here ‘agni’ and ‘gau’ are not naturally adjective words, though employed here like adjectives.

Vart:- An adjective is repeated when denoting that persons or things possessing that attribute are to be taken in their due order. Thus मूले मूले स्थूलाः, अग्रे अग्रे सूक्ष्माः, ज्येष्ठं ज्येष्ठं प्रवेशयः ॥

Vart:- A word denoting more than one is repeated without change of sense, when it denotes the limit or extent of the thing. Thus अस्मात् कार्षापणादिह भवद्भ्यां माषं माषं देहि ‘give a masha, a masha out of this karshapana to you two’: i. e. give only two masha one to each. A karshapana contains many mashas, out of them, the extent of gift is limited to two only. This therefore is distinguishable from the distributive double (vipsa). The words माषं माषं देहि = द्वौ देहि; the माष does not take the dual case here. Why do we say ‘when it expresses the limit’? Observe अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि, द्वौ माषौ देहि, त्रीन्वा माषान् देहि. Here the word माष itself does not express limit, but the qualifying words एकं, द्वौ, त्रीन् &c. Why do we say ‘denoting more than one’? Observe अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि ॥

Vart:- In expressing perplexity or alarm, a word may be repeated twice. The word चापल in the vartika means ‘a confused state of mind’. As अहिरहिः बुध्यस्व बुध्यस्व ‘a snake, a snake, beware. beware’. It is not a necessary condition that the word should be repeated twice only, but as many times as one likes, so long as his meaning is not manifest. As : अहिः अहिः अहिः, बुध्यस्व बुध्यस्व बुध्यस्व ॥

Vart:- When intensity or frequency of an action is denoted, the word is uttered twice: as, स भवान् लुनीहि लुनीहि इत्येवायं लुनाति ॥ See (3.4.2).

Vart:- In re-iteration the word is doubled; as, भुक्त्वा भुक्त्वा व्रजति, भोजं भोजं व्रजति ॥ See (3.4.22). This has also been illustrated under (8.1.4).

Vart:- The word is repeated when the affix डाच् follows; as, पटपटा करोति, पटपटायते ॥ This doubling takes place when the word denotes an imitation of an inarticulate sound (5.4.57). Therefore, not here, द्वितीया करोति, तृतीया करोति, where the affix डाच् denotes ‘to plough’, (5.4.58). Because of this restriction, some read the vartika as, डाचि बहुलम् ॥

Vart:- The words पूर्व and प्रथम are repeated when a comparative or superlative sense is to be denoted: as पूर्वं पूर्वं पुष्प्यन्ति, प्रथमं प्रथमं पच्यन्ते ॥ The comparative and superlative affixes are not debarred hereby, as, पूर्वतरं पुष्प्यन्ति, प्रथमतरं पच्यन्ते ॥

Vart:- The words ending in the affixes उत्तर and उत्तम (comparative and superlative), are doubled when they refer to feminine nouns and are employed in determining or pondering upon the relative condition of the superiority of one out of two or many; as उभाविमावाढ्यौ, कतरा कतरा अनयोराढ्यता “Both these are rich: let us ponder how much is their richness.” सर्व इमे आढ्याः, कतमा कतमा एषामाढ्यता ॥ This is found in words other than those ending in तर and तम; as; उभाविमावाढ्यौ, किदृशी किदृशी अनयोराढ्यता ॥ This is also found where the abstract noun denoting condition (as आढ्यता) is not in the feminine: as, उभाविमावाढ्यौ, कतरः कतरोऽनयोर्विभवः “Both these are rich, let us see what is their respective greatness.”

Vart:- In denoting reciprocity of action, the Pronominal is doubled; and diversely it is treated like a compound (2.2.27) when it is not treated like a compound, then the first word is always exhibited in the nominative singular. See (1.3.14), (3.3.43), and (5.4.127). Thus अन्यमन्यमिमे ब्राह्मणा भोजयन्ति “these Brahmanas feed one another.” अन्योन्यमिमे ब्राह्मणा भोजयन्ति ॥ अन्योऽन्यस्य ब्राह्मणा भोजयन्ति = इतरेतरान् भोजयन्ति ॥ The word अन्य and पर are never treated as a compound, and इतर is always so treated. The following are from Siddhanta Kaumudi:- अन्योऽन्यौ, अन्योऽन्यान् अन्योऽन्येनकृतं, अन्योऽन्यस्मैदत्तं, अन्योऽन्येषां पुष्करैरामृशन्ते (Magh) परस्परं ॥

Vart:- In the feminine and neuter, the augment आम् is added optionally to the second term under the above circumstances, as, अन्योऽन्यामिमे ब्राह्मण्यौ भोजयतः, अन्योऽन्यं भोजयतः, इतरेतरां भोजयतः, इतरेतरं भोजयतः ॥ अन्योऽन्यामिमे ब्राह्मणकुले भोजयतः, इतरेतरामिमे ब्राह्मणकुले भोजयतः, इतरेतरमिमे ब्राह्मणकुले भोजयतः ॥

Bhashya

प्रकारे गुणवचनस्य गुणवचनस्येति किमर्थम्?॥ अग्निर्माणवकः गौर्वाहीकः। ॥ प्रकारे सर्वेषां गुणवचनत्वात्सर्वप्रसङ्गः(1)॥ (प्रकारे सर्वेषां गुणवचनत्वात्सर्वप्रसङ्गः)। सर्वे हि शब्दाः प्रकारे वर्तमाना गुणवचनाः सम्पद्यन्ते। तेनेहापि प्राप्नोति-अग्निर्माणवकः। गौर्वाहीक इति॥ सिद्धन्तु प्रकृत्यर्थविशेषणत्वात्॥ सिद्धमेतत्॥ कथम्?॥ प्रकृत्यर्थविशेषणत्वात्। प्रकृत्यर्थो विशेष्यते। नैवं विज्ञायते-प्रकारे वर्तमानस्य गुणवचनस्ये(2)ति॥ कथं तर्हि?॥ गुणवचनस्य शब्दस्य द्वे भवतः प्रकारे वर्तमानस्येति। अथवा-प्रकारे गुणवचनस्येत्युच्यते, सर्वश्च शब्दः प्रकारे वर्तमानो गुणवचनः सम्पद्यते। तत्र प्रकर्षगतिर्विज्ञास्यते-साधीयो यो गुणवचनइति॥ कश्च साधीयः?॥ यः(1) प्रकारे च प्राक्च(2) प्रकारात्॥ अथवा प्रकारे गुणवचनस्येत्युच्यते, सर्वश्च शब्दः प्रकारे वर्त्तमानो गुणवचनः संपद्यते त(3) एवं विज्ञास्यामः -प्राक्प्रकाराद्यो गुणवचनइति॥ आनुपूर्व्ये(4) द्वे भवतः॥ आनुपूर्व्ये द्वे भवत इति वक्तव्यम्। मूलेमूले स्थूलाः। अग्रेऽग्रे(5) सूक्ष्माः॥ स्वार्थेऽवधार्यमाणेऽनेकस्मिन् द्वे भवतः॥ स्वार्थेऽवधार्यमाणेऽनेकस्मिन् द्वे भवत इति वक्तव्यम्। अस्मात्कार्षापणादिह भवद्भ्यां माषं माषं देहि॥ अवधार्यमाण इति किमर्थम्?॥ अस्मात्कार्षापणादिह भवद्भ्यां माषं देहि द्वौ देहि त्रीन् देहि॥ अनेकस्मिन्निति किमर्थम्?॥ अस्मात्कार्षापणादिह भवद्भ्यां माषं देहि। माषमेव देहि॥ किं पुनः कारणं न सिध्यति?॥ अनवयवाभिधानं वीप्सार्थ इत्युच्यते, अवयवाभिधानं चाऽत्र गम्यते। आतश्चावयवाभिधानं,(1) यो ह्युच्यते-अस्मात्कार्षापणादिह भवद्भ्यां(2) माषं माषं देहीति। माषं माषमसौ दत्त्वा पुनः शेषं पृच्छति-किमनेन क्रियतामिति॥ यः पुनरुच्यते-ःइमं कार्षापणमिह भवद्भ्यां(2) माषं माषं देहीति माषं माषमसौ(3) दत्त्वा तूष्णीमास्ते॥ चापले(4) द्वे भवतः॥ चापले द्वे भवत इति वक्तव्यम्। अहिरहिर्बुध्यस्व बुध्यस्व॥ न चावश्यं द्वे एव, यावदि्भः शब्दैः सोऽर्थो गम्यते तावन्तः प्रयोक्तव्याः। अहिरहिरहिबुध्यस्व(5) बुध्यस्व बुध्यस्वेति॥ ॥क्रियासमभिहारे द्वे भवतः(6)॥ क्रियासमभिहारे द्वे भवत इति वक्तव्यम्। स भवान् लुनीहिलुनीहित्येवायं लुनाति। पुनीहि(6) पुनीहीत्येवाऽयं पुनाति॥ आभीक्ष्ण्ये(7) द्वे भवतः॥ आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम्। भुक्त्वा भुक्त्वा व्रजति। भोजं भोजं व्रजति। ॥ डाचिच द्वे भवतः(1)॥ डाचि च द्वे भवत इति वक्तव्यम्॥ पटपटायति घटघटायति(2) शरशरायति(3)॥ पूर्वप्रथमयोरर्थातिशयविवक्षायां द्वे भवतः(1) ॥। पूर्वप्रथमयोरर्थातिशयविवक्षायां द्वे भवत इति वक्तव्यम्। पूर्वं पूर्वं पुष्प्यन्ति। प्रथमं प्रथमं पच्यन्ते॥ डतरडतमयोः समसंप्रधारणायां स्त्रीनिगदभावे(2) द्वे भवतः॥ डतरडतमयोः समसम्प्रधारणायां स्त्रीनिगदे भावे द्वे भवत इति वक्तव्यम्। उभाविमावाढ्यौ, कतराकतराऽनयोराढ्यता(3)। सर्व इमे आढ्याः, कतमा कतमैषामाढ्यतेति(4)। ॥ कर्मव्यतिहारे सर्वनाम्रो (द्वे भवतः) समासवच्च बहुलं, यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य॥ कर्मव्यतिहारे सर्वनाम्नो(द्वे भवतः) समासवच्च बहुलं, यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य॥ कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यम्। समासवच्च बहुलम्। यदा न समासवत्प्रथमैकवचनं भवति तदा पूर्वपदस्य। अन्योन्यमिमे ब्राह्मणा भोजयन्ति। अन्योऽन्यस्य भोजयन्ति। इतरेतरं भोजयन्ति। इतरेतरस्य भोजयन्ति। ॥ स्त्रीनपुंसकयोरुत्तरपदस्य वाऽम्भावः॥ स्त्रीनपुंसकयोरुत्तरपदस्य वाऽम्भावो वक्तव्यः। अन्योन्यमिमे ब्राह्मण्यौ भोजयतः। अन्योन्यां (च(1)) भोजयतः। इतरेतरम् (ःइमे ब्राह्मण्यौ(1)) भोजयतः। इतरेतरां भोजयतः। अन्योन्यमिमे ब्राह्मणकुले भोजयतः। अन्योन्यां भोजयतः। इतरेतरम् (ःइमे ब्राह्मणकुले(1)) भोजयतः। इतरेतरां भोजयतः॥ (प्रकारे गुणवचनस्य)॥

