81015: द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु¶
Padacheda: द्वन्द्वम् | S | 1 | 1 |
रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
The word द्वन्द्वम् is irregularly formed in the sense of ‘secret’ and when it expresses a ‘limit’, ‘a separation’, ‘employing in a sacrificial vessel’ and ‘manifestation’.
Vasu English Translation¶
The word द्वन्द्वम् is irregularly formed in the sense of ‘secret’ and when it expresses a ‘limit’, ‘a separation’, ‘employing in a sacrificial vessel’ and ‘manifestation’. The word द्वन्द्वं is formed from द्वि by doubling it, changing the first द्व into अम्, and the second द्व into अ ॥ The word द्वन्द्व itself means रहस्य or secret; while it marks ‘limit’ मर्यादा &c only secondarily, by context of the sentence. Thus द्वन्द्वं मन्त्रयन्ते ‘they are consulting some secret’. Limit or मर्यादावचनः, as आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते = माता पुत्रेण मिथुनं गच्छति, पौत्रेण, तत्पुत्रेणापि ॥ (See Maitr. S. 1.7. 3 Sankh. Br. III.97). Separation of व्युत्क्रमण :- द्वन्द्वयुत्क्रान्ताः = द्विवर्गसम्बन्धेन पृथगवस्थिताः ॥ Vyutkramana means bheda or separation, placing at a different place. Employment with regard to a sacrificial vessel (यज्ञपात्रप्रयोगः) as — द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति वीरः (See (1.3.64)) ॥ अभिव्यक्तिः or manifestation : as द्वन्द्वं नारदपर्वतौ, द्वन्द्वं संकर्षण वासुदेवौ = द्वावप्यभिव्यक्तौ साहचर्येण ॥
The word द्वन्द्वं is found employed in connection with other senses also; as द्वन्द्वं युद्धं वर्त्तते, द्वन्द्वानि सहते धीरः, चार्थे द्वन्द्वः &c.
Bhashya¶
द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाऽभिव्यक्तिषु ॥ अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वमित्युपसङ्ख्यानम्॥ अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वमित्युपसङ्ख्यानं कर्तव्यम्। द्वन्द्वं स्कन्दविशाखौ। द्वन्द्वं-नारदपर्वतौ। अत्यन्तसहचरित इति किमर्थम्?॥ द्वौ युधिष्ठिरार्जुनौ॥ लोकविज्ञात इति किमर्थम्?॥ द्वौ देवदत्तयज्ञदत्तौ। अथ द्वन्द्वमिति किं निपात्यते॥ द्वन्द्वमिति पूर्वपदस्य चाऽम्भाव उत्तरपदस्य(1) चाऽत्वं नपुसंकत्वं च(2)॥ द्वन्द्वमिति पूर्वपदस्य चाऽम्भावो निपात्यते उत्तरपदस्य चात्वं नपुंसकत्वं च॥ उक्तं वा॥ (उक्तंवा)॥ किमुक्तम्?॥ लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति, तत्र नपुंसकत्वमनिपात्यम्॥ (द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्र)॥
