81011: कर्मधारयवत् उत्तरेषु¶
Padacheda: कर्मधारयवत् | S | 0 | 0 |
उत्तरेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
In the following rules, the double-word is treated like a कर्मधारय समास ।
Vasu English Translation¶
In the following rules, the double-word is treated like a कर्मधारय समास । The reason for making it a Karmadharaya is to elide the case-affix (2.4.71), to make the first member a masculine term even when the word refers to a feminine (6.3.42), and to regulate the accent by (6.1.223). Thus पटुपटुः, मृदुमृदुः where the first member has lost the case-affix. पटुपट्वी, मृदुमृद्वी where the first member is treated as a masculine, even when there is a क in the penultimate as कालककालिका (See (6.3.37) and (6.3.42); पटुपटुः꣡, पटुपट्वी꣡, the accent falls on the final, for the rule (6.1.223) was debarred by (8.1.3), but the present rule re-instates (6.1.223). The word उत्तरेषु is for the sake of distinctness, the sutra being an adhikara one, would have applied to the subsequent aphorisms, without even the word uttareshu.
Bhashya¶
कर्मधारयवदुत्तरेषु कर्मधारयवत्त्वे कानि प्रयोजनानि?॥ कर्मधारयवत्त्वे प्रयोजनं(1) सुब्लोपपुंवद्भावान्तोदात्तत्वानि॥ (कर्मधारयत्त्वे सुब्लोपपुंवद्भावाऽन्तोदात्तत्वानि) ? ॥ प्रयोजनं(1) सुब्लोपः-पटुपटुः। (सुब्लोपः)॥ पुंवद्भावः - पटुपट्वी (पुंवद्भावः)॥ अन्तोदात्तत्वम्-पटुपटुः (कर्मधारयवदुत्तरेषु)॥
Kashika¶
इत उत्तरेषु द्विर्वचनेषु कर्मधारयवत् कार्यं भवतीत्येतद् वेदितव्यम्। कर्मधारयवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि। सुब्लोपः — पटुपटुः। मृदुमृदुः। पण्डितपण्डितः। पुंवद्भावः — पटुपट्वी। मृदुमृद्वी। कालककालिका। कोपधाया अपि हि कर्मधारयवद्भावात् पुंवत्कर्मधारय० (६.३.४२) इति पुंवद्भावो भवति। अन्तोदात्तत्वम् — प॒टु॒प॒टुः। प॒टु॒प॒ट्वी। समासान्तोदात्तत्वमनेनैव विधीयत इति परत्वादामे्रडितानुदात्तत्वं बाध्यते। अधिकारेणैव सिद्धे यदुत्तरेष्विति वचनं तद् विस्पष्टार्थम्॥
Siddhanta Kaumudi¶
इह उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यम् ॥<!प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि !> (वार्तिकम्) ॥
Balamanorama¶
कर्मधारयवत् उत्तरेषु - कर्मधारयवदुत्तरेषु ।कार्यं स्या॑दिति शेषः । कर्मधारयवत्त्वस्य फलमाह — प्रयोजनमिति । सुब्लोपादीनां प्रत्येकान्वयाभिप्रायमेकवचनम् । अन्तोदात्तत्वानीति ।अनुदात्तं चे॑त्यधिकृतमपि भाष्यप्रामाण्यान्नात्र सम्बध्यत इति भावः ।
Tattvabodhini¶
कर्मधारयवत् उत्तरेषु - कर्मधारयवदुत्तरेषु । अधिकरेणैव सिद्धेउत्तरेषुटैति वचनं विस्पष्टार्थमिति वृत्तिः ।
Padamanjari¶
कोपधाया अपि कर्मधारयवद्भावात् पुंवद्भावो भवतीति । तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावो विधीयते इति भावः । समासान्तोदातत्वमनेन विधीयत इति । कार्यातिदेशपक्षे इदमुक्तम् । शास्त्रातिदेशे तु यद्यप्याम्रेडितानुदातत्वमेव परम्, तथापि न तद्भवति; विरुद्धस्य स्वाश्रयस्याति देशेन निवर्तनात् ॥
Nyaas¶