Kashika

प्रकारो भेदः सादृश्यं च। तदिह सादृश्यं प्रकारो गृह्यते। प्रकारे वर्तमानस्य गुणवचनस्य द्वे भवतः। प॒टु॒प॒टुः। मृ॒दु॒मृ॒दुः। प॒ण्िड॒त॒प॒ण्डि॒तः। अपरिपूर्णगुण इत्यर्थः। परिपूर्णगुणेन न्यूनगुणस्योपमाने सत्येवं प्रयुज्यते। जातीयरोऽनेन द्विर्वचनेन बाधनं नेष्यते। प॒टु॒जा॒तीयः॑, मृ॒दु॒जा॒तीयः॑ इत्यपि हि भवति। तत् कथम्? वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोः शेषो विज्ञायते। प्रकार इति किम् ? पटुर्देवदत्तः। गुणवचनस्येति किम् ? अग्निर्माणवकः। गौर्वाहीकः। यद्यप्यत्राग्निशब्दो गोशब्दश्च मुख्यार्थसंबन्धाद् अवधृतभेदं तैक्ष्ण्यजाड्यादिकमर्थान्तरे गुणविशेषमेव प्रतिपादयितुं प्रवृत्तः, तथापि सर्वदा गुणवचनो न भवतीति न द्विरुच्यते॥ आनुपूर्व्ये द्वे भवत इति वक्तव्यम्॥ मूलेमूले स्थूलाः। अग्रेऽग्रे सूक्ष्माः। ज्येष्ठंज्येष्ठं प्रवेशय॥ स्वार्थेऽवधार्यमाणेऽनेकस्मिन् द्वे भवत इति वक्तव्यम्॥ अस्मात् कार्षापणादिह भवद्भ्यां माषंमाषं देहि। स्वार्थ एतद् द्विर्वचनम्, न वीप्सायाम्। अत्र हि द्वावेव माषौ दीयेते, न सर्वे कार्षापणसंबन्धिनो माषाः। तेन वीप्सा न विद्यते। अवधार्यमाण इति किम् ? अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि, द्वौ माषौ देहि, त्रीन् वा माषान् देहि। अनेकस्मिन्निति किम्? अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि ॥ चापले द्वे भवत इति वक्तव्यम्॥ संभ्रमेण प्रवृत्तिश्चापलम्। अहिरहिः, बुध्यस्वबुध्यस्व। नावश्यं द्वावेव शब्दौ प्रयोक्तव्यौ। किं तर्हि ? यावद्भिः शब्दैः सोऽर्थोऽवगम्यते तावन्तः प्रयोक्तव्याः॥ अहिरहिरहिः, बुध्यस्वबुध्यस्वबुध्यस्व इति॥ क्रियासमभिहारे द्वे भवत इति वक्तव्यम्॥ स भवान् लुनीहिलुनीहीत्येवायं लुनाति॥ आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम्॥ भुक्त्वाभुक्त्वा व्रजति। भोजंभोजं व्रजति। नित्य० (८.१.४) इत्येव सिद्धमिति तत्रोक्तम्॥ डाचि द्वे भवत इति वक्तव्यम्॥ पटपटाकरोति। पटपटायते। अव्यक्तानुकरणे डाजन्तस्य द्विर्वचनमिष्यते। इह न भवति — द्वितीयाकरोति, तृतीयाकरोति। तदर्थं केचिद् डाचि बहुलम् इति पठन्ति॥ पूर्वप्रथमयोरर्थातिशयविवक्षायां द्वे भवत इति वक्तव्यम्॥ पूर्वंपूर्वं पुष्प्यन्ति। प्रथमंप्रथमं पच्यन्ते। आतिशायिकोऽपि दृश्यते — पूर्वतरं पुष्प्यन्ति, प्रथमतरं पच्यन्त इति॥ डतरडतमयोः समसंप्रधारणयोः स्त्रीनिगदे भावे द्वे भवत इति वक्तव्यम्॥ उभाविमावाढ्यौ। कतराकतरा अनयोराढ्यता। सर्व इम आढ्याः। कतमाकतमा एषामाढ्यता। डतरडतमाभ्यामन्यत्रापि हि दृश्यते। उभाविमावाढ्यौ। कीदृशीकीदृशी अनयोराढ्यता । तथा स्त्रीनिगदाद् भावादन्यत्रापि हि दृश्यते — उभाविमावाढ्यौ, कतरःकतरोऽनयोर्विभव इति॥ कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम्। यदा न समासवत् प्रथमैकवचनं तदा पूर्वपदस्य॥ अन्योऽन्यमिमे ब्राह्मणा भोजयन्ति। अन्योऽन्यस्य ब्राह्मणा भोजयन्ति। इतरेतरं भोजयन्ति। इतरेतरस्य भोजयन्ति॥ स्त्रीनपुंसकयोरुत्तरपदस्य वाम्भावो वक्तव्यः॥ अन्योऽन्यामिमे ब्राह्मण्यौ भोजयतः। अन्योऽन्यं भोजयतः। इतरेतरां भोजयतः। इतरेतरं भोजयतः। अन्योऽन्यामिमे ब्राह्मणकुले भोजयतः। इतरेतरमिमे ब्राह्मणकुले भोजयतः। इतरेतरमिमे ब्राह्मणकुले भोजयतः॥

Siddhanta Kaumudi

सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत् । कर्मधारयवदुत्तरेषु- (SK2146) इत्यधिकारात् । तेन पूर्वभागस्य पुंवद्भावः ‘समासस्य’ (SK3734) इत्यन्तोदातत्वं च । पटुपट्वी । पटुपटुः । पटुसदृशः । ईषत्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः ॥<!आनुपूर्व्ये द्वे अाच्ये’ !> (वार्तिकम्) ॥ मूले मूले स्थूलः ॥<!सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः !> (वार्तिकम्) ॥ सर्प सर्व, बुध्यस्व बुध्यस्व । सर्प सर्प सर्प बुध्यस्व बुध्यस्व बुध्यस्व । ‘क्रियासमभिहारे च’ (वार्तिकम्) लुनीहि लुनीहीत्येवायं लुनाति । ‘नित्यवीप्सयोः’ (SK2140) इति सिद्धे भृशार्थे द्वित्वार्थमिदम् । पौनःपुन्येऽपि लोटा सह समु्चित्य द्योतकतां लब्धुं वा ॥<!कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये, समासवच्च बहुलम् !> (वार्तिकम्) ॥ बहुलग्रहणादन्यपरयोर्न समासवत् । इतरशब्दस्य तु नित्यम् ॥<!असमासवद्भावे पूर्वपदस्थस्य सुपं सुर्वक्तव्यः !> (वार्तिकम्) । अन्योऽन्यं विप्रा नमन्ति अन्योऽन्यौ । अन्योऽन्यान् । अन्योऽन्येन कृतम् । अन्योऽन्यस्मै दत्तमित्यादि । ‘अन्योऽन्येषां पुष्करैरामृशन्तः’ इति माघः । एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम् । इतरेतरेणेत्यादि ॥<!स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्तव्यः !> (वार्तिकम्) ॥ अन्योन्याम्-अन्योन्यम् । परस्पराम्-परस्परम् । इतरेतराम्-इतरेतरं वा । इमे ब्राह्मण्यौ कुले वा भोजयतः । अत्र केचित् । आमादेशो द्वितीयाया एव । भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्वविभक्तीनामादेशमाहुः । दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः । समासे सोरलुक्चेति सिद्धं बाहुलकात्त्रयम्॥ तथाहि । अन्योऽन्यं परस्परमित्यत्र दलद्वयेऽपि टाप्प्राप्तः । न च ।<!सर्वनाम्नो वृत्तिमात्रे !> (वार्तिकम्) ॥ इति पुंवद्भावः । अन्यपरयोरसमासवद्भावात् । न च द्विर्वचनमेव वृत्तिः । ‘यां यां प्रियः प्रैक्षत कातराक्षी सा सा’ इत्यादावतिप्रसङ्गात् । ‘अन्योऽन्यमितरेतरम्’ इत्यत्र च ‘अद्ड्डतरादिभ्यः-’ (SK315) इत्यद्ड् प्राप्तः । ‘अन्योऽन्यसंसक्तमहस्त्रियामम्’ ‘अन्योऽन्याश्रयः’, ‘परस्पराक्षिसादृश्यम्’ ‘अपरस्परैः’ इत्यादौ सोर्लुक्च प्राप्तः । सर्वं बाहुलकबलेन समाधेयम् । प्रकृतवार्तिकभाष्योदाहरणम् ‘स्त्रियाम्’ (SK453) इति सूत्रे ‘अन्योऽन्यसंश्रयं त्वेतद्’ इति भाष्यं चात्र प्रमाणमिति ॥