Kashika¶
द्वन्द्वमिति द्विशब्दस्य द्विर्वचनम्, पूर्वपदस्याम्भावः, अत्वं चोत्तरपदस्य निपात्यते रहस्य मर्यादावचन व्युत्क्रमण यज्ञपात्रप्रयोग अभिव्यक्ति इत्येतेष्वर्थेषु। तत्र रहस्यं द्वन्द्वशब्दवाच्यम्, इतरे विषयभूताः। द्वन्द्वं मन्त्रयन्ते। मर्यादावचने — मर्यादा स्थित्यनतिक्रमः। आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति। माता पुत्रेण मिथुनं गच्छति, पौत्रेण, तत्पुत्रेणापीति मर्यादार्थः। व्युत्क्रमणे — द्वन्द्वं व्युत्क्रान्ताः। व्युत्क्रमणं भेदः, पृथगवस्थानम्। द्विवर्गसंबन्धेन पृथगवस्थिता द्वन्द्वं व्युत्क्रान्ता इत्युच्यन्ते। यज्ञपात्रप्रयोगे — द्वन्द्वं न्यञ्चि यज्ञपात्राणि प्रयुनक्ति धीरः। अभिव्यक्तौ — द्वन्द्वं नारदपर्वतौ। द्वन्द्वं संकर्षणवासुदेवौ। द्वावप्यभिव्यक्तौ साहचर्येणेत्यर्थः। अन्यत्रापि द्वन्द्वमित्येतद् दृश्यते, तदर्थं योगविभागः कर्तव्यः — द्वन्द्वं युद्धं वर्तते, द्वन्द्वानि सहते धीरः,**चार्थे द्वन्द्वः** (२.२.२९) इति॥
Siddhanta Kaumudi¶
द्विशब्दस्य द्विर्वचनं पूर्वपदस्य अम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् । इतरे विषयभूताः । द्वन्द्वं मन्त्रयते । रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति । पौत्रेण प्रपौत्रेणापि मर्यादीकृत्य । व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्ताः द्विवर्गसम्बन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञपात्राणि पयुनक्ति । द्वन्द्वं सङ्कर्षणवासुदेवौ । अभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वमिष्यते ॥
Balamanorama¶
द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण- यज्ञपात्रप्रयोगाभिव्यक्तिषु - द्वन्द्वं रहस्य । पूर्वपदस्येति । द्वौ द्वाविति द्वित्वे कर्मधारयत्त्वात्सुब्लुकि समुदायात्पुनः सुपि पूर्वपदावयवस्य इकारस्यअ॑मिति मकारान्तादेश इत्यर्थः । अत्वमिति । उत्तरपदस्य अकारोऽन्तादेश इत्यर्थः । न च त्यदाद्यत्वमुत्तरपदान्तस्य सिद्धमिति वाच्यं, संज्ञात्वात्तदप्राप्तेरित्याहुः । नपुंसकत्वं चेति । चकारोऽनुक्तसमुच्चये । कृत्तद्वित्वस्य नपुंसकत्वं द्विवचनाऽभावश्चेत्यर्थः । आचतुरं हीति । आङभिविधौ ।आङ्भर्यादे॑त्यव्ययीभावः । शरत्प्रभृतित्वाट्टच् । चतुर्थान्तमिति फलितोऽर्थः । पशवः स्वप्रभृति चतुर्थपर्यन्तं द्वन्द्वं मिथुनीयन्तीत्यन्वयः । मिथनशब्देन मैथुनं विवक्षितम् । मिथुनस्य कर्म मैथुनम् । तदिच्छतीत्यर्थे ‘सुप आत्मनः’ इति क्यच् । फलितमर्थमाह — मिथुन गच्छतीति । मिथुनत्वं प्राप्नोतीत्यर्थः । मिथुनायन्ते इति क्यङ्पाठस्तु प्रामादिकः मर्यादीकृत्येति । स्वप्रभृति चतुरोऽभिव्याप्येत्यर्थः । अत्यन्तसहचरितत्वेन लोकविज्ञानमभिव्यक्तिरिति भाष्याल्लभ्यते । तदाह — सहचर्येणेत्यर्थ इति । अत्रद्वन्द्वं न्यञ्ची॑त्यत्र वीप्सायां द्वित्वम्, अन्यत्र स्वार्थे इति बोध्यम् । अन्यत्रापीति । ‘द्वन्द्व#आनि सहते’ इत्यादावित्यर्थः । शीतमुष्णं च एकं द्वन्द्वम् । सुखं दुःखं चापरम् । क्षुत्तृष्णाचान्यत् । इह स्वार्थे द्वन्द्वः । अम्भावादि पूर्ववत् । ‘चार्थे द्वन्द्वः’ इति निपातनादन्यत्रापीति सिद्धम् ।