81007: उपर्यध्यधसः सामीप्ये

Padacheda: उपर्यध्यधसः | S | 6 | 1 |

सामीप्ये | S | 7 | 1 |

Sutrartha


Vasu English Summary

  1. उपरि 2. अधि and 3. अधस् are repeated when it expresses uninterrupted nearness.

Vasu English Translation

1. उपरि 2. अधि and 3. अधस् are repeated when it expresses uninterrupted nearness. The word samipya means ‘proximity’ whether in time or space. As उपर्युपरि दुःखम्, or उपर्युपरि ग्रामम्, अध्यधि ग्रामम्, अधोधो नगरम् ॥ Why do we say ‘meaning near’? Observe उपरि चन्द्रमा: ॥ Why the word is not repeated here : उपरि शिरसो घटं धारयति ॥ The relation expressed here is not that of nearness, but that of above and below.

उपर्युपरि पश्यन्तः सर्व एव दरिद्रति । अधोधो दर्शने कस्य महिमा नोपजायते ॥

Here the doubling is in the sense of vipsa.

Kashika

उपरि अधि अधस् इत्येतेषां द्वे भवतः सामीप्ये विवक्षिते। सामीप्यं प्रत्यासत्तिः कालकृता देशकृता च। उपर्यु॒प॒रि॒ दुःखम्। उपर्यु॒प॒रि॒ ग्रामम्। अध्य॒धि॒ ग्रामम्। अधोऽधो॑ नगरम्। सामीप्य इति किम् ? उपरि चन्द्रमाः। इह कस्माद् न भवति — उपरि शिरसो घटं धारयति ? औत्तराधर्यमेव विवक्षितं न सामीप्यमिति द्विर्वचनं न भवति॥

Siddhanta Kaumudi

उपर्युपरि ग्रामम् । ग्रामस्योपरिष्टात्समीपे देशे इत्यर्थः । अध्यधि सुखम् । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम् । लोकस्याधस्तात्समीपे देशे इत्यर्थः ॥

Balamanorama

उपर्यध्यधसः सामीप्ये - उपर्यध्यधसः । उपरि, अधि, अधः एतेषां द्वे स्तः सामीप्ये गम्ये इत्यर्थः । सामीप्यं च उपर्युपरि ग्राममित्यत्र अधोऽधो लोकमित्यत्र च देशतः, अध्यधि सुखमित्यत्र तुकालत इति ज्ञेयम् ।

Tattvabodhini

उपर्यध्यधसः सामीप्ये - उपर्यध्य । सामीप्यं प्रत्यासत्तिः, तच्च कालकृतं देशकृतं वा । अध्यधि सुखमिति । कालकृतस्योदाहरणमिदम् । सामीप्य इति किम्ष उपरि चन्द्रमाः ।उपरि शिरसो घचं धारयती॑त्यत्र तु वस्तुतो विद्यमानमपि सामीप्यं न विवक्षितं, किं त्वौत्तराधर्यमेव केवलं विवक्षितमिति द्विर्वचनं नभवति । विवक्षा हि शब्दव्युत्पत्तेः प्रधानं कारणम् । अत्र चउपज्ञोपक्रमं तदाद्यचिख्यासाया॑मिति सन्नन्तप्रयोगो ज्ञापक इत्याहुः ।

Padamanjari

उपर्यादीनां योऽर्थस्तस्य सामीप्यद्योतनाय द्विर्वचनम् । सामीप्यमुप्रत्यासतिः, तच्च देशकृतं कालकृतं वा । उपर्युपरिदुः खमिति । कालकृतस्योदाहरणम् । दुः खस्य सामीप्येनोपरिष्टादित्यर्थः । ठुभसर्वतसोःऽ इत्युपसंख्यानेन द्वितीया । उपर्युपरि ग्रामिति । ग्रामस्य सामीप्येनोपरिष्टाद्देश इत्यर्थः । अध्यधि ग्राममिति । अधिरुपरिभावे, यथा -‘समिधं स्रुचं चाध्यधि गार्हपत्यं हृत्वा’ इति । अधोऽधो ग्राममिति । ग्रामस्य सामीप्येनाधस्ताद् देश इत्यर्थः । यथा’नवानधो’ धो बृहतः पयोधरान्ऽ इति । उपर्युपरि पश्यन्तः सर्व एव दरिद्रति । अधोऽधो दर्शने कस्य महिमा नोपजायते ॥ इति तु वीप्सायां द्विर्वचनम् । उपरि चन्द्रमा इति । अत्र भूगतमपेक्ष्योपरिभावस्य सामीप्यं नास्ति । उपरि शिरस इत्यादि । न हि वस्तुसतैव शब्दत्युत्पतेः प्रधानं कारणम्, किं तर्हि ? विवक्षा, सा चेह नास्ति । शिरस उपरिष्टाद् घट्ंअ धारयति नाधस्तादिति ह्यत्र विवक्षितम् । सामीप्यं तु वस्तुतः सम्भवति ॥

Prakriyasarvasvam

एते सामीप्ययुक्ते स्वार्थे द्विरुच्यन्ते । आम्रेडितान्तेषूपर्यादिषु सत्सु द्वितीयेष्टा । <karika>उपर्युपरि सौधाग्रं समराङ्गणमध्यधि । अधोऽधो मेघवीथीं च ददृशे सौममुद्भ्रमत् ॥ ५२१ ॥</karika> <karika>अतितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते । अतितः केशवं गोपा गावस्तं परितः स्थिताः । समया तं स्थिता राधा निकषा तां सखीजनाः ॥ ५२२ ॥</karika> <karika>हा कृष्णमिति शोचामि कृष्णो मां प्रति भासताम् । प्रतौ क्वचिन्नेति रामो बालोऽयं प्रतिभाति मे ॥ ५२३ ॥</karika> <karika>तरुणीत्रिशतं यावदित्याद्यवधिवाचिनः । यावतोऽप्यन्वये दृष्टं तच्च सिद्धं दृशिग्रहात् ॥ ५२४ ॥</karika> हाधिग्योगे प्रथमापि दृश्यत इति शृङ्गारे । हा पुत्रकः । धिक् प्रमादः । क्वचिद् गम्यमानापि क्रिया कारकत्वनिमित्तमिति हराद्युक्तैः धिगहं जन्म नारीणामित्यादि- <karika>सिद्धिः । कारकत्वनिमित्तं स्याद्गम्यमाना क्रिया क्वचित् । धिगहं जन्म नारीणामित्यादिस्तेन सिध्यति ॥ ५२४(a) ॥</karika> <karika>तत्राहं धिक्करोमीति करोत्यर्थो हि गम्यते । उक्तन्यायश्च भूयिष्ठवक्तव्यादिविभञ्जकृत् ॥ ५२५ ॥</karika>