Balamanorama

प्रकारे गुणवचनस्य - प्रकारे गुणवचनस्य । प्रकारशब्दः सादृश्ये वर्तते, व्याख्यानादित्यभिप्रेत्याह — सादृश्ये द्योत्य इति । गुणवचनशब्देनआकडारा॑दिति सूत्रस्थभाष्यपरिगणिताः शब्दा गृह्रन्त इतिवोतो गुणवचना॑दित्यादौ प्रपञ्चितमिदम् । तेनेति । कर्मधारयवत्त्वेनेत्यर्थः । पुंवद्भाव इति ।पुंवकर्मधारये॑त्यनेने॑ति शेषः । पटुपट्वीति । पट्वीशब्दस्य द्विर्वचने कर्मधारयवत्त्वात्पुवत्कर्मधारये॑ति पूर्वखण्डस्य पुंवत्त्वे रूपमिति भावः । यद्यपि बहुव्रीहिवत्त्वेऽपिस्त्रियाः पुंव॑दिति पुंवत्त्वादिदं सिद्धं, तथापि कारिकेत्यादिकोपधादिष्वपि पुंवत्त्वार्थंकर्मधारयव॑दिति वचनमिति भावः । पटुपटुरिति ।वोतो गुणवचना॑दिति ङीषभावे पुंसि च द्विर्वचने रूपम् । पटुसदृश इति । ‘इत्यर्थ’ इति शेषः । फलितमाह — ईषत्पटिरिति । इह गुणवचनशब्दस्य गुणोपसर्जनद्रव्यवाचित्वमेवेति भ्रमं निरस्यति — गुणोपसर्जनेति । शुक्लशुक्लं रूपमिति । शुक्लसदृशमित्यर्थः । ईषच्छुक्लमिति यावत् । एवं शुक्लशुक्लः पट इति बोध्यम् । आनुपूर्व्ये इति । अत्र वार्तिकेकर्मधारयव॑दिति न सम्बध्यते, तदुदाहरणे भाष्ये सुब्लोपाऽदर्शनादित्यभिप्रेत्योदाहरति — मूलेमूले इति । पूर्वपूर्वो मूलभाग उत्तरोत्तरमूलभागापेक्षया स्थूल इति । यावत् । संभ्रमेणेति । वार्तिकमिदम् । संभ्रमः=भयादिकृता त्वरा, तेन प्रवृत्तौ गम्यमानायां यथेष्टम्िच्छानुसारेण अनेकधाशब्दः प्रयोक्तव्य इति वक्तव्यमित्यर्थः । अनेकधेत्युक्तेद्र्वे इति निवर्तते ।यथेष्ट॑मित्युक्तेरसकृत्त्वेऽप्येकस्य प्रयोगः । बोधात्मकफलपर्यवसायित्वाच्छब्दप्रयोगस्येत्यर्थः । एतच्च भाष्ये स्पष्टम् । अत्रापि कर्मधारयवत्त्वानतिदेशान्न सुब्लुक्, भाष्ये तथैवोदाहरणात् ।क्रियासमभिहारे चेति । वार्तिकमिदम् । ‘द्वे स्त’ इति शेषः । पौनःपुन्यं भृशत्वं च क्रियासमभिहारः । लोडन्तविषयमेवेदम् ।क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमो॑रिति सूत्रभाष्ये क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्वे भवत इति वक्तव्यमिति पाठमभिप्रेत्योदाहरति — लुनीहिलुनीहीत्येवायं लुनातीति । ‘लूञ् छेदने’ अस्मात्क्रियासमभिहारे लोट्, लोटो हिस्वौ॑ इति लोट् । तस्य हीत्यादेशः । श्नाविकरणः ।लुनीही॑त्यस्य अनेन द्विर्वचनम् ।यथाविध्यनुप्रयोगः पूर्वस्मि॑न्नित्यनुप्रयोगः । तस्माल्लडादयः । अतिशयेन पुनर्वा लवनं लुनीहीति द्विरुक्तस्यार्थः । एककर्तृकं लवनमनुप्रयोगस्याऽर्थः । इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयतीत्यादि मूल एव लकारार्थप्रक्रियायां स्फुटीभविष्यति । तथा च अतिशयितमेककर्तृकं लवनमिति फलितोऽर्थः । नित्येति ।नित्यवीप्सयो॑रिति पौनः पुन्ये द्विर्वचने सिद्धेऽपि भृशार्थे द्विर्वचनार्थमिदं वार्तिकमित्यर्थः । नन्बस्य भृशार्थ एव द्विर्वचनफलकत्वेभृशे चे॑त्येव सिद्धे ‘क्रियासमभिहारे’ इति व्यर्थमित्यत आह — पौनःपुन्येऽपीति । लुनीहि — लुनीहीत्यत्र पौनः पुन्ये लोटो द्विर्वचनस्य च समुच्चयार्थमिति यावत् । अन्यथा — पौनःपुन्येऽपीति । लुनीहि — लुनीहीत्यत्र पौनःपुन्ये द्विर्वचनस्य च समुच्चयार्थमिति यावत् । अन्यथा लोटैव पौनःपुन्यस्य द्योतितत्वात्तत्र नित्यवीप्सयोद्विर्वचनस्य प्रवृत्तिर्न स्यादित्यर्थः । एवं च ‘धातोरेकाचः’ इति पौनः पुन्ये यङन्ते ‘पापच्यते’ इत्यादौ न द्विर्वचनमित्यन्यत्र विस्तरः । कर्मव्यतिहारे इति । क्रिया विनिमयः=कर्मव्यतिहारः, तस्मिन्गम्ये सर्वनाम्नो द्वे स्तः । ते च द्विरुक्ते पदे बहुलं समासवदित्यर्थः । अत्रबहुल॑मिति समासवदित्यत्रैवान्वेति । द्विर्वचनं तु नित्यमेव । अन्यपरयोरिति । अन्यशब्दपरशब्दयोरेव बहुलं समासवत्त्वम्, इतरशब्दस्य तु नित्यमेवेत्यर्थः । अत एव अन्यशब्दस्य समासवत्त्वरहितमेव, इतरशब्दस्य तत्सहितमेवोदाहरणं भाष्ये दृश्यते । तथापरस्परोपपदाच्चे॑ति वार्तिकप्रयोगात्परशब्दस्यापि समासवत्त्वाऽभावो गम्यत इति भावः । एवंच क्रियासमभिहारे अन्यशब्दस्य परशब्दस्य च नित्यद्विर्वचनम् । द्विरुक्तयोस्तु समासवत्त्वं बहुलम् । इतरशब्दस्य तु तदुभयमपि नित्यम् । एतत्रयव्यतिरिक्तसर्वनामशब्दस्य तु नेदं द्वित्वं बहुलग्रहणादिति स्थितिः । असमासवद्भावे इति । इदमन्यपरशब्दयोरेव, इतरशब्दस्य समावत्त्वस्यैवोक्तत्वात् । सुपः सुरिति । सु॑बिति प्रत्याहारः । सप्तानामपि विभक्तीनां पूर्वपदस्थानां प्रथमैकवचनं सु इत्यादेशो वाच्य इत्यर्थः । इदं द्वित्वादिविधानं प्रथमैकवचनमात्र विषयमिति केचित् । तदेतद्भाष्यविरुद्धं, भाष्ये द्वितीयादिविभक्तेरूदाहृतत्वादित्यभिप्रेत्य द्वितीयादिविभक्तीरुदाहरति — अन्योन्यं विप्रा नमन्तीत्यादि । इह अन्यमन्यौ इत्यादीनां द्वित्वे पूर्ववत्सुपः सुः । प्रथमैकवचनस्यैवेदं द्वित्वादीत्येतन्न कविसंमतमित्याह — अन्योन्येषामित्यादि, माघ इत्यन्तम् ।परस्पर॑मित्यत्र विसर्गस्य सत्त्वापवादमुपध्मानीयमाशङ्क्य आह — कस्कादित्वादित्यादि । इतरेतरमिति । इतरः इतरावित्यादीनां द्वित्वे समासवत्त्वात्, सुपोर्लुकि समुदायात्पुनः सुबुत्पत्तिरिति भावः । स्त्रीनपुंसकयोरिति । स्त्रीनपुंसकयोर्विद्यमानानामन्यपरेतरपदानां कर्मव्यतिहारे द्वित्वे उत्तरपदस्थविभक्तेरामित्यादेशो बहुलं वक्तव्य इत्यर्थः । अन्योन्यामित्यादि । अन्योन्याम्, अन्योन्यं वा इमे ब्राआहृण्यौ कुले वा भोजयतः, परस्परां परस्परं वा इमे ब्राआहृण्यौ कुले वा भोजयतः । इतरेतराम्, इतरेतरं वा इमे ब्राआहृण्यौ कुले वा भोजयत इत्यन्वयः । तत्रअन्या॑मित्यस्य द्वित्वे ‘दलद्वये टाबभाव’ इति वक्ष्यमाणतया पुंवत्त्वाट्टापो निवृत्तौ समासवत्त्वाऽभावात्सुपोरलुकि पूर्वपदस्थविभक्तेः सुभावे रुत्वेअतो रोरप्लुता॑दित्युत्त्वे आद्गुणे उत्तरपदस्थविभक्तेरनेन आम्भावे अन्योन्यामिति रूपम् । आम्भावविरहे तु पुंवत्तद्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे पुंलिङ्गवदेव अन्योन्यमिति रूपम् । इयं ब्राआहृणी अन्यां ब्राआहृणीं भोजयति, अन्या त्विमामित्येवं विनिमयेन ब्राआहृण्यौ भोजयत इत्यर्थः । इदं कुलं कर्तृ अन्यत्कुलं भोजयति, अन्यत्कुलं कर्तृ इदं कुलमित्येवं विनिमयेन कुले भोजयत इत्यर्थः । अत्राऽन्यच्छब्दस्य नपुंसकलिङ्गस्य द्वित्वे पूर्वपदस्थायाः विभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे अन्योन्यामिति रूपम् । आम्भावविरहे तुक्लीबे चाद्ड्विरहः स्वमो॑रिति वक्ष्यमाणतया पुंवत्त्वादद्डादेशाऽभावे अन्योन्यमिति पुंवदेव रूपमिति बोध्यम् । एवं स्त्रीत्वे परामिति पदस्य द्वित्वे दलद्वयेऽपि पुंवत्त्वाट्टापो निवृत्तौ पूर्वोत्तरपदस्थविभक्त्योः क्रमेण सुभावे आम्भावे च परस्परामिति रूपम् । आण्भावविरहे तु द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । नपुंसकत्वे तु परमित्यस्य द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे परस्पमिति रूपम् । आमभावे तु द्वित्वे पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । इतरामित्यस्य द्वित्वे पुंवत्त्वाटापो निवृत्तौ उत्तरपदस्थविभक्तेराम्भावे समासवत्त्वात्पूर्वपदस्थविभक्तेर्लुकि इतरेतरामिति रूपम् । आम्भावविरहे तु इतरेतरमिति रूपम् । नपुंसकस्य तु इतरच्छब्स्य द्वित्वे पुंवत्त्वादद्डादेशविरहे पूर्वपदस्थविभक्तेर्लुकि उत्तरपदस्थविभक्तेराम्भावतदभावाभ्यां रूपद्वयम् । अत्र भाष्यादौ द्वितीयाविभक्त्यन्तस्योदाहरणादितरविभक्तिषु आम्भावो न भवतीति प्राचीनमतमाह — अत्र केचितदिति । तेनेति । द्वितीयेतरविभक्तिषु आम्भावविरहेणेत्यर्थः । पुंवदेवेति । आम्भावविरहे सति बहुमग्रहणात्पुंवत्त्वे टाबभावे प्रथमतृतीयादिविभक्तिषु पुंवदेव रूपम् । नपुंसकत्वे प्रथमतृतीयादिविभक्तिषु आम्भावविरहात्प्रथमैकवचस्य इदं पुंवदेव रूपमित्यर्थः । सिद्धान्तमाह — अन्ये त्विति । दिङ्मात्रत्वादिति । दिक्प्रदर्शनमात्रत्वादित्यर्थः । उपलक्षणत्वादिति यावत् । द्वलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः । समासे सोरलुक्चेति सिद्धं बाहुलकात्रयम्॥अथाऽत्र बहुलग्रहणानुवृत्तेः प्रयोजनकथनपरप्राचीनश्लोकमाह — दलद्वये इति । स्त्रीलिङ्गेष्वन्यपरेतरशब्देषु कर्मव्यतिहारे द्वित्वे सति पूर्वोत्तरखण्जयोः पुंवत्त्वाट्टाब्निवृत्तिरित्यर्थः । यद्यपि ‘इतरेतर’ मित्यत्र समासवत्त्वात्सर्वनाम्नो वृत्तिमात्रे इति पुंवत्त्वादेव पूर्वखण्डे टाबभावः सिद्धस्तथाप्युत्तरखण्डे टाबभावार्थं बाहुलकाश्रयणमिति भावः । क्लीबे इति ।अन्योन्य॑मित्यादावद्डादेशविरह इत्यर्थः । समासे सोरिति । कृतद्वित्वस्य अन्येन समासे पूर्वखण्डस्थस्येत्यर्थः । तथाहीति । यथेदं स्पष्टं भवति, तथा उदाहृत्य प्रदश्र्यत इत्यर्थः । ननु पूर्वदलेसर्वनाम्नो वृत्तिमात्र॑ इति पुंवत्त्वस्याऽत्र न प्रसक्तिरित्यर्थः । कुत इत्यत आह — अन्यपरयोरिति ।समासवच्च बहुल॑मिति समासवत्त्वमितरशब्दमात्रविषयं, न त्वन्यपरहशब्दविषयमिति प्रागुक्तमित्यर्थः । ननु मास्तु समासवत्त्वं, तथापिसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्त्वं दुर्वारम्, द्विर्वचनस्य वृत्तित्वादित्याशङ्क्य निराकरोति — नच द्विर्वचनमेव वृत्तिरिति ।कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः॑ इति परिगणनादिति भावः । द्विर्वचनस्य वृत्त्यन्तर्भ#आवे बाधकमाह — यां या मिति । द्विर्वचनस्य वृत्त्यन्तर्भावेयांयां प्रियः प्रैक्षत कातराक्षी सासा ह्यिया नम्रमुखी बभूवे॑त्यत्र श्लोके यांयामित्यत्र सासेत्यत्र चसर्वनाम्नो वृत्तिमात्रे॑ इति पूर्वखण्डस्य पुंवत्त्वं स्यादित्यर्थः । क्लीबे चाद्ड्विरहः॑ इत्यस्योदाहरति — अन्योन्यमिति । ननुसमासे सोरलुक् चे॑ति कथम्, अन्यपरशब्दयोः समासवत्त्वाऽभावादित्याशङ्क्य कृत्तद्वित्वस्यान्येन समासे पूर्वखण्डस्थस्य सोरलुगिति तदर्थमभिप्रेत्य तथैवोदाहरति — अन्योन्यसंस,क्तमिति । अन्योऽन्येन संसक्तमिति तृतीयासमासः । अहश्च त्रियामा चेति समाहारद्वन्द्वः । अहश्च रात्रिश्च अन्योन्येन संयुर्तमित्यर्थः । अन्योन्याश्रय इति । अन्योऽन्यस्य आश्रय इति षष्ठीसमासः । परस्पराक्षिसादृश्यमिति । अक्ष्णा सादृस्यमक्षिसादृश्यम् । परस्परस्याऽक्षिरसादृश्यमिति विग्रहः । अपरस्परैरिति । न परस्परे अपरस्परे,तैरिति विग्रहे एषु कृतद्वित्वेषु समासावयवेषु पूर्वखण्डस्थस्य सुबादेशस्य सोर्लुक् प्राप्त इत्यर्थः । सुभावविधानं तु अन्योन्यमित्यादावसमासे चरितार्थमिति भावः । ननु बहुलग्रहणादेतत्समाधेयमित्यत्र किं प्रमाणमित्यत आह — प्रकृतवार्तिकेति ।स्त्रीनपुंसकयो॑रिति प्रकृतवार्तिकेअन्योन्यमिमे ब्राआहृण्य॑विति, ‘इतरेतरमिमे कुले’ इति चोदाहरणात्दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमो॑रिति विज्ञायते ।स्त्रिया॑मिति सूत्रेअन्योन्यसंश्रयं त्वेत॑दिति बाष्यप्रयोगात्समासे सोरलुगिति विज्ञायत इत्यर्थः ।