**** इति द्विरुक्तप्रकरणम् ।****इति श्रीमत्सन्ततसन्तन्यमानश्येनकूर्मषोडशाररथचक्राकारादिबहुगुणविराजमानप्रौढापरिमितमहाध्वरस्यश्रीशाहजी तुक्वोजी भोसल॑ चोलमहीमिहेन्द्रामात्यधुरन्धरस्य श्रीमत आनन्दरायविद्वत्सार्वभौमस्याध्वर्यणा पञ्चपुरुषीपोष्येण, बाल्य एव तद्दयानिर्वर्तितताऽपरिमिताग्निविजृम्भितवाजपेयसर्वपृष्ठाप्तोर्यामप्रमुखमखसन्तर्पितशतमखप्रमुखबर्हिर्मुखेन, पदवाक्यप्रमाणपारावारपारीणाग्रजन्मविओआवाजपेययाजितो लब्धविद्यावैशद्येन, अध्वरमीमांसाकुतूहलवृत्तिनिर्माणप्रकटितसर्वतन्त्रस्वातन्त्र्येण, बौधायनापस्तम्बसत्याषाढभावद्वाजकात्यायनाआलायनद्राह्रायणादिकल्पसूत्रतद्भाष्यपारीणमहादेवववाजपेययाजिसुतेन, अन्नुपूर्णाम्बागर्भजातेन, वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां पूर्वार्धम् ।****************************अथ एकशेषप्रकरणम्*****अथैकशेषो निरूप्यते । तदेवं द्वन्द्वे निरूपिते तदपवादमेकशेषप्रकरणमारभते — अथैकशेष इति । ‘निरूप्यते’ इति शेषः । तत्रैकशेषसूत्राणि व्याचिख्यासुः पूर्वं व्याख्यातमपि सूत्रं सन्दर्भशुद्धये आह — सरूपाणामिति । तदुदाहरणमपि स्मारयति — रामौ रामा इति । विरुपाणामिति ।सरूपाणा॑मित्यनेन सूत्रेणार्थ भेदेऽपि शब्दैकरूप्ये एकशेष उक्तः, एकार्थकत्वे विरूपाणामप्येकशेषो वक्तव्य इत्यर्थः । वक्रदण्डश्चेति । अत्र शब्दवैरूप्येऽप्यर्थैक्यादन्यतरः शिष्यत इति भावः ।
Tattvabodhini¶
द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण- यज्ञपात्रप्रयोगाभिव्यक्तिषु - पूर्वपदस्येति । द्वि औ द्विऔ इति स्थिते कर्मधारयवद्भावात्सुब्लुकि कृते पूर्वपदावयवस्येकारस्येत्यर्थः । अत्वमुत्तरपदस्येति । उत्तरपदावयवस्येकारस्येत्यर्थः । नपुंसकत्वं चेति । चकारादेकवद्भाव इत्यपि बोध्यम् । तेनअतोऽ॑मित्यमादेशे द्वन्द्वमिति सिध्यति । रहस्यं द्वन्द्वशब्दवाच्यमिति । द्वाभ्यां निर्वृत्ते रहस्ये योगरूढिरेवेत्यर्थः । द्वन्द्वं मन्त्रयते इति । द्वौ द्वौ भूत्वा मन्त्रयेते इत्यर्थः । एवं हि तद्रहस्यं भवति । आचतुरमिति ।आङ्भार्यादाभिविध्यो॑रित्यव्ययीभावः ।अव्ययीभावे शरत्प्रभृतिभ्यः॑इति टच् । चतुःशब्दोऽत्र चतुर्णा पूरणे द्रष्टव्यः । आ चतुर्थादित्यर्थः । द्वन्द्वं यज्ञपात्राणीति ।स्फ्यश्च कपालानि चे॑त्यादीनि पात्राणि द्वन्द्वं प्रयुनक्ति । आसादयतीत्यर्थः । अभिव्यक्तौ साहचर्येणेत्यर्थ इति । अत्रद्वन्द्व॑मित्यत्र स्वार्थे द्विर्वचनम् । एकवद्भावादिकं तु पूर्ववत् । अन्यत्रापीति ।