81002: तस्य परमाम्रेडितम्

Padacheda: तस्य | S | 6 | 1 |

परम् | S | 1 | 1 |

आम्रेडितम् | S | 1 | 1 |

Sutrartha

**सर्वस्य द्वे (8.1.1) अस्मिन् अधिकारे द्वित्वे कृते, द्विरुक्तस्य यत् द्वितीयम् तस्य आम्रेडितम् इति संज्ञा भवति ।**

सर्वस्य द्वे (8.1.1) इत्यस्मिन् अधिकारे विद्यमानेषु सन्दर्भेषु यदा शब्दानां द्वित्वं भवति, तदा द्वित्वे कृते द्वयोः आवृत्त्योः यः द्वितीयः शब्दः, तस्य आम्रेडितम् इति संज्ञा भवति । यथा, “नित्यं भुक्त्वा व्रजति” इत्यर्थस्य निर्देशार्थम् नित्यवीप्सयोः (8.1.4) इत्यनेन “भुक्त्वा” इति शब्दस्य द्वित्वे कृते, “भुक्त्वा भुक्त्वा व्रजति” इति यः प्रयोगः सिद्ध्यति, तत्र विद्यमानस्य द्वितीयस्य “भुक्त्वा”-शब्दस्य प्रकृतसूत्रेण आम्रेडितम् इति संज्ञा भवति । <note>”द्वित्वम्” इत्युक्ते एकस्य शब्दस्य स्थाने तस्यैव द्विवारम् उच्चारणम् । एतादृशे द्वित्वे कृते तत्र “मूलशब्दः कः” / “नूतनशब्दः कः” — एतादृशम् नैव प्रष्टुं शक्यते । द्वित्व is a process where one word is replaced by its two copies. Both the occurrences are considered identical in all respects, and it is not possible to treat one of these two as ‘original’ and other as a ‘copy’. परन्तु तत्र द्वयोः उच्चारणयोः मध्ये “प्रारम्भे उच्चारितः कः” तथा च “तदनन्तरम् उच्चारितः कः” इति अवश्यम् प्रष्टुम् शक्यते । एतादृशे एव प्रश्ने कृते, अनन्तरम् उच्चारितस्य प्रकृतसूत्रेण आम्रेडितम् इति संज्ञा भवति । </note>

आम्रेडितसंज्ञायाः प्रयोगः

आम्रेडितसंज्ञायाः प्रयोगः अष्टाध्याय्याम् आहत्य सप्तसु सूत्रेषु कृतः अस्ति —

  1. नाम्रेडितस्यान्त्यस्य तु वा (6.1.99)

  2. नित्यमाम्रेडिते डाचि (6.1.100)

  3. चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः (8.1.57)

  4. आम्रेडितं भर्त्सने (8.2.95)

  5. स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु (8.2.103)

  6. कानाम्रेडिते (8.3.12)

  7. छन्दसि वाऽप्राम्रेडितयोः (8.3.49)

<note>अष्टाध्याय्याम् आहत्य त्रीणि द्वित्वप्रकरणानि विद्यन्ते । तत्र केवलम् सर्वस्य द्वे (8.1.1) अस्य द्वित्वप्रकरणस्य सन्दर्भे एव आम्रेडितम् इति संज्ञा भवति । अन्ययोः द्वयोः द्वित्वप्रकरणयोः सन्दर्भे इयं संज्ञा नैव प्रवर्तते । </note>

Sutrartha (English)

When a word gets replicated in the ‘सर्वस्य द्वे’ अधिकार, the second occurrence is known as आम्रेडित.

Vasu English Summary

Of that which is twice uttered, the latter form is called अम्रेडित (repeated).

Vasu English Translation

Of that which is twice uttered, the latter form is called अम्रेडित (repeated). Thus in चौर चौर ३, वृषल वृषल ३ दस्यो ३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा, the second word being amredita is pluta. The word आम्रेडित occurs in Sutras (6.1.99), (7.1.57), (8.2.95), (VIII.10.3) &c.

The तस्य here denotes avayava-shashthi: and the word परः denotes the avayava. In fact, this sutra* indicates by implication, that a Genitive case is employed, when a member (avayava) is denoted. So that the sentences like पूर्वं कायस्य become valid.

In the above examples, the word has become *pluta_ by (8.2.95).

Kashika

तस्य द्विरुक्तस्य यत् परं शब्दरूपं तदामे्रडितसंज्ञं भवति। चौरचौर३, वृषलवृषल३, दस्योदस्यो३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा। आम्रेडितप्रदेशाः — आमे्रडितं भर्त्सने (८.२.९५) इत्येवमादयः॥

Siddhanta Kaumudi

द्विरुक्तस्य परं रूपमाम्रेडितसंज्ञं स्यात् । पटत्पटेति ॥

Laghu Siddhanta Kaumudi

द्विरुक्तस्य परमाम्रेडितम् स्यात् ॥

Laghu Shabdendushekhar

तस्य परम् । अवयववाचिपरशब्दयोगेऽत एव ज्ञापकात् षष्ठी । तस्य ग्रहणं स्पष्टार्थम्, द्वे इत्यनुवर्त्य षष्ठ्या विपरिणामेन सिद्धेः । अन्यद्विरुक्तपरस्य तु न सञ्ज्ञा, अष्टमे सर्वस्य द्वे (८.१.१) इत्येतत्प्रकरणे सञ्ज्ञाकरणात् ॥