Tattvabodhini

प्रकारे गुणवचनस्य - प्रकारे गुणवचनस्य । यद्यपि प्रकारशब्दो भेदे सादृश्ये च वर्तते । बहुभिः प्रकारैर्भुङ्क्ते । बहुभिर्भेदैर्विशेषैरित्यवगमात् । ब्राआहृणप्रकारोऽयं माणवकः, ब्राआहृणसदृश इत्यवगमाच्च । तथापीह विवक्षितमाह -सादृश्य इति । व्याख्यानमेवाऽत्र शरणम् । पुंवद्भाव इति ।पुंवत्कर्मधारये॑ति सूत्रात् । तच्च कोरधादिष्वपि कालककालिकेत्यादिषु प्रवर्तते । तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावोक्तिव्र्यर्थेति शङ्काया निरवकाश इति बोध्यम् । पटुपटुरिति । इह द्वित्वेन जातियरो बाधा नेष्यते,पटुजातीय॑इति वामनः । अन्यता ब्राआहृणजातीय इत्यदावगुणवचनेऽपि भेदरूपेऽर्थे सावकाशो जतीयर्गुणवचनेषु सादृस्ये परेण द्वित्वेन बाध्येतेति भावः । गुणवचनस्येति किम् । अग्निर्माणवकः । सिंहो माणवकः । यद्यपीहाऽग्निसिंहशब्दाभ्यां गौण्या वृत्त्या तैक्ष्णक्रौर्यादिगुणो गम्यते, तथापि प्रकारे वर्तमानस्येत्येव सुद्धे गुणवचनग्रहणसामर्थ्यात् मुख्यवृत्त्या गुणपराणामेव द्वित्वं, न त्वन्येषामित्याकरः ।नवंनवं प्रीतिरहो करोतो॑त्यत्र वीप्सायां द्विर्वचनम् । अनेन तु द्विर्वचने सुब्लुक् स्यात् ।नवनवा वनवायुभिराददे॑इत्यत्र त्वनेनैव द्विरह्वचनं, नतु वीप्स#आयामिति पुंवद्भावः । कथंभीतभीत इव शीतमयूखः॑इति भारविः । इवशब्देन सादृस्यस्योक्ततया इह प्रकारे द्वित्वाऽयोगात् । सत्यम् । भीतेभ्यो भीत इति कथंचिव्द्याख्येयम् । तेनाऽतीभीत इति फलितम् ।आधिक्ये द्वे वाच्ये॑ इति वार्तिकेन भीतभीतादौ द्वित्वमिति दुर्घटादिभिरुक्तं समाधानं नादर्तव्यम् । तादृशस्य वार्तिकस्याऽप्रसिद्धत्वात् । अथ कथंखिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणःक्षीणः परिलघु पयः रुआओतसां चोपयुज्ये॑ति मेघदूतः । पदार्थबेदस्याऽभावेन वीप्सार्थस्यासंभवादिति चेत् । अत्राहुः -एकस्यापि केदावस्थासु क्षयावस्थासु च भेदं परिक्ल्प्य वीप्सा बोध्येति । अथ कथंमन्दं मन्दं नुदति पवनश्चानुकूलो यता त्वा॑मिति मेघदूतः । वीप्सार्थस्याऽसंभवादनेनैव द्विर्वचने कृतेमन्दमन्दमुदितः प्रत्ययौ ख॑मितिवत्सुब्लुक् स्यादिति चेत् । सत्यम् । स्वतो मन्दगामिनं त्वां पवनो मन्दं नुदतीति कथं चिव्द्याख्येयम् । सिद्धस्य गतेश्चिन्तनीयत्वात् । शुक्लशुक्लमिति । केवलगुणवाचिन उदाहरणमिति ध्वनयति -रूपमिति । आनुपूर्व्ये द्वे वाच्ये । आनुपूर्व्ये इति । वीप्साऽबावादयमारम्भः । मूलेमूले इति ।अग्रेअग्रे सूक्ष्म॑इत्यप्युदाहर्तव्यम् । एकस्य वस्तुनो वेणुदण्डादेरेकमेव मुख्यं मूलमगं च । इतरेषां भागानामापेक्षिकोऽग्रमूलव्यपदेशः । स्थौल्य सोक्ष्म्ये अपि नैकरूपे, किं तर्हि यथामूलमुपचीयते स्थौल्यं, यथा अग्रं सौक्ष्म्यं तता नेतरे भागा इति वीप्साया असंभवः ।मूलेमूले पथि विटपना॑मित्यत्र तु वीप्सायां द्विर्वचनम् । एतच्च हरदत्तग्रन्थे स्पष्टम् ।संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः । न्यायसिद्ध इति । याव्द्भिः शब्दैः संबोध्याऽर्थमवगच्छति तावतां प्रयोक्तव्यत्वादिति भावः ।क्रियासमभिहारे च । पौनःपुन्य इति । पुनःपुनर्भवितरि वर्मानात्पुनः — पुनःशब्दाद्बावे प्रत्ययः । लोटा सह समुच्चित्येति । नन्वत्र लोटा सह समुच्चित्य यथा द्विर्वचनं भवति, तथा क्रियासमभिहारे यङि यङा सह समुच्चित्य द्विर्वचनं स्यात् -पापच्यतेपापच्यते बोभूयते बोभूयते इति । अत्राहुः -लोटे क्रियासमभिहारं व्यभिचरति, समुच्चयेऽपि जायमानत्वात् । ततस्च लोट् द्विर्वचनयोरेव तद्द्योतकत्वं, न त्वेकैकस्येति युक्तं लोडन्तस्य द्विर्वचनम् । यङ् तु क्रियासमभिहारं न व्यभिचरतीति द्विर्वचनं विनैव तस्य द्योतकत्वम् । तेन तदन्तस्य न द्विर्वचनमिति ।कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये । कर्मव्यतिहार इति । क्रियाविनिमय इत्यर्थः । द्वे इति । नित्यमेवेदं द्वित्वम्, बाहुलकं तु समासवद्भावस्यैव ।असमासवद्भावे पूर्वपदस्थस्य सुपः सुर्वक्तव्यः । सुपः सुर्वक्तव्य इति । अत्र कैश्चिदुक्तं — द्वितीयादीनामेवेदं स्वादेशविधानम् । अतएवोत्तरदलेऽपि द्वितीयादय एव न तु प्रथमा, तत्राप्येकवचनमेव , न तु वचनान्तरमिति । तदपाणिनीयम् । भाष्यादावनुक्तत्वात् । तदेतद्ध्वनयन् वचनान्तरमुदाहरति — -अन्योन्यावन्योन्यानिति । माघ इति । स च भाष्यानुगुण एवेति भावः । एतेनाऽर्वाचीनमतं कवयोऽपि नाद्रियन्त इत्युक्तं भवति । भारविस्चाह -॒क्षितिनभःसुरलोकनिवासिभिः कृतमिकेतमदृष्टपरस्परै ॑रिति । अत्राऽदृष्टः परस्परो यैरिति विग्रहः । यदि तु द्वितीयादीनामेव स्वादेशविधानं न तु प्रथमायाः, तह्र्रयं प्रयोगो न सिध्येदिति दिक् ।स्त्रीपुंसकयोरुत्तरपदस्थाया विभक्तेराम्बावो वा वक्तव्यः । अन्योन्यमिति । न चाऽत्र आमबावेऽपि टाप् स्यादिति शङ्क्यम् ।बहुलग्रहणाट्टाबभावः॑इत्यनुपदमेव वक्ष्यमाणत्वात् । स्त्रीनपुंसकयोस्तृतीयादिषु पुंवदिति प्राचो ग्रन्थं परिष्कुर्वन्नाह -अत्र केचिदिति । वस्तुस्थितिमाह -अन्ये त्विति । अतिप्रसङ्गादिति । तथा च एकशेषप्रतिबन्धाद्द्विर्वचनस्यापि वृत्तित्वमाश्रित्य तद्बलेन पुंवद्भावो न श्ङ्क्यो, लक्ष्यविरोधात् ।कारकं चेद्विजानीयाद्यां यां मन्येत सा भवे॑दिति॒अकथित॑सूत्रस्थ -॒यांया ॑मिति भाष्यप्रयोगविरोधाच्चेति भावः । नव्यास्तु — ॒यांया प्रियः प्रैक्षते॑त्यादिमागप्रयोगेसासा॑इति द्विर्वचनमयुक्तम्, द्विरुक्तार्थस्य सेत्यनेनैव परामर्ष्टुं शक्यत्वात् । अतएव भाष्येयांया मन्येता सा भवे॑दित्येवोक्तमित्याहुः । सोर्लुक् च प्राप्त इति । सुपः स्वादेशविधानस्याऽन्योन्यं परस्परमित्यत्र केवले चरितार्थत्वादिति भावः ।