द्वन्दंव युद्धं प्रवर्तते॑ । इह वीप्सायां द्विर्वचनम् । द्वयोद्र्वयोर्युद्धमित्यर्थः ।द्वन्द्वानि सहते॑ ।शीतमुष्णमेकं द्वन्द्वं, सुखदुःखे चापरं, क्षुत्तृष्णे चापरम् । इह स्वार्थे द्विर्वचनमेकदवद्भावादि पूर्ववत् । बहुत्वं त्वेकशेषवशात् ।सिद्धान्तकौमुदीव्याख्या विहिता तत्त्वबोधिनी ।समाप्तं तत्र पूर्वार्ध तेन तुष्यत शङ्करः॥१॥इति श्रीपरमहंसपरिव्राजकाचार्यवामनेन्द्रस्वामिचरणारविन्दसेवकज्ञानेन्द्रसरस्वतीकृतौ सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिन्याख्यायां पूर्वाद्र्धम् ।द्वन्द्वापवादत्वेनाह-अथैकशेष इति ।विरूपाणामपि समानार्थानाम् । विरूपाणामिति । रूप्यते बोध्यत इति व्युत्पत्त्या सौत्रस्य रूपशब्दस्याऽर्थपरयापि व्याख्यानात्सूत्रारैरेव लब्धुं शक्यत इति प्रागेव व्याख्यातम् ।
Padamanjari¶
पूपवदस्येति । द्वि औ द्वि स्थिते कर्मधारयवद्भावात्सुब्लुकि कृते पूर्वपदावयवभूतस्येकारस्याम्भावः, उतरपदावयवस्य चात्वं निपात्यते, चकारान्नपुंसकत्वम्, क्वचिदेकवद्भावश्च निपात्यते, समासान्तोदातत्वं तु कर्मधारयवद्भावाद् भवति । तत्र रहस्यं द्वन्द्वशब्दवाच्यमिति । द्वाभ्यां निर्वृते रहस्ये योगरूढिरेपेत्यर्थः । द्वन्द्वं मन्त्रयन्त इति । द्वौ द्वौ भूत्वा मन्त्रयन्त इत्यर्थः । एवं हि तद्रहस्यं भवति । आचतुरमिति । आङ्भिविधौ । चतुर्णां पूरणे चतुः शब्दो द्रष्टव्यः, आचतुर्थादित्यर्थः । द्वन्द्वं मिथुनीयन्तीति । मिथुनशब्देन मैथुं तत्कर्म लक्ष्यते, तदिच्छतीति क्यच्, प्रायेण मिथुनायन्त इति क्यङ्न्तं पठ।ल्ते, तत्रोपमानार्थो मृग्यः । माता पुत्रेणेत्यादिना मर्यादावचने व्यनक्ति । तत्पुत्रेणापीति । एतावदेव पशूनामायुः । द्वन्द्वं व्युत्क्रान्ता इति । द्वौ पक्षौ भूत्वा पृथगवस्थिता इत्यर्थः । स्वार्थे द्विर्वचनमेकवद्भावश्चेति । द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति उ सादयति, न्यञ्चिउन्यग्भूतानि, अवाग्बिलानि । द्वन्द्वं स्}यश्च कपालानि चेति द्वेद्वे इत्यर्थः । अत्र वीप्सायां द्विर्वचनम्, अम्भावादि, एकवद्भावश्च । द्वावभिव्यक्तौ साहचर्येणेत्यर्थ इति । अत्र स्वार्थे द्विर्वचनमेकवद्भावादिकं सर्वं निपात्यते । द्वन्द्वं युद्धमिति । अत्रापि वीप्सायां द्विर्वचनम् । द्वन्द्वानि सहन्त इति । शीतमुष्णं चेत्येकं द्वन्द्वम्, सुखदुः खे चापरम्, क्षुतृष्णे चापरम् । अत्रापि स्वार्थे द्विर्वचनमेकवद्भावादि, तत्रैकशेषवशाद्वहुत्वम् । चार्थे द्वन्द्व इति । द्वे चार्थनिर्द्दिष्टे पदे समस्ते द्वन्द्वः । अत्रापि स्वार्थे द्विर्वचनादि, पुंस्त्वं च ॥
Nyaas¶
