81010: आबाधे च¶
Padacheda: आबाधे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
A word is repeated and is treated like a member of a बहुव्रीहि समास when a mental distress over something is expressed.
Vasu English Translation¶
A word is repeated and is treated like a member of a बहुव्रीहि समास when a mental distress over something is expressed. Thus गत꣡गतः ‘gone, gone to my affliction’, नष्ट꣡नष्टः, पतित꣡पतितः, in the masculine, and गतगता, नष्टनष्टा, पतितपतिता in the Feminine (not गतागता for the reasons given in the preceding aphorism). The accent is governed by (6.2.1).
Kashika¶
आबाधनमाबाधः, पीडा प्रयोक्तृधर्मः, नाभिधेयधर्मः। तत्र वर्तमानस्य द्वे भवतः। बहुव्रीहिवत् चास्य कार्यं भवति। ग॒तग॑तः। न॒ष्टन॑ष्टः। प॒ति॒तप॑तितः। ग॒तग॑ता। न॒ष्टन॑ष्टा। प॒ति॒तप॑तिता। प्रियस्य चिरगमनादिना पीड्यमानः कश्चिदेवं प्रयुङ्क्ते प्रयोक्ता॥
Siddhanta Kaumudi¶
पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक् । गतगता । इह पुंवद्भावः ॥
Balamanorama¶
आबाधे च - आबाधे च । आबाधः=पीडा । तदाह — पीडायामिति । गतगत इति । ‘प्रिया विना काल’ इति शेषः । आबाधं दर्शयितुमाह — विरहादिति । स्त्रीवियोगादित्यर्थः । बहुव्रीहिवद्भावादिति । ‘गत’ इत्यस्य द्विर्वचने सति बहुव्रीहिवत्त्वात्समुदायस्य प्रातिपदिकत्वेन सुपोर्लुकि समुदायात्सुबुत्पत्तिरित्यर्थः । गतगतेति ।ग्रिये॑ति शेषः । इयमपि स्त्रीविरहात्पीडमानस्यौक्तिः । एकस्या एव गमनकर्त्र्या द्विः कथनात्समानाधिकरणं स्त्रीलिङ्गमुत्तरपदमितिस्त्रियाः पुंव॑दिति पुंवत्त्वम्, बहुव्रीहिवत्त्वादुत्तरपदत्वस्यापि सत्त्वात् । तदाह — इह पुंवद्भाव इति ।
Tattvabodhini¶
आबाधे च - आबाधे च ष । इहेति ।बहुव्रीहि वद्भावा॑दित्यनुषज्यते । तथा चस्त्रियाः पुंव॑दिति वर्तते । न च द्विरुक्तस्य परमुत्तरपदं नेति वाच्यं,बहुव्रीहि व॑दित्यतिदेशबलेनैव उत्तरपदत्वस्यापि लाभात् । ननु बहुव्रीहिवद्भावेनोत्तरपदत्वलाभे सतिनने॑त्यत्रनलोपो नञः॑ इथि कस्मान्न भवति । उच्यते -॒न लोपो नञः॑इत्यत्र उत्तरपदे इति [प्र]वर्तते, नञ इति च कार्यिणो निर्देशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नञो निमित्तभावो बाध्यते । यथा मद्रह्यदो भद्रह्यद इति । अत्र रेफस्यअचो रहाभ्यामि॑ति द्वित्वप्रसङ्गे आकरे उक्तंनेमौ रहौ कार्यिणौ किं तु निमित्तमेतौ द्विर्वचनस्ये॑ति । नन्वेवमपिधूर्धूः॑पन्थाःपन्थाः॑ इत्यादौऋक्पूरब्धू॑रिति समासान्तः स्यादिति चेन् ।समासाच्च तद्विषया॑दित्यतः समासादित्यनुवर्तमानेसमासान्ताः॑इति पुनः समासग्रहणं हि समासाधिकारविहितो यः समासस्तत्परिग्रहार्थम् । तेनातिदेशिके समासे समासान्तानामप्रवृत्तिरति दिक् ।
Padamanjari¶
आबाधनमाबाध इति । भावे घञ् । प्रयोक्तृधर्मो नाभिधेयधर्मैति । अभिधेयधर्मत्वे हि बाधितपीडितादिशब्दानामेव द्विर्वचनं स्यात्, न गतादिशब्दानाम्, प्रयोक्तृधर्मत्वे हि तेषामपि भवतीति व्याप्तिर्भवति । तत्र वर्तमानस्येति । द्विर्वचने सत्याबाधस्य गम्यमानत्वाद् गतादिशब्दानां तत्र वृत्तिः, न तु तदभिधानात् । प्रियस्य चिरगमनादिनेति । प्रयोक्तृधर्मत्वमाबाधस्य दर्शयति । आदिशब्देन नाशादेर्ग्रहणम् ॥
Nyaas¶
आबाधनभावाधः इति। भावे घञ्। यद्यत्राबाधोऽभिधेयधर्म आश्रीयते, तदा बाधितपीडिताविशब्दानामेव द्विर्वचनं स्यात्, न तु गतादिशब्दानाम्। प्रयोक्तृधर्म आश्रीयमाणे सर्वत्र भवति। तस्माद्व्याप्तिव्यायात्? प्रयोक्तृधर्म एवाश्रीयते, इत्याह -प्रयोक्तृधर्मः इति। तत्र वर्तमानस्य इति। द्विर्वचनप्रतिपत्तिद्वारेण, बहुव्रीहिवद्भावप्रतिपत्तिद्वारेण च तत्प्रकाशनात्? तत्र तस्य वृत्तिर्वेदितव्या, न तु तदभिधानात्। न हि गतादयः शब्दा कथञ्चिदाबाधनमभिदधति। चकारो वाक्यभेदमाचष्टे। तेन द्वयमत्र विधीयते -एकेन वाक्येन द्विर्वचनम्, अपरेण च बहुव्रीहिवद्भावः। गतगतः इत्यादौ पूर्ववत्? सोर्लुक्। गतगता इत्यादौ तु पुंवद्भावः पूर्ववदेव। प्रियस्य गमनादिना इत्यादि। एतेन प्रयोक्तृधर्मताऽबाधस्येति दर्शयति। आदिशब्देन विनाशादेग्र्रहणम्॥
Prakriyasarvasvam¶
<karika>पीडायां च द्विरुक्तिः स्यात्तद् बहुव्रीहिवद् भवेत् । कष्टं गतगतः कान्तो गत इत्येव वर्ण्यते ॥ ६३६ ॥</karika> <karika>बहुव्रीहिवदित्युक्त्या स्त्रियाः पुंवदितीरितः । पुंवद्भावोऽपि पूर्वस्य भवेद् गतगता प्रिया ॥ ६३७ ॥</karika>