Padamanjari

प्रकारो भेदः सादृश्यं चेति । उभ्यत्रापि प्रकारशब्दस्य दृष्टत्वात् । भेदे तावत् - बहुभिः प्रकारैर्भुङ्क्ते, बहुभिर्भेदैः, विशेषैरिति गम्यते; सादृश्ये - ब्राह्मणप्रकारोऽयं माणवकः, ब्राह्मणसदृश इति गम्यते । तदिहेति । तदिति वाक्योपन्यासे । अव्ययं वा सप्तम्यर्थवृत्ति, तत्रेत्यर्तः । सादृश्यं प्रकारो गृह्यत इति । द्विरुक्तात् तस्यैव प्रतीतेः । अत्र चाभिदानस्वाभाव्यं हेतुः । प्रकारे वर्तमानस्येति । द्विर्वचनप्रवृत्तिद्वारेण तद्द्योतनातत्र वृत्तिः । अपरिपूर्णगुण इत्यर्थ इति । कथमेतत् ? इत्याह - परिपूर्णगुणेनेति । यस्य पूर्णं पाटवम्, यः पटुअकार्याणि करोति, तेन यदा न्यूनपाटवमुपमीयते, तदा पुटुअपटुअरिति प्रयोगो भवति, तेनार्थादपरिपूर्णगुण इत्यर्थो भवति । जातीयरोऽनेन द्विर्वचनेन बाधनं नेष्यत इति । तद्विधौ द्विविधस्यापि प्रकारस्य ग्रहणं मन्यते । जयादित्यस्तु तत्राह -‘सामान्यस्य भेदको विशेषः प्रकारः’ इति । इष्टिश्चेयम्, अन्यथा ब्राह्मणजातीय इत्यादावगुणवचने, पटुअजातीय इत्यादौ गुणवचनेऽपि सादृश्यादन्यत्र भेदे चरितार्थस्य जातीयरो गुणवचनेषु सादृश्ये बाधः स्यात् । पटुअर्देअवदत इति । परिपूर्णगुण एवात्र पटुअशब्दो वर्तते, नतत्सादृश्यान्न्यूनगुणे । अग्निर्माणवक इति । अग्निशब्दो वह्नौ वृतः सोऽयमतिसादृश्यनिमितादभेदोपचारान्माणवके वर्तत इति द्रव्ये पूर्ववृतः सम्प्रत्यपि द्रव्यवचन इति गुणवचनो न भवति । एवं गौर्वाहीक इत्यत्र गोशब्दः सास्नादिमति वर्तित्वा वाहीके वर्तमानः । नन्वग्निशब्दोऽग्निगततैक्ष्ण्यं माणवके प्रतिपादयितुं प्रयुज्यत इति गुणवचन एव, तथा गोशब्दोऽपि सास्नादिमद्गतजाड।ल्प्रतिपादनाय वाहीके प्रयुज्यत इति गुणवचन एव ? इत्यत आह - यद्यप्यत्राग्निशब्द इति । अग्निशब्दो माणवके प्रयुज्यमानो यादृशमग्नेस्तैक्ष्ण्यं परश्वादिभ्यो व्यावृतं तदेव प्रतिपादयति, न तैक्ष्ण्यमात्रमिति, गोशब्दोऽपि यादृशं गवां जाड।ल्ं मनुष्येभ्यो व्यावृतं तदेव प्रतिपादयति, आश्रयविशेषसम्बन्धाद्धि तैक्ष्ण्यजाड।लदिकं भिद्यते, तदेतदाह - मुख्यार्थसम्बन्धादवधृतभेदं तैक्ष्णजाड।लदिकमिति । शब्दान्तरसन्निधीमन्तरेण शब्दश्रवणमात्राद् योऽर्थः प्रतीयते स मुख्यः । विपरीतो गौण । अवधृतभेदम् - निश्चितभेदम् । आदिशब्देन पैङ्गल्यभारवहनादेर्ग्रहणम् । अर्थान्तरे, गौणे माणवके वाहीके च । सर्वदा गुणवचनो न भवतीति न द्विरुच्यत इति ।’प्रकारे वर्तमानस्य’ इत्येव गुणवचनत्वे सिद्धे पुनर्गुणवचनग्रहणात् सर्वदा गुणवचनस्येत्याश्रीयते । न चायं सर्वदा गुमवचनः; प्राक् प्रकाराद् द्रव्यवचनत्वात् । अत्र केचित् -‘गुणमुक्तवान् गुणवचनः’ इति गुणोपसर्जनद्रव्यवचनस्य द्विर्वचनमिच्छन्ति । अन्ये तु गुणवचनस्य गुणिवचनस्य च अविशेषेणेच्छन्ति - शुक्लशुक्लं रूपम्, शुक्लशुक्लः पट इति ।’नवंनवं प्रीतिरहो करोति’ इत्यत्र वीप्सायां द्विर्वचनम्, अनेन तु द्विर्वचने सुब्लोपप्रसङ्गः, यथा - नवनवावनवायुभिरादेधेऽ इति । मूलेमूले इति । एकस्य वस्तुनो वेणुदलादेरेकमेव मुख्यमग्रं मूलं च, इतरेषां तु भागानामापेक्षिको मूलाग्रव्यपदेशः । स्थौल्यसौक्ष्म्ये अपि नैकरूपे, किं तर्हि ? यथामूलमुपचीयते स्थौल्म्, यथाग्रं च सौक्ष्म्यमिति वीप्साया अत्रासम्भवः । इह’मूलेमूले पथि विटपिनाम्’ इति वीप्सायामेव द्विर्वचनम् । स्वार्थ इति । अर्थान्तराभावप्रदर्शनार्थमिदमुक्तम् । अस्मार्त्कार्षाणादिति । अनेकमाषसमुदायःउकार्षापणम् । तत्र न सर्वे माषा दानक्रियया व्याप्यन्ते, किं तर्हि ? द्वावेवेति वीप्साया अभावः । ननु यथा द्वावेव माषौ निर्ज्ञातौ दानक्रियया व्याप्येते, तदा माषंमाषं देहि - इति वीप्सायां द्विर्वचनं भवति; एवमनेकमाषसमुदायादपि कार्षापणाद् द्वयोरेवास्ति दानक्रियाव्याप्तिः ? मैवम्, तत्र हि सन्निहितस्यार्थस्य न कस्यचिद् वर्जनमस्ति; इह तु वर्जनमस्ति, यतो माषंमाषमसौ दत्वा शेषं पृच्छति - किमनेन क्रियतामिति । तदिदमुक्तम् - अत्र हीति । माषं देहि द्वौ माषौ देहि त्रीन्माषानिति । अनेन यथेच्छ्ंअ देहीति विवक्षया अवधारणाभावं दर्शयति । चापल इति प्रयोक्तृधर्मोऽयम्, तस्मिन् द्योत्ये सुबन्तस्य तिङ्न्तस्य च सर्वस्य वाक्यगतस्य पदस्य द्विर्वचनं नावश्यमिति नेदं शास्त्रीयं द्विर्वचनम्, किं तर्हि ? परप्रत्यायनायानेकस्य स्वतन्त्रपदस्य प्रयोग इत्यर्थः । एवं च कृत्वा आम्रेडितानुदातत्वाभावाद्यथाप्राप्तः स्वरो भवति । क्रियासमभिहार इति । लोडन्तस्येवेदं द्विर्वचनम्, न यङ्न्तस्य; लोटः समुच्चयेऽपि विधानात् क्रियासमभिहाराभिव्यक्तौ केवलस्य सामर्थ्याभावात् । यङ् तु क्रियासमभिहारविषय एवेति तद्द्योतने स्वयं सामर्थ्यान्नापेक्षते द्विर्वचनम् । आभीक्ष्ण्य इति । पूर्वेण वाक्येन क्रियासमभिहारसंशब्दनेन यो विहितस्तदन्तस्यैव द्विर्वचनमिति शङ्कमानं प्रत्ययस्य वाक्यस्योपन्यासः । नित्य इत्येव सिद्धमिति तत्रोक्तमिति ।’नित्यवीप्सयोः’ इत्यत्र हि’क्त्वाणमुलोर्लोटश्च द्विर्वचनसापेक्षाणामेव पौनः पुन्यप्रकाशने शक्तिः’ इत्युक्तम् । अन्ये त्वाहुः -‘पुनः पुनः क्रियाया उत्पादनमाभीक्ष्ण्यम् । तथा हि - भुक्त्वाभुक्त्वा व्रजतीत्युक्ते सत्यपि क्रियाया विच्छेदे पुनः पुनर्भुङ्क्ते पुनः पुनर्व्रजतीति क्रियावृत्तिः प्रतीयते, नित्यता तु क्रियाया अविच्छेदः, यता जीवतिजीवतीत्युक्ते जीवत्येवायमिति प्रतीयते, न त्वसौ जीवित्वा म्रियते मृत्वा च जीवतीति, जीवनमेव त्वविच्छिन्नं प्रतीयते । तस्मादाभीक्ष्ण्यं नित्यमिति भिन्नावेतावर्थौ’ इति । अपर आह - भुक्त्वा व्रजतीत्यादौ क्त्वाणमुलन्तस्य तिङ्न्तस्य च द्विर्वचने प्राप्ते आभीक्ष्ण्यसंशब्दनेन यो विहितस्तदन्तस्य यथा स्यात्, तिङ्न्तस्य मा भूदिति नियमार्थमिदमिति । डाचीति । विषयसप्तमीयम्, तेनानुत्पन्न एव डाच्यकृतटिलोपस्य पटदित्यादेर्द्विर्वचनम्, ततः ठव्यक्तानुकारणात्ऽ इति डाचि टिलोपः,’नित्यमाम्रेडिते’डाचि इति पररूपत्वम् । अपर आह - इदमेवाच्छब्दस्य पररूपविधानं लिङ्गम् -‘डाचि’ इति परसप्तम्यामपि टिलोपात्पूर्वं द्विर्वचनं भवतीत्यस्यार्थस्येति, तदसत; पतदित्यादौ टिलोपादुतरकालमप्यच्छब्दस्य सम्भवात् । द्वितीया करोतीति ।’कृञो द्वितीया’ इत्यादिना डाच् । ततर्हि डाचि द्विर्वचनं वक्तव्यम् ? न वक्तव्यम्; आचार्यप्रवृत्तिर्ज्ञापयति -‘डाच्यव्यक्तानुकरणस्य द्विर्चनं भवतीति, यदयम्’नित्यमाम्रेडिते डाचि’ इति पररूपत्वं शास्ति । पूर्वप्रथमयोरिति । पूर्व, प्रथम - इत्येतयोर्द्विर्वचनं भवति, क्व ? अर्थातिशयविवक्षायाम् । अनयोर्यो’ र्थस्तस्यातिशये विवक्षिते । आतिशायिको’ पि दृश्यत इति । द्विर्वचनेन बाधे प्राप्ते वचनम् । अतिशयशब्दो’ नुशतिकादिषु द्रष्टव्यः । केचितु अर्थबेदादातिशायिकस्याबाध्यत्वमाहुः । तथा हि -‘पूर्वतरं भुङ्क्ते’ इत्युक्ते किमात्मसाध्यक्रियान्तरापेक्षं भोजनस्य पूर्वत्वम् ? अथ भोक्त्रान्तरसाध्यभोजनक्रियापेक्षम् ? इति सन्देहो भवति । एवं पूर्वतरं पुष्प्यतीत्युक्तेऽयमर्थो गम्यते । न तावदेष किसलयितो यावदेष पुष्प्यतीति । पूर्वंपूर्वं । पुष्प्यतीत्यस्मात्वन्येभ्यः पुष्पितृभ्योऽतिशयेन पूर्व पुष्प्यतीत्यर्थः प्रतीयते । डतरडतमयोरिति । डतरडतमान्तस्य द्वे भवतः, समेनाढ।ल्त्वादिना धर्मेण सम्प्रधारणायां विषये । स्त्रीनिगदे भाव इति । भावःउभूतिः, सम्पतुआढ।ल्ता, निगद्यत इति निगदः,’नौ गद’ इत्यादिना कर्मण्यप् । स्त्रीशब्देन स्त्रीलिङ्गः शब्दोऽविधीयते, स्त्रिया निगदः, कर्तरि षष्ठयाः समासः । स्त्रीलिङ्गशब्दाभिधेयायां भूतौ वर्तमानस्येत्यर्थः । कतराकतरा अनयोराढ।ल्तेति । किं साधनसम्पत्कृता ? उत भाग्यकृता ? इति प्रश्नार्थः । कर्मव्यतिहार इति । क्रियाव्यतिहारे इत्यर्थः । तत्र द्विर्वचनं नित्यम्, समासवद्भावस्तु बहुलम् । तत्रान्योऽन्यशब्दे समासवद्भावाभावात्सुब्लुक्, समासान्तोदातत्वं च न भवति, आम्रेडितानुदातत्वं भवति । इतरेतरशब्दे तु नित्यः समासवद्भाव इति सुब्लुक्समासस्वरौ भवतः । अन्योऽन्यमिति । द्वितीयैकवचनान्तस्य द्विर्वचनम् । अन्योऽन्यस्येति । षष्ठ।लेकवचनान्तस्य । अन्योऽन्यसम्बन्धिनः पुत्रादीनित्यर्थः । स्त्रीनपुंसकयोरिति । उतरपदस्थाया विभक्तेराम्भावः; अन्यथाऽनेकालत्वात्स सर्वस्योतरपदस्य स्यात् । तत्र’सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः’ इति पूर्वोतरपदयोर्द्वयोरपि पुंवद्भावे कृते पक्षे आम्विधिः । अन्याशब्दस्य तु द्विर्वचने समासवद्भावाभावाद्वहुलवचनात्स्त्रियां टापो निवृत्तिः । नपुंसके च ठद्डुतरादिभ्यःऽ इत्यस्य निवृत्तिः । वार्तिकेषु’कर्मधारयवत्’ इति न सम्बध्यत इति सुब्लुगादि न भवति ॥