कर्मधारयवत्? कार्यं भवतीत्यनेन कार्यातदेशोऽयमित्याचष्टे। कार्यातिदेशस्य फलमुत्तरत्र दर्शयिष्यते। कर्मधारयवत्त्वे प्रयोजनम् इत्यादि। तत्र सुग्लुग्बहुव्रीहिवद्भावे, अस्मिन्नतिदेशे च साधारणं प्रयोजनम्। पुंवद्भा वस्तु क्वचित्? साधारणम्, क्वचिदसाधारणम्; यत्र हि पुंवद्भावस्य प्रविषेधो नास्ति -पटुपट्वीत्यादौ, तत्र साधारणम्, यत्र तु न कोपधायाः (6.3.37) इत्यादिना पुंवद्भावप्रतिषेधोऽस्ति -कालककालिकेत्यादौ, तत्रा साधारणम्। तथा हि यस्य हि पुंवद्भावः प्रतिविद्धस्तस्यापि पुंवत् कर्मधारयजातीयदेशीयेषु (6.3.42) इत्यादिना कर्मधारये पुंवद्भावो विधीयते। अन्तोदात्तत्वं त्वसाधारणमेव। यस्मात्? कर्मधारय एव समासस्य (6.1.223) इत्यन्तोदात्तत्वं विधीयते, न बहुव्रीहौ; तत्र बहुव्रीहौ प्रकृत्या पूर्वपदम् (6.2.1) इति पूर्वपदप्रकृतस्वरस्य समासान्तोदात्तस्यापवादस्य विधीनात्। तत्र यदसाधारणं प्रयोजनं तदिममतिदेशं प्रयोजयति, नेतरत्। तद्धि बहुव्रीहिवदित्यतिदेशस्यानुवृत्तावपि सिद्ध्यत्येव। सति त्वन्यार्थोऽस्यारम्भे बहुव्रीहिवदित्यतिदेशस्यानुवृत्तिरपार्थिका; अनेनैव साधारणस्यापि सिद्धत्वात्। अतः सुब्लुगादिकमपि साधारणं कर्मधारयवत्त्वे प्रयोजनं न भवति। पटुपट्वी इति। वोतो गुणवचनात् (4.1.44) इति ङीष्। स च पूर्वपदे पुंवद्भादेन निवर्तते। कालककालिका इति। अज्ञाताद्यर्थे प्रागिवात्? कः (5.3.70) , टाप्, केऽणः (7.4.13) इति ह्रस्वः, पूर्ववदित्त्वम्। पुंवद्भावेन पूर्वपदे टाबित्त्वयोर्निवृत्तिः। कथं पुनरत्र पुंवद्भावः, यावता न कोपधायाः (6.3.37) इत्यस्य प्रतिषेधः कृतः? इत्याह -कोपधायाः [न कोपधायाः इत्यादि -प्रा। मु। पाठ] इत्यादि। कर्मधारये हि पुंवत् कर्मधारयजातीयदेशीयेषु (6.3.42) इत्यादिनां योगेन प्रतिषेधविषयेण पुंवद्भावो विहितः तेन कोपधाया अपि पुंवद्भावो भवत्येव। ननु चाभ्रेडितानुदात्तत्वमाष्टिकिमम्, समासान्तोदात्तत्वं च षाष्ठिकम्, अतः परत्वादाभ्रेडितानुदात्तत्वेनैव भवितव्यम्; न चैवं सति कर्मधारयदित्यतिदेशस्य वैयथ्र्यं स्यात्, तस्य प्रयोजनान्तरे चरितार्थत्वात्? इत्यत आह -समासान्तोदात्तत्वमनेन इत्यादि। शल्त्रातिदेशे हि शस्त्रेध्वतिदिष्टेषु तैरेव स्वदेशस्थैः कार्याणि क्रियन्त इत्याभ्रेडितानुदात्तस्य समासान्तोदात्तत्वात्? परत्वं स्यात्। न चायं शास्त्रातिदेशः, किं तर्हि? कार्यातदेशः। कार्यातिदेशे सत्यतिदेशशास्त्रेणैव विधियते। तस्मादन्तोदत्तत्वेमेव परम्। अतस्तस्मात्? परत्वादाभ्रेडितानुदात्तत्वं बाधते। ननु चान्तरेणाप्युत्तरग्रहणं यथा प्रत्ययः (3.1.1) इत्येवमादीनामधिकाराणामुत्तरत्रावस्थानं भवति, तथाऽस्यापि भविष्यति; अधिकाराणामुत्तरत्रानुधृत्तिदर्शनात्, तत्किकमर्थम्? उत्तरेषु इति वचनम्? इत्याह -अधिकारेणैव इत्यादि। अधिकाराणां क्वचिल्लक्षणत्वस्य व्यवहारः, यथा शेषे (4.2.91) इत्यधिकारस्य लक्षणत्वमस्ति, तच्चाविस्पष्टम्; अन्येष्वधिकारेषु प्रत्ययः (3.1.1) इत्येवमादिष्वदृष्टत्वात्। तस्मादस्य विस्पष्टत्वं यथा स्यादित्येवमर्थमुत्तरेष्विति वचनम्। एतद्धि लक्षणत्वमस्य मा भूदित्येवमर्थं क्रियते। यदि तु लक्षणस्याधिकारेष्वसम्भवः स्यात्, उत्तरेष्विति वचनमनर्थकं स्यात्; व्यार्त्त्याभावात्। अथ वा -सिंहावलोकितव्यायस्येत्यव्याहारः। प्रायेण ह्रणिकारणमुत्तरत्रानुवृत्तिर्दुष्टेति सिहावलोकितन्यायस्याविस्पष्टता; केषुचित्? प्रत्ययादिष्वदृष्टत्वात्। तस्मात्? तस्य विस्पष्टीकरणार्थमुत्तरेष्विति वचनम्। यदि सिंहावलोकितन्यायेन पूर्वत्रानुवृत्तेरधिकारणां न सम्भव एव स्यात्, उत्तरेष्विति वचनमनर्थकं स्यात्; व्यावर्त्त्याभावात्॥
Prakriyasarvasvam¶
उत्तरेषु द्विवचनेषु कर्मधारयवत् कार्यं स्यात् । सुब्लुक्पुंवद्भावावस्यापि कार्यम् । स्वरादौ तु भेदः ॥
Sutra Prayogas¶
शून्यशून्यां (शिशुपालवधम्): कर्मधारयवदुत्तरेषु इति कर्मधारयवद्भावादवयवसुपो लुक्।