पूर्वपदस्याम्भावः इत्यादि। द्विर्वचने कृते द्वि+औ इति स्थिते सुब्लुकि कृतेऽम्भावोऽत्वञ्चोभयमपीकारस्य क्रियते, यथा क्रमं समुदायात्? सुः, अतोऽम् (7.1.24) इति कृतेऽमि पूर्वत्वञ्च (6.1.103) , अन्यथा हि द्वन्द्वसिति रूपं त सिध्येत्। किं पुनरेदेषु रहल्यादिदाच्येषु द्वन्द्वमिति निपात्यते? उत विषयभूतेष्वित्यत आह -तत्र इत्यादि। रहः=गुप्तिः, तत्र साधु रहल्यम्, तत्र साधुः (4.4.98) इति प्राग्धिताद्यत्त (4.4.75) । अथ वा -रहसि भवमिति दिगादित्वाद्यत्? (4.3.54) । मर्यादादचने इति। मर्यादः=स्थित्यनतिक्तमः, तस्या वचनं मर्यादावचनम्। वचनग्रहणम् -शब्दोपात्तायां मर्यादायां यथा स्यात्, अर्थप्रकरणादिना गम्यमानायां मा भूत्। आचतुरम् इति। आङ् मर्यादाभिविध्योः (2.1.13) इत्यव्ययीभावः; अव्ययीभावे शरत्प्रभृतिभ्यः (5.4.107) समासान्तष्टच्। उदाहरणे भर्यादार्थमभिव्यक्तीकर्तमाह -माता पुत्रेण इत्यादि। माता हि मिथुताय चतुरः सन्तानजान्? प्राप्नोति, न तु ततोऽधिकान्? पुत्रपौत्रपयौत्रतत्पुत्रान्। मर्यादार्थः इति। मर्यादेवर्थो मर्यादार्थः। प्रयुनक्ति इति। उपकल्पयतीत्यर्थः। द्वन्द्वानि इति। शीतोष्णादीनि सुखदुःखहेतूनित्यर्थः। [सुखदुःखहेतूनीत्यर्थः -प्रांउ।पाठः] यदि योगविभागः क्रियते, रहस्यादिग्रहणमनर्थकम्? नानर्थकम्; प्रपञ्चार्थत्वात्। द्वन्द्वमित्यस्य वा योगविभागस्यासर्वविषयज्ञापनार्थत्वात्॥
Prakriyasarvasvam¶
रहस्ये वाच्ये मर्यादादिषु च विषयेषु द्विशब्दस्य द्विरुक्त्या द्वन्द्वशब्दो निपात्यते । स चाव्ययमिति शृङ्गारे । क्रियाविशेषणमित्यन्ये । द्वन्द्वं मन्त्रयन्ते । रहस्यमित्यर्थः । मर्यादावचनं व्यवस्थोक्तिः । स्वस्रैव द्वन्द्वं रमन्ते परावताः । द्विवर्गतया पृथगवस्थानं व्युत्क्रमणम् । तिष्ठन्ति द्वन्द्वं योधाः । <karika>यज्ञपात्रप्रयोगे तु द्वन्द्वं पात्राणि सादयेत् । अभिव्यक्तिः प्रसिद्धिः स्याद् द्वन्द्वं पर्वत नारदौ ॥ ६४५ ॥</karika> ‘द्वन्द्वः कलहयुग्मसमासादिषु’ (स० ७-३-२४) इति च भोजः ॥ <karika>इति श्रीमत्केरलभूवलयभूषणदेवनारायणधरणीपतिकरुणाशरणेन नारायणचरणपरायणेन नारायणकविना विरचिते प्रक्रियासर्वस्वे सुब्विधिखण्डः ॥ विद्वांसो विदितं हि सर्वमिति न द्रक्ष्यन्ति मन्दाः पुनः प्रारब्धाधिकमार्गदर्शनपरिभ्रान्ता विरंस्यन्ति च । अन्ये मत्सरिणः कथामपि च नो कुर्युः किमेतैः क्षतं यन्मद्बुद्धिविशुद्धये च नृपतेर्मोदाय चेदं कृतम् ॥</karika>
Sutra Prayogas¶
द्वन्द्वम् (रघुवंशम्): द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु इति निपातः।
द्वन्द्वं (रघुवंशम्): द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु इत्यभिव्यक्तार्थे निपातः।
द्वन्द्वम् (कुमारसम्भवम्): द्वन्द्वं रहस्यमर्यादा… इति निपातः।
प्राक्केकयी-तो (भट्टिकाव्यम्): टिड्डाणज् इति ङीप्।
प्रिय-कारी (भट्टिकाव्यम्): टिडाणञ् इत्यादिना ङीप् प्रत्ययः।