Nyaas

प्रकारो भेदः। सादृश्यं च इति। उभयन्नापि प्रकारशब्दस्य प्रयोगदर्शनात्। तत्र भेदे प्रयोगो दृश्यते -बहुभिः प्रकारैर्भुङ्क्ते। बहुभिर्भेदैः, विशेवैर्भुङक्त इत्यर्थः। सादृश्येऽपि -बाहृणप्रकारोऽयं माणवकः। ब्राआहृणसदृश इत्यर्थः। तदिह सादृश्यं प्रकारो गृह्रते इति। कुत एतत्? लक्ष्यानुरोधात्। न हि कृतद्विर्वचनात्? गुणवचनात्? पदादिह भेदो गम्यते, किं तर्हि? सादृश्यम्। अत्र च शब्दशक्तिस्वाभाव्यं हेतुः। प्रकारे वर्तमानस्य इति द्विर्ववचनप्रतिपत्तिद्वारेण तद्द्योतनात्? तत्र तस्य वृत्तिर्विज्ञेया। परिपूर्णगुण इत्यादि। एतेनोदाहरणे गुणवचनत्य सादृदये वृत्ति दर्शयति। उपमानं हि सादृश्यम्। परिपूर्णः=सकलः पाटवादिर्गुणो यस्य स तथोक्तः। स एव न्यूनः=असकलोऽपरिसमाप्तो यस्य स न तथोक्तः। जातीयरपि प्रकारवचन एव विधीयत इति नाप्रप्ते तस्मिन्निदामारभ्यत इति तद्बाधनं प्राप्नोति? इति यश्चोदयेत्, तं प्रत्याह -जातीयरोऽनेन बाधनं नेष्यते इति। कथं पुनरिष्यमाणमपि बाधनं न भवितव्यति? वक्ष्यमाणस्यान्यतरस्यांग्रहणस्योभयोरपि योगयोः शेषभूतत्वात्। किं पुनः कारणं बाधनं नेष्यते? इत्याह -पटुजातीयो मृदुजातीय इत्यपि [इत्यादि भवतीति -प्रांउ।पाठः] हि भवति` इति। यस्तु पटुपटुजातीयो मृदुमृदुजातीयः इति प्रायेण पुस्तकेषु पाठः स प्रमादकृतः। कुतः? एकस्य कार्यिणोऽनेकेषां कार्याणां प्राप्तौ बाध्यबाधकभावो भवति। इह तु पटुदटुमृदुमृदुशब्दाभ्यामेव प्रकारस्य द्योतितत्वात्? तयोः पुनर्द्विर्वचनं न प्रप्नोति, नापि जातीयर्; तस्मादपपाठोऽयम्। अग्निर्माणवकः, गौर्वाहिकः इति। अग्निशब्दो गोशब्दश्चान्नाप्रकारे वर्तते। तथा ह्रग्निना माणवकस्य सूदृश्यं गम्यते, गवा च चाहीकस्य। न हि तौ गुणवचनौ, किं तर्हि? द्रव्यवचनौ; माणवकवाहीकयोद्र्रव्यत्वात्।ननु चमावपि मणवचनावेव, तथा हि -यज्जातयस्तैरुण्यादिर्गुणो यह्नो दृष्टस्तज्जातीयमेव गुणविशेषमुपादाय सोऽयमित्यभेदोपचारेण सम्बन्धेनोपमानोपमेयभावेन वाऽग्निशब्दोऽयं माणयके वर्तते; तमेव गुणविशेषं प्रतपादयितुं प्रवृत्तत्वात्। एवं गोशब्दोऽपि यज्जातीयो जाडआदिर्गुणः सास्नादिमति दृष्टः, तज्जातीयमेद गुणविशेषमुपादाय पूर्वोक्तयोः सम्बन्धयोरन्यतरेण सम्बन्धेन वाहोके वर्तते, तस्यैव गुणविशेषस्य प्रतिपादनाय। तस्माद्गुणविशेषे प्रतिपादयितुं प्रवृत्ताविमावपि गुणवचनावेव, इत्याह -यद्यप्यत्र इत्यादि। यतः शब्दात्? श्रुतिमात्रेण योऽर्थः प्रतीयते स तस्य मुख्योऽनपचरितोऽर्थः। स्त्वभेदोपचारादिना निमित्तन कथञ्चिद्यत्वेन प्रतीयते, स गौण इति। उपचरित इत्यर्थः। अग्निशब्दात्? श्रुतिमात्रेण पावकः प्रतीयते, गोशब्दाच्च सास्नादिमान्। अतोऽग्निशब्दस्य पावको मुख्यार्थः, गोशब्दस्यापि वाहिकः। मुख्येनार्थेन यावकादिना गौणस्य माणवकादेः सम्बन्धः। पूर्वोक्तयोः सम्बन्धयोरन्यतरो मुख्यार्थसम्बन्धः। तेन हेतुना करणेन वाऽवधतो निश्चितो भेदो विशेषो यस्य तैक्ष्ण्यजाडआदेर्गुणस्य स तथोक्तः। कथं पुनस्तेन सम्बन्धेन तस्य निश्चयो भवति? तत्प्रतीनी तत्प्रततेः। स हि गुणविशेषस्तस्य सम्बन्धस्य हेतुः; तस्मिन्? सति तत्सद्भावात्। अतः सम्बन्धो द्विप्रकारोऽपि प्रतीतः सन्? तत्प्रतीतिंजिनयति; धूम इवाग्नौ। तमेवंविधं गुणविशेषमेव यद्यपि मुख्यादर्थादन्यस्मिन्? गौणेऽर्थे गोशब्दोऽग्निशब्दश्च प्रतिपादयितुं प्रवृत्तः, तथापि सर्वकालं गुणवचनो न भवतीति न तद्द्विरुच्यते, तथा हि -यदासावमुख्येऽर्थे साधम्र्येण माणवके वाहीके च प्रयुज्यते, तदा गुणवचनो न भवतीति न तद्द्विरुच्यते, तथा हि -यदासावमुख्येऽर्थे साधम्र्येण माणवके बाहीके च प्रयुज्यते, तदा गुणवचनो भवति। यदा च वह्नौ सास्नादिमति च, तदा जातिवचनो द्रव्यवचनो वा। तत्र यदाऽग्निशब्दोऽग्नित्वे वर्तते गोशब्दोऽपि गोत्वे, तदा जातिवचनौ भवतः। यदा तु जातिवचनो द्रव्यवचनो वा। तत्र यदाऽग्निशब्दोऽग्नित्वे वर्तते गोशब्दोऽपि गोत्वं, तदा जातिवचनौ भवतः। यदा तु जात्युपलक्षिते जतिमति द्रव्ये तदा द्रव्यवचनौ। तस्मात्? सर्वकालमगुणवचनत्वान्न भवति तयोर्द्विर्वचनम्। एतच्च गणवचग्रहणाल्लभ्यते। प्रकारे हि वर्तमानः शब्दः सर्व एव गुणवचनः सम्पद्यते, उच्यते चेदं वचनम्? गुणवचनस्येति, तत्र सर्वप्रकर्षावगतिर्विज्ञायते -साधीयान यो गुमवचन इति। कश्च साधीयान्? गुणवचनः? यः [नास्तीदं वाक्यं भुद्रिते] सर्वदा गुणवचनः। यदि तर्हि सर्वदा यो गुणवचनस्तस्य द्विर्वचनेन भवितव्यम्; तदा पटुशब्दस्यापि द्विर्वचनं न प्राप्नोतीति, सोऽपि यदा पाटवमात्रे गुणविशेषे वर्तते तदैव गुणवचनः; यदा तु तद्वति द्रव्ये तदा द्रव्यवचन एव? नैतत; न हि विशेषणमनभिदधता विशेष्यं शक्यमभिधातुम्। अतो विशेष्यं द्रव्यमभिदधता नियोगतो विशेषणमव्यभिधेयम्। तस्मस्द्द्रव्येऽपि वर्तमानः पटुशब्दस्तद्विशषणमपि मुणमभिदधात्येव। इयांस्तु विशेषः -गुणमुपसर्जनीभूतमभिदधाति, द्रव्यं तु प्रधानभूतमिति। आनुपुव्र्ये, इत्यादि। अवीप्सार्थमिदम; वीप्साया असम्भवात्। तल्यजातीयानां हि भिन्नानां वीप्सा भवति, यथा -यामाणाम्। सर्वे, हि वे ग्रामत्वजास्यैकयाऽध्यासितत्वात्? तुल्युजातीया दिग्देशादिभेदेन भिन्नाः। मूले मूले स्थूलाः इत्यादौ तु देण्? नडादोनां [नलादीनाम् -प्रांउ।पाठः] ये भागस्तेषामेकमेव मुख्यं मूलं यस्याधोभागान्तरं न सन्निविष्टम्। एवकेकमेव च मुख्यमग्रं ग्रस्पोपरिभागान्तरं न सन्निविष्टम्। तथा हि वेणोर्मूलमित्युक्ते यस्याधोभायान्तरं नास्ति तत्रैव प्रतीतिरुपजायते। तथा वेणोरग्रमित्युक्ते यस्योपरिभागान्तरं नास्ति तत्रेव ग्रतीतिरुपजायते नतरेव। यस्तु तेषु मूलव्यपदेशोऽग्रव्यपदेशश्च, सोऽपेक्षाकृतः, अपरि सन्निविष्टमपेक्ष्य मूलवयपदेशः, अधःसन्निविष्टमपेक्ष्याग्रमिति। तस्माद्यथा सर्वे ग्रामास्तुल्यजातीया न तथा वेणुभागः भवन्ति। ग्रामाणां हि न किञ्चिदपेक्षाकृतं ग्रामत्वम्? भागानां त्वेकस्यैव मुख्यं मूलत्वमग्रत्वञ्चानपेक्षाकृतम्। अनेकेषां भागानां तूभयम्। यत्तदपेक्षाकृतमेव तस्माद्भिन्नजातीयः भागाः। न च भिन्नजातीयानां वीप्सा भवति, यथा -सास्नादिमतां गदां वाहिकानाञ्च। न हि गोर्गौरित्युक्ते वाहीकगतापि दीपासा गम्यते। अप चैतावातिहार्थो विवक्षितः - आनुपूर्व्येण वेणु नडादयः [`नलादयः - प्रांउ।पाठः] स्थूलाः सूक्ष्मा वेति प्रतीयते; न तु वीप्सा। ज्र्यष्ठं ज्येष्ठं प्रदेशय इति। अत्रानुपूर्व्यमात्रं विवक्षितम्। यः सर्वेयां ज्येष्ठस्त तावत्प्रदेशय, ततसतदन्येषां यो ज्यष्ठन्तं प्रदेशयेति। अन्यथा यद्यत्र ज्येष्ठानां वीप्सा स्यात्? सर्वकनीयसः प्रवेशो न स्यात्; तस्य वीप्सयाऽविवयीकृतत्वात्, न ह्रसौ ज्येष्ठः। तस्मादत्रापि नास्ति वीप्सा। तेनानुपूर्व्ये द्वे भवत इत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -यथा शेषे (4.2.91) इति लक्षणञ्च, अधिकारश्च; तथा सर्वस्य द्वे (8.1.1) इत्येतदपि लक्षणमधिकारश्च। तेनानुपूर्व्ये द्वे भवत इत्युत्तरत्रापि द्विर्वचनविधौ यथायोगमेव व्याख्यानं कर्तव्यम्। यदि तर्हि सर्वस्य द्वे इत्येतल्लक्षणमपि, एवं सति **नित्यवीप्सयोः** (8.1.4) इत्यादेर्वेयर्थत्य न भवति, तत्रैव [`तथा हि -प्रंउ।