81017: पदात्¶
Padacheda: पदात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
Up to सगतिरपि तिङ् (8.1.68), inclusive, should always be supplied the phrase ‘after a पद’.
Vasu English Translation¶
Up to सगतिरपि तिङ् (8.1.68), inclusive, should always be supplied the phrase ‘after a पद’. Whatever we shall teach hereafter should be understood to apply to that which comes after a pada. Thus the sutra (8.1.19), teaches “of an amantrita”. The phrase पदात्, must be supplied to complete the sense. That is, “of a pada, which is in the Vocative case, and which comes after another pada, all vowels become anudatta”. Thus पचसि दे॒व॒द॒त्त “Cookest thou, O Devadatta”. Why do we say, “after a pada”? Observe देवदत्त पचसि ॥ Here Devadatta is not anudatta (6.1.198).
Bhashya¶
पदात् पदस्य ॥ आ कुतः पदाधिकारः?॥ पदाधिकारः प्रागपदान्ताधिकारात्॥ अपदान्तस्य मूर्द्धन्य इत्यतः(1) प्राक् पदाधिकारः॥ अथ पदादित्यधिकार आ कुतः?॥ पदात्प्राक्(2) सुपि कुत्सनात्॥ पदादित्यधिकारः प्राक्सुपि कुत्सनात्। कुत्सने च सुप्यगोत्रादा(3) विति वक्ष्यति प्रागेतस्मात्॥ यणेकादेशस्वरस्तूर्ध्वं पदाधिकारात्॥ यणेकादेशस्वरस्तूर्ध्वं पदाधिकारात्कर्तव्यः॥ इह वचने ह्यपदान्तस्याऽप्राप्तिः॥ इह क्रियमाणेऽपदान्तस्याऽप्राप्तिः स्यात्। उदात्तस्वरितयोर्यणः स्वरितोनुदात्तस्येति। इहैव स्यात्-कुमार्यौ किशोर्यौ(1)। इह न स्यात् कुमार्यः किशोर्यः॥ एकादेश उदात्तेनोदात्तः-ःइहैव स्यात्-वृक्षौ प्लक्षौ। इह न स्यात्-वृक्षाः प्लुक्षाः॥ न वा पदाधिकारस्य विशेषणत्वात्॥ न वोर्ध्वं पदाधिकारात् कर्तव्यो यणेकादेशस्वरः॥ किं कारणम्?॥ पदाधिकारस्य विशेषणत्वात्। पदस्येति नैषा स्थानषष्ठी॥ का तर्हि?॥ विशेषणषष्ठी॥ किं वक्तव्यमेतत्?॥ न हि॥ कथमनुच्यमानं गंस्यते?॥ प्रत्याख्यायते स्थानषष्ठी। ॥ अन्तग्रहणाद्वा नलोपे॥ अथवा यदयं नलोपः प्रातिपदिकान्तस्येत्यन्तग्रहणं करोति तज्ज्ञापयत्याचार्योविशेषणषष्ठ्येषा न स्थानषष्ठीति॥ (पदस्य पदात्)
Kashika¶
पदादित्ययमधिकारः प्राक् कुत्सने च सुप्यगोत्रादौ (८.१.६९) इत्येतस्मात्। यदित ऊर्ध्वमनुक्रमिष्यामः पदादित्येवं तद् वेदितव्यम्। वक्ष्यति — आमन्त्रितस्य च (८.१.१९)। आमन्त्रितस्य पदात् परस्यानुदात्तादेशो भवतीति। पचसि दे॒व॒द॒त्त॒। पदादिति किम् ? देव॑दत्त पचसि॥
Tattvabodhini¶
पदात्। `कुत्सने च सुप्यगोत्रादौ`इत्यतः प्रागयमधिकारः। यदि तु `कपत्सने च सुपी`त्यत्रापि पदादित्यनुवर्तते, तदा `देवदत्तः पचति पूति`त्यत्रैव निघातः स्यान्न तु `पचति पूती`त्यत्र।
Padamanjari¶
प्राक् कुत्सने च सुप्यगोत्रादावित्येतस्मादिति । यदि त्वत्र पदादित्येतदनुवर्तेत, यत्पचति पूतीत्यत्रैव तिङ्न्तस्य निघातः स्यात्, न तु पचति पूतीत्यत्र ॥
Nyaas¶
प्राक्? कुत्सने च सुप्यगोत्रादौ इत्यादि। कुत एतत्? अत्र केचिदाहुः -``सुपि` (8.1.69) इति येयं सप्तमी तथा पदात् इत्यस्याः पञ्चम्या निमित्तभावस्य बाधितत्वान्नोत्सहते प्रवर्त्तितुम्, अतो बाध्यते पञ्चस्या निमित्तभावः` इति, एतच्चायुक्तम्; न हि सप्तमीपञ्चम्योर्निमित्तत्वे सत्याश्रीयमाणे कश्चिद्विरोधः। तत्रैवमभिसम्बन्धः स्यात् -पदात परं यत्तिङन्तं कुत्सनवाचिनि सुबन्ते परतस्तस्मिन्निहन्यत इति, ततश्चेहैव स्यात् -देवदत्तः पचति पूतीति, इह तु न स्यात् -पचति पूतीति। किञ्च चनचिदिवगोत्रादितद्धिताभ्रेडितेध्वगतेः (8.1.57) इत्यत्रापि पदादित्यस्यानुवृत्तिर्न स्यात्। सप्तम्या पदात् इत्यस्याः पञ्चम्याः बाधितत्वात्; ततश्च निद्यातार्थमेव सूत्रे स्यात्। चनादिप्रयोगे सति विज्ञायेत -तस्मादिति। अतोऽधिकाराणां प्रवृत्तिनिवृत्ती भवत इति समाधेयम्। अथ वा -पदादिस्येतत्? प्रतिषेधेन सम्बद्धम्। अतः कुत्सने (8.1.69) इत्यतर प्रतिषेधे निवृत्ते पदात् इत्येतदपि निवर्तते॥
Prakriyasarvasvam¶
इत्यधिकाराः । तत्र—