Balamanorama

तस्य परमाम्रेडितम् - अभियुक्ताश्चाहुः — ॒क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्बहुलग्रहे तु ।॑ इति । ननु किमाम्रेडितं नाम , तत्राह — तस्य परमाम्रेडितम् । ‘सर्वस्य द्वे’ इत्यनन्तरमिदं सूत्रं पठते । ततश्चतस्ये॑त्यनेन द्विरुक्तस्येति लभ्यते । अवयववाचिपरशब्दयोगे अत एव ज्ञापकात्षष्ठी । तदाह — द्विरुक्तस्येत्यादिना । पटत्पटेतीति । पटत् पटत् इतीति स्थिते तकारस्येकारस्य च पररूपमिकारः । ततश्च आद्गुणः ।

Padamanjari

‘तस्य’ इत्यवयवयोगे षष्ठी, परशब्दोऽवयवचनः ।’दिक्शब्दाञ्चूतरपद’ इत्यत्र यद्यपि’दिशि दृष्टः शब्दो दिक्शब्दः’ - इत्याश्रयणात्सम्प्रत्यदिक्शिब्दत्वेऽपि पञ्चमी विहिता, तथाप्यस्मादेव निर्देशादवयववाचिभिर्योगे षष्ठी भवति । एवं च पूर्वं कायस्येत्यादि सिद्धं भवति । उदाहरणे - ठाम्रडितं भर्त्सनेऽ इति प्लुतः । तस्य ग्रहणं विषयावधारणार्थम् -तस्यैतस्यानन्तरस्य द्विरुक्तस्येति, तेन पाष्ठिके द्विर्वचने इयं संज्ञा न भवति । ननु आम्रेडितशब्दो निघण्टुअषु प्रसिद्धः - ठार्म्रडितं द्विस्त्रिरुक्तम्ऽ इति ? सत्यमर्थे प्रसिद्धः; इह तु शब्दे परिभाष्यते महासंज्ञाकरणं पूर्वाचार्यानुरोधेन ॥

Nyaas

तस्य इत्वयवषष्ठी। तस्य द्विरुक्तस्य यत्? परमवयवभूतं शब्दरूपं तस्याभ्रेडितसंज्ञा विधीयते। अथ द्विष्प्रयोगद्विर्वचनपक्षे कथं परमिति व्यपदेशः? कथञ्च न स्यात्? तस्य भेदनिबन्धनत्वात्। परव्यपदेशो हि भेदनिबन्धनः। न च द्विष्प्रयोगद्विर्वचनपक्षे शब्दभेदोऽस्ति, आवृत्तिमात्रं हि तत्र भिद्यते, न शब्दः? नैष दोषः; अभिन्नस्यापि शब्दस्य धर्मभेदादौपचारिकमन्यत्वं भविष्यति। भवति हि धर्मभेदादभिन्नेऽपि वस्तुनि भेदव्यवहारः। तथा हि वक्तारो वदन्ति -परुद्भवान्? पटुरासीत्? पटुतरश्चैषमोऽन्य एवासि संवृत्त इति। चौर चौर इति। एङ्ह्रस्वात् सम्बुद्धेः (6.1.69) इति सुलोपः, वाक्यादेरामन्त्रितस्य (8.1.8) इत्यादिना भत्र्सने द्विर्वचनम्, आर्म्रेडितं भत्र्सने (8.2.95) इति प्लुतः। दस्यो दस्यो इति। सम्बुद्धौ च (7.3.106) इति गुणः। अथ तस्यग्रहणं किमर्थम्, यावता द्वे इत्यनुवर्त्तिष्यते, तत्रैवं विज्ञायते -द्वयोर्यत्? परमिति? नैवं शक्यम्; एकाचो द्वे प्रथमस्य (6.1.1) इत्यत्रापि परमाम्रेडितसंज्ञं स्यात्। तस्यग्रहणे सति यत्रैतद्वक्ष्यमाणं द्विर्वचनं तस्य परमिति विज्ञायते। तेन न भवत्यतिप्रसङ्गः। आम्रेडितमिति महत्याः संज्ञायाः करणमन्वर्थसंज्ञाविज्ञानार्थम्। आम्रेडत आधिक्येनोच्यत इत्याम्रेडितम्। तेनेहापि भवति -अहो दर्शनीया अहो दर्शनीया, मह्रं रोचते मह्रं रोचत इति। दर्शनीयत्वस्य रुचेश्चाधिक्यं द्योतयितुमत्र द्रष्टव्यं द्विर्वचनम्। एतदेव महत्याः संज्ञायाः करणं ज्ञापकम् -आधिक्याभिधाने द्विर्वचनं भवतीति॥

Prakriyasarvasvam

इह द्विरुक्तस्य परखण्ड आम्रेडिताख्यः ।

Sarala

(द्विरुक्तस्य परं रूपमाम्रेडितं स्यात्) । तस्येतिसर्वस्य द्वे (८.१.१) इत्यनुवर्तनादभ्यासद्वित्वविषये नास्य प्रवृत्तिः ॥