पाठः] नित्यदीप्सयोः इत्येसादीनाम प योगानाम्। अस्मात्? काषपिणादिह भवद्भ्यां मा मावं देहि इत। अत्र द्बावेवेत्यवधार्यते। द्वावेव देहि, नैकम्, नापि बहुनित्यर्थः। विनापि ह्रेवकारप्रयोगेणावधारणे गम्यते; विवक्षितत्वात्, यथा -पार्थो धनुर्धर इति। ननु किं पुनः कारणे दीप्सा न सम्भवति? इत्याह -अत्र हि इत्यादि। अनेन वीप्साया अभाव दर्शयति। कार्षापणौ ह्रनेकमावसमुदायः। न च सर्वे मावा दानक्रियया व्याप्तुमिष्यन्ते, अपि तु द्वादेदेति नास्त्यतर वीप्सा -माषं देहि, द्वौ माषौ देहि, क्रीन्? मावान्? देहीति। एकं माषं देहि, द्वौ वा, त्रीन वा -इत्ययमत्रार्थो विवक्षितः, न त्ववधारणमिति द्विर्वचनं न भवति।सम्भ्रमेण इति। त्वरया। प्रवृत्तिः इति। प्रवत्तनम्। अहिरहिर्बुध्यस्य बुध्यस्व इति। यद्ययं न वुध्यतेऽह चर्व नावबोधयाम्, ततो नून दृष्ट [दष्टः -प्रांउ।पाठ] एवायमहिनेति मत्वा सम्भ्रमेणैवं वाक्य प्रयुक्ते। क्रियासमभिहारे द्वे भवत इति वक्तव्यम् (वा।886), आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम् (वा।887) इत्येवं वाक्यद्वयं लोडादिभिरेव तन्नित्यताया द्योतितत्वाद्द्विवचनं न प्राप्नोतीत्युपन्यस्तम्। नित्य इत्यादिना नित्यवीप्सयोः (8.1.4) इत्यनेनैवात्र द्विर्वचनं सिद्धमिति दर्शयति। यथा च सिद्ध तथा तत्रैव क्त्वाणगलोर्लोटश्च द्विर्वेचनापेक्षया इत्यादिना ग्रन्थेन प्रतिपादितम्। पटपटाकरोति इति। पटच्छपब्दस्य डाचि विषयभूतेऽनुत्पन्न एव द्विर्वचनम्। ततः अव्यक्तानुकरणाद्द्व्यर्जवरार्धादनितौ डाच (5.4.57) , नित्यमाम्रीडते डाजि` (6.1.96) इति तकारस्य पररूपत्वम्। पटपटायते इति। `लोहितादिडाज्भ्यः क्यष , वा क्यषः (1.3.90) इत्यात्मनपदम्।ढाजन्तस्य इति। भाविडाजन्तमभिप्रेत्यैवमुक्तम्। तस्मात्? डाचि विषयभूतेऽनुत्पन्न एवैतद्द्विर्वचनमिष्यते। अत एव वृत्तिकारेण अव्यक्तानुकरण (5.4.57) इत्यादौ सूत्रे उक्तम् -डाचीति विषयसप्तमीयमिति। अत्र नित्यमाम्रेडिते डाचि (6.1.100) इति पररूपविधानं ज्ञापकम्। तत्र ह्र इति, अन्तस्येति, च वर्तते। यदि डाचि परभूते द्विर्वचनमिष्यते, ततो डाचि विहिते पटच्छब्दस्य नित्यत्वाट्टिलोपेनैव प्राग्भवितव्यम्; तथा च सत्यच्छब्दाभावात्? तत्? परूपं नोपपद्यते। तस्माद्विषयसप्तमीयम्। एवं कृत्वा नित्यमाम्रेडिते डाचि (6.1.100) इत्यत्र यदुक्तम् -प्राक्? टिलोपाद्द्विर्वचनमिष्यते इति, तदुपपन्नं भवति। एवं हि प्राक्? टिलोपाद्द्विर्वचनं सिध्यति; यदि डाचि विषयभूते तत्र तद्विधीयते; अन्यथा हि यदि तस्मिन्? परभूते विधीयेत, ततो नित्यत्वात्? प्राक्? टिलोप एव स्यात्, न तु द्विर्वचनम्। द्वितीयाकरोति इत्यादि। कृञो द्वितीयतृतीय (5.4.58) इत्यादिना डाच्। तदर्थम् इति। अव्यक्तानुकरणडाजन्तस्यैव द्विर्वचनं यथा स्यादित्येवमर्थम्। केचित् इति वचनात्? केचिद्बहुलमिति न पठन्तीत्युक्तं भवति। तेषामयमभिदप्रायः -सर्वस्य द्वे इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेनाव्यक्तानुकरणडाजन्तस्यैवात्र द्विर्वचनं भविष्यति, नान्यस्येति। ततो नार्थो बहुलग्रहणस्येति। पूर्वप्रथमयोः इत्यादि। अर्थातिशयविवक्षायाम् इति। पूर्वप्रथमशब्दस्य वाच्यस्यातिशयः प्रकर्षः, तस्य विवक्षा वक्तुमिच्छा, तस्यां द्वे भवत इत्येतर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्। नाप्राप्ते आतिशायिके द्विर्वचनमिदमारभ्यमाणं तस्य बाधकं प्राप्नोति इति यो मन्येत, तं प्रत्याह -आतिशायिकोऽप दृश्यते इति। कथम्? सर्वेस्य द्वे (8.1.1) इत्यनेनैव द्विर्वचनं विधीयते। अत्र विभाषाधिकाराद्विकल्पेन। तेन यदा नास्ति द्विर्वचनं तदातिशायको भवति। डतरडतमयोः इत्यादि। किंयत्तदोः (5.3.92) इत्यादिना इतज्विहितः। ` वा बहूनां जातिपरिप्रश्ने` (5.3.93) इत्यादिना डतमच्। समेन गुणेनाढत्वादिना निरूपणायोभादिमावाढआवित्येवमादिप्रकारा सा सम्प्रधारणा। स्त्रीलिङ्गशब्धः स्त्रीलिङ्गयोगात्? स्त्रीत्युक्तः। निगद्यतेऽनेनेति निगदः -पुंसि संज्ञायां घः प्रायेण [प्रायेण -नास्ति मुद्रिते] (3.3.118) इति घः। स्त्रीनिगदो यस्य स स्त्रीनिगदो भावः। डतरडतमान्तयोः स्त्रीनिगदे भावे वर्तमानयोः शब्दयोः सम्प्रधारणायां विषयभूतायां द्वे भवतः। डतरडतमग्रहणमत्रोपलक्षणार्थ द्रष्टव्यम्। अत एव वक्ष्यति -डतरडतमान्यामन्यत्रापि दृश्यते [हि इल्यधिकम् -काशिका] इति। इहाढत्वं कस्यचित्? साधनसम्बन्धकृतम्, कस्यचिद्यत्नकृतम्, कस्यचिद्भाग्यसम्पत्कृतम्। तत्रोभाविमावाढआवित्युक्ते प्रतिपत्ता किंकृतमनयोराढत्वमिति प्रतिपद्यमानः कतराकतराऽनयोराढतेति वाक्यं प्रयुङक्ते, तदाढता विभूतिपर्यायः स्त्रीनिगदो भावः। तत्र च डतरडतमान्ते वर्तते; तां प्रष्टुं प्रवर्त्तितत्वात्। कर्मव्यतिहारे इत्यादि। कर्मव्यतिहारः क्रियाविनिमयः। एकस्यान्यभोजनापदरस्यापीतरो भोजनादिः। समासवद्भावोऽनेन बहुलं विधीयते। द्विर्वचनं तु सर्वस्य द्वे (8.1.1) इत्यनेनैव सिद्धम्। स च समासवद्भावो बहुलवचनादन्योऽन्यशब्दे न भवत्येव। इतरेतरशब्दे तु नित्यम्। असमासपक्षे पूर्वपदस्य प्रथमैकवचनं कर्तव्यम्। अन्योऽन्यमिमे ब्राआहृणा भोजयन्ति इति। अन्यमित्यस्य द्वितीयैकवचनान्तस्य द्विर्वचनम्। अत्र समासवद्भावो नास्तीति पूर्वपदस्य प्रथमैकवचनम्। तस्य च ससजुषो रुः (8.2.66) , अतो रोरप्लुतादप्लुते (6.1.113) इत्युत्वम्; आद्गुणः (6.1.87) , एङः पदान्तादति (6.1.109) इति पूर्वरूपत्वम् -एते विधयो विधेयाः। अन्योऽन्यस्य इति। षष्ठन्तस्य द्विर्वचनम्। अन्योऽन्यसम्बन्धिनं पुत्रादिकं भोजयन्ति। अन्योऽप्यस्येत्यर्थः। इतरेतरं भोजयन्ति इति। द्वितीयान्तस्य द्विर्वचने कृते द्वितीयैकवचनम्, अमि पूर्वत्वम्? (6.1.103) । इतरेतरस्य` इति। षष्ठन्तस्य द्विर्वचनम्। सुब्लुकि कृते समासप्रातिपदिकत्वात्? पुनः षष्ठएकवचनं भवति।स्त्रीनपुंसकयोः इत्यादि। स्त्रीनपुंसकयोर्यत्? सर्वनाम कर्मव्यतिहारे वर्तते तदुत्तरपदस्य विकल्पेनाम्भावो वक्तव्यः। उत्तरपदस्येत्यवयवसम्बन्धे षष्ठी, तेनोत्तरपदस्य या विभक्तिरवयवभूता तस्या अयमादेशो भवति। स्थाने षष्ठआं ह्रस्यामनेकाल्त्वात्? सर्वादेशः स्यात्। अन्योन्यामिमे ब्राआहृण्यो भोजयतः इति। अन्यामित्यस्य द्विर्वचनम्, विभक्तेराम्भावः, पूर्वपदस्य बहुलवचनाध्यस्वत्वम्, पूर्ववद्रुत्वादि। अन्योऽन्यम् इत्यत्र उत्तरपदस्यापि पूर्ववद्? ह्लस्वत्वादिः। इतरेतरां भोजयतः इति। समासवद्भावे सति सर्वनाम्नो वृत्तिमात्रे पुंवद्भावेन (जैन।वृ।103) टापो निवृत्तिः। एवं इतरेतरम् इत्यत्रापि॥

