81003: अनुदात्तं च

Padacheda: अनुदात्तम् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

That which is called अम्रेडित (repeated) is gravely accented.

Vasu English Translation

That which is called अम्रेडित (repeated) is gravely accented. Thus भुङ्क्ते भु॒ङ्क्ते॒; पशून् प॒शू॒न् ॥

That is, all the vowels of the amredita become anudatta or accentless. In the above examples, the root भूञ् becomes atmanepadi by (1.3.66): the Personal endings are anudatta by (6.1.186); the vikarana शनम् gets the acute by (3.1.3); the अ꣡ of this न꣡ is elided by (6.4.111), and thus भुङ्क्ते꣡ becomes finally acute by udatta-nivrtti-svara (6.1.161). The amredita bhunkte becomes wholly anudatta. The word पशु is formed by the affix कु and is finally acute.

Kashika

अनुदात्तं च तद् भवति यदामे्रडितसंज्ञम्। भुङ्क्तेभु॒ङ्क्ते॒। पशून्प॒शू॒न्॥

Siddhanta Kaumudi

द्विरुक्तस्य परं रूपमनुदात्तं स्यात् । दिवे दिवे (दि॒वे दि॑वे) ॥ इति साधारणस्वराः ॥

Padamanjari

परमित्यनेन सामानाधिकरण्यातस्य चाज्झल्समुदायरूपत्वादन्यर्थोऽत्रानुदातशब्दः - अविद्यमानमुदातमनुदातमिति । स्वरितेऽप्युदातस्य भावातस्यापि निवृत्तिः । एवमपि न ज्ञायते - केन स्वरेणाम्रेडितं प्रयोक्तव्यमिति ? उच्यते; उदातस्वरितौ तावन्निषिद्धौ, न चास्वरकस्याच उच्चारणं सम्भवति, तत्र पारिशेष्यादनुदातत्वमेव भविष्यति । यद्वा - अनुदाताच्कमनुदातम्, आम्रेडितस्था अचोऽनुदाता भवन्तीत्यर्थः । भुङ्क्तभुङ्क्त इति ।’भुजो’ नवनेऽ इत्यात्मनेपदम्, तस्य’तास्यनुदातेत्’ इत्यनुदातत्वम्, श्नमः प्रत्ययस्वरः, तस्य’श्नसोरल्लोपः’ इत्यल्लोपे उदातनिवृत्तिस्वरेण भुङ्क्तेशब्दोऽन्तोद्रुतिः, द्विर्वचनेन परस्यानुदातत्वम् । पशुशब्दः कुप्रत्ययान्तोऽन्तोदातः ॥

Nyaas

प्रकृतिस्वरे प्राप्ते परस्यानुदात्तत्वमुच्यते। अनुदात्तशब्दश्चात्र परशब्दसामानाधिकरण्यान्न शास्त्रीयमनुदात्तमाह, किं तर्हि? अन्वर्थो विज्ञायते -अविद्यमानमुदात्तमनुदात्तमिति। शास्त्रीये ह्रनुदात्ते गृह्रमाणे सम्बन्धार्थं परस्यैति षष्ठ्युच्चारयितव्या स्यात्। तथा च अलोऽन्त्यस्य (1.1.52) स्यात्। अथापि सर्वस्येत्यनुवर्तत, एवमपि वचनप्रामाण्यादेककाल एव सर्वादेशः प्रसज्येत। तस्मादन्वर्थस्यैव ग्रहणं युक्तम्। भुङक्तेभुङ्क्ते इति। भुजोऽनवने (1.3.66) इत्यात्मनेपदम्। तस्मिन्? कृते सति शिष्टस्वरत्वाद्धातुस्वरं बाधित्वा प्रत्ययस्वरः। श्नमि कृते यद्यपि तस्य स्वरः सतिशिष्टः, तथापि विकरणस्वरः सार्वधातुकस्वरं न बाधते इति तेशब्द एव स्वरे प्रसक्ते तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः (6.1.186) इति सार्वधातुकस्यानुदात्तत्वम्, श्नसोरल्लोपे कृते अनुदात्तस्य च यत्रोदात्तलोपः (6.1.161) इति पुनस्तेशब्द उदात्तः, नित्ये चार्थे द्विर्वचनम्, तस्मिन्? कृतेऽनेन परमनुदात्तं भवति। पशून्पशून् इति। कुभ्र्रश्च (द।उ।1-107) इत्यत कुः इत्यनुवर्तमाने अर्जिवृशिकसम्यमिपशिबाध#आमृजिपशितुग्धुग्दीर्घहकाराश्च (द।उ।1।112) इति कुप्रत्ययः, दृशे पशिरदिशश्च। पशृशब्दः प्रत्ययस्वरेणान्तोदात्तः, विभक्त्यकारेण सहैकादेशः, एकादेश उदात्तेनोदात्तः (8.2.5) वीप्सायां द्विर्वचनम्, अनेन परस्यानुदात्तत्वम्॥

Prakriyasarvasvam

आम्रेडितमनुदात्तं स्यात् इति सर्वानुच्चः । एवं दिवे दिव इत्याविष्वप्या- म्रेडितस्य सर्वानुच्चत्वमूह्यम् ।