Prakriyasarvasvam

सादृश्येऽर्थे गुणवचनस्य द्वे स्तः, कर्मधारयवच्च स्यात् । मृदुमृदुः । पुंवद्भावाद् मृदुमृद्वी । परिपूर्णमृदुना सदृश ईषन्मृदुरित्यर्थः । अत्यन्तमृदौ तु मृदुष्वपि मृदुरिति, मृदुभ्योऽपि मृदुरिति वा समासमाहुर्माधवाद्याः । एवं मन्दमन्दम्’ । वीप्सायां तु सुब्लुगभावान्मन्दं मन्दमिति स्यात् । ‘आनुपूर्व्ये द्वे स्तः’ इति वाच्यम् । ज्येष्ठं ज्येष्ठं प्रवेशय । ‘अनेकरूपार्थानामवधारणे द्वे वाच्ये’ । एभ्यो माषं माषं देहि । माषमेव नाधिकमिति नियम्यते । ‘एकत्वे तु न’ । एभ्यः सहैंकमेव माषं देहि । ‘चापले द्वे वाच्ये’ । चापलं सम्भ्रमादि । अहिरहिः । उत्तिष्ठोत्तिष्ठ । नेह द्वित्वनियमः । सर्पः सर्पः सर्पः । ‘वाक्यस्यापि दृश्यते’ । अहो दर्शनीयाहो दर्शनीया । मह्यं रोचते मह्यं रोचते । ‘पदेकदेशस्यापि’ । स्तनौ मृगाक्ष्याः कठिनौ ठिनौ ठिनौ ।<!डाचि बहुलं द्वे भवतः!> (वा० ६-१-९९) इत्यत्र बहुलोक्तेरडाच्यप्यनुकरणस्य द्विरुक्तिः स्यात् । तेन पटत् पटदिति संहितायामुक्तम् । ‘पूर्वप्रथमयोरतिशये द्वे स्तः’ । पूर्वं पूर्वमगात् । प्रथमं प्रथमं गतः । पूर्वतरं प्रथमतरमित्यर्थः । स्त्रीलिङ्गभाव- प्रत्ययान्तयोगे प्रश्नेऽर्थे डतरडतमयोर्द्वे स्तः । कतरा कतरात्र चारुता, कतमा कतमा भन्यता । अन्यस्यापि दृश्यते । कीदृशी कीदृशी चारुता । स्त्रीलिङ्गभावं विनपि दृष्टम् । कतरः कतरो विभवः ॥ <karika>क्रियाविनिमये द्योत्ये सर्वनाम द्विरुच्यते । समासवत् सुब्लुगादि कार्यं च बहुलं भवेत् ॥ ६३८ ॥ तत्रासमासवत्त्वे तु भवेत् पूर्वपदस्य सुः । उत्तरस्य यथार्हं स्युः सर्वा अपि विभक्तयः ॥ ६३९ ॥</karika> बहुलोक्त्यान्यपरशब्दयोरसमासत्वमेव । तेन पूर्वपदस्य सुविभक्तिः सन्धिकार्यं च । <karika>अन्योन्यमनमन् विप्रा अन्योन्येन कृता स्तुतिः । अन्योन्यस्मै हितं चक्रुरन्योन्यस्माच्च शुश्रुवुः ॥ ६४० ॥ अन्योन्यस्य प्रसन्नाः खल्वन्योन्यस्मिन् मुदं दधुः । एवं परस्परं तत्र कस्कादित्वात् विसर्गसः ॥ ६४१ ॥</karika> इतरशब्दस्य तु नित्यं समासवद्भावः । तेन सुब्लुक् । पुनरुत्तरपदस्य विभक्ति- योगादितरेतरमित्यादि । स्त्रीनपुंसकयोरुत्तरपदविभक्तेराम्भावो वा वाच्यः ॥ <karika>स्त्रीक्लीबयोः परपदविभक्तेराम् विकल्पतः । परस्परां समीयुस्ता अन्योन्यामितरेतरामू ॥ ६४२ ॥ तदपत्यानि चान्योन्यां मिलन्ति स्म महोत्सवे । अन्योन्यमित्याद्यप्यत्र भवेदेवं विकल्पतः ॥ ६४३ ॥</karika> विकल्पादन्योन्यमित्याद्यपि । स्त्रीत्वे टाप्‌प्राप्तावपि ‘समासवच्च बहुल’मित्युक्तेर्ह्रस्वः ॥

Vartika

आनुपूर्व्ये द्वे वाच्ये ।

Sutra Prayogas

  • अन्तिकान्तिकगतेन्दुविसृष्टे (किरातार्जुनीयम्): प्रकारे गुणवचनस्य इति द्विर्भावः।

  • मन्दमन्दम् (किरातार्जुनीयम्): प्रकारे गुणवचनस्य इति द्विर्भावे कर्मधारयवद्भावात्सुपो लुक् ।

  • मन्दमन्दम् (किरातार्जुनीयम्): प्रकारे गुणवचनस्य इति द्विर्भावे कर्मधारयवद्भावात्सुलोपः।

  • भीतभीतः (किरातार्जुनीयम्): प्रकारे गुणवचनस्य इति द्विर्भावे कर्मधारयवद्भावात्सुलोपः।

  • नवनवत्वम् (किरातार्जुनीयम्): प्रकारे गुणवचनस्य इति प्रकारार्थे द्विर्भावः।

  • उष्णोष्ण (शिशुपालवधम्): प्रकारे गुणवचनस्य इति द्विवचनम्।

  • शून्यशून्यां (शिशुपालवधम्): प्रकारे गुणवचनस्य इति द्